१ प्रत्यक्षसिद्धिः


॥ ओँ नमोऽर्हते ॥


अ क ल ङ्कं जिनं भक्त्या गुरुं देवीं सरस्वतीम् ।

नत्वा टीकां प्रवक्ष्यामि शुद्धां सि द्धि वि नि श्च ये ॥ १ ॥

अ क ल ङ्क वचः काले कलौ न क1लयापि यत् ।

नृषु लभ्यं क्वचिल्लब्ध्वा तत्रैवास्तु मतिर्मम ॥ २ ॥

दे व स्याऽ न2 न्त वी र्यो ऽपि प3दं व्य4क्तं तु सर्वतः ।

न जानीते ऽक ल ङ्क स्य चित्रमेतत् परं भुवि ॥ ३ ॥

अ क ल ङ्क वचोऽम्भोधेः सूक्तरत्नानि यद्यपि ।

गृह्यन्ते बहुभिः सैर5 सद्रत्नाकर एव सः ॥ ४ ॥

सर्वधर्मस्यनैरात्म्यं कथयन्नपि सर्वथा ।

6 र्म की र्तिः पदं गच्छेदाकलङ्कं कथं ननु ॥ ५ ॥

शास्त्रस्यादौ तदविघ्नप्रसिद्धिप्रथनादिकं फलमभिसमीक्ष्य सर्वज्ञम् इत्यादि मङ्गलमाह7--


सर्वज्ञं सर्वतत्त्वार्थस्याद्वादन्यायदेशिनम् ।

श्रीवर्धमानमभ्यर्च्य वक्ष्ये सि द्धि वि नि श्च य म् ॥ १ ॥

अस्यायमर्थः--सर्वज्ञम् सर्ववेदिनम्, अभ्यर्च्य अर्चित्वा । न8नु प्रतिभासाद्वैता
दन्यस्याभावात् त9देव सर्वम्, तज्जानातीति सर्वज्ञः स्वरूपज्ञः, तमभ्यर्च्य इति प्राप्तम्
इति चेत्;
अत्राह--श्रीवर्धमानम् इति । श्रीः अशेषतत्त्वार्थज्ञानादिसम्पद् इह गृह्यते, सा पू10र्वापूर्वपर्याय
11परित्यागाऽजहद्वृत्त्युत्तरपर्यायोपादानेन वर्धमाना उपरमविरहेण प्रवर्त्तमाना यस्य स

अकलङ्कं नमस्कृत्य तुलनार्थावबोधकम् ।

आलोकाख्यमहं वक्ष्ये महेन्द्रष्टिप्पणं सुधीः ॥ १ ॥

2 तथोक्तस्तम् इति । कामचारेण विशेषणविशेष्यभाव इति श्रीशब्दस्य विशेषणाभिधायित्वम् 12अन्यस्य
विशेषा13भिधायित्वम्, वर्धमानाक्षरनि14त्यादिवत्, इतरथा वर्धमानशब्दस्य पूर्वनिपातः
श्रीशब्दस्य परनिपातः स्यात् । एवं वा सविशेषणस्य पूर्वनिपातात् । नन्वेवंविशेषणेऽपि न यथो
क्तदोषनिवृत्तिः । नहि स्वपक्षविशेषणमात्रात् परपक्षो निवर्तते अतिप्रङ्गात् अपि तु न्यायात्, ततः
१ ख स एव उच्यतामिति चेत्; अत्राह--सर्वतत्त्वार्थस्याद्वादन्यायदेशिनम् इति ।
सर्वे तत्त्वार्थाः जीवादयः तेषां स्याद्वादः अनेकान्तः, 15विषयिशब्दस्य विषये16 उपचारात्,
तस्य न्यायो ग्राहकं प्रत्यक्षादिप्रमाणम्, तद्दिस17ति कथयति इत्येवं शीलं तद्देशिनम् इति ।
एतदुक्तं भवति--तदुपदेशे 18मांसचक्षुषः के अन्ये इति भगवानेच19तदुपदेष्टा जातः, तदुपदे
शाच्च केवलं वयं व्याधूताज्ञानतमःस20 स्वं परं च तद्वर्त्मनि वर्तयितुं समर्थाः । तथाहि—
दृश्यप्राप्ययोरिव विचारात् दृ21श्यमात्रेऽपि विज्ञप्तिरूपे म22त्योद्व24धिस्तम्भादिभागानां नैकत्व
मित्यतमः25 परमाणव एवा वशिष्यन्ते, तत्र चैकपरमाणुवेदनेन 26अन्येषामनुपलम्भेन
सन्तानान्तरवदसत्त्वात् त27स्य च स्वात्मनेति28 कस्य क्षणिकत्वदर्शनम् ? येनोच्यते--यद्यथा
वभासते
29इत्यादि ? यदवभासते तज्ज्ञानम् 31इत्यादि च । कस्य वा प्रतिभासाद्वैतता
येनेदमप्युच्यते--यद्यद्वैतेन तोषोऽस्ति मुक्त एवाऽसि सर्वथा । प्र॰ वार्तिकाल॰ २ । ३७
33इत्यादि ?


यदि पुनः एकानेकविकल्पशून्यं तदिष्यते35; तर्हि प्रतिभासाऽसून्य 36मेवेष्य
3 ताम् । नहि परमाण्वाकारैस्तच्छून्यं चित्राद्वैतमाभाति अतीताऽनागतपर्यायैरेकात्मवत् । ग्राहका
भाव उभयत्राद्य 37 नीलाद्याकारैस्तदिष्यते38; तर्हि मेचकमणिदर्शनसमये नीलाद्याका
राणां परस्परमदर्शने सन्तानान्तराणामिव अभावः । दर्शने ऐक्यम् । निराकारवादोऽन्यथा
भवेत् । २ क तेषां39 तथादर्शनेऽपि सत्त्वे न परलोकादिनिषेधैकान्त इति कथुमु 40
तेन41 स्वरूपवदन्यद42स्तीति तदेव सर्वमिति तज्जानन् सर्वज्ञः इति ।


स्यान्मतम्--न्यायोन्यं 43 तदाकाराणां दर्शनं नाप्यदर्शनमिति; तदपि न सूकं
44 स्वरूपेऽपि तथा प्रसङ्गात् । त45स्य दर्शनान्नेति चेत्; अन्यविविक्तदर्शने उक्तो दोषः ।
अथ तेन46 अन्यस्य अदर्शनम्; कथं तद् अन्यविविक्ततामात्मनोऽवैति ? कथं प्र47कृतिपुरुषादीनाम
दर्शने नीलादेस्तद्विविक्तताप्रतीतिः, कथं वा सुखादेः आत्मशून्यतावित्तिः, यतो नैरात्म्यदर्शनम् ?
48तेषां दर्शने सुस्थितमद्वैतम् ! अदर्शनादेव 49तदभाव इति चेत्; किमिदं तददर्शनम् ? दर्शन
निवृत्तिरिति50; कथमप्रतीता सा51 अस्ति प्रकृत्यादिवत् ? नीलादिदर्शनं तददर्शनमिति चेत्;
कथमन्यदर्शनम् अन्यादर्शनं विरोधात् ? अन्यविविक्तरूपत्वाच्चेत्; प्रकृत्यादीनामदर्शने केयं
52तद्विविक्तताऽस्य53 ? अन्यथा वी54तादीनामदर्शनेऽपि नीलस्य 55तद्विविक्तताप्रतीतिरिति कथन्न
प्रकृतो दोषः ? ननु च अनीलव्यावृत्तिर्नीलम्, अनीलाभावे कथं तद्व्यावृत्तिः, एवं पीतादौ
वक्तव्यमिति चेत् ? तर्हि अस्वसंवेदनव्यावृत्तिः स्वसंवेदनं तस्याऽस्वसंवेदनस्याभावे 56तदपि मा
भूत् । स्वरूपमेतदिति चेत्; नीलादिकमपि तथैवास्तु । तन्न नीलाद्याकारैस्तच्चित्रमिति ।
भवतु वा, तथापि मेचके नीलादीनामिव नीलमात्रेऽपि तद्विभागः57चिन्तायां तदवस्थो 58दोषः ।
ननु59 यत एव चित्रैकज्ञानवन्नीलमात्रमपि न घटते २ ख तत एव तदपि60 परमार्थतो माभूत्
मरीचिकातोयवत् मायामरीचिप्रतिभासवदसत्त्वेऽप्यदोषः प्र॰ वार्तिकाल॰ ३ । २११
इति वचनादिति चेत्; आस्तां तावदेतत् । अथ नीलमात्रं स्वभागैरेकमिष्यते; तथा मेचकमपि
नीलादिभिरेकमिष्यताम् । इष्यत एव चित्रप्रतिभासाप्येकैव बुद्धिर्बाह्यचित्रविलक्षणत्वात्
प्र॰ वार्तिकाल॰ ३ । २२० इत्यादि61 वचनादिति चेत्; तथा सति न केवलं दृश्यप्राप्ययोः
अपि तु 62संसारेतरावस्थयोरविच्छेदेन कथञ्चित्तादात्म्यं सिद्धमिति साधूक्तम्--श्रीवर्धमानम्
इति । एवमन्येऽप्येकान्ताः प्रहन्तव्याः । निरूपयिष्यते चैतत् यथास्थानम् ।


इदमपरं व्याख्यानम्--श्रियोपलक्षितं वर्धमानं पश्चिमतीर्थकरम् अभ्यर्च्य । कथ
म्भूतम् ? सर्वज्ञम् साक्षात्कृताशेषपदाक्यं6364ननु स एव कुतः सिद्धः 65 तु
4 सर्वज्ञ इत्यपि
तत्त्वसं॰ श्लो॰ ३२३०66र्मसत्तासिद्धेर्धर्मिप्रतिपत्तिनान्तरीयकत्वादिति चेत्;
अत्राह--सर्वतत्त्वार्थस्याद्वादन्यायदेशिनम् इति । सर्वतत्त्वार्थदेशिनम् इति
वचनात् त67त्सत्त्वमुक्तमिति गम्यते, वचनस्य वक्तृसत्त्वाऽव्यभिचारात् । न वेदेन68 व्यभिचारः;
पक्षीकरणादिति । निरूपयिष्यते चै तत् । स्याद्वादन्यायदेशिनम् इत्यभिधानात् तत्सर्वज्ञ
त्वमिति च69 । तमभ्यर्च्य । किमिति ? अत्राह--वक्ष्ये सि द्धि वि नि श्च य म् । सिद्धिः
प्रमाणम् ।


ननु सिद्धिः प्रमाणस्य फलम् प्रमाणस्य फलं साक्षात् सिद्धिः सिद्धिवि॰ १ । ३
इति वक्ष्यमाणत्वादत्रैव 70 तत्कथं सा72 प्रमाणमिति चेत् ? एतदुत्तरत्र निरूपयिष्यते ।
विशब्दः अतिशयप्रकर्षद्वैविध्यनाना३ क त्वेषु वर्तमानो गृह्यते । तत्र अतिशये तावत् अन्यस्यापि
जीवादितत्त्वस्य निश्चयं वक्ष्ये सिद्धेस्तु सातिशयं वक्ष्ये । कोऽस्यातिशयः सकलप्रमेयव्यव
स्थाहेतुत्वम्, यद्वक्ष्यते--सिद्धं यन्न परापेक्ष्यम् सिद्धिवि॰ १ । २४ इत्यादि । तथा प्रकर्षे;
तस्याः प्रकृष्टं निश्चयं विनिश्चयं वक्ष्ये । कोऽस्य73 प्रकर्षः ? सौगतादिकल्पिततन्निश्चयादाधिक्यम् ।
तथा द्वैविध्ये; द्विविधं निश्चयं तस्या वक्ष्ये प्रत्यक्षपरोक्षभेदेन किञ्चत् स्वतः किञ्चित् परतः प्रमा
74म्
इत्यनेन वा भेदेन, स्वपरविषयद्वैविध्येन, व्यवहिताव्यवहितफलद्वैविध्येन वा । तथैव ना
नात्वे; नाना निश्चयं वक्ष्ये स्व75रूपसंख्याविषयफलविप्रतिपत्तिनिरासनानात्वेन ।


ननु च नयादीनामपि विनिश्चयोऽत्र76 प्रतिपादयिष्यते तत्कथमुच्यते सिद्धेः प्रमाणस्य इति
चेत्; न; तेषां श्रुतभेदेन 77तत्रैवान्तर्भावात् । तदुक्तम्78--उपयोगौ श्रुतस्य द्वौ प्रमाणनय
भेदतः ।
लघी॰ श्लो॰ ६२ न च प्रमाणस्य उपयोगोऽप्रमाणम्; विरोधात्, प्रमाण
नयैरधिगमः
त॰ सू॰ १ । ६ इत्यस्य व्याघाताच्च । प्रमाणैरधिगमवत्79 तर्हि वक्तव्य
मिति चेत्; न; विकलादेशस्यापि80 81तद्भेदत्वप्रतिपादनार्थं तथावचनमित्यदोषः । ततः प्रमेय
निर्णयहेतुत्वात् प्रमाणनयानां प्रमाणत्वे समानेऽपि सकलादेशात् नय82निवार्यमाण83 प्रमाण
शब्दः 84तत्रैव प्रवर्तते उत्कलितपुंस्केषु विशेषेषु गोशब्दवत् । यद्वक्ष्यते--


*स्यात्प्रमाणात्मकत्वेऽपि प्रमाणप्रभवो नयः ।

विचारो ३ ख निर्णयोपायः परीक्ष्येत्यवगम्यताम् ॥

सिद्धिवि॰ प्रस्ता॰ १० इति ।


5

प्रमाणाच्च नयस्य भेदैकान्ते प्र मा ण सं ग्र हा दौ85 प्रमाणे इति संग्रहः प्रमाण
सं॰ श्लो॰ २
इत्यभिधाय पुनर्णयादिप्रणयनमयुक्तं 86तेनासंग्रहात् । ततो यथा अन्यत्र87 प्रमा
णात् नयादिपरिग्रहः तथा अत्रापि, इति सर्वं सुस्थम् ।


ननु सिद्धिः अधिगतिः प्रमाणफलम्, तस्या विनिश्चयं निर्णयात्मकत्वं वक्ष्ये इति
व्याख्याने को दोषः येनेदं88 नाश्रितमिति चेत् ? सर्वार्थासंग्रहः । एवं हि फलविप्रतिपत्तिनिरास
एव संगृहीतो न सर्वान् प्रतिवादिनः प्रति स्वरूपादिविप्रतिपत्तिनिरासः, ततः पूर्वमेव व्याख्यानम्89


अथ किमर्थमिदमुच्यते--वक्ष्ये सिद्धिविनिश्चयम् इति ? स90म्बन्धाभिधेयप्रयो
जनप्रतिपादनार्थम् । तथाहि--सिद्धिपदेन शास्त्रस्य अभिधेयम् प्रमाणम् उक्तम् 91निरभिधेयाऽ
शक्याननुष्ठेयाशङ्कानिवारणार्थम् । विनिश्चयम् इत्यनेन प्रयोजनम्, निष्प्रयोजनत्वारेका
प्रतिषेधार्थम् । शास्त्रस्य अभिधेयेन वाच्यवाचकलक्षणः प्रयोजनेन च सह साध्यसाधनलक्षणः
सम्बन्धोऽपि अर्थतोऽनेनोक्तो वेदितव्यः । तथावदसदादिमादि92वाक्य93
समताचोद्यं निरस्तम् । ननु शास्त्रवद् अभिधेयस्यापि प्रयोजनं पृथगेव वक्तव्यम् काकदन्तवदप्र
योजनाशङ्कानिषेधार्थं यथा अन्यत्रोक्तम्--प्र94माणाधीनत्वात् प्रमेयव्यवस्थायाः तद्व्युत्पा
दनार्थमिदमुच्यते
इति चेत्; न; सिद्धिशब्देनैव तदप्युक्तम् । यस्मादयं ४ क प्रमाणा95फल
वाचिनं सिद्धिशब्दमुपचारात् प्रवर्तयति तस्मादुक्तमेव फलम्, मुख्यादृते उपचाराभावा दिति ।


किमर्थमादौ अभिधेयादिकमुच्यते इति चेत् ? श्रोतृप्रवृत्त्यर्थम्9697कृषीवलादिवत्
6 अर्थसन्देहात् प्रेक्षापूर्वकारिणोऽपि तद्वाक्यात् प्रवर्त्तन्ते
इत्येके98सन्देहात् प्रवृत्तौ
किमन्यत्रापि प्रमाणान्वेषणेन
इति प्र ज्ञा क र गु प्तः99तद्वाक्याद् अभिधेयादौ
श्रद्धाकुतूहलोत्पादः, ततः प्रवृत्तिः
इति केचित् स्वयूथ्याः100 । तान् प्रति अ101परे प्राहुः--यदि
न तद्वचनं प्रमाणम्; कथं ततः श्रद्धाद्युत्पादेऽपि प्रेक्षावतां प्रवृत्तिः ? इतरथा यतः कुतश्चित् स्यात् ।
प्रमाणं चेत्; न तत् प्रत्यक्षम्, वचनत्वात् । नाप्यनुमानम्; वचनस्य अर्थाप्रतिबन्धात् ।
अत एव नाऽऽगमोऽपि । तत्र ततः प्रवृत्तिरिति; तत्र 102 प्रत्यक्षवत् शब्दस्यापि प्रमाणत्वो
पपत्तेर्वक्ष्यमाणत्वाददोषः ।


अथवा, शा103स्त्रार्थस्य संग्रहवाक्यमेतत्, अस्मान्निबन्धन104स्थानादत्वा 105 आदाय
व्याख्यायन्त इति ।


