176 वक्तव्यम् । ननु नाविसंवाद एव प्रमाणलक्षणं येनैवं स्यात्, अपि तु 2442अज्ञातार्थप्रकाशोऽपि ।
स्मृतौ त2443दभावात् न प्रमाणं सेति; तदाह--2444गृहीतग्रहणात् । गृहीतस्य दर्शनेन विषयीकृतस्य
ग्रहणात् स्मृत्या विषयीकरणात् कारणात् नोचेत् यदि स्मृतिः प्रमाणम् । अत्रोत्तरमाह--
इत्यादि । यदुक्तं परेण तन्न । कुतः ? प्रयोजनभेदतः । प्रमाणस्य हि प्रयोजनं फलम्--अज्ञान
निवृत्तिः प्रवृत्तिश्च, तस्य भेदात्, प्रत्यक्षप्रयोजनात् स्मृतिप्रयोजनस्य विशेषात् । ततः यथैव हि
प्राक् प्रवृत्तम् आत्मनोऽज्ञानम् अध्यक्षं निवर्त्तयति पुनः स्वगोचरे प्रवर्त्तयति जनं तथा स्मृतिरपि
विशेषाऽभावात् ।


ननु यदुक्तम्--स्मृतिः प्रमाणम् अविसंवादात् प्रत्यक्षवत् इति; तन्न सारम्; दृष्टान्ते
अर्थसारूप्यात् प्रामाण्यसिद्धेः स्मृतौ 2445तदभावादिति चेत्; अत्राह--प्रत्यक्षस्यापि इत्यादि ।
न केवलमन्यस्य किन्तु प्रत्यक्षस्यापि प्रामाण्यम् अविसंवादात् न पुनः अर्थाकारानुकारितया ।
कुत एतत् ? इत्याह--अतिप्रसङ्गात् । भवतु अविसंवादात् 2446तस्य तदिति चेत्; अत्राह--स पुनः
इत्यादि । सः अविसंवादः पुनः अनुभूतस्य अर्थस्य स्मृतेः यदि स्याद् भवेत् प्रामाण्यं
लक्षयति
तत्स्मृतेः इति । दूषयितुं परमतमाशङ्कते--सविकल्प इत्यादिना । सविकल्पे सविक
ल्पकप्रत्यक्षपक्षे स्मृतेः अनधिगतार्थव्यवसायाभावाद् अयुक्तं प्रामाण्यम् । अनेन एतद्दर्शयति—
2447परः--यथा मम अनिश्चितार्थनिश्चयात् समारोपव्यवच्छेदाद्वा अनुभूतार्थमनित्यत्वाद्यनुमानम्2448,
नैवं स्मृतिर्विपर्ययात्2449 निश्चिते तदयोगात्2450 इति एवं चेत्; अत्राह-- इत्यादि । यदुक्तं परेण
तन्न । कुतः ? प्रयोजनविशेषात् । स च निगदितः । अत्र परेण सह एकवाक्यतामात्मनो
दर्शयन्नाह--क्वचिद् इत्यादि । क्वचित् सूभ्रादौ 2451 सदृशाकाराणां १४७ क प्रत्य
क्षाणां ये भेदा धारावाभि2452विशेषाः तेषाम् उत्तरोत्तरपर्यायविशेषसाध्यार्थक्रिया
वाञ्छायां तथैव
प्रयोजनविशेषप्रकारेणैव प्रामाण्याऽविरोधात् प्रयोजनविशेषात् स्मृतेः प्रामाण्यं
युक्तमिति । कुत एतत् ? इत्यत्राह--कालादिभेदेन आदिशब्दात् क्षेत्रादिपरिग्रहः, अन्यथा
अन्येन प्रयोजनविशेषाभावप्रकारेण अनधिगतार्थाधिगतेरपि अगृहीतार्थग्रहणादपि न केवलम्
अन्यतः तद्विशेषाणां प्रमाणताऽनभ्युपगमात् सौगतेन यथा जलप्राप्त्येकार्थक्रियावाञ्छायाम्
अवान्तरदर्शनविशेषाणाम्, इतरथा जलाध्यवसायकारणं मरीचिकादर्शनं तद्वत् प्रमाणं भवेत् ।


यदि पुनरयं निर्बन्धः गृहीतग्रहणान्न स्मृतिः प्रमाणं तर्हि तत एव तद्वत्2453 सकलमनु
मानमपि प्रमाणं न स्यादिति दर्शयन्नाह--साकल्येन आदितो व्याप्तिः इत्यादि ।


साकल्येनादितो व्याप्तिः पूर्वं चेल्लिङ्गलिङ्गिनोः ।

अनुमेयस्मृतिः सिद्धा न प्रमाणं विशेषवत् ॥ ३ ॥

  1. अज्ञातार्थप्रकाशो वा--प्र॰ वा॰ १ । ७ ।

  2. अज्ञातार्थप्रकाशाभावात् ।

  3. गृहीत
    ग्रहणान्नेष्टं सांवृतं...
    --प्र॰ वा॰ १ । ५ ।

  4. अर्थसारूप्याभावात् ।

  5. प्रत्ययस्य ।

  6. बौद्धः ।

  7. प्रमाणं भवति ।

  8. अनिश्चितार्थनिश्चायकाभावात् ।

  9. समारोपायोगात् कथं तद्व्यवच्छेद इति भावः ।

  10. स्तम्भादौ
  11. वाहि
  12. स्मृतिवत् ।