174

तृतीयः प्रस्तावः


३. प्रमाणान्तरसिद्धिः


एवं प्रस्तावद्वयेन सविकल्पमध्यक्षं प्रमाणं प्रसाध्य अधुना स्मरणप्रत्यभिज्ञानोहानां प्रामा
ण्यमविसंवादिनां व्यवस्थापयितुकामः तत्स्वरूपाविसंवादनिबन्धनं प्रस्तुतप्रस्तावद्वयार्थं स्मरन्नाह
प्रस्तावादौ सम्यग् इत्यादि वृत्तम् ।


सम्यक् सामान्यसंवित् व्यभिचरति न वै सत्स्वभावं परस्मात्,

चित्तं निर्णेतुमनलं स्वमपगतं सिद्धसाध्यैकरूपम् ।

संभाव्यार्थाकारविरहं तदपि विरहितं चित्रमेकं यदीयुः,

चित्राभं द्रव्यमेकं बहिरनुगमयत् तत्स्वतः पर्ययैस्तैः ॥ १ ॥

2417अर्थः--सौगतानुसारेण स्मरणादिसंवित् सामान्यसंवित् इत्युक्तम्, 2418तत्र तस्या एव
सामान्यसंवित्त्वात् । सा किम् ? इत्याह--सम्यग् इति । सम्यग् अविसंवादिनी सती वा
काचित् इत्यपेक्षम् । अत्र युक्ति 2419 व्यभिचरति इत्यादिकामाह--चित्तं ज्ञानं व्यभि
चरति
१४५ ख जहाति नवै नैव सत्स्वभावत2420 अर्थात्मनोः विद्यमानं स्वरूपम्,
क्वचित् प्लुतौ 2421 लौकिकशास्त्रीयविभ्रमे यदि विभ्रमेतररूपमेकं ज्ञानं चेदित्यर्थः । तदेव
निर्णेतुं निश्चेतुं स्वम् आत्मानम्, उपलक्षणमेतत् तेन परं च गृह्यते, अनलसमर्थम् ।
कथंभूतम् ? अपगत 2422 व्यावृत्तम् । कुतः ? परस्माद् अन्यस्मात् सजातीयाद्
विजातीयाच्च गतम् इति वचनात्, अन्यथा तं निर्णेतुं समर्थमिति गम्यते, यदि
स्वविषये निर्णयजननेतरस्वभाववदित्यर्थः । तदेव च यदि सिद्धसाध्यैकरूपं सिद्धं निश्चितं
सदादिसाध्यं फलानुमेयं स्वर्गादिप्रापणादिकम् एकं रूपं यस्य तत्तथोक्तं दृश्येतररूपमेकं चेदिति
मन्यते । व्यवहारापेक्षया उक्तम् ।


यः पुनर्मन्यते ध र्मो त्त रः--स्थवीयान् एको ग्राह्याकारो मिथ्या विचार्यमाणस्य
अयोगात्, ततो व्यतिरिक्तं निरंशं संविन्मात्रं परमार्थसत् ।
इति; तत्राह--संभाव्य
इत्यादि । संभाव्यः अर्थाकारविरहः आलोक्यः सदादिभेदो यस्य तत्तथोक्तं चित्तमेकं
यदि
इति ।


योवि 2423 मन्यते प्र ज्ञा क र गुप्तः2424--न नीलादिसुखादिशरीरव्यतिरिक्तं
संवेदनमस्ति अनुपलम्भात्
प्र॰ वार्तिकाल॰ तदेव चित्रमेकं ज्ञानम् चित्रप्रतिभा
साऽपि
प्र॰ वार्तिकाल॰ ३ । २२० 2425इत्यादि वचनात् । तं प्रत्याह--विचित्र इत्यादि ।

  1. कारिकार्थः ।

  2. सौगतमते ।

  3. क्तिं
  4. वं
  5. स्मृतौ
  6. तं
  7. योऽपि
  8. नीलादिसुखादिकमन्तरेणापरस्य ज्ञानाकारस्यानुपलक्ष
    णात्
    --प्र॰ वार्तिकाल॰ ३ । ३१३ ।

  9. चित्राभासापि बुद्धिरेकैव बाह्यचित्रविलक्षणत्वात् । शक्यविवेचनं
    चित्रमनेकमशक्यविवेचनाश्च बुद्धेर्नीलादवः ।
    --प्र॰ वार्तिकाल॰ ।