तत्र स्वरूपनिश्चयं प्रमाणस्य तावत् दर्शयन्नाह--सिद्धिश्चेत् इत्यादि ।


सिद्धिश्चेदुपलब्धिमात्रमविसंवादैकहेतोर्विना,

निर्णीतेः क्षणिकादिसिद्धिरनुमा न स्यात् स्वयं सर्वथा ।

निर्णीतिर्यदि निर्विकल्पमखिलं न स्यात् प्रमाणं स्वतः,

तस्याश्चेज्जननात् प्रमाणमत एवास्तु स्वतो निर्णयः ॥ २ ॥

सिद्धिः प्रमाणं तत्र फलोपचारात्, कथञ्चित्तादात्म्यनिबन्धनस्व106प्रमाणफलयो
रुपचारः । तयोस्तर्हि कथञ्चित्तन्वित् 107 कदाचित् प्रमाणेन फलं कदाचित् फलेन
वा प्रमाणं वायदिस्यते 108 यथा मृद्घटयोः तथातत्त्वे109 मृदियं घटः घट110 वा
मृदिति । किमर्थः स111 इति चेत् ? अन्यमतएवप्रति112षेधार्थः । अ113न्येषां हि दर्शनं फलात्
7 स्वपरग्रहणलक्षणाद् अन्यदेव अचेतनं सन्निकर्षादि प्रमाणम्
इति, तन्निषेधार्थः । तथाहि--न114 प्रमाणं
सन्निकर्षादि अचेतनत्वात् घटादिवत् । न प्रदी४ ख पादिना व्यभिचारः; तस्यापि पक्षीकरणात् ।
अथ115 अव्यपदेश्याव्यभिचारिव्यवसायात्मकघटादिज्ञानहेतुत्वात् प्रमाणं प्रदीपादिः; तन्न युक्तम्;
प्रामाण्यवत् प्रदीपादीनां तत116ज्ञानहेतुत्वस्यापि प117रं प्रत्यसिद्धेः । न118 घटादिज्ञानस्य हेतुः प्रदी
पादिः, तत्परिच्छेद्यत्वात्, यद् यस्य परिच्छेद्यं न तत् तस्य जनकं यथा ईश्वरज्ञानस्य परिच्छेद्यः
सदसद्वर्गो न तज्जनकः, घटज्ञानपरिच्छेद्यश्च प्रदीपादिः, घटेन सहैवैकस्मिन् विज्ञाने119 तस्य120 प्रति
भासनात् । अथ ईश्वरज्ञानं चेन्न121 विषयेण जन्यते, अन्यथा तेन122123त्परिच्छेदायोगात्; न तर्हि
तत्सहभाविनां तेन124 ग्रहणम् अकारणत्वात्125, तथा च सर्वः सदसद्वर्गः कस्यचिद् एकप्र
त्यक्षविषयः अनेकत्वाद् अङ्गुलिसमूहवत्
इति126 व्याहन्यते । अजनकानामपि127 तेषां तेन128
ग्रहणं नान्येषाम्129
इति किंकृतो विभागः ? ननु च प्रदीपादेर्घटज्ञानं प्रत्यकारणत्वे 130तदभावेऽपि
तत् स्यादिति चेत्; दृष्टत्वाददोषः । दृष्टं खलु केषाञ्चिद्व्राति131शेषाणाम्132 अञ्जनादि
संस्कृतलोचनानां वा 133तदभावेऽपि रूपज्ञानम् । न च यदभावेऽपि यद् भवति तत्तस्य कार्यम् अति
प्रसङ्गात् । निराकरिष्यते च चक्षुषः तैजसत्वम् । यदि च प्रदीपाद्यभावे न रूपज्ञानम्; कथं तर्हि
तमःपटलावलोकनम्134 ? 135ज्ञानानुत्पत्तिरेव तमो नान्यदिति चेत्; आस्तां तावदेतत् ।


स्मान्मतम्--यदा दीपाद्यभावेऽपि रूपज्ञानं तदा अस्य अन्यत् कारणमस्तु, यदा तु
दीपादिभावे तदा तदेव, अन्यथा सत्यस्वप्ने चक्षुषोऽभावेऽपि 136तज्ज्ञानं, दृष्टमिति सर्वदा 137तद५ क
कारणम् अतीन्द्रिय इति, इन्द्रिय138 मनसी तत्कारणम् लघी॰ स्व॰ श्लो॰ ५४ अती
न्द्रियप्रत्यक्षम्
लघी॰ स्व॰ श्लो॰ ६१ इति139 च विरुध्यते इति; तदपि न सारम्; यदि
खलु घटादिना सह दृश्यमानोऽपि दीपादिः तज्ज्ञानस्य हेतुः, तर्हि घटादिरपि प्रदीपादिज्ञानहेतुरिति
8 चक्षुरिव रूपप्रकाशनात् तैजसः स्यात् । प्रत्यक्षादिबाधनमन्यत्रापि । यदि पुनः केवलोऽपि प्रदी
पादिः समुपलभ्यते इति न घटादिः त140ज्ज्ञानहेतुः; प्रदीपादिरपि घटादिज्ञानस्य हेतुर्न स्यात् तस्या
पि141 केवलस्य उपलम्भ142 इत्युक्तम् । यथैव च केषाञ्चित् प्रदीपाद्यालोकमन्तरेण न घटा
दिरूपज्ञानं तथा केषाञ्चिन्नक्तञ्चराणाम् अन्धकारमन्तरेणापि न तज्ज्ञानमिति तदपि143 तद्धेतुरिति
तैजसं चक्षुः रूपादीनां मध्ये रूपस्यैव प्रकाशकत्वात् प्रदीपवत् । प्र॰ व्यो॰ पृ॰ २५६
144त्यस्य अनेन व्यभिचारः । अथ अन्धकारः तद्धेतुः; आलोकोऽपि न भवेदिति प्रदीप
वत्
इत्यस्य निदर्शनस्य साधनशून्यता । तन्न प्रदीपादिना व्यभिचारः । ननु न वेदनत्वेन145 प्रा
माण्यं व्याप्तं येन तदभावे न भवेत्, अपि तु यथार्थज्ञानजनकत्वेन । तच्च प्रदीपादिपरिहा
रेण सन्निकर्षादावस्तीति स प्रमाणमस्तु इति चेत्; न; सन्निकर्षस्य ज्ञानं प्रति हेतुत्वस्य निषेत्स्य
मानत्वात् । केवलमिन्द्रियमवशिष्यते । तदपि न प्रमाणम्; तद्धेतुत्वेऽपि146 विचेतनत्वात्147 घटा
दिवदिति चर्चितं प्र मा ण सं ग्र ह भा ष्ये । ततः प्रमाणे फलोपचारः ततो भिन्नप्रमाणनिषे
धव्य148
इति सूक्तम् ।


ततः सिद्धिः प्रमाणम् । चेत् यदि । किं तत् ? इत्याह--उपलब्धि५ ख मात्रम्
इति । उपलभ्यते अनया वस्तुतत्त्वमिति उपलब्धिः अर्थादुत्पन्ना तदाकारा च बुद्धिः सैव तन्मा
त्रम् । कथं तत्प्रमाणमिति ? अत्राह--अविसंवादैकहेतोः इत्यादि । अविसंवादः अर्थतथाभावः
तस्य एकः प्रधानभूतः एकसंख्यायुक्तो वा हेतुः कारणं या निर्णीतिः यथार्थो विकल्पः तस्या
विना तामन्तरेण । एतदुक्तं भवति--तदकिञ्चित्करं संशयकरं विपर्ययकरं यथार्थनिर्णयकरं चेति
चत्वारः पक्षाः । तत्र उत्तरपक्षे तस्याश्चेज्जननात् इत्यादिदूषणमभिधास्यते इति । अन्यत्र पक्ष
त्रये यदि प्रमाणमिति । तत्र दूषणमाह--क्षणिकादिसिद्धिः इत्यादि । क्षणिक इति भावप्रधा
नो निर्देशः । ततः क्षणिकत्वम् आदिर्यस्य ज्ञानत्वादेः साधनादभिन्नस्य तत्तथोक्तम्, तस्य सिद्धिः
प्रमाणम् अनुमा अनुमानं न स्यात् तत्साधकं न भवेत्, प्रत्यक्षमेव स्यात् नीलादिवत्त
स्यापि149150त एव प्रतीतेः सर्वथा सारूप्यात् । कस्य ? इत्यत्राह--स्वयम् आत्मनो बौद्धस्य । 151तत्र
समारोपव्यवच्छेदकरणात् स्यादिति चेत्; अत्राह--सर्वथा सर्वेण क्षणिकादिसाधनप्रकारेण वा
अन्येनापि समारोपव्यवच्छेदप्रकारेणापि न स्यात् इति सम्बन्धः । कुतः ? 152तदव्यवच्छेद
कत्वात् । तथाहि--न समारोपव्यवच्छेदकृद् अनुमानम् अविकल्पकत्वात् प्रत्यक्षवत् । अविकल्प
कत्वं च 153सर्वचित्तचैत्तानाम् आत्मसंवेदनंप्रत्यक्षमविकल्पकम् न्यायबि॰ १ । १०
9 इत्यभिधानात् । अथैतन्नेष्यते ६ क तर्हि तद्वत् सर्वचेतसाम् आत्मसंवेदनं सविकल्पकं
भवेत् । तत्र दूषणं वक्ष्यते--निर्णीतिर्यदि इत्यादि ।


ननु च अभ्यासदशायां भाविनि प्रवर्तकं प्रत्यक्षमविकल्पकमपि समारोपव्यवच्छेदकम्,
अतोऽनैकान्तिको हेतुरिति चेत्; न; तदा नीलादौ स्वयमेव तदभावात्154 । क्षणक्षयादौ तु सा155ऽस्त्येव
कथमन्यथा प्रत्यक्षमविसंवादि तदा स्यादिति यत्किञ्चिदेतत् ।


ननु भवतु स्वरूपे त156न्निर्विकल्पकम् अर्थे तु विकल्पकम्, अतो भावा157सिद्धो
हेतुरिति चेत्; किं पुनस्तस्य तात्त्विकं रूपद्वयमस्ति ? तथा चेत्; तद्वत् क्रमेणापि ए158कस्य
रूपद्वयसंभवात् न क्षणिकज्ञानं159 नीत्वा160दिज्ञानवत् स161मारोप इति कथं तद्व्यवच्छेद
करणात् तत्प्रमाणम् ? अथ कल्पितं तत्र 162तस्य सविकल्पकं रूपम्; सुस्थितं तर्हि भागासिद्धत्वम्,
कृतकत्वस्याप्येवं भागासिद्धत्वप्रसङ्गात्, वेदे कल्पनया अकृतकत्वस्य भावात् शब्दमात्रस्य अनि
त्यत्वसाधने । कथं वा त163त् कल्पितं समारोपं व्यवच्छिन्द्यात् ? नहि माणवके अग्नित्वं कल्पितं
शीतं व्यवच्छिनत्ति । तद्व्यवच्छेदोऽपि तादृश एवेति चेत्; ततः तत्प्रमाणत्वमपि तादृशं प्रस
क्तमिति कुतः परस्य164 तत्त्वव्यवस्था ? प्रतिभासाद्वैतस्य तत एव सिद्धिरिति चेत्; तिष्ठतु ताव
देतत् । ततोऽनुमानगतसविकल्पकस्वभावात् त165द्व्यवच्छेदम् इत्यता 166 स तात्त्विकोऽभ्यु
पगन्तव्य इति स एव दोषः समारोपाभावलक्षणः । वक्ष्यते च--प्रतिभासैक्यनियमे
सिद्धिवि॰ १ । ११ इत्यादि ।


भवतु वा अनुमानं कीदृशमपि ६ ख तथापि नातः समारोपनाशः; 167तस्याऽहेतुत्वोप
गमात् । अथ अनुमानसन्निधानात् पूर्वसमारोपक्षणस्य उत्तरसमारोपोत्पादने असमर्थस्य भावात्
पूर्वस्य स्वयमेव 168तत्क्षणस्य नाशाद् 169उत्तरस्य कारणाभावेन अनुत्पादात् एवमुच्यते--अनुमानेन
समारोपो नाशितः
इति प्रदीपेनेव तमः; तर्हि कुतश्चिद्देशसन्निधानात् यथार्थसु170क्त्यादि
विकल्पे सति पूर्वपूर्वरजतादिसमारोपक्षणानाम् उत्तरोत्तरतत्क्षणोत्पादने असमर्थानामुदयात् तथा
171 प्रमाणं किन्न स्यात् यतो द्वे एव प्रमाणे स्याताम् ? तदुक्तम्--


*समारोपव्यवच्छेदान्नन्वस्त्यधिगतेरपि ।

तत्पृष्ठभाविनो युक्ता विकल्पस्य प्रमाणतां ॥ इति ।

तन्न समारोपव्यवच्छेदादनुमानं प्रमाणम् । दर्शनानिर्णीतार्थनिर्णयात् स्यादिति चेत्;
अत्राह--निर्णीतिर्यदि इत्यादि । अस्यायमर्थः--अनुमान172 दर्शनानिर्णीतक्षणिकादि
निर्णीतेर्यतस्ततो यदि चेत् क्षणिकादिसिद्धिरिति सम्बन्धः । अत्र दूषणमाह--निर्विकल्पम्
इत्यादि । निर्विकल्पम् अविकल्पकं दर्शनमखिलं173तुर्विधमपि न स्यात् न भवेत् प्रमाणम्
स्वतो बौद्धस्य । अत्रायमभिप्रायः--यथा दत्तेना174निर्णीतस्य क्षणिकादिनि175र्णयात्
10 तत्र अनुमानं प्रमाणं न दर्शनं तथा तेन176 अनिर्णीतस्य नीलादेर्निर्णयात्तत्र177 विकल्प एव तत्पृष्ठभावी
प्रमाणं स्यात् न दर्शनमिति सौगतामाम् उपलब्धिमात्रं चेत् प्रमाणम् क्षणिकाद्यनुमानं न स्यात्
अर्थनिर्णीति निर्विकल्पमखिलं न भवे७ क दितीतः सरदतः178 पाश इति प्राप्तम् ।


ननु 179त्रैव जनयेदेनां180 तत्रैवास्य181 प्रमाणता इति नीलादिक्षणिकादिविकल्पानुमान
जननात् प्रमाणमविकल्पकमिति ध182 र्मो त्त र- प्र183 ज्ञा क र गु प्तौ; तत्राह--तस्याश्चेत् इत्यादि ।
तस्याः विकल्पानुमानयोर्निर्णीतेश्चेत् यदि जननात् प्रमाणम् अविकल्पकम् इति सम्बन्धः ।
अत एव यत एव निर्णीतिजननादविकल्पमपि प्रमाणं न स्वतः अतोऽस्मादेव कारणाद् अस्तु
भवतु स्वत आत्ममैव निर्णयो विकल्पः अनुमानाख्यः184, यद्बलाद् दर्शनस्य प्रमाणता वरं त185स्यैव
सास्तु इति भावः ।


अथवा 186अनभ्यासे दृश्यरूपलिङ्गक्षम187नुमानं प्राप्ये रूपादौ188 अभ्यासे निर्विकल्प
कमध्यक्षम्, न चान्या दशाऽस्ति यस्यां विकल्पः प्रमाणं स्यात्, स एव चेष्यते जैनैः, तत्कथ
मुच्यते--वक्ष्ये सिद्धिविनिश्चयम् सिद्धिवि॰ १ । १ अस्यामाशङ्कायामाह--सिद्धिश्चेद्
इत्यादि । अस्यायमर्थः--सिद्धिः प्रमाणं चेत् यदि उपलब्धिमात्रं पूर्वापराकारशून्यं
मध्यदर्शनमात्रम् उपलब्धिमात्रम् । अत्र दूषणमाह--क्षणिकादिसिद्धिः इत्यादि । क्षणिकग्रहणं
साधनादभिन्नसाध्यलक्षणम्, आदिशब्देन अग्न्यादीनां परिग्रहः, तेषां सिद्धिः प्रमाणम् अनुमा
नं189स्यात्
--नोत्पद्येत स्वयम् आत्मनैव गृहीतग्राहित्वेन । एतदुक्तं भवति--यथा दृश्य
प्राप्ययोर्भेदः तथा दृश्यस्य दर्शनस्य च प्रत्यवयवं भेदात् न कस्यचिद्दर्शनम्
इत्युक्तं
प्र मा ण सं ग्र हा ल ङ्का रे । तथा पक्षाद्यभावान्नानुमानमिति नाभ्यास्यो190यतः तत्र191 प्रत्यक्षं
प्रमाणम्, अनुमानस्यैव अभ्यासोपगमात् । संवृत्या192 स्यादिति चेत् ७ ख अत्राह--सर्वथा पर
मार्थप्रकारेणेव संवृतिप्रकारेणापि न स्यात् कस्यचिदत्र193भवस्याभावे संवृतिविकल्पाभावात्
194तत्पूर्वकत्वादस्य195 । कदामानं196 स्यात् ? इत्यत्राह--विना निर्णीतेः स्थूलैकसादृश्य
दर्शनं निर्णीतिः तामन्तरेण । कथंभूतायाः ? इत्यत्राह--अविसंवादैकहेतोः इति । पक्ष
हेतुदृष्टान्तानां याथात्म्येन प्रतिपत्तिरविसंवादः, तस्य एकहेतोः पक्षादिप्रतिपत्तेर्विकल्पात्मकत्वा
दिति भावः । भवतु दृश्यस्य सभेदस्य ग्रहणात् तत्र सविकल्पकं दर्शनं प्रमाणं न पूर्वापरको
11 ट्योरिति चेत्; अत्राह--निर्णीतिर्यदि इत्यादि मध्यक्षणस्य सभेदस्य ग्रहणात् तत्र निर्णीतिः
सविकल्पकं दर्शनं यदि प्रमाणम्; अत्र दूषणम्--अविकल्पमखिलम् अभ्यासजमपि न
केवलमन्यत् स्याद् भवेत् अप्रमाणं स्वतो बौद्धस्य अक्रमेणैव197 क्रमेणापि सभेदभावं
भवाद्198 इति भावः । ननु च स्वरूपे पररूपे वा अक्रमेण क्रमेणवास्वलक्ष
णदर्शनमविकल्पकम्, तत्पृष्ठभाविनी तु विकल्पबुद्धिः अनुमानादिव्यवहारमारव199यति, तद्व
शात् त200त् प्रमाणमिति चेत्; अत्राह--तस्याश्चेद् इत्यादि । गतार्थमेतत् ।


अथचेत्कमिदम् 201 अवतार्य एवं व्याख्येयम्--अप्रमाणव्यवच्छेदत्वं
प्रमाणलक्षणमुच्यते । न च व्यवच्छेद्यमप्रमाणमस्ति । द्विचन्द्रादिदर्शनमस्तीति चेत्; कुतस्तदप्रमा
णम् ? बाध्यमानत्वात्; न; सर्वथा त202दयोगादिति, जाग्रद्दर्शनवद् द्विचन्द्रादिदर्शनमपि प्रणं
203 न वा किञ्चिदिति व्यवच्छेद्याभावात् वक्ष्ये सिद्धिविनिश्चयम् इत्यन-८ क
र्थकमिति चेत्; अत्राह--सिद्धिश्चेद् इत्यादि । सिद्धिः प्रमाणं चेद् यदि उपलब्धि
मात्रम्
बुद्धिसामान्यम् । कथं तत् प्रमाणम् ? इत्याह--अविसंवादैकहेतोः इत्यादि । गता
र्थमेतदपि । इदमत्र तात्पर्यम्--अविसंवादिनी बुद्धिः प्रमाणं नान्या इति विभागमनपेक्ष्य
204न्मात्रं यदि प्रमाणमिति; अत्र दूषणमाह--क्षणिकादिसिद्धिः इत्यादि । क्षणिक आदिर्यस्य
पराभ्युपगततत्त्वस्य तत्तथोक्तम् तस्य सिद्धिः तत्सम्बन्धनीयं प्रमाणमनुमानं205 स्यात् । अय
मभिप्रायः--यदि ज्ञानमात्रं प्रमाणं तर्हि नीलादाविव स्थूलादावपि प्रत्यभिज्ञानादि प्रमाणमिति तेन
बाधितविषयत्वात् शब्दादौ क्षणिकाद्यनुमा न प्रमाणम् । न च एकत्र 207परस्य अनेकप्रमा
णम् अर्थवत्, अ208नभ्युपगमात् । अथ बाध्यमानत्वान्न स्थूलादिज्ञानं प्रमाणम्; तर्हि अबाधितं
ज्ञानं प्रमाणयितव्यम्, न सर्वम् । तथा चेत्; अत्राह--निर्णीतिर्यदि इत्यादि । अबाधिता
प्रतीतिः अविसंवादैकहेतुः निर्णीतिर्यदि प्रमाणम् निर्विकल्पं विकल्पात् निर्णीतिभेदा
न्निष्क्रान्त 209 संवेदनमात्रम् अखिलं निरवशेषं न स्यात् प्रमाणं स्वतो बौद्धस्य किन्तु
संवेदनविशेषः 210स्यादिति प्रतिज्ञाहानिः तस्य ।


