यावान् कश्चिद् धूमवान् प्रदेशः स सर्वोऽपि अग्निमानिति व्याप्तावसिद्धायाम्
अनुमेयप्रतिपत्त्यनुपपत्तेः । सिद्धौ एवमनुमानं स्मृत्यन्तरान्न विशेष्येत । ततो लिङ्गलिङ्गि
ज्ञानयोः प्रमाणेतरव्यवस्था व्यतिकीर्येत । स्वयमनुभूताद् व्यतिरेके पुनरनवयवेन व्याप्ति
सिद्धेरयोगात् । सामान्यविषया व्याप्तिः तद्विशिष्टानुमितेः इति चेत्; पूर्वानुभूतस्मृतेरपि
तथाविधविशेषानिराकरणात् यत्किञ्चिदेतत् ।
साकल्येन सामस्त्येन आदितः आदौ सकलानुमानप्रवृत्तेः पूर्वं सिद्धा निश्चिता
व्याप्तिः अविनाभावः चेत् । कयोः ? लिङ्गलिङ्गिनोः । अनुमेयस्मृतिः अनुमानं न
स्यात् प्रमाणं साकल्येन इत्येतदत्रापि सम्बन्धनीयम् । अत्र दृष्टान्तमाह--विशेषवदिति
अननुमानस्मृतिवदिति ।
यावान् इत्यादिना कारिकार्थमाह--यावान् कश्चिद् धूमवान् प्रदेशः, उपलक्षणमेतत्
धानु 2454 कालोऽपि गृह्यते स प्रदेशादिः सर्वोऽपि न केवलं कश्चिदेव अग्निमान् इत्येवं व्याप्तौ
असिद्धायां सत्यां अनुमेयस्य अप्रसिद्धस्य या प्रतिपत्तिः तस्या अनुपपत्तेः अनुमान 2455
स्मृत्यन्तराद् अलिङ्गजात् स्मरणात् न विशेष्येत न भिद्येत । एतदुक्तं भवति--यथा अननुभूते
न स्मृत्यन्तरम् १४७ ख अतिप्रसङ्गात् तथा व्याप्यत्वेनानिश्चितात् लिङ्गात् 2456व्यापकत्वेना
निश्चितस्यानुमेयस्य प्रतिपत्तिरपि न युक्ता, अन्यथा भूमिगृहवर्धितस्य2457 अकस्माद् धूमदर्शनाद्
अग्निप्रतिपत्तिः स्यात् । तवैवं 2458 व्यापकत्वेनागृहीतस्य2459 ततः प्रतिपत्तिसंभावना,
अनुमानस्य स्मृतिविशेषत्वात् अत एवोक्तम्--स्मृत्यन्तरात् इति, ततः तदसत्त्वेन न विशेष्येत
इति मन्यते । तथा यावान् कश्चिद्भावः स सर्वः क्षणिक एव इत्येवं 2460तस्यमसिद्धायां सर्वं
वाच्यम् । तस्यां सिद्धायां को दोष इति चेत् ? अत्राह--सिद्धौ इति । सिद्धौ निश्चये एवं
व्याप्तेः इति विभक्तिपरिणामेन सम्बन्धः, अनुमानं स्मृत्यन्तरात् न विशेष्येत । कुत एतत् ?
इत्याह--अनुमेय इत्यादि । 2461साध्यं शक्यमभिप्रेतमप्रसिद्धमनुमेयम् इति, तस्य या प्रतिपत्तिः
तस्याः अनुपपत्तेः व्याप्तिज्ञानेन 2462तस्य निश्चये तदयोगात् । तथा च त्रिरूपाल्लिङ्गाद् यदनु
मेये ज्ञानं तदनुमानम् न्यायबि॰ २ । ३ इति वचनमात्रम्; सिद्धसाध्यविषयत्वेन तस्य
प्रमाणाभासतेति मन्यते । अनुमानग्रहणमपि उपलक्षणम्, तेन उत्तरप्रदेशादिप्रत्यक्षमपि 2463ततो न
विशेष्येत व्याप्तिज्ञानेन प्रदेशादेरपि ग्रहणात्, इतरथा स2464 सर्वोऽपि अग्निमान् इति प्रतिपत्तेर
योगात्, व्याप्याप्रतिपत्तौ व्यापकाप्रतिपत्तिवत् आधाराप्रतिपत्तौ आधेयप्रतिपत्तिरपि नास्ति,
एवमर्थं च प्रदेशग्रहणम्, अन्यथा यावान् कश्चिद् धूमः इति ब्रूयात् । न च 2465भावक्षणिकत्व
व्यतिरेकेण अपरं यत्त 2466 ज्ञानेनागृहीतम् उत्तराध्यक्षेण गृह्यते । तत एव न तद्व्याप्ति
सिद्धिः । नाप्यनुमानमिष्यते इति १४८ क प्र ज्ञा क र गु प्तः 2467 कथं द्वे एव प्रमाणे
प्र॰ वार्तिकाल॰ ३ । ६२ इत्युक्तम् ? व्यवहारेणेति चेत्; तेनैव2468 तर्हि यथा व्याप्तिज्ञानेन गृहीते