अत्राह वैशेषिकादिः--न निर्णीतिः211, अपि तु त212द्धेतुत्वात् सन्निकर्षादिः प्रमाणमिति चेत्;
अत्राह उत्तरम्--तस्या निर्णीतेश्चेत् जननाद् अन्यत्213 प्रमाणम् अत एव अस्तु स्वतः
स्वयमेव निर्णयः--यस्य हि भावात् परनिरपेक्षा सिद्धिः तदेव प्रमाणं युक्तम् । निर्णीतिभावाच्च
214तथा तत्सिद्धिः, 215तदभावे 216अन्यभावेऽपि 217तदभावात्, अन्यथा८ ख चक्षुषो रूपवद् रसादि
सिद्धिरपि218, 219संयुक्तसमवेतसम्बन्धस्याविशेषादिति मन्यते ।


यदि व, य एवमाह प्रमाभङ्गवादी प्र ज्ञा क र गु प्तं220--न प्रतिभासाद्वैतात् परं तत्त्व
12 मस्ति, इति221 न तत्र किञ्चित् प्रमाणम्, त222दद्वैतस्य च स्वसंवेदनाध्यक्षसिद्धत्वात् न तत्र विप्र
तिपत्तिरप्रतिपत्तिर्वा यत्तन्निरासार्थं प्रमाणलक्षणप्रणयनम् । अतो व्यर्थमेतद्यक्ष223

इत्यादि; तत्राह--सिद्धिश्चेत् । इदमत्र चिन्त्यते--सर्वविकल्पातीतप्रतिभासो वा तत्र224 प्रमाणं स्यात्,
घटमहं वेद्मि इत्यादि प्रतिभासो वा ? तत्र प्रथमपक्षं दूषयन्नाह--सिद्धिः प्रमाणं चेत् यद्येका
नेकत्वादिभेदशून्यं प्रतिभासमात्रम् उपलब्धिमात्रम् उपलम्भनम् उपलब्धिः, सैव तन्मात्रम् ।
यदुक्तम्--प्रतिभासः प्रतिभास एवेति कथं तत्प्रमाणम् ? इति; अत्राह--घटमहं वेद्मि
इत्यादि प्रतीतिः निर्णीतिः तस्या विना तामन्तरेण तदभावः । कथम्भूतायाः ? अवि
संवादैकहेतोः
अविप्रतिपत्तेरेकस्य हेतोः । भवत्वेवं को दोष इति चेत्; अत्राह--क्षणिका
दिसिद्धिः
क्षणिक आदिर्यस्य सारूप्यसन्तानान्तरादेः तस्य सिद्धिः प्रमाणं पराभ्युपगताऽनुमा225
न स्यात् स्वयं
सौगतस्य तद्वत् पुरुषोपलब्धिर226निवारणेन त227या बाधनादिति मन्यते ।
संवृत्या सा प्रमाणमिति चेत्; अत्राह--सर्वथा परमार्थप्रकारेणेव संवृतिप्रकारेणापि न स्यात्228,
तद्वत् नित्येश्वराद्यनुमानमपि प्रमाणं स्यादिति निरूपयिष्यते । निर्णीतिरेव तर्हि प्रमाणमिति चेत्;
अत्राह--निर्णीतिः स्वपरव्यवसायात्मिका बुद्धिः ९ क यदि प्रमाणम् निर्विकल्पम्--अहमिति
ज्ञानं ग्राहकं ग्राह्यो घटादिः तद्व्यवसायः फलम्
इति विकल्पो भेदः तस्मान्निष्क्रान्तम् अद्वयवेदनं
न स्यात् प्रमाणं स्वतः स्वरूपेण । ततो 229यदुक्तम्--प्रमाणमविसंवादिज्ञानम् इत्यादि
व्यवहारेण प्रमाणलक्षणमुक्तम्, अज्ञातार्थप्रकाशो वेति परमार्थेन, प्रमाणान्तरेण अज्ञातस्य
अद्वयप्रतिभासार्थस्य आत्मवेदनस्य एवमभिधानात् ।
इति; तन्निरस्तम् । शेषं पूर्ववत् व्या
ख्येयम् । ननु च यदि नीलादिः अर्थतर्द्विभ 230 तद्व्यतिरेकेण 231तद्ग्राहकमस्ति अनुपल
म्भात्, शरीरसुखादेः प्रमेयत्वेन तदग्राहकत्वमिति कथं निर्णीतिः प्रमाणमिति चेत्; न; 232
त्तोत्तरस्य अनन्तरं च क्ष्यमाणत्वात् ।


का पुनरियं सिद्धिः प्रमाणात्मनि या उपचारात् प्रवर्तत इति चेत्; अत्राह--प्रमाणस्य
इत्यादि ।


233प्रमाणस्य फलं साक्षात् सिद्धिः स्वार्थविनिश्चयः ।

प्रतिपत्तुरपेक्ष्यं यत् प्रमाणं न तु पूर्वकम् ॥ ३ ॥

स्ववृत्तिः--यथास्वं प्रमेयस्य व्यवसायो यतस्तदेव स्वतः प्रमाणम् । ज्ञानं प्रमाणम् अन्यतः
13 प्रवृत्तौ अविसंवादनियमायोगात् । तद्धेतुत्वं पुनः सन्निकर्षादिवन्न दर्शनस्य । अभ्रान्त
त्वेऽपि सर्वथा निर्णयवशात् प्रामाण्यसिद्धेः कथञ्चित् तदात्मकत्वं तत्त्वबुद्धेरभ्युपगन्त
व्यम् । अन्यथा तदफलमसाधनमसतो न विशेष्येत । अकिञ्चित्करसंशयविपर्ययव्यवच्छे
देन निर्णयात्मकत्वं नान्यथा । अनधिगतार्थाधिगन्तृ विज्ञानं प्रमाणमित्यपि केवलमनि
र्णीतार्थनिर्णीतिरभिधीयते, अन्यथा अतिप्रसङ्गात् । अधिगतमात्रस्य विसंवादकस्य साध
नान्तरापेक्ष्यगोचरस्य साधकतमत्वानुपपत्तेः । तदनधिगतस्वलक्षणाधिगतावपि दृष्टे
प्रमाणान्तराप्रवृत्तिप्रसङ्गात् । समानभूतसमारोपव्यवच्छेदे संवृत्यनुमानयोर्न कश्चिद्विशेषः ।
साक्षादनुभवादुत्पत्तिः महानपराधः । प्रतिपत्तुरुत्तरं प्रमाणं तत्साधनभावात् न तु पूर्वकम्,
अनुमानेऽप्येवं प्रसङ्गात् ।


प्रमाणस्य करणविशेषस्य यत् फलं साक्षाद् अव्यवहितं न व्यवहितं हानादिबुद्धिलक्ष
णम् । तत् किम् ? इत्यत्राह--सिद्धिः इति । सिद्धिशब्दवाच्यम् । ननु 234तत्र आचार्याणां
विप्रतिपत्तिदर्शनात् किं तत्फलमिति पृष्ट इव तद्दर्शयन्नाह--स्वार्थविनिश्चयः इति ।
स्वं च विज्ञानस्वरूपम् अर्थश्च घटादिः, यदि वा, स्वोऽर्थः स्वग्रहणयोग्यो भावः तयोः तस्य वा
विनिश्चयोऽकिञ्चित्करत्वा235दिव्यवच्छेदेन तद्ग्रहणम् । द्वितीयव्याख्यानेन घटाद्यर्थाग्राहिणीनां
सुखादिवित्तीनामपि स्वरूपार्थनिश्चायकत्वेन प्रमाणत्वमुक्तं वेदितव्यम् । ननु न नीलादिव्य
तिरेकेण अपरमस्ति236 यस्य स्वार्थविनिश्चयः फलं स्यात् । नीलादिरेवेति चेत्; ९ ख न;
237स्य स्वनिश्चऽयेपि अर्थनिश्चयाभावात् ततोऽन्यस्य अर्थस्याभावात् स्वार्थविनिश्चयः इत्य
नुपपन्नम् । 'अथ द्वितीयं व्याख्यानमाश्रित्य एतद्युक्तमित्युच्यते; न; तत्र विज्ञप्तिवादो भ
तोऽनिष्टं स्यात्, नीलादेः स्वग्राहकत्वेन ज्ञानतापत्तेः । शरीरसुखादि 238ततः परम्, 239तस्य स्वरूप
वत् नीलादावपि प्रवृत्तेरयमदोष इति चेत्; न; शरीरस्य नीलादिवत् प्रमेयत्वात्, सुखादेश्च
नीलादिग्राहकत्वानभ्युपगमात् न 240स्वार्थेत्यादि युक्तमिति चेत्; न; अहमहमिकया प्रतीय
मानायाः संवित्तेः 241ततोऽन्यस्याः अयत्माये 242 नीलादौ कः समाश्वासः सुखादौ वा ?
यत 243इदं स्यात्--नीलादि ज्ञानं प्रतिभासमानत्वात् सुखादिवत् इति । नन्वस्तु अह
म्प्रत्ययः244; स तु स्थूलोऽहं कृशोऽहम् इति शरीरसामानाधिकरण्येन प्रतीतेर्न शरीराद् भिद्यते अपि
तु तदेव,245 246तस्य च नीलाद्यग्राहकत्वमुक्तमिति चेत्; न; चार्वाकमतचर्वणे चर्वणमस्य भविष्यति
इति किमत्रैवोत्सुकिमन 247 ? भवत्वयं 248ततो भिन्नः; तथापि कथं नीलादेर्ग्राहक इति
चेत्; कथं स्वरूपस्य ? 249तत्र 250तस्य प्रतिभासाच्चेत्; नीलादेरप्यत251 एव ग्राहकोऽस्तु, तथा च
लौकिकी प्रतीतिः--नीलमहं वेद्मि पीतमहं वेद्मि इति । ततो यदुक्तम्--यदि समानकालस्य
14 नीलादेः ग्राहकः; नीलादिः 252तस्य स्यात् अविशेषात्
253इति; तन्निरस्तम् । यदि हि
समानकालत्वादेकस्य धर्मः सर्वस्य स्यात्; तर्हि चित्रे नीलाकारवत् नीलता पीताद्याकारेऽपि स्यात्
पीताद्या१० क कारता वा नीले, ततः कथं चित्रं नाम, यतः चित्रं चित्रमेव इति
भवेत् ? प्रत्यक्षबाधा अन्यत्रापि । न खलु यथा ग्राहकता अहम्प्रत्यये प्रत्यक्षतः प्रतीयते तथा तं
255256 प्रतीयते । यथा वा नीलादेर्ग्राह्यता257 तथा तं प्रति त258त्प्रत्ययस्य सा259 इति, अन्यथाऽविवा
दात् सौगतमेव सकलमिति शास्त्रप्रणयनमनर्थकम् ।


स्यान्मतम्--न नीलादितत्प्रत्ययाभ्याम् अन्या ग्राह्यता ग्राहकता च प्रतीयते; नन्वेवं
260योः स्वरूपग्रहणमपि दुर्लभम्, अत्रापि न तत्स्वरूपादन्या ग्राह्यता ग्राहकता वा, न च त261दभावे
तद्ग्रहणम् । यदि पुनः स्वप्रकाशरूपत्वात् स्वग्रहणम्; तर्हि अहम्प्रत्ययस्य परप्रकाशनरूप
त्वात् प262रग्रहणमस्तु, नीलादेश्च परप्रकाश्यरूपत्वात् परेण ग्रहणम् । न वै जैनेन स्वभावभूत
योग्यतायाः अन्या ग्राह्यता ग्राहकता वा अभ्युपगम्यते । तदुक्तम्--


*स्वहेतुजनितोऽप्यर्थः स्वयं ग्राह्यो यथा मतः ।

तथा ज्ञानं स्वहेतूत्थं स्वयं तद्ग्राहकं मतम् ॥ लघी॰ श्लो॰ ५९

एतेनेदमपि प्रत्यक्षं 263 यदुक्तं परेण--यदि नीलादेः स्वभावभूतगृहीतिकर
णात् संप्रत्ययो ग्राहकः; तर्हि तेन264265 एव जनितः स्यात् इति 266तस्य ज्ञानता ज्ञानकार्य
त्वात् उत्तरज्ञानवत् । अथ 267अर्थान्तरगृहीतिकरणाव268र्थस्य न किञ्चित् कृतमिति
न तेन269 ग्रहणम् । गृहीत्या पुनर्गृहीतिकरणे अनवस्थानम् ।
इति270 । कथम् ? स्वरूपग्रहेऽ
प्यस्य समत्वात् । तथाहि--स्वरूपस्य गृहीतिकरणाद् विज्ञानं चेद् ग्राहकम्; 271तत्तस्य जनकं स्यात्
न ग्राहकम्, न चैतद् युक्तम्, स्वात्मनि क्रियाविरोधात् । ततो भिन्नायः 272तस्याः करणा-१० ख
ददोषश्चेत्; स्वरूपस्य न किञ्चित् कृतमिति कथं तेन ग्रहणम् ? तया पुनर्गृहीतिकरणे अनवस्था
नम् । साक्षात् स्वरूपग्रहणम् अर्थेऽपि । ननु 273स्वग्रहणशक्त्या अर्थग्रहणे त274योरैक्यम् । अन्य
या चेत्; एकस्य शक्तिद्वयम्, तदपि अन्येन तद्द्वयेन वेद्यते इत्यनवस्था स्यादिति चेत्; इदमपि
वक्ष्यमाणेन चित्रैकज्ञानेन सुपरिहारमिति तिष्ठतु तावत् ।


ननु यदुक्तम्--नीलादेर्ग्रहणे अहम्प्रत्ययस्य योग्यताऽस्ति न 275तस्य तत्प्रत्ययग्रहणे इति;
15 तत्रेदं चिन्त्यते--अर्थग्रहणकार्यदर्शनात् त276त्र योग्यतास्ति इति गम्यते, न त277स्याः त278द्ग्रहणम्,
कार्यानुमेयत्वात्तस्याः । अथ त279त एव सा गम्यते इति मतिः; तर्हि ततो योग्यतासिद्धिः अतश्च
तत्सिद्धिरिति अन्योन्यसंश्रय इति चेत्; उच्यते--280था सुतीक्ष्णोऽपि असिः नात्मानं
छिनत्ति तथा ज्ञानं न स्वं परिच्छिनत्ति स्वात्मन्यर्थक्रियाविरोधात्
इत्यत्र यदुक्तम्
ज्ञानम् आत्मानं परिच्छिनत्ति तथाशक्तिः 281 नासिः छिनत्ति विपर्ययात् इति;
तत्राप्यस्य समत्वात् । तद्यथा स्वग्रहणात् तच्छक्तिसिद्धिः कार्यानुमेयत्वात्तस्याः न पुनः त282तस्तद्
ग्रहणसिद्धिः । स्वग्रहणसिद्धेः तत्सिद्धिरिति चेत्; अन्योन्यसंश्रयः--शक्तिसिद्धेस्तद्ग्रहणसिद्धिः
तस्याः तच्छक्तिसिद्धिरिति । अथ स्वग्रहणं प्रत्यक्षतः सिद्धम्, तत् कुतः इति चोद्ये स्वश
क्तितः
इत्युत्तरमुच्यते न पुनः त283स्याः तत्सिद्धिः; तदेतदन्यत्र समं न चेति 284 चिन्त्यम् ।
भवतु स्वरूपवत् नीलादेरपि तेन285 ग्रहणं को दोष इति चेत् ? अयम्-- यदवभासते११ क
तज्ज्ञानं यथा सुखादि अवभासते च नीलादिः
इत्यत्र स्वस्य स्वेनैव अवभासस्य सुखादौ
ज्ञानत्वेन व्याप्ततया दृष्टस्य नीलादावदर्शनाद् असिद्धो हेतुः स्यादिति, इतरथा स्वसंवेदनात्मकत्वेन
286स्य ज्ञानान्तरत्वात् सर्वज्ञज्ञानवत् वादिप्रतिवादिभ्यामविषयीकरणात् तौ प्रति आश्रयासिद्धता
स्यात् । अर्थान्तरस्यापि ज्ञानस्य मतः 287 तस्य288 289ताभ्यां ग्रहणं नार्थस्य सतः इति किंकृतो
विभागः ? अथ चित्रैकज्ञानमतमवलम्ब्य अहम्प्रत्ययस्य नीलाद्याकारैकत्वमिष्यते यदि;
तर्हि स्वभावादिभिन्नोऽप्यहम्प्रत्ययः कदाचिद् योग्यतया नीलादिना एकत्वमुपयाति त290यैव तद्
ग्राहकत्वमुपयाति तयैव तद्ग्राहकः स्यात् । तदनभ्युपगमे पुनरिदं भवेत् श्रोत्रियो291 न चाण्डल्या
दर्शनमिच्छामि स्पर्शं त्विच्छामि
इति ।


16

स्यान्मतम्--तत्प्रत्ययेन नीलादभिन्नस्य ग्रहणेऽपि कथम् अर्थता गम्यते ? प्र292तिभासादिति
चेत्; स्वप्नादिदृष्टानामपि स्यादिति त293ज्ज्ञानमपि प्रमाणमेव । तथा च किं प्रमाणलक्षण
प्रणयनेन व्यवच्छेद्याभावात् । दुष्टकारणजनितदर्शनविषयत्वान्नेति चेत्; दर्शनं तत्तथेति कुतः ?
अर्थ294विषयत्वात्; अन्योऽन्यसंश्रयः--सिद्धे हि तथादर्शने तद्विषयस्य अनर्थत्वम्, अतः
तथा दर्शनमिति । बाधितप्रत्ययगोचरत्वान्ने295त्यपि नोत्तं 296297स्य हि बाधनं नोदयकाले
स्वरूपापहारः; तदा तत्प्रतीतेः । अन्यदा तु नश्वरत्वेन स्वयमेव नास्ति केन तद्बाधनम् ? दैवरक्ता298
हि किंशुकाः, न तत्र नः प्रयासः । ना299पि विषयापहारः; तस्यापि ११ ख दर्शनात् । न च
विषयापहारः प्रमाणधर्मः अपि तु नराधिपस्य । अथ न विषयस्यापहारो बाधनम्, अपि तु त301स्य
सतः प्रतिभासज्ञापनम्302; तदपि न सुन्दरम्; यतो यद्यसौ असन्; कथं प्रतिभासः खरशृङ्गवत् ?
अथ प्रतिभासः; कथमसन् ? जाग्रद्दृष्टो घटादिरपि त303थैव स्यात् । धिङ् मिथ्यैतद् वितर्कितं नायं
घटादिः किन्त्वन्यदेतत्
इति प्रत्ययानुत्पत्तेर्नेति304 चेत्; ननु मरीचिकायां जलदपिनो 305 झटिति मरणे देशान्तरगमने वास प्रत्ययो जायते इति तज्जलं सत्यं स्यात् । सत्यपि
च अर्थविशेषे क्वचित् स प्रत्ययो दृष्टः । अयमपि प्रत्ययो यद्यसदर्थः; कथमन्यस्य असदर्थतां ज्ञाप
यति, अतिप्रसङ्गात् । सदर्थश्चेत्; पूर्ववत् प्रसङ्गोऽनवस्था च । किञ्च, अयं प्रत्ययः पूर्वप्रत्ययसमा
नविषयश्चेत्; न तस्य कथञ्चिदपि बाधकः, अन्यथा सर्वेषाम् एकार्थज्ञानानामन्योन्यं बाध्यबाधक
भावे306भवेत् । भिन्नविषयश्चेत्; सुतरां न तस्य बाधकः, इतरथा घटज्ञानं पटज्ञानस्य
बाधकमस्तु । नेति प्रत्ययानुत्पत्तेर्नेति चेत्; स एव प्रत्ययः कुतो न जायते ? एकाधिकरणत्वा
भावात्307; रजतशुक्तिकाप्रत्ययोः कथमेकाधिकरणत्वम्, प्रमाणाभावात् ? पूर्वोत्तरप्रत्ययाभ्यां
308दप्रतीतेः इति क्षणभङ्गे चर्चितमेतत् । तन्न बाध्यमानज्ञानगोचरत्वात् स्वप्नदृष्टनीलाद्यनर्थत्वम् ।
विसंवादिदर्शनगोचरत्वादिति चेत्; न दृष्टार्थप्राप्तिः अविसंवादः, सा स्वप्नेऽपि दृश्यते । अथ
असौ309 अर्थ एव न भवति अनर्थक्रियाकारित्वात्; अर्थक्रियापि तत्र दृश्यते १२ क जलादि
कार्यस्य स्नानादेर्दर्शनात् । अथ जाग्रतात् दर्शनात्310 सा अर्थक्रियैव न भवति; तर्हि 311अन्यापि न
स्यात् सुप्तेनाऽदर्शनात् । किञ्च, यदि अर्थक्रिया असती; कथम् अतोऽन्यस्य सत्त्वम् ? सती
17 स्वतश्चेत्; भावोऽपि तथैव सन्निति किं तदपेक्षणेन ? अन्यतश्चेत्; अनवस्था स्यात् । ततो
यत्किञ्चिदेतदिति चेत्; अत्र प्रतिविधीयते--


जाग्रद्दशावत्; स्वप्नेऽपि बहिरर्थोऽस्तु, किं वा स्वप्नदशावत् अन्यदापि समान् दुभय तु सदेहः
312, सर्वविकल्पातीतता वा यथा स्यादिति जाग्रत्-स्वप्नदशयोः अवि
शेषचोदनेयम् ? तत्र प्रथमपक्षे स्वप्नदशायामपि बहिरर्थसिद्धेः 313तज्ज्ञानमपि प्रमाणमिति 314तल्लक्षण
प्रणयनमयुक्तं व्यवच्छेद्याभावादिति । अस्मिन् मते को दोषः ? नापरः प्रमाणप्रमेयाऽनिषेधात् ।
परस्य मते को दोषः ? सकलस्वमतविलोपात् विज्ञप्तिमात्रादेः असिद्धेः । किञ्च, स्वप्नादिज्ञानवद्
ईश्वराद्यनुमानादिकमपि स्वप्रतिभासिनाऽर्थेन अर्थवदिति 315तन्निषेधवचनं प्र ज्ञा क र स्य गुप्तवि
गोपकम् । अथ दुष्टलिङ्गादिकारणजनितत्वात् 316तन्निर्विषयम्; पश्यत अस्य वाच्यं ध्यं
317 स्वयमेव स्वस्वप्नादिज्ञाने दुष्टकारणारब्धत्वं निराकृत्य 318अत्र अभ्युपगच्छतः ।


एतेन इदमपि प्रत्युक्तम् तौन 319 न तदनुमानाद्यर्थवत् स्वपरिच्छिन्ना
दन्यस्य प्रापकत्वात्
इति; स्वप्नादावपि तथा प्रसङ्गात् । तन्न प्र ज्ञा क र स्य किञ्चिद्
अनर्थज्ञानम् । तदुक्तम्--


*बहिरङ्गार्थतैकान्ते प्रमाणाभासनिह्नवात् ।

सर्वेषामर्थसिद्धिः १२ ख स्यात् विरुद्धार्थाभिधायिनाम् ॥

आप्तमी॰ श्लो॰ ८१ इति ।


अपसिद्धान्तश्चास्य निग्रहस्थानं स्यात् । अथ मदीयोऽयं सिद्धान्त इति न दोषः; न;
अस्य मीमांसकसिद्धान्तस्य हि सर्वं सालम्बनं ज्ञानम् इति मतम् । अयं तु विशेषः--क्वचिल्लौ
किकः क्वचिदलौकिकोऽर्थ आलम्बनम्
इत्येके । सर्वत्र लौकिको आलोवा 320 कस्मा
न्नेति चेत् ? अथ 321परस्य मरीचिकाजलम् अन्यजलवत् कस्मान्न स्नानादिकृत् ? स्वकारणात् त
थोत्पत्तेरिति चेत्; किं पुनरस्य कारणम् ? अदृढवासनेति चेत्; सर्वत्र एकरूपा वासना अ
न्यद्वा कुतो न ? तथाऽप्रतीतेरिति चेत्; अत एव तर्हि न सर्वो लौकिकोऽलौकिको वाऽर्थः322
अथ जाग्रत्क्रियासमत्वात् स्वप्नार्थक्रिया लौकिकी, तत्कार्यर्थोऽपि तथाविध323 एवेति मतिः; तर्हि
यत् सत् तत्सर्वं क्षणिकं यथा घटः, संश्च शब्दः हेतुबि॰ पृ॰ ५५ इति क्षणिकत्व
प्रतिपत्त्यर्थक्रियासमत्वात् नित्येश्वरादिप्रतिपत्तिरप्यर्थक्रिया इति तत्कारण324कलापोऽप्यर्थः स्यात् ।
यदि पुनः 325इयमर्थक्रिया न भवति; स्वप्नेऽपि न स्यात् । तथा जाग्रद्दशाभाविन्यपि न स्यादिति
चेत्; क्षणिकादिसिद्धिरपि न स्यादिति सर्वाऽविशेषचोदना ।


स्वप्ने 326विपरीतख्यातिः अन्यदेशादिस्थस्य अन्यदेशादितया प्रतिभासनात् इत्यपरे327 । सर्वत्र
सैव कुतो नेति चेत् ? न; तथाऽप्रतीतेः । नहि यथा लोके आदित्योऽन्यदेशोऽपि प्रातः पर्वत
18 सँल्लग्नतयेव प्रतिभा१३ क तीति प्रतिपद्यते, तथा पर्वतोऽप्यन्यदेशस्तद्देशतया328 प्रतिभातीति
प्रतिपद्यते 329 इति । यदि पुनरयं निर्बन्धः सर्वत्र सैवास्तु इति; तर्हि यथा अनुमानस्य
अस्पष्टः सामान्याकारो बाह्ये स्वलक्षण आरोपात् प्रतिभाति, अन्यथा 330ततः तत्र331 प्रवृत्तिर्न स्यात्,
तथा सर्वत्र ज्ञाने स्वसंवेदनरूपता अन्यस्य तत्र आरोपिता प्रतिभाति 332अन्यत्र अरोपिता प्रति
भाति अन्यत्रापि अन्यस्य इत्यनवस्था । असत्त्वव्याति333रित्यन्ये; तदनन्तरं
निरूपयिष्यते । तन्न प्रथमपक्षः ।


334द्वितीयेऽपि स्वप्ने बहिरर्थाभावमुपलभ्य 335अन्यत्र तदभावसाधने इदमनुमानमाश्रितं स्यात्—
निरालम्बनाः सर्वप्रत्ययाः प्रत्ययत्वात् स्वप्नप्रत्ययवत् प्र॰ वार्तिकाल॰ ३ । ३३१
इति । तत्रेदं चिन्त्यते--प्रत्ययत्वं यदि साकल्येन स्वसाध्येन व्याप्तं न; कथमतः साध्यसिद्धिः अ
तिप्रसङ्गात् ? व्याप्तं चेत्; कथमप्रतीतं तत्तथा336 ? तत्प्रतीतिश्चेत् निरालम्बना; स एव दोषः,
337अन्यथा अनयैव हेतोर्व्यमिचारः । एतेन अनुमानमपि चिन्तितम् । अथ नानुमानं सर्वप्रत्ययलंब
नत्व338विषयत्वात् प्रमाणम् अपि तु समारोपव्यवच्छेदात्; भवेदेवं यदि
अन्यतः प्रमाणात् 339तत् प्रतिपन्नं स्यात्, न चैवमिति निरूपयिष्यते । अपि च, यथा सौगतः
340स्वप्ननिदर्शनेन न341 सर्वत्र बहिरर्थाभावं साधयति तथा 342अन्योऽपि यदि ग्राह्याकारनिदर्शनेन
संवेदनाभावं साधयेत् कथं संवेदनमात्रसिद्धिः यतस्तत्र सौगतस्य आस्था स्यात् ?


अथ तदपि तथास्तु; तथाहि--343यद्विसदर्शन १३ ख दशावसेयं न तत् परमार्थसत् यथा
कामलिना उपलब्धमिन्दुद्वयम्, विसदर्शनावसेयं च संवित्त्यादीति । अत्रापि परमार्थसत्त्वादन्यत्,
तदभावमात्रं वा साध्येत ? तत्र द्वितीयविकल्पस्य प्रथमचतुर्थष्यवि344कल्पे चर्चा भविष्यति ।
प्रथमविकल्पे तु पूर्ववद् दोषः । 345न च सर्वविभ्रमे विभ्रमसिद्धिः अतिप्रसङ्गात् ।


ननुपरमार्थतः कस्यचित् केनचिद् व्याप्तिरिष्यते, नापि कुतश्चित् किञ्चित् साध्यते, अपि
तु यथा व्यवहारेण बहिरर्थवादिना 346एकत्र अग्नेर्धूमदर्शनात् सर्वत्र सर्वदा 347तत एव स नान्यतः, धूमदर्श
नाच्च अग्निरनुमीयते तथा प्रकृतमन्येन अनुष्ठीयत इति चेत्; उक्तमत्र सर्वेषामर्थसिद्धिः
आप्तमी॰ श्लो॰ ८१ स्यादिति । शक्यं हि 348तैरपि वक्तुम्--नास्माभिः केनचित् कस्यचित्
व्याप्तिः साध्यते, किन्तु घटादौ बुद्धिमत्कारणत्वादिना कार्यत्वादेः सहभावदर्शनात्, 349अन्यत्र
तद्दर्शनात् साध्यमनुमीयते ।
तथा च पक्षधर्मः हेतुबि॰ श्लो॰ १350त्यादि लिङ्गलक्षण
मवाच्यम् निवर्त्याभावात् । अथ तथा पारमार्थिकी साध्यसिद्धिर्न स्यादिति मतिः; सा अन्य
19 त्रापि समाना । यदि तत्र सा न पारमार्थिकी; किं तर्हि पारमार्थिकम् ? संवेदनाद्वैतं चेत्;
न; द्वयप्रतिभासप्रतिपादनात् । तन्नायमपि पक्षो युक्तः ।


तृतीयविकल्पे नैकान्तेन अर्थनिषेधः, पाक्षिकस्य तद्भावस्य अनिषेधात् । नहि स्थाणुर्वाऽ
यं पुरुषो वा
इति सन्देहे १४ क पुरुषो न भवति इति निश्चयोऽस्ति, विरोधात् । ननु
भवत्वेवम्; तथापि किं तेन351 अप्रवृत्तिहेतुना ? प्रवृत्त्यर्थ हि बहिरर्थ इष्यते इति चेत्; कथं भव
तः संवित्तिमात्रे प्रवृत्तिः ? बहिरर्थसन्देहे 352तत्रापि सन्देहात् । कथं वा अर्थे सन्देहः ? तत्प्रतिभा
सस्य 353तदभावेऽपि स्वप्नादौ दर्शनादिति चेत्; एवं 354तदा 355तदभाव एव युक्तो न सन्देहः, कथ
मन्यथा किञ्चित् प्रत्यक्षं स्वसंवेदनं निर्विकल्पस्वोप 356लभ्य सर्वत्र तथैव स्यात् ? अत्रापि
सन्देह एव युक्तः । कुतो वा स्वप्ने बहिरर्थाभावसिद्धिः ? स्वयमनभ्युपगमात्, बाध्यबाधकभाव
निषेधविरोधात् । पराभ्युपगमादिति चेत्; न; अतिप्रसङ्गात् । यथैव हि परेण 357तत्र 358तस्य
असत्त्वमभ्युपगतं तथा क्षणिकत्वप्रकारादेरपि359 इति सर्वत्र क्षणिकत्वादावपि सन्देहः स्यात् । अथ
स्वप्नेऽपि सन्देहः; स कुतो जातः ? तददर्शनादिति चेत्; कथमदर्शनम् ? दर्शने अतिप्रसङ्गात् ।
तस्य तद्व्यभिचाराच्चेत्; किं पुनरिदमुभयत्र दृष्टं येनैवम् ? तथा चेत्; नैकान्तेन अर्थाभावः,
तन्नायमपि विकल्पो युक्तः ।


चतुर्थविकल्पेऽपि यथा बहिः सदसत्त्वविकल्पातीतता तथा वेदनेऽपि स्वपरवेदनविकल्पा
तीतता स्यादिति न किञ्चित् स्यात् । अथ परनिरपेक्षस्वसंवेदनस्य वेदनस्य प्रतीतेर्नायं दोषः;
कथमदोषः, यतः स्वसंवेदनेऽपि सदसत्त्वविकल्पाती १४ ख ततायाम् अर्थवन्न 360तत्सिद्धिः,
इतरथा अर्थानिषेध 361 । किञ्च, अन्यस्मिन् पक्षे प्रमाणमविसंवादि ज्ञानम् इत्यादि
व्यवहारेण अज्ञातार्थप्रकाशो वा इति परमार्थेन प्रमाणलक्षणम्
प्र॰ वार्तिकाल॰ इति362
विहन्यते, उभयत्राविशेषात् । तदयम्363 अन्तर्बहिरविशेषं ब्रुवन्नेव स्वसंवेदनाद्वैतं वदतीति कथं
स्वस्थः ? अथ स्वसंवेदने 364 परमार्थसदिष्यते बहिरर्थपरिहारेण; तर्हि 365अन्येनापि स्वप्नदृष्टपरि
हारेण 366अन्यदा दृष्टः तथा सन्निष्यतामिति स्थितम्--अर्थविनिश्चयः प्रमाणस्य फलम् इति ।
स्वनिश्चयः पुनः अङ्गीकृतात्मसंवित्तेः सिद्धिवि॰ १ । १९ इत्यादौ सिद्धं यन्न
परापेक्षम्
सिद्धिवि॰ १ । २४ इत्यादौ च निरूपयिष्यते ।


भवत्वेवं ततः किं स्यादिति चेत् ? अत्राह--प्रतिपत्तुः इत्यादि । स्वं च अर्थं च प्रतिपद्यते
विषयीकरोतीति प्रतिपत्ता पुरुषः तस्य अपेक्ष्यं तेन अपेक्ष्यते स्वपरप्रतिपत्तौ यत् ज्ञानं तदेव
प्रमाणम् । ननु 367
नैव पूर्वकं तत्कारणं निर्विकल्पकदर्शनं सन्निकर्षादि वा, पूर्वशब्दस्य
कारणवाचित्वात् । नहि अन्यतः तत्फलनिष्पत्तौ अन्यत् प्रमाणम्, अतिप्रसङ्गात् । 368ननु सुखादि
20 नीलादिज्ञानव्यक्तिव्यतिरेकेण नापरः प्रतिपत्ता अस्ति, तत् कथमुच्यते प्रतिपत्तुः इति चेत् ?
न; जीवसिद्धिप्रकरणे अस्य उत्तरनिरूपणं भविष्यति किमौत्सुक्येन ?


कारिकायाः पूर्वार्धस्य सुगमत्वात् १५ क उत्तरार्धस्य सयुक्तिकमर्थं दर्शयन्नाह—
यथास्वम् इत्यादि । अस्यायमर्थः--प्रमेयस्य घटादेः व्यवसायो विनिश्चयः नाधिग
तिमात्रम् दृष्टे प्रमाणान्तरावृत्तिप्रसङ्गात् । यतो यदाश्रित्य यस्माद्वा भवति इत्यध्याहारः
तदेव ना369न्यत् प्रमाणम् । पक्षधर्मतानिश्चयः क्वचित् प्रत्यक्षतः370त्यत्र यदुक्तं ध र्मो त्त
रे ण--371त्रैव जनयेदेनां372 तत्रैवास्य373 प्रमाणता इति तद् व्येति, एतद् एवकारेण दर्शयन्ति ।
न हि प्रमेयव्यवसायः तदाश्रित्य त374तो वा भवति इति, यद्वक्ष्यते अत्रैव375--अभेदात् सदृशस्मृ
त्याम्
सिद्धिवि॰ १ । ७ इत्यादि । भवतु वा निर्विकल्पदर्शनात् त376द्व्यवसायः, तथापि तन्न
प्रमाणमिति दर्शयन्नाह--स्वतः इति । स्वतः स्वात्मनो न परम्परया विकल्पजननात्, उक्तदोषात्
*तस्याश्चेद् सिद्धिवि॰ १ । २ इत्यादिकाद् वक्ष्यमाणकाच्च अनुमानेऽप्येवं प्रस
ङ्गात्
इत्यस्मात् । एतेन सन्निकर्षादिरपि चिन्तितः । यदि तर्हि स्वतो यतः प्रमेयव्यवसायः
तत् प्रमाणम्, प377रोक्ष-ज्ञानानुर378प्रत्यक्ष-प्रधानपरिणामज्ञानतः स्वतः सदेव प्रमाणं
स्यात्; इत्यत्राह--यथास्वम् इति । स्वशब्दोऽयं ज्ञानात्मवाचक इति, तस्य अनतिक्रमेण
यथास्वं स्वव्यवसायेन सह तद्व्यवसायो यत इत्यर्थः ।


379अन्ये तु अन्यता380वतार्य एतद् व्याचक्षते--यदि 381तद्व्यवसायो यतो भवति
तदेव प्रमाणम् सर्वज्ञज्ञानमेव प्रमाणं स्यादिति; अत्राह--यथास्वम् १५ ख इति ।
यद्यस्य ज्ञानस्य स्वग्रहणयोग्यं तस्य अनतिक्रमेण इति । तत्र प्रमातुं शक्यं योग्यं स्वप्रमे
यम्
इत्यनेन गतेः । ननु मा भूत् तज्ज्ञानं प्रमाणम्, रस्यात् 382 तारानिकरमिव
चैतन्यस्वभावे पुंसि प्रमेयस्य अवभासनात् स383 एव प्रमाणमिति चेत्; अत्राह--ज्ञानम् इति ।
मतिश्रुतावधिमनःपर्ययकेवलानि ज्ञानम् त॰ सू॰ १ । ९ तत्प्रमाणम् न पुमान्
तस्य प्रमातृत्वात् नित्यत्वप्रतिषेधाच्च । ननु त384द्व्यवसायफलं न ज्ञानं प्रमाणम् अपि तु
385स्वकारणार्थाकारमिति चेत्; न; जलाद्यारोपहेतोर्मरीचिकादिदर्शनस्यापि प्रमाणतापत्तेः, त386तोऽपि
387सम्यग्ज्ञानपूर्विका सकलपुरुषार्थसिद्धिः स्यादिति मरीचिकाद्यर्थिनो...दिप्रसर्पणादिति गानु
सरणमयुक्तं स्यात् 388389 चैवं तदनुसरणमयुक्तम् स्यात् । न चैवं तदनुसरणदर्शनात् ।
अथ जलादिज्ञानमेव नापरं तत्समानकालभावि पूर्वकालभावि वा मरीचिकादिदर्शनम्; किं
21 पुनरिदं प्रमादभाषितम्--नो चेद् भ्रान्तिनिमित्तेन प्र॰ वा॰ ३ । ४३390त्यादि । तथा
नीलादिविकल्पात् त्रत्राक् 391 नापि सह निरंशदर्शनमिति इदमपि प्रपादप्रभाषितम्—
मनसोर्युगपद्वृत्तेः प्र॰ वा॰ २ । १३३392त्यादि । भवतु तद्धेतुस 393द्दर्शनम्, न तु
तत्प्रमाणम् अप्रवृत्तिहेतुत्वात्, अन्यत् प्रमाणं विपर्यायादिति चेत्; अत्राह--अन्यत इत्यादि ।
स्वार्थविनिश्चयफलाद् यदन्यत् परस्तं ततो 394 या प्रवृत्तिसत्यां 395 १६ क
विषयभूतायां योऽविसंवादोऽविप्रतिपत्तिः तस्य नियमेन अवश्यंभावेन अयोगात् । न हि
लौकिकाः प्रतिपरमाणुभिन्ननिरंशदर्शनाद् वयं प्रवृत्ताः प्रवर्त्तामहे प्रवर्तिष्यामहे इति प्रतिपद्यन्ते ।
अभ्यासावस्थायामपि स्थूलस्यैकस्य तद्ग्रहणावयवव्यापिनो जलादेर्दर्शनात् । ननु तत्फलादपि396
दृश्यमाने प्रवृत्तिः; अनुभूयमानत्वात्, नापि भाविनि अप्रतिभासनादिति चेत्; न; पशूनामपि
तृणादौ प्रवृत्तिदर्शनात् । निरूपयिष्यते चैतत् व्यवसायात्मनो दृष्टेः सिद्धिवि॰ १ । ५
इत्यादौ । भवतु श 397 दर्शनात् प्रवृत्तिः तथापि तन्न प्रमाणम्; अन्यथा मरीचिकाजलज्ञान
मपि स्यात् । अविसंवादि प्रमाणमिति चेत्; अत्राह--अन्यत इत्यादि । अन्यतोऽविकल्पद
र्शनात् प्रवृत्तौ सत्यां योऽविसंवादः दृष्टार्थप्राप्तिः तस्य नियमेन अयोगो निरंशक्षणिक
परमाणुदर्शनात् स्थूलैकस्थिरप्राप्तेः । ननु व्यवसायफलादपि प्रवृत्तौ न दृष्टस्य प्राप्तिरस्ति त398त्काले
399दत्ययादिति चेत्; न; चित्रैकज्ञानवत् दृश्यप्राप्ययोः कथञ्चिदेकत्वस्याविरोधादिति । करिष्यते
अत्र...स्नः 400 पश्यन् स्वलक्षणान्येकम् सिद्धिवि॰ १ । १० इत्यादौ ।


ननु माभूत् क्षणिकनिरंशत्वादौ त401दविसंवादः, दृश्य-प्राप्ययोः एकत्वारोप्य402न्नीलादौ
स्यादिति चेत्; अत्राह--अन्यत इत्यादि । अन्यत इति व्याख्यातार्थम्, प्रवृत्तौ इति च403, अनन्त
रम् अविसंवादस्य यो नियमः १६ ख सर्वत्र दर्शनगोचरे भावः तस्याऽयोगात् नीलादौ योगो
न पूर्वापरक्षणविवेके । व्यवहारिणं प्रति तत्रापि तदविसंवादेन अभ्यासे प्रत्यक्षं भाविनि प्रमाणं
भवेत्, अन्यथा प्रतिपन्नव्यभिचारस्य शङ्खे पीतज्ञानं प्राप्ये संस्थाने प्रमाणमिति व्यर्थकमिदम
नुमानं नाम--एवं प्रतिभासो यः प्र॰ वार्तिकाल॰ पृ॰ ५404त्यादि । भवतु तत्रैवः405 तद्योगः406 तत्रैव प्रमाणं स्यात् नान्यत्र इत्येकस्य प्रमाणेतरभावः । व्यवहारतः सोऽप्यस्तु
इति चेत्; किं पुनरिदं व्यवहारादन्यत्र चिन्तितम्--प्रत्यक्षं कल्पनापोढम् प्र॰ वा॰ २ ।
१२३
407त्यादि । तथा चेत्; 408चातुर्विध्यकथनमयुक्तम् परमार्थतःतदसंभवात् । अतोऽयुक्तमेतत्—
22 न ह्या409भ्यामर्थं परिच्छिद्य प्रवर्तमानोऽर्थक्रियायां विसंवाद्यते इति । अभ्यासे भावि
नि प्रवर्त्तकत्वात् प्रत्यक्षं प्रमाणम्
410ति च । ननु मा भूत् दर्शनं साक्षात् प्रवर्तकम् अविसंवा
दकं वा, तथापि त411थाविधविकल्पजननात् त412दपि तथाविधमिति चेत्; अत्राह--तद्धेतुत्वम्
इत्यादि । ननु च तस्याश्चेत् जननात् सिद्धिवि॰ १ । २ इत्यादिना413 प्रमेयव्यव
सायः स्वतो यतः तदेव ज्ञानम्
सिद्धिवि॰ १ । ४ इत्यन्तेन414 अयमर्थ उक्तः, तत् किमनेनेति
चेत्; न; समाध्यन्तरप्रतिपादनार्थत्वाददामः 415 । तथाहि--तस्य यथोक्तस्य विकल्पस्य
हेतुः कारणम् तस्य भावः तत्त्वं दर्शनस्य यन्नत् 416 सन्निकर्ष आदिर्यस्य इन्द्रि
यादेः तस्येव तद्वत् । एतदुक्तं भवति--यथा चक्षुःश्रोत्रमनसाम् १७ क 417प्राप्यकारित्वात् त
ज्ज्ञानं प्रति सन्निकर्षस्य सत्यस्वप्नज्ञानं प्रति इन्द्रियस्य अकारणत्वात् न तत्र सन्निकर्षादेर्मानता418
अपि तु ज्ञानस्यैव तथा यत् सत् तत्सर्वं क्षणिकम् इति व्याप्तिज्ञानं प्रति न दर्शनस्य कारणता
419त्र त420दभावात् न तत्र 421तत् प्रमाणम् अपि तु विकल्प एव । अथ दर्शनमस्ति422; तर्हि ततः सर्वस्य
दर्शनात् सर्वस्य सर्वदर्शित्वमनुपायसिद्धम्, कथमन्यथा त423स्य क्षणिकत्वेन व्यप्तिप्रतिपत्तिः--द्विष्ठ
सम्बन्धप्रतिपत्तिः
प्र॰ वार्तिकाल॰ २ । १424त्यादि वचनात् । प्रादेशिकी न च व्याप्तिः ।
अथेयमपि नेष्यते; कथमनुमा नं यतो द्वे प्रमाणे स्याताम् ? व्यवहारेण तदङ्गीकरणात् अशे425
षश्चेत्; तर्हि व्यवहारेण उपगतेर्यथा प्राप्ये भाविनि प्रमाणमुपगतं तथा त426त्र अभ्युपगन्तव्यं
तदर्था 427मार्गभावना व्यर्था, तद्भावनाया अनुमानरूपायाः तस्य प्रागपि भावात् । संवृतिविक
ल्पश्चेत्; सिद्धं सन्निकर्षादिवत् तस्य तं प्रत्यव्यापिहेतुत्वम् । ततो यथा सन्निकर्षादिपरिहा
रेण सर्वत्र दर्शना428मेव अतः प्रमाणं तथा अत एव दर्शनपरिहारेण विकल्प एव प्रमाणम् ।


अथवा यदुक्तं प्र ज्ञा क रे ण--भाविनि प्रवर्त्तकत्वात् साक्षाद् अभ्यासे दर्शनं
प्रमाणम् अनभ्यासे तत्रानुमानजननात्
429ति; तत्राह--तद्धेतुत्वं पुनः इत्यादि । तस्य
अनुमानविकल्पस्य हेतोर्दर्शनस्य भावः तत्त्वं पुनः इति उभयत्र पक्षान्तरसमुच्चये सन्निक
र्षादेरिव तद्वदिति । यथैव हि इन्द्रियार्थसन्निकर्षादिः १७ ख अनुमानस्य न हेतुः तथा दर्श
नमपि । यदि पुनरचेतनत्वात् नेन्द्रियादि तद्धेतुः; कथं दर्शनस्य चेतनत्वम् ? स्वतः प्रतिभासना
च्चेत्; न; शरीरसुखादिनीलादिव्यतिरेकेण प430रेण तत्प्रतिभासानभ्युपगमात्, शरीरादिप्रति
भासस्य विकल्पकत्वमिति निरूपयिष्यते इति परस्य पाशारज्जू । अथ 431अन्यस्य अभ्युपगमाच्चे432
23 तनत्वम्; सुखादेः अचेतनत्वं तथा स्यात् सांख्येन तदभ्युपगमात् । तन्न दर्शनं सन्निकर्षादिवत्
अनुमानविकल्पकारणमिति स्थितम् ।


तत्तु 433 अभ्रान्तत्वात् सर्वत्र दर्शनमेव प्रमाणं न विकल्पो विपर्ययादिति चेत्; अत्रा
ह--अभ्रान्तत्वेऽपि इत्यादि । अस्यायमर्थः--तद्दर्शनं स्थूलस्तम्भाद्याकारेण अभ्रान्तं चेत्;
दूरस्थितविरलकेशेषु स्थूलप्रतिभासेन व्यभिचारात् न तथा प्रतिभासाद् अवयविसिद्धिः
435इत्यस्य सर्वमालम्बने भ्रान्तम् प्र॰ वार्तिकाल॰ ३ । १९६ इत्यस्य च व्याघातः ।
कल्पनापोढत्वं च दुर्लभं 436तस्य सविकल्पकत्वात् । अथ तेन437 भ्रान्तम्; अन्यस्य अभ्रान्तस्य
अभावाद् 438अभ्रान्तमिति अनर्थकत्वान्न वाच्यम् । अथ व्यवहारेण 439तदुक्तम्; विषयस्तस्य
वक्तव्यः ? जायत्संभादिः 440 इति चेत्; उक्तमत्र--कल्पनापोढत्वं 441दुर्लभमिति परस्य
निकटे 442सङ्कटप्रवेशः इति स न लभते तत्त्वविवेचनविकटाटवीम् । 443यदि तु तन्न
तस्य तत्राभ्रान्तत्वं नाम । अभ्युपगम्य उच्यते अभ्रान्तत्वेऽपि, अन्यतः इत्यनेन १८ क
लब्धता444परिणामेन सम्बन्धाद् अन्यस्य इति गम्यते । कथं तत्का 445 इत्यत्राह--सर्वथा
इति । नीलादिप्रकारेणेव पूर्वोत्तरक्षणविवेकादिप्रकारेणापि सर्वथा । तस्मिन् सति किम् ? इत्यत्राह
--निर्णयवशात् प्रामाण्यसिद्धेः अन्यस्य प्रमाणत्वस्थितेः कारणात् तत्त्वा446त्मकत्वं निर्णया
त्मकत्वं तत्त्वसिद्धेः अभ्रान्तबुद्धेः प्रमाणस्य अभ्युपगन्तव्यम् । कथं प्रामाण्यसिद्धिः ? इत्य
त्राह--कथञ्चित् इति । कथञ्चित् नीलादिप्रकारेण न प्रतिक्षणपरिणामादिप्रकारेण, तत्र व्यव
हारिणो दर्शनव्यवहाराभावात् । न दि 447 स यस्यन् 448 प्रतिक्षणपरिणामादिकं पश्या
मि
इति मन्यते, त449दनुमानवैक450ल्यप्राप्तेः, तद्व्यवहारसमारोपयोर्विरोधात् न 451तद्व्यवच्छे
दकरणात् तदर्थवत् । अथ व्यवहारमुल्लङ्घ्य तेनापि प्रकारेण तत्सिद्धिरिष्यते गतमिदम्--प्रा
माण्यं व्यवहारेण
प्र॰ वा॰ १ । ४ इत्यादि । न च परमार्थप्रतिभासाद्वैते क्षणभङ्गादिसंभवः;
सर्वविकल्पातीतत्वेन त452दभ्युपगमात् । ततो यथा व्यवहारेण क्षणभङ्गाद453भ्युपगमः तथा 454ते
नैव तत्र दर्शनम455 प्रमाणयितव्यमिति साधूक्तम्--कथञ्चिदिति । नन्वयमर्थः अन्यतः
त्यादेः तृतीयव्याख्यानेन दर्शितः तत् किमनेनेति चेत्; न; पूर्वं प्रमाणमविसंवादि प्र॰
वा॰ १ । १
इत्यस्यापेक्षया, इदानीं कल्पनापोढमभ्रान्तम् न्यायबि॰ १ । ४ इत्यस्या
पेक्षया इत्यदोषः । उभयमप्येतत् निर्णये नान्यत्र इति मन्यते ।


ननु यदि तत्त्वसिद्धिः456457दात्मकत्वं न स्यात् को दोष इति चेत् ? अत्राह--अभ्यसे
24 458
त्यादि । तत्त्वसिद्धेर्निर्णयात्मकत्वप्रकाराद् अन्येन अविकल्पकत्वप्रकारेण अन्यथा तद
फलम् अन्यतः
इत्येतदनुवर्त्तमानं वात्त459मिह संपद्यते । तदन्यदफलम् अविद्यमान
प्रयोजनं क्वचिदनुपयोगात् । अत एव असाधनमप्रमाणम् । एतदपि कुतः ? इत्यत्राह--असतः
खरविषाणादे र्न विशेष्येत न भिद्येत यतोऽन्यथा इत्यनेन सम्बन्धः ।


ननु निर्णयात्मकत्वं नाम स्वार्थ ग्रहणात्मकत्वमिति चेत्, तदसंभाव्यमिति चेत्; अत्राह—
अकिञ्चित्कर इत्यादि । न किञ्चित् करोतीति अकिञ्चित्करम् स्वापादिदर्शनं सिद्धं यन्न परा
पेक्ष्यम्
सिद्धिवि॰ १ । २४ इत्यादि कारिकावृत्तौ प्रतिपादयिष्यमाणं संशयः स्थाणुर्वा पुरुषो
वेति ज्ञानम्, विपर्ययः स्थाणौ पुरुष इति 461तत्र वा स्थाणुरिति वेदनं तौ करोतीति इति462
तत्करम्, पुनर्द्वन्द्वः तयोः व्यवच्छेदेन निरासेन निर्णयात्मकत्वम् नान्यथा ।


ननु तद्व्यवच्छेदो नीलाद्यपेक्षायाम् अविकल्पदर्शनेऽप्यस्तीति चेत्; अत्राह--अन्यथा
इत्यादि । येन प्रकारेण नीलादौ 463तद्व्यवच्छेद इति भावः, ततः 464तदात्मकत्वं तत्त्वसिद्धेः
अभ्युपगन्तव्यम्
इति स्थितम् ।


ननु च अज्ञातार्थप्रकाशो वा प्रमाणम् प्र॰ वा॰ १ । ५ इति वचनात् अगृहीत
ग्रहणाद् दर्शनमेव प्रमाणं न विकल्पो 465विपर्ययादिति चेत्; अत्राह--466नधिगत इत्यादि । प्रमा
णान्तरेण अप्रकाशि१९ क तोऽनधिगतः स चासौ अर्थश्च तस्य अधिगन्तृ परिच्छेदकं यद्
विज्ञानं तत् प्रमाणम् इत्यपि एवमपि न केवलं पूर्वप्रकारेण केवलम् अन्यानपेक्षा अनिर्णीता
र्थस्य निर्णीतिः अभिधीयते ।
अस्यानभ्युपगमे दूषणमाह--अन्यथा इत्यादि । उक्तप्रकाराद्
अन्यप्रकारेण अन्यथा अनधिगतार्थाधिगन्तृ दर्शनमेव प्रमाणमित्यभिधीयते न निर्णयज्ञानमिति
मन्यते । अतिप्रसङ्गात् नीलादाविव क्षणभङ्गादावपि दर्शनस्यैव प्रमाणत्वात् 467तदनुमानमनर्थकं
स्यादिति अतिप्रसङ्गात् अनिर्णीतार्थनिर्णीतिः अभिधीयत इति पदघटना ।


नन्वयमर्थः दृष्टे प्रमाणान्तरावृत्तिप्रसद्वात्468 इत्येतेन प्रतिपादयिष्यते तत्कि
मनेन ? तस्माद् अन्यथा व्याख्यायते--स्थिरस्थूलस्वगुणावयवात्मकघटादिनिर्णीतिरेव अनधिगता
र्थाधिगन्त्री प्रतीयते । तद् यदि ततोऽन्यद् अनधिगतार्थाधिगन्तृ प्रमाणं कल्प्यते तर्हि तस्मादप्य
न्यत् तथाविधं तस्मादप्यन्यत् इत्यनवस्था अतिप्रसङ्गः तस्माद् अनिर्णीतार्थनिर्णीतिः अभि
धीयते ।


यत्पुनरुक्तम्--तत्प्रमाणम् इति । तत्र प्रमीयते अनेन तत् प्रमाणम्, करणकारकम्,
तच्च स्वार्थपरिच्छित्तिक्रियां प्रति साधकतममेव युक्तम् । न चेत्कं दर्शयन्नाह--469 अधिगतमात्रस्य इत्यादि । स्वकारणार्थाकारदर्शनमात्रस्य । कथंभूतस्य ? इत्याह—
विसंवादकस्य निरंशानेकक्षणिकपरमाणुदर्शने १९ ख स्थूलैकस्थिरघटादिप्रापकत्वेन विप्रलम्भ
25 कस्य साधकतमत्वाऽनुपपत्तेः कारणात् तन्निर्णीतिरभिधीयते । विसंवादकस्य इत्येतद्विशेष
णमपि हेतुर्द्रष्टव्यः । ततोऽयमर्थो भवति--अधिगतिमात्रं स्वार्थप्रतिपत्तिं प्रति न साधकतमं विसं
वादकत्वात् इन्दुद्वयदर्शनवदिति न प्रमाणम् । अतः सैवाभिधीयते । पुनरपि हेत्वन्तरमाह--सा
धनान्तरे
त्यादि । अधिगतिमात्रसाधनाद् अन्यत् नीलादौ 470विकल्पज्ञानं क्षणिकादाद471
नुमानं472 तदन्तरं तस्य 473 अपेक्ष्यते स्य गोचरस्य विषयस्य । क्वचित् साधना
न्तरापेक्ष्य474गोचरस्य
इति पाठसू475त्रापि साधनान्तरमपेक्ष्यत इति तदपेक्षो गोचरो यस्य
तस्य साधकतमत्वाऽनुपपत्तेः तन्निर्णीतिः अभिधीयते । अत्रापि पूर्ववत् साधनेत्यादि विशे
षणमपि हेतुर्द्रष्टव्यः । तद्यथा--अधिगतमात्रं तत्त्वप्रतिपत्तौ न साधकतमं साधनान्तरापेक्षा476
गोचरत्वात् सन्निकर्षादिवत् । ततः सूक्तम्--अनिर्णीतिरभिधीयते इति ।


ननु निर्णीतेरनधिगतसामान्यार्थाधिगमेऽपि अनधिगतस्वलक्षणाधिगमाभावात् अ477नधिगमा
भावात् अनधिगतार्थाधिगन्तृ प्रमाणम् इत्यनेन 478साऽभिधीयते । तत्र अर्थशब्देन स्वलक्षणाभि
धानात् 479ततो दर्शनमेव अभिधीयत इति चेत्; अत्राह--तद् इत्यादि । तेन अधिगतिमात्रेण
अनधिगतस्य ज्ञानान्तरेण अविषयीकृतस्य स्वलक्षणस्य अर्थक्रियासम२० क र्थार्थ
रूपस्य अधिगतावपि परिच्छित्तावपि । अपिशब्दोऽभ्युपगमसूचकः । न खलु अन्येन
अधिगतम् अन्यद्वा स्वलक्षणमधिगच्छद् दर्शनं प्रतीयते । तस्यां किं प्राप्तम् ? इत्यत्राह--दृष्टे
दर्शनेन
विषयीकृते नीलादाविव क्षणभङ्गे प्रमाणान्तरस्य अनुमानस्य गृहीतग्राहित्वभयाद् अप्र
वृत्तिप्रसङ्गात्
कारणात्तन्निर्णीतिः अभिधीयते । एवं हि अनिश्चितनीलक्षीणकत्वयोर्निश्चयाद्
विकल्पानुमानयोः अपूर्वार्थता लभ्यते इति भावः । ननु मा भूद् अनिश्चितक्षणभङ्गनिश्चयात् प्रमा
णान्तरं 480तत्र वृत्तिमत्, अपि तु क्षणिके अक्षणिकज्ञानसमारोपव्यवच्छेदकरणात् स्यादिति चेत्;
अत्राह--समान इत्यादि । समाने सदृशे अत्र भूते दर्शनेन दृष्टे यः समारोपः विपर्ययज्ञानवि
शेषः तस्य व्यवच्छेदे निरासे 481संवृत्यनुमानयोः दर्शनोत्तरविकल्पानुमानयोः न कश्चिद्
विशेषः
भेदः । अनुमानं चेत्482; संवृतिरपि प्रमाणं स्यादित्यर्थः ।


ननु यथा क्षणिके अक्षणिकत्वसमारोपो नैवं नीले अनीलत्वसमारोपो यत्तद्व्यच्छेदाय
समान इत्याद्युच्यते इति चेत्; अयमत्राभिप्रायः--यथा पूर्वापरक्षणयोः तद्व्यात्ताया
483समारोपव्यवच्छेदादनुमानमर्थवत् तथा मध्यक्षणे स्थूलैकरूपे सञ्चिता
लम्बनाः पञ्च विज्ञानकायाः
485त्यनेन परमाणुदर्शनारोपव्यवच्छेदात् संवृतिरपि अर्थवती
स्यादिति । मरीचिकायां तोयसमारोपव्यवच्छेदाद्वा 486तयोः२० ख विशेषं दर्शयन्नाह परः—
साक्षात् इत्यादि । साक्षाद् अव्यवधानेन अनुभवाद् दर्शनाद् उत्पत्तिः नार्थात्संवृतेः इति
अनुभवान्कृत् 487प्रवृत्तिविषयानुकरणात् न तस्या भिन्नो व्यापार इति मन्यते ।
26 अत्रोत्तरमाह--महानपराधः । उपहासपदमेतत्, अल्पीयसोऽप्यपराधस्य अभावेऽपि अभिधानात् ।
ततः तदुत्पत्तौ नितरामर्थविषयत्वसिद्धेः अनुमितेरिव अर्थप्रतिबन्धाद् एकविषयत्वञ्च न विरोधि
सर्वज्ञेतरज्ञानवत् स488न्तानविरोधिसर्वज्ञोतरज्ञानवत् । सन्तानभेदोऽत्रापि व्यवहारश्च । प्रतिपत्तुः
इत्याद्युपसंहरन्नाह--प्रतिपत्तुः इत्यादि । उत्तरं विकल्पज्ञानं प्रमाणं तस्य उत्तरस्य साधनभावात्
हेतुत्वात्, नतु नैव पूर्वकं सन्निकर्षदर्शनादि प्रमाणमिति । कुत एतत् ? इत्यत्राह--अनुमानेऽपि
इत्यादि । न केवलं विकल्पे किन्तु अनुमानेऽपि एवम् उक्तवत् प्रसङ्गात् तत्रापि साधनावभास्येव
ज्ञानं तत्कारणं प्राप्ये प्रमाणं स्यात् नानुमानम् । प्रमेयाविषयीकरणम् अन्यत्रापि इति भावः ।


489दुक्तं प्र ज्ञा क रे ण--अभ्यासे दर्शनमविकल्पकम् अन्यदा अनुमानं प्रवर्त्तकत्वात्
प्रमाणम् । निर्णीतेः पुनः क्वचिदप्यनुपयोगात् पक्षान्तरासंभवादप्रमाणता ।
इति ।


तत्र अनभ्यासे सति अभ्यास इति अनभ्यासे निर्णीतेः उपयोगं दर्शयन्नाह--व्यवसा
यात्मन
इत्यादि ।


व्य491वसायात्मनो दृष्टेः संस्कारः स्मृतिरेव वा ।

दृष्टे दृष्टसजातीये नान्यथा क्षणिकादिवत् ॥ ४ ॥

दर्शनाभ्यासपाटवप्रकरणादेः दृष्टसजातीयसंस्कारस्मृतिप्रबोधे स्वभावव्यवसा
यमन्तरेण क्षणभङ्गादावपि लिङ्गानुसरणमनुपपन्नं तदविशेषान्नीलादिवत् ।


अस्यायमर्थः--सुखसाधनस्य सुखस492च पूर्वं या दृष्टिः तस्याः संस्कारः स्मृतिबीजम्
आत्मपरिणमो जायते इत्यध्याहारः । २० क स्मृतिर्वा स्मरणं च दृ493ष्टेर्जायते इति । ननु दृष्टिः
494 संस्कारः, ततः स्मृतिर्न दृष्टिः495 इति चेत्; न; उत्तरदृष्टेः संस्कारसहकारिणः
तदुद्भवाददोषः । नन्वेकोऽयं दृष्टिशब्दः कथममुमर्थं प्रतिपादयति ? आवृत्त्याभिसम्बन्धाद् एकस्या
दृष्टेः497 उभयत्र व्यापाराद् भेदावगतिः । क्व पुनः स्मृतिः तद्धेतुश्च दृष्टिः प्रवर्तत इति चेत् ? अत्राह—
दृष्ट इति । संस्कारहेतुदृष्ट्या विषयीकृतो दृष्टोऽर्थ उच्यते । तत्र उत्तरा दृष्टिः तत्कार्यभूता स्मृतिः
प्रवर्तते, कथमन्यथा अयं मया दृष्टः इति प्रतीतिः ? अनेन पूर्वोत्तरदर्शनसंस्कारस्मृतीनाम्
एकविषयत्वं दर्शयति । तथा दृष्टसजातीये दृष्टश्चासौ उत्तरव्यक्त्यपेक्षया सजातीयश्च तत्र
संस्कारः । स कुतः ? इत्यत्राह--दृष्टेः इति । यत्र संस्कारः । तद्दर्शनात् तत्रैव च स्मृतिः ।
सापि कुतः ? इत्यत्राह--दृष्टेः इति । सा क्व ? इत्यत्राह--सजातीये दृष्टेन पूर्वदर्शनविषयेण
27 सजातीये सदृशे उत्तरस्वव्यक्तिविशेषे । एतदुक्तं भवति--एकदा जलव्यक्तिं स्नानादिहेतुमुपलब्धवतः
तत्राहितसंस्कारस्य पुनः तत्सदृशव्यक्तिदर्शनात् तत्समाने दृष्टे स्मृतिः इति । अनेन पूर्वोत्तर
दर्शनसंस्कारस्मृतीनां सदृशविषयत्वं कथयति ।


498न्ये तु दृष्टे संस्कारः दृष्टजातीये स्मृतिः इति व्याचक्षते । तेनायमर्थो लभ्यते
न वेति चिन्त्यम् ।


किञ्च, यदि दृष्टे संस्कारः, स्मृत्यापि त499त्रैव भवितव्यम् अनुभूते स्मृतिः500ति वचनात् ।
नहि पूर्वसमुद्रदर्शनाहितसंस्कारस्य तत्सदृशे पश्चिमसमुद्रे स्मृतिर्युक्ता । कथंभूतायाः २१ ख
दृष्टेः ? इत्यत्राह--व्यवसायात्मनो निर्णयात्मिकाया एव । कुत एतत् ? इत्यत्राह--नान्यथा
अन्येन निर्विकल्पकप्रकारेण या दृष्टिः तस्याः न संस्कारः स्मृतिर्वा । क्वेव ? इत्यत्राह--क्षणि
कादिवत् ।
आदिशब्देन निरंशत्वादिपरिग्रहः, तत्रेव तद्वदिति । ननु च त501स्याः संस्कारः स्मृतिरेव
इति वक्तव्यम्, किं वाशब्देन, तमन्तरेण समुच्चयगतेः ? न; अनुक्तसमुच्चयार्थत्वाद502दोषः । अनुक्तं
हि अनेन प्रत्यभिज्ञोहानुमानादिकं समुच्चीयते । ततोऽयमर्थो लभ्यते--पूर्वसुखसाधनदर्शनाहितसं
स्कारस्य503 पुनस्तस्य तत्समानस्य वा दर्शनाद् दृष्टे स्मृतिः, त504तस्तदेवेदं तेन सदृशमिति वा प्रत्यभि
ज्ञानम्, ततोऽपि पूर्ववद् एतत् सुखसाधनसमर्थम् इति तर्कः, अस्मादपि अनुमेये प्रवर्तमानस्य
सुखप्राप्तिर्भविष्यति
इत्यनुमानम्, ततः प्रवृत्तिः अर्थप्राप्तिरिति । वक्ष्यते च--


*अक्षज्ञानैरनुस्मृत्य प्रत्यभिज्ञाय चिन्तयन् ।

आभिमुख्येन तद्भेदान् विनिश्चित्य प्रवर्तते ॥ सिद्धिवि॰ १ । २८ इति ।

ननु च यदुक्तं सुखस्य तत्साधनस्य च दृष्टेः संस्कार इति; तत्रेदं चिन्त्यते--इदं सुख
साधनम्
अस्माद् इदं सुखम् इति कुत505ः प्रतीयते ? न तावत् तत्साधनदर्शनात्; तत्काले
सुखानुद506 नुत्पन्नं च निं507तेन गृह्यते । नापि सुखदर्शनात्; अस्यापि समये त508त्सा
धनात्ययात् । नापि तत्समुदायेन; क्रमभाविनोः 509तदभावात् । पूर्वोत्तरकालभाविदर्शनमेकं विप्रति
षिद्धम्, सर्ववस्तुनः क्षणिकत्वात् । अथ अस्माद् इदमु२२ क त्पद्यते इति आत्मा प्रतिपद्यते;
सोऽपि यदि सत्तामात्रेण,...तव्य इति सुप्तमूर्च्छितादिष्वपि प्रसङ्गः । अथ दर्शनपर्यायात्;
पूर्ववत् प्रसङ्गः । तन्न सुखतत्कारणयोः दर्शनात्510 तद्भावसिद्धिः । नाप्यनुमानात्; तस्य त511त्पूर्वक
त्वेन तदभावे अभावात् । एतेन पूर्वदर्शनादेः उत्तरोत्तरसंस्कारादिजन्मप्रतिपत्तिः निरस्तेति ।


अत्र प्रतिविधीयते--सुखसाधनदर्शनस्य तद्ग्रहणाभिमुख्यमजहत 512एव सुखग्रहणपरिणामो
पपत्तेः 513अप्रतिषेधः । वक्ष्यते चैतदत्रैव द्वितीयप्रस्तावे--पूर्वपूर्वस्य स्वविषयग्रहणानुबन्ध
मजहत एव उत्तरोत्तरं प्रति साधकतमत्वात् स्मार्तज्ञानवत् ।
सिद्धिवि॰ २ । १५ इति ।
28 न चेदमप्रातीतिकम्, अस्माद्भावात् मे सुखभावः इति प्रतीतेः । तदपलापे स्तम्भादिदर्शनमपि
दुर्निरीक्षं प्रसजतीति प्रतिपादयिष्यते । युगपदेकम514नेकाकारं व्याप्नोति जानातीति वा, न क्रमेण515
इति परमगहनमेतत् ! ततः सिद्धा सुखतत्साधनयोर्हेतुफलभावप्रतीतिः । एतेन दर्शनादिसंस्कारा
दीनामपि सा516 चिन्तिता ।


यत्पुनरुक्तम्--पूर्वोत्तरदर्शनसंस्कारस्मृतीनाम् एकविषयत्वं कुतः प्रतीयते इति ? तदप्येतेन
नोत्सृष्टम्517


ननु भवत्वेवम्, तथापि प्रवृत्तिकाले सुखाप्रतिपत्तौ कथं त518त्र दृश्यमानस्य519 हेतुता प्रतीयेत
यतस्तव 520 प्रवृत्तिः स्यात्, प्रतिपत्तौ वा न प्रवृत्तिः तदैव सुखप्राप्तेः । 521 अथ प्रवृत्त्युत्तरकालं
सुखप्रतिपत्तिः तर्हि तत्साधनप्रतिपत्तौ प्रवृत्तिः तस्याश्च सुखवत् प्रवृत्तिः स्यात् २२ ख प्रतिपत्तौ
वा न प्रवृत्तिः तदैव सुखप्राप्तेः अथ प्रवृत्त्युत्तरकालं सुखप्रतिपत्तिः; तर्हि तत्साधनप्रतिपत्तौ
प्रवृत्तिः, त522स्याश्च सुखप्रतिपत्त्या तत्साधनप्रतिपत्तिः इत्यन्योन्यसमाश्रयः । अथ सुखसाधनस्य523
पूर्वस्य तत्सदृशस्य वा पुनर्दर्शनादेवं भवति इदं सुखसाधनं तत्त्वात् पूर्वसदृशत्वात् पूर्ववत् इति524
ततः प्रवृत्तिः । नन्विदमनुमानम्, तच्चेत् सुखं न प्रत्येति, कथं 525तत् प्रति कस्यचित्526 कारणताम
वैति ? कायं527प्रतिपत्तिनान्तरीयकत्वात् कारणताप्रतिपत्तेः । प्रत्येति चेत्; उक्तमत्र प्रवृत्तिर्न स्या
दिति528 । यदि पुनर्न सिद्धतया अपि तु साध्यतया529 तत् प्रत्येति; तर्हि साध्यतया असतः, तस्य च
प्रतीतिरित्यतिसाहसम्, इति कस्यचित् सुखसाधनस्याप्रतिपत्तेर्न तत्र530 प्रवृत्तिः । सुख इति चेत्;
न; तस्य दर्शनेतरविकल्पद्वये पूर्ववत् प्रसङ्गः । तन्न कुतश्चित् प्रवृत्तिरिति किं व्यवसात्मनः
इत्यादिना इति चेत्; अत्रोच्यते--दृश्यदर्शनेन पूर्वोत्तरक्षणयोरदर्शने ता531भ्यां तस्य532 कुतस्तृद्यत्ता533प्रति
पत्तिः यतः प्रत्यक्षसिद्धा क्षणिकता स्यादिति नेदं सुभाषितम्--यद् यथावभासते तत्तथैव
परमार्थसद् व्यवहारावतारि यथा नीलं नीलतया भासमानं तथैव तद्व्यवहारावतारि,
अवभासन्ते च भावाः क्षणिकतया ।
इति534 । अथ दृ535श्यदर्शनेन त536योर्दर्शनम्; दृ537श्यसमकालता
तथैव पराभ्युपगमात् । 538तयोरपि पुनः अन्याभ्यां पूर्वोत्तरक्षणाभ्यां 539क्रद्य540त्ताप्रतिपत्तौ
अन्ययोरपि तेन541 दर्शनं पुनः तयोरपि २३ क ततोऽन्याभ्यां क्रद्य542त्ताप्रतिपत्तौ दर्शनं तेन
तयोरित्येककालता सकलसन्तानक्षणानामिति नित्यताप्रतिपत्तिवत् क्षणिकताप्रतिपत्तावपि युगपत्
जन्ममरणावधिदशाप्रतिपत्तिरिति तदैव जातो मृतश्च स्यात् । अथ दृश्यस्य दर्शनेन यथास्वकालं
तयोर्दर्शनम्543; सुखस्यापि तथैव 544दर्शनमिति न दृश्ये तत्साधने प्रवृत्तिविरोधः ।


29

स्यान्मतम्--पूर्वोत्तरक्षणाभ्यां मध्यक्षणस्य क्रद्य545त्ता स्वभावभूता, ततः 546तयोरदर्शनेऽपि
547तद्दर्शनादेव प्रतीयते; तर्हि 548तस्य सुखहेतुता तथा549 किन्न प्रतीयते सुखादर्शनेऽपि ?
नहि सापि 550ततो भिन्ना । नन्वेवं सर्वस्यापि भावदर्शनादेव 551तत्प्रतीतेः सुखार्थिनो दुःखसाधने
प्रवृत्तिः सुखहेतोर्वा निवृत्तिः भ्रान्त्या न स्यादिति चेत्; न; क्रद्य552त्ताप्रतिपत्तावपि स
समानमिति त553दनुमानमनर्थकम् । समारोपकल्पनम् अन्यत्रापि । तथा सति कथं सुखसा
धने प्रवृत्तिरिति चेत् ? क्रद्य554त्तायां कथम् ? समारोपव्यवच्छेदात्; प्रकृते समः समाधिः ।
यथैव च घटादौ सत्त्वादेः क्षणिकत्वेन व्याप्तिदर्शनादन्यत्र555 ततः क्रद्य556त्ता557 अनुमीयते तथा
आकारविशेषस्य पूर्व558सुखहेतुत्वेन व्याप्ततया दृष्टस्य पुनः क्वचिद् दर्शनात् सुखहेतुता अ
नुमीयताम् । ननु उक्तमत्र अनुमानेन सुखाप्रतिपत्तौ कथं तद्धेतुताप्रतिपत्तिः ? प्रतिपत्तौ न प्रवृ
त्तिरिति चेत्; इदमप्युक्तम्--तेन पूर्वोत्तरक्षणाविषयीकरणे कथं तत्सम्बन्धिनी क्रद्य559त्ता मध्यक्ष
णस्य प्रतीयते यतः समारोपो निवर्तेत । 560तद्विषयीकरणे च एकक्षणभाविता सन्तानस्य २३ ख
इति ।


एतेन एतदपि निरस्तं यदुक्तं परेण--यद्यपि दृश्यस्य सुखादर्शनेऽपि 561तद्धेतुता प्र
तीयते तवा562पि निश्चेतुं न शक्यते
इति; कथम् ? क्रद्य563त्तायामपि समानत्वात् ।
भवतु वा तदनिश्चयः तथापि को दोषः ? त564द्दर्शनं प्रवृत्तिहेतुर्न स्यादिति । कथं क्रद्य565त्तादर्श
नमनिश्चितम् अनुमानहेतुः, येन यद् यथावभासते इत्यादि सूक्तम् ? ए566तदनिश्चितम्
अनुमानस्य कारणं न 567पूर्वं प्रवृत्तेरिति महती प्रेक्षाकारिता ! यदि च, कार्यानवधारणक्षणे अस्य
कारणतानवधारणम्; तर्हि कथं प्राप्यानवधारणे दृश्यस्य ततो विवेकावधारणम्, येनात्र पक्षत्रयमु
त्थापितम्--दृश्यप्राप्ययोः एकत्वाध्यवसायिनं प्रति प्राप्ये प्रत्यक्षं प्रमाणम्, अन्यं प्रति
तदाभासम्, अवधारितविवेकं प्रति अनुमानम्
इति ? व्यवहारेण तदुत्थापितमिति चेत्; तेनैव568
कार्यानवधारणेऽपि कारणतावधारणमिति कारणे प्रवृत्तिसंभवादलं भाविनि प्रवृत्त्या, एकान्ते
तदर्थेन कारणत्वोपवर्णनेन वा, व्यवहारविपर्ययात् । परमार्थेऽपि चित्रैकज्ञानाद्वैतरूपे नीलाकारः
पीताद्याकारान् अनात्मसात्कुर्वन्नपश्यन् वा यथा तत्साधारणीं बोधरूपतामात्मसात्करोति पश्यति
वा तथा कार्यानवधारणेऽपि कारणतावधारणं कारणदर्शनेन । सर्वविकल्पातीतेऽपि तस्मिन्569 इद
मेव वक्तव्यम्; तथाहि--कारणत्वादिविकल्पानां प्रतिपत्तौ २४ क कस्यचित् तद्विविक्ततावित्तिः ।
नहि अप्रतिपन्नमशकस्य नेह मशकाः सन्ति इति निर्णीतिरस्ति । त570था चेत्; सुस्थितं तदद्वै
तम् ! अप्रतिपत्तौ चेत्; प्र571कृतमनुषङ्गि । ततो यथा कस्यचित् तद्विविक्तस्य दर्शनात् तद्भावव्य
30 वहारः तथा आकारविशेषदर्शनात् हेतुताव्यवहारोऽपि साध्यते इति सूक्तं व्यवसायात्मन
इत्यादि ।


ननु यदुक्तम्--नान्यथा क्षणिकादिवत् इति; तत्र यदि नाम निर्विकल्पदृष्टेः क्षणि
कादौ संस्कारादिर्न जायते, तथापि नीलादौ जायते दृष्टत्वात् । न च दृष्टमन्यथा कर्तुं शक्यम् ।
न च दर्शनम् इत्येव सर्वत्र स्वगोचरे संस्कारादिहेतुः; अन्यथा व्यवसायात्मकमपि572573था इति
गृहीतप्र574घट्टकादिविस्मरणादि न भवेत् । अथ त575त् दर्शनपाटवादिकमपेक्षते; प्र576कृतमपि त577थैव अपे
क्षते इति तदभावान्न क्षणिकादौ संस्कारादिः, अ578न्यत्र तु अस्ति 579विपर्ययादिति चेत्580; अत्रोत्तरमाह
दर्शनेत्यादि । प्रतिपत्तिगौरव 581 दर्शनपाटवमिति । 582तच्च संस्कारादिकार्ये सामर्थ्यम्, मुहुर्मुहुः
चेतसि परिमलनम् अभ्यासः, तौ आदी यस्य प्रकरणादेः स तथोक्तः तस्मात् दृष्टसजातीय
संस्कारस्मृतिप्रबोधे दृष्टः
पूर्वदर्शनगोचरः स चासौ सजातीयश्च सदृशः उत्तरविशेषेण, उप
लक्षणमेतत्, ततः तेनैकोऽपि दृष्ट इत्युच्यते, तत्र संस्कारश्च स्मृतिश्च तयोः प्रबोधे उत्पादे अभ्यु
पगम्यमाने । किमन्तरेण ? इत्यत्राह--स्वभावव्यवसायमन्तरेण दर्शनस्य स्वरूपभूतनिर्णयमन्त
रेण संस्कारस्मृति२४ ख वचनमप्युपलक्षणमिति प्रत्यभिज्ञानादिपरिग्रहः । तत्र किं स्यात् ?
इत्यत्राह--क्षणभङ्गादावपि आदिशब्देन स्वर्गप्रापणसामर्थ्यादिपरिग्रहः, न केवलं नीलादौ इति
अपिशब्दार्थः, लिङ्गानुसरणं हेत्वाश्रयणम् उक्तमनुपपन्नं प्रत्यक्षत एव तत्सिद्धेरिति मन्यते ।
कुत एतत् ? इत्यत्राह--तदविशेषात् तस्य दन583पाटवादेः अविशेषात् क्षणभङ्गादावपि ।
निदर्शनमाह--नीलादिवत् तत्रैव 584 तद्वदिति । नहि दर्शनं स्वविषये पा586टवेतरात्मकं तदप्र
संगात् 587 । अभ्यासोऽपि मुहुर्मुहुः क्षणिकदर्शनस्य तद्विकल्पस्य वा वृत्तिः सौगतानां
विद्यते, तथा अर्थित्वादयोऽपि । न च त588त्र त589त्प्रबोधः । तन्न त590त्कार्यम् । प्रयोगश्चात्र--यस्मिन्न
विकलेऽपि यन्न भवति तन्न तत्कार्यम्, यथा अविकलेऽपि चक्रादौ अभवन् पटो न तत्कार्यः,
अविकलेऽपि च दर्शनपाटवाभ्यासादौ न भवति क्षणिकादौ संस्कारादिइति । विपर्ययप्रयोगः—
यस्मिन्नविकले यद् भवति तत् तस्य कार्यम्, यथा अविकले चक्रादौ भवन् घटः तस्य कार्यः, भ
वति च निर्णयेऽविकले संस्कारादिः इति । ननु दर्शनपाटवादेः इत्यस्तु 591किमभ्यासग्रहणमिति
31 चेत्; उभयत्र आदिशब्दसम्बन्धार्थम्--दर्शनपाटवादेः अभ्यासादेः इति । तेन ए592कत्र आदि
शब्देन दर्शनप्रतिबन्धकस्य गु593णान्तरारोपस्य नो चेद् भ्रान्तिनिमित्तेन प्र॰ वा॰ ३ । ४३
594त्यादिना प्रतिपादितस्य २५ क वैकल्यं गृह्यते । यद्वक्ष्यते अत्रैव--दर्शनपाटवाद्यविशेषेऽपि
इत्यादि । प595रत्र आदिशब्देन अर्थित्वादिपरिग्रहः । यदि वा, सर्वत्र अभ्यासस्य प्राधान्यप्रदर्श
नार्थम् अभ्यासग्रहणम् । यदुक्तं परेण--अभ्यासे प्रत्यक्षम् अनभ्यासे अनुमानं प्रमाणम्
596ति । तत्र क्षणभङ्गादाविव नीलादावपि अभ्यासविरहे कुतः संस्कारादिः यतोऽनुमानम् ? एवं
तर्हि दृष्टसजातीयसंस्कारादिप्रबोधे इति वक्तव्यं नार्थः स्मृतिग्रहणेनेति चेत्; तत् क्रियते उत्त
रार्थम् । तत्र हि स्मृतिरेव प्रधानतया चिन्त्ययिष्यते अभेदात् सदृशस्मृत्याम् सिद्धिवि॰
१ । ६
इत्यादौ । अनेन व्यतिरेकमुखेन कारिकार्थो विवृतः ।


इममेवार्थं समर्थयमानः प्राह--आधत्ताम् इत्यादि ।


आधत्तां क्षणिकैकान्तस्वार्थसंवित् पटीयसी ।

सदाभ्यासात्स्मृतिं सापि दृष्टसंकलनादिकम् ॥ ५ ॥

सदृशापरोत्पत्तिविप्रलम्भान्नावधारयतीत्यसमञ्जसम्; सर्वथा सादृश्यासंभवात् ।
वैलक्षण्यानवधारणे अतिप्रसङ्गः । तद्विकल्पकारणव्यतिरेक इत्यपि तादृगेव । स्वार्थदृष्टि
स्मृत्योः स्वभावव्यवसायाभावे कुतः संकलनाज्ञानं यतः सङ्केतस्मृत्यादयः ? निर्विकल्पक
दृष्टावपि सजातीयाध्यवसायादिः सुप्तप्रबुद्धवच्चेत्; न; अर्थदर्शनभावेऽपि तदनुषङ्गात् ।


ननु अयमर्थोऽनन्तरकारिकावृत्तावुक्तः । न च पुनस्तस्यैवाभिधाने स एव समर्थितो
नाम अतिप्रसङ्गात् किन्तु अन्यस्माद्धेतोः597, स598 चात्र नोक्तः, तस्मात् उक्तार्थोऽनन्तरश्लोकोऽयम्
इत्य न न्त599 वी र्यः । अस्यायमर्थः--आधत्तमादव्यक्ता 600 क्षणिकैकानु601 स्वार्थसंविद् इति । क्षणिक इति भावप्रधानो निर्देशः, ततः क्षणिकत्वम् एकः असहायः अन्तो
धर्मो ययोः स्वार्थयोः तयोः संवित् दृष्टिः । कथम्भूता ? इत्यत्राह--पटीयसी पटुतरा । कदा ?
इत्यत्राह--सदा सर्वकालम् । कुतः ? अभ्यासात् । किम् ? इत्यत्राह--स्मृतिविकल्पम् ।
स्मृतिः किं कुर्यात् ? इत्यत्राह--सापि स्मृतिरपि दृष्टसंकलनादिकम् दृष्टस्य पूर्वदर्शनेन विष
यीकृतस्य उत्तरपर्यायेण सह एकत्वेन सादृश्येन वा समीचीनं कलनं निर्णयनं येन तत् २५ ख
संकलनं प्रत्यभिज्ञानम्, आदिशब्देन तर्कादिकं गृह्यते तद् आधत्ताम् इति ।


यदुक्तम्602--क्षणभङ्गादावपि लिङ्गानुसरणमयुक्तं तदविशेषात् इति; तत्राह--परादर्शन
603
इत्यादि । विवृतार्थमेतत् । सदृशस्य पूर्वेण समानजातीयस्य अपरस्य
क्षणस्य या उत्पत्तिः उत्पत्तिविषयं दर्शनम् उत्पत्तिः विषयिणि604 605विषयशब्दोपचारात् । न खलु
तदुत्पत्तिरेव विप्रलम्भहेतुः606, सर्वदा प्रसङ्गात् । तया विप्रलम्भः 607गुणान्तरारोपः तस्मान्नावधारयति
32 न निश्चिनोति क्षणभङ्गादिकम् इति विभक्तिपरिणामेन सम्बन्धः । तत्र संस्कारादिमान608 भवति
जनः इत्यर्थः । तस्य उत्तरमाह--इत्यसमञ्जसम् इत्यादि । इत्येवं609रमतम् असमञ्जसम् अयु
क्तम् । कुत एतत् ? इत्यत्राह--सर्वथा सर्वप्रकारेण सादृश्यासंभवात्, पूर्वोत्तरक्षणयोः सारूप्य
संभवनाया अपि विरहात् । तथाहि--पूर्वपूर्वनित्यसमारोपक्षणाद् उत्तरोत्तरसमारोपक्षणो यदि
सर्वात्मना सदृशो जायते तेन तर्हि पूर्वतत्क्षणवत्610 उत्तरस्यापि उत्तरतत्क्षणोत्पादनस्य सामर्थ्यम्,
एवमुत्तरोत्तरस्येति आसंसारं न क्षणोपरमः । नहि अनुनानेन पू611र्वस्मिन् समर्थे उत्तरं का612र्यं
निवारयितुं शक्यते, तस्मिन् सति अवश्यंभावात् । नापि तत्सामर्थ्यम्613; सतो निवारणायोगात् ।


*तस्य शक्तिरशक्तिर्वा या स्वभावेन संस्थिता ।

निरंशत्वाटधिकिसास्य614कस्तां क्षपयितुं क्षमः ॥

प्र॰ वा॰ २ । २२


एवं सर्वभावेषु वाच्यम् । त615था २६ क सति चरमक्षणाभावः स्यादिति चेत्; अयमप
रोऽस्य616 दोषोऽस्तु । तन्न पूर्वोत्तरतत्समारोपक्षणयोः तत्त्वे617 नैव उत्तरकार्यजननसामर्थ्येनापि सादृ
श्यम् । अपि च, यथा पूर्वस्य उत्तरं प्रति कारणत्वम्, एवं चेत्618 619तस्यापि 620तत्प्रति कारणत्वम्; युक्तं
सर्वात्मना सादृश्यम् । न चैवम्, आत्मनि अर्थक्रियाविरोधात् । अथ पूर्वस्मात् तत्समारोपक्षणात्
क्षणक्षयानुमानसहायाद् 621अपरोऽपरजनने622 असमर्थोऽसमर्थतरोऽसमर्थतमो जायते; तर्हि
623तत्समारोपत्वेन सादृश्यम् उक्तप्रकारेण । अन्यथा छतिति 624 निरंशवादहानिः । एवं सर्वत्र
योज्यम् । ततः सूक्तम्--सर्वथा इत्यादि । एतदुक्तं भवति निरंशैकान्ते सदृशापरोत्पत्त्यभावेन
विप्रलम्भाभावात् 625तदवधारणं स्यादिति ।


ननु मा भूत् पूर्वापरयोः समानधर्मान्वयः सादृश्यं वैलक्षण्यानवधारणं तु स्यादिति चेत्;
अत्राह--वैलक्षण्य इत्यादि । वैलक्षण्यं पूर्वोत्तरयोः वैसदृश्यंतस्य अनवधारणे अतिप्रसङ्गः । तथाहि—
तदनवधारणं प्रसज्यप्रतिषेधरूपम्, पर्युदासरूपं वा स्यात् ? प्रथमपक्षे 626तदवधारणाभावमात्रमनवधारणं
कथं सादृश्यं विप्रलम्भहेतुर्वा ? अन्यथा खरशृङ्गादिकमपि स्यात् । द्वितीयेऽपि किं तद् वैलक्षण्यावधा
33 रणाद् अन्यत् यत् तदवधारणशब्दवाच्यं स्यात् ? स्वलक्षणमिति चेत्; घटकपालादौ प्रसङ्गः,
तथा च ततो विप्रलम्भात् न तत्र संस्कारस्मृतिप्रबोधः । अथ एकत्वावधारणं तदनवधारणम्;
तर्हि सदृश्याद् विप्रलम्भः २६ ख इति किमुक्तं स्यात् एकत्वावधारणाद् एकत्वावधारणं
विप्रलम्भः
इति । न च तदेव तस्यैव कारणम्; विरोधात् । तदपि च एकत्वावधारणं कुतो
भवति ? सदृशापरदर्शनादिति चेत्; न; सर्वथा सा627दृश्यासंभवात् अतिप्रसङ्गः, अनवस्था च ।


किञ्च, क्षणभङ्गादावपि लिङ्गानुसरणमयुक्तम् इति वदता तदनवधारणमेव चोदितम्;
तत्र तदनवधारणसुत्तरं 628 साध्यसममिति न सादृश्यमिद629मपि युक्तम् ।


पुनरप्याह पर630ः--तद् इत्यादि । तस्य वैलक्षण्यस्य विकल्पो निश्चयः तस्य कारणं तस्य
व्यतिरेकोऽभावः सादृश्यम् । अत्रोत्तरमाह--इत्यपि इत्यादि । न केवलं पूर्वं किन्तु एतदपि
तादृगेव पूर्वसमानमेव, दर्शनपाटवाभ्यासादेः तत्कारणभावात् सर्वथा तद्विकल्पकारणव्यति
रेकासंभवादिति मन्यते । यद्यस्मात् सादृश्यान्नावधारयति तदपि तादृगेव इति ।


एवम् अविकल्पस्य प्रतिबन्ध-वैक631ल्यविकलस्यापि दर्शनस्य क्षणभङ्गादौ संस्काराद्यहेतुत्व
वत् नीलादावपि त632दभिधाय इदानीं प्रकारान्तरेणापि तदभिधातुकामः प्राह--स्वार्थ इत्यादि । स्वं
अर्थश्च तयोः दृष्टिश्च स्मृतिश्च तयोः स्वभावस्य स्वरूपस्य स्वभाव एव वा व्यवसायः तस्य
अभावे । ननु भवतु दृष्टेस्तदभाव633ः नतु स्मृतेः, तस्याः व्यवसायस्वभावत्वादिति चेत्; न; तस्या634
अपि स्व635भावे व्यवसायाभावे अर्थेऽपि स636 दुर्घटः एवमध्यं च 637 फक्किकाया आदौ स्वभाव
ग्रहणम्, अन्यथा २७ क व्यवसायेत्याद्युच्येत । अर्थे तत्र त638स्या व्यवसाय इष्यते; दृष्टेरपि तथैव
स्यात् । दृष्टिस्मृत्योः इति सहवचनं च तयोः तुल्यधर्मताप्रतिपादनार्थम् । इतश्च परस्य639 निर्वि
कल्पिका स्मृतिः त640थाविधानुभवकार्यत्वात् उत्तरानुभवक्षणवत् । तस्मिन् सति किं जातमिति चेत् ?
अत्राह--कुतः इत्यादि । कुतो न कुतश्चित् संकलनाज्ञानम् तदेवेदं तेन सदृशम् इति वा प्रत्य
भिज्ञानं व्यवतिष्ठते, अत्रापि उक्तन्यायस्य संभवात् । कथम्भूतं तत् ? इत्यत्राह--यत इत्यादि ।
यतो यस्मात् संकलनाज्ञानात् सङ्केतस्मृत्यादयः आदिशब्देन अभिलापयोजनादिपरिग्रहः, कार
णाभावात् तदभावः स्यादिति मन्यते । एतदुक्तं भवति--पूर्वं सङ्केतविषयस्यार्थस्य दर्शनम्, पुनः तस्य
तज्जातीयस्य च दर्शनात् त641स्य स्मृतिः, ततोऽपि तदेवेदं तेन सदृशम् इति वा संकलनम्, ततोऽपि
सङ्केतस्मृतिः, तस्याः पुरोवर्तिनि शब्दयोजनम्, अतोऽपि घटोऽयं पटोऽयम् इति विकल्पं ज्ञानम्,
तत् सर्वं न स्यादिति । ननु च यथा मेघात् जलं प्रदीपात् कज्जलं विजातीयाद् भवति, तथा
सर्वत्र अविकल्पाद्दर्शनात् व्यवहारेण स्वरूपे अविकल्पकम् 642अन्यत्र 643विपरीतं स्मृत्यादिकं स्यात् ।
एतदेवाह--निर्विकल्प इत्यादिना । विकल्पान्निष्क्रान्ता सा चासौ दृष्टिश्च तस्यामपि सत्यां सजा
तीयाव्यव644सायादिः
आदिशब्देन संकलनादिपरिग्रहः । अत्र निदर्शनमाह--सुप्तप्रबु
34 द्धवत्
इति । पूर्वं सुप्तः पश्चात् प्रबुद्धः सन्तानः स इव तद्वत् । २७ ख एतदुक्तं भवति--यथा
सुप्तपश्चात्तः 645 प्रबुद्धावस्था तथा प्रकृतमपि इति । अत्रेदं विचार्यते--कोऽयं सुप्तो
नाम ? स्वप्नदर्शी निद्राक्रान्त इति चेत्; न तस्य प्रकृतसमत्वा 646 । दर्शीति चेत्; तस्य यदि
निर्विकल्पं दर्शनम्, अतोऽपि प्रबुद्धः तथाविधदर्शनवान्; न 647प्रकृतस्य तद्भवति । स्मृत्यादिमान्648;
साध्यसमता । न च परेण तस्य649 दर्शनमिष्यते अचेतनत्वोपगमात् । अथ चेतनारहितं सुप्तमित्यु
च्यते, न तस्मात् प्रबुद्धः, जाग्रद्दशातः त650दभ्युपगमात् । कथं प651रसम्बन्धिनिदर्शनमेतत् प्रदर्शित
मिति चेत् ? न; अन्यथा व्याख्यानात्--सुप्त इव सुप्तः स्वलक्षणासाक्षात्करणात् सुगतस्मानुमान
दर्शः 652 विशेषः प्रबुद्ध इव प्रबुद्धः सर्वदर्श्यवस्थाभेदः, ततो न दोषः,
परेणापि अनुमानात् सुगतत्वोपगमा654त् । चेच्छब्दः पराभिप्रायसूचकः । अस्योत्तरमाह--नार्थ
इत्यादि । नेति पूर्वपक्षनिषेधे । अर्थदर्शनभावेऽपि न केवलं तदभावे तदनुषङ्गात् सजाती
याव्य655वसायाद्यनुषङ्गात् । कुत एतत् ? इत्यत्राह--अभेदात् इत्यादि ।


656भेदात् सदृशस्मृत्यामर्थाकल्पधियां न किम् ।

संस्कारा विनियम्येरन् यथास्वं सन्निकर्षिभिः ॥ ६ ॥

वस्तुस्वभावोऽयं यत् संस्कारः स्मृतिबीजमादधीत । ततः सहकारिकारणवशात्
स्मृतिबीजप्रबोधः स्यात् । तत्र इन्द्रियार्थसन्निकर्षापेक्षिणः तत्प्रबोधस्य अविकल्पकल्प
नायां पूर्वं पश्चाच्च दर्शनमनर्थकम् ।


क्रमेण यौगपद्येन च सादृश्यैकत्वयोः विकल्पबुद्धिः सदृशस्मृतिः परमतापेक्षया
उच्यते । परस्य हि मतम्--परमाणव एकार्थक्रियाकारिणः अतत्सन्तानपरावृत्ताः स्वसमानाः
परम्परया तस्या हेतवः, तस्यां कर्त्तव्यायाम् अभेदाद् अविशेषात् । केषाम् ? इत्यत्राह—
अर्थाकल्पधियाम् । अर्थाश्च अकल्पधियश्च तासाम् इति । एतदुक्तं भवति--यथा २८ क
अनुभवात् निरंशात् सदृशस्मृतिसंभवः तथा अर्थादेव त657थाविधात् 658सोऽस्तु इति । न चेदमत्र
चोद्यम्--659अर्थदर्शनपूर्विका स्मृतिः सा कथं त660दभावे भवेत् ? अन्यथा सर्वत्र तदनुषङ्ग इति ।
कथम् ? यदि हि दर्शनगोचरे स्वलक्षणे जायते स्मृतिः तदा 661तत्पूर्विकेति स्यात्, न चैवं सामा
35 न्यविषयत्वात्, नैवं तस्याः एवमर्थं च सदृशस्मृत्याम् इत्युक्तम् । तथापि तत्पूर्विका चेत्;
नीलस्मृतिः पीतदर्शनपूर्विका स्यात् ।


अत्राह परः662--नार्थदर्शनादेव663 केवलादुपादानात् सजातीयस्मृतिर्येनाऽयं दोषः, अपि तु पूर्व
सदृशस्मृत्याहितवासनातः उत्तरतत्स्मृतिजन्म, दर्शनं तु तद्वासनाप्रबोधहेतुत्वात् तद्धेतुः664 इत्युच्यते,
अत एव सदृशाकारः त665त्र न विरुद्ध्यते
इति; तं प्रत्याह--न किम् इत्यादि । संस्काराः
पूर्वपूर्वविकल्पाहितवासना विनियम्येरन् उत्तरोत्तरनियतार्थसदृशस्मृतिजनने नियताः क्रियेरन्,
किं न अपि तु विनियम्येरन्नेव, प्रतिषेधद्वयेन प्रकृतार्थगतेः । कैः ? इत्यत्राह--यथास्वम् इत्यादि ।
सन्निकर्षः योग्यदेशावस्थानम् न संयोगादिः666 तस्य निषेत्स्यमानत्वात्, स667 विद्यते येषाम् अर्थे
न्द्रियाणां ते सन्निकर्षिणः तैः इति । यो यस्य संस्कारस्य प्रबोधनपटुः सन्निकर्षी तस्य अनति
क्रमेण यथास्वम् इति । तन्न क्वचिदर्थे दर्शनस्य668 उपयोग इति मन्यते ।


पूर्वस्य कारिकाद्वयस्य व्याख्यानम्२८ ख कृत्वा सुगमत्वात्, उत्तरस्य अक्षरद्वयाधि
कस्य व्याख्यानं कुर्वन्नाह--वस्तुस्वभावोऽयम् इत्यादि । वस्तुनः पदार्थस्य स्वभावोऽयं स्वरूपमिदं
यद्यस्मात्तश्च 669भावाद् व्यवसायो विकल्पः स्मृतिबीजम् स्मरणनिमित्तं संस्कारम् आद
धीत व्यवसायात्मनो दृष्टेः
सिद्धिवि॰ १ । ४ इत्यादौ चिन्तितमेतत् । तन्न युक्तमेतत्—
वस्तुस्वभावोऽयं यदनुभवः पटीयान् स्मृतिबीजमादधीत । इति । ततः किं स्यादिति
चेत् ? अत्राह--ततः तस्मात् स्मृतिबीजप्रबोध 670 प्रकृष्टः संशयादिरहितो बोधः सदृशस्मृतिः
स्याद् भवेत् । किं तत एव उतान्यतोऽपि ? इत्यत्राह--सहकारिकारणवशात् इति । तेन
स्मृतिबीजेन सह करोति सदृशस्मृतिमितिसहकारि तच्च तत्कारणं च इन्द्रियार्थादि तस्य
वशात् । अनेन परप्रसिद्ध्या सदृशस्मृतेः प्रत्यक्षत्वे निमित्तं दर्शयति । प्रकृतमुपसंहरन्नाह--तत्र
इत्यादि । तत्र तस्मिन् संभवे सति कस्य तत्प्रबोधस्य सदृशस्मृतिप्रबोधस्य । कथंभूतस्य ?
इन्द्रियार्थसन्निकर्षापेक्षिणः इन्द्रियार्थयोः सन्निकर्षमपेक्षते इत्येवंशीलस्य, किम् ? अविकल्प
कल्पनायां
पूर्वं पश्चाच्च दर्शनमनर्थकम् इति ।


ननु भवत्वेवं तथापि सदृशस्मृतेर्न वैशद्यम्, तदुक्तम्—

*न विक671ल्पानुविद्धस्य स्पष्टार्थप्रतिभासिता ।

स्वप्नेऽपि स्मर्यते स्मार्त्तं न च तत्तादृगर्थदृग् ॥ प्र॰ वा॰ २ । २८३ इति ।

२९ क विशदं च ज्ञानं भवतामध्यक्षमिति चेत्; अत्राह--वैशद्यम् इत्यादि ।


वैशद्यमत एव स्यात् व्यवसायात्मनः स्मृतेः ।

असंस्कारप्रमोषे हि संज्ञानं नापि पश्यताम् ॥ ७ ॥

व्यवसायात्मनः संस्कारप्रबोधस्य कारणसामग्र्या स्वतो वैशद्यमनुभवतः को
विरोधः ?


36

वैशद्यं स्पाष्ट्यम् अत एव इन्द्रियार्थसन्निकर्षापेक्षित्वादेव स्याद् भवेत् । कस्य ?
व्यवसायात्मनः स्मृतेः इति । ननु संस्काराद् वासनाऽपरनाम्नः त672त्स्मृतेः संभवे निर्वि
षया सा673 भवेत्, वैशद्येऽपि कामाद्युपप्लुतज्ञानवदिति चेत्; अत्राह--असंस्कार इत्यादि । न
संस्कारस्य प्रमोषः असंस्कारप्रमोषः संस्कारसद्भावः तस्मिन् हि स्फुटम् अत एव
त्येतदत्रापि सम्बन्धनीयम् सं ज्ञानं समीचीनं संशयादिरहितम् ज्ञानम् । एतदुक्तं भवति—
संस्कारमात्रभावि निर्विषयम्, न 674चेदं तथा, अर्थादेरपि कारणस्य प्रतिपादनात् । दृश्यते हि
तथाविधं समीचीनं स्वभ्यस्ते क्षणभङ्गादिवत् जलादौ । ननु न वैशद्यं व्यवसायात्मनः स्मृतेः
किन्तु दर्शनस्य त675त्राध्यारोपात् न676 तस्या677 इति व्यपदिशति । तदुक्तम्--


*मनसोर्युगपद्वृत्तेः सविकल्पाऽविकल्पयोः ।

विमूढो लघुवृत्तेर्वा तयोरैक्यं व्यवस्यति ॥ प्र॰ वा॰ २ । १३३

इति चेत्; अत्राह--नापि पश्यताम् इति । अत एव इत्येतदत्रापि अनुवर्त
नीयम् । ततोऽयमर्थो भवति--यत एव इन्द्रियार्थसन्निकर्षापेक्षी त678त्प्रबोधः किमविकल्पकल्पनया ?
अत एव यस्य तां 679 स्वलक्षणं विषयीकुर्वतां दर्शनानां नापि नैवम् अवैशद्यमिति ।
इदमत्र तात्पर्यम्--यथा जपाकुसुमेषु रक्तत्वं तथा यदि दर्शनेषु वैशद्यं विनिश्चितं स्यात् तदा
680न्यत्र त681दध्यारोपात् प्रतिभातीति २९ ख शक्यं वक्तुं नान्यथा अतिप्रसङ्गादिति ।


कारिकार्थं विवृण्वन्नाह--व्यवसायात्मन इत्यादि । व्यवसायात्मनः निर्णयस्वभाव
स्य संस्कारप्रबोधस्य संस्कारस्य वासनापराभिधानस्य यः प्रकृष्टः समीचीनो बोधः चेतनापरि
णामः तस्य अक्षार्थसन्निकर्षापेक्षया स्वतो न याचितकमण्डनन्यायेन दर्शनानां सम्बन्धि वैशद्यम्
अनुभवतः
स्वीकुर्वतः को विरोधः न कश्चित् । कुत एतत् ? इत्यत्राह--कारणसामग्या
त्यादि । सुगमम् । प682रापेक्षया इदमुक्तम् । 683भावतः पुनः आवारणधिगपाद् 684 वैशद्यमिति ।


ननु686 स्वार्थयोश्चेत् प्रत्यक्षं सविकल्पकं स्वाभिधानसंसृष्टयोरेव ग्राहकं स्यात्, तदभिधा
नयोरपि स्वाभिधानसंसृष्टयोः इत्येवं युगपदनेकाभिधानप्रतीतिप्रसङ्गः अनुभवविरुद्धः । प्रयोग
श्चात्र--यत् सविकल्पकं ज्ञानं तदभिधानसंसृष्टार्थग्राहकं यथा नीलमिदमिति ज्ञानम्, सविकल्प
कं च प्रत्यक्षमिति चेत्; अयुक्तमेतत्; अनैकान्तिकत्वात् हेतोरिति दर्शयन्नाह--सदृश इत्यादि ।


सदृशस्वार्थाभिलापादितस्मृतिर्नाप्यभिलापिनी ।

तावतैवाविकल्पत्वे तुच्छा धीः स्याद्विकल्पिका ॥ ८ ॥

किञ्चित्केनचिद्विशिष्टं गृह्यमाणं विशेषणविशेष्यतत्सम्बन्धादिग्रहणमन्तरेण न भ
वितुमर्हति । ततः प्रत्यक्षसदृशार्थाभिधानस्मृतिरनभिलापिनी अभिलापादिविषया सिद्धा ।
37 तदन्याभिलापापेक्षणे अनवस्थाप्रसङ्गात् । अभिलापसंसर्गयोग्यप्रतिभासा प्रतीतिः कल्प
नेति विशेषणाददोषश्चेत् स्वार्थसन्निकर्षनिर्भासविशेषवैकल्यव्यतिरेकेण न तद्विशेषणार्थमु
त्प्रेक्षामहे । ततः किम् ?


सदृशः सन्निहितेन समानः सङ्केतसमयभावी स्वश्च अर्थश्च तस्य अभिलापः
अभिधानम् आदिर्यस्य विशेषणविशेष्यसम्बन्धलोकस्थित्यादेः स तथोक्तः तस्य, नापि नैव
अभिलापिनी शब्दवती, परपक्षनिक्षिप्तदोषप्रसङ्गः न्यायस्य समानत्वात् । अत एव अर्थाभि
लापग्रहणं युगपद् ३० क अर्थाभिलापः अभिलाप 687प्रतिभासप्रतिपादनार्थम् ।
अनवस्था च स्मर्यमाणाभिलापेऽपि स्मृतस्य तस्य688 योजनात्, तत्रापि स्मृतस्येति । ततः अनैका
न्तिको हेतुः । नाऽनैकान्तिकः त689स्या अविकल्पकत्वात् अभिलापवती प्रतीतिः कल्पना690
ततोऽन्या अविकल्पिका ।
इत्यपरः । तस्य उत्तरमाह--तावतैव इत्यादि । तावतैव
अनभिलापित्वमात्रेणैव अविकल्पकत्वे अङ्गीक्रियमाणे तत्स्मृतेः इति विभक्तिपरिणामेन
सम्बन्धः । नु691ल्या 692 तुच्छा नीरूपा धीः बुद्धिः स्याद् भवेत् विकल्पिका कल्पनैव न
स्यादित्यर्थः । एतदुक्तं भवति--यदा तदभिलापस्मृतिः अविकल्पिका तदा कल्पनापोढत्वात् प्रत्यक्षैव
स्यात्--कल्पनापोढं प्रत्यक्षम्693 प्र॰ समु॰ पृ॰ ८ इति वचनात् । स्वलक्षणविषयत्वाच्च694
स्वलक्षणगोचरमध्यक्षम्695, ततो न तद्विषयस्य अभिधानस्य दृष्टे योजनमिति नीलमिदम् इत्यादि
विकल्पाभावः इति प्रत्यक्षलक्षणे कल्पनापोढपदमनर्थकं 696व्यवच्छेद्याभावात् । माभूदयं दोषः
इति 697तत्स्मृतिः 698अनभिलापिन्यपि सविकल्पिका अभ्युपगन्तव्येति स एव दोषः ।


एतेनेदमपि निरस्तं यदुक्तं परेण699--न सोऽस्ति प्रत्ययः700 वाक्यप॰ १ । १२४ इत्यादि ।


कारिकां विवृण्वन्नाह--किञ्चिद् इत्यादि । किञ्चिद् देवदत्तादिकं केनचित् दण्डादिना
विशिष्टं गृह्यमाणं विशेषणं दण्डादि विशेष्यं देवदत्तादि तयोः सम्बन्धः संयोगादिः आदि-
शब्देन लोकव्यवस्थादिपरिग्रहः तेषां ग्रहणं सङ्केतकाले प्रतिपत्तिः तदन्तरेण न भवितुमर्हति
३० ख किन्तु तस्मिन् सति भवति । तदुक्तं परेण--


*विशेषणं विशेष्यं च सम्बन्धं लौकिकीं स्थितिम् ।

गृहीत्वा संकलय्यैतत् तथा प्रत्येति नान्यथा ॥ प्र॰ वा॰ २ । १४५ इति ।

ततः किं जातम् ? इत्यत्राह--तत इत्यादि । यत एवं ततः तस्मात् प्रत्यक्षः पुरो
वर्त्ती तेन सदृशोऽर्थः सङ्केतकालदृष्टः तस्य अभिधानस्य वाचकस्य स्मृतिः अनभिलापिनी
38 अभिलापसंसर्गरहिता अभिलापादिविषया सिद्धा । तदनभ्युपगमे दोषमाह--तद् इत्यादि ।
तस्य स्मर्यमाणस्य अभिलापस्य योऽन्योऽभिलापः तस्य अपेक्षणे अङ्गीक्रियमाणे अनवस्था
प्रसङ्गाद्
अनभिलापिनी सिद्धेति । एतदुक्तं भवति--यदि अभिलापवती प्रतीतिः कल्पना तर्हि
तद्विपरीता अकल्पना इति स्वल्पा धीः स्याद् विकल्पिका इति ।


एतत् परिहरन्नाह पर701ः--अभिलाप इत्यादि । अभिलप्यते येन यो वा असौ अभि
लापः
शब्दसामान्यम् अर्थसामान्यं च, तेन702 अर्थस्य तस्य703 वा शब्देन संसर्गो योजनम्
तस्मै योग्यः प्रतिभासो यस्याः सा तथोक्ता प्रतीतिः संवित्तिः कल्पना इत्येवं विशेषणात्
कारणाद् अदोषः स्वल्पा धीः स्यात् विकल्पिका इत्यस्य दोषस्य अभावः । प्रत्यक्षसदृशा
भिलापस्मृतेरपि कल्पनात्मकत्वादिति । इत्येवं चेत् शब्दः पराभिप्रायसूचकः । अत्राह आचार्यः—
स्वार्थ इत्यादि । स्वं च अर्थश्च स्वस्य वा अर्थः तस्य वा सन्निकर्ष इन्द्रियेण सम्बन्धः तेन
जनितः स चासौ ३१ क निर्भासविशेषश्च निरंशपरमाणुनिर्भासः तस्य वैकल्यम् अभावः,
पर्युदासापेक्षया स्थूलैकप्रतिभास एव तद्वैकल्यं तद्व्यतिरेकेण तदपहाय न तद्विशेषणार्थं विशेष
णाभिधानाभिधेयम् उत्प्रेक्षामहे इति किन्तु तदेव पश्यामः । ततः किम् ततः तस्मात् तद्विशेष
णार्थात् किं दूषणमित्यपरः ।


अत्र आचार्यः प्राह--पश्यन् इत्यादि ।


704श्यन् स्वलक्षणान्येकं स्थूलमक्षणिकं स्फुटम् ।

यद्व्यवस्यति वैशद्यं तद्विद्धि सदृशस्मृतेः ॥ ९ ॥

स्वलक्षणानि स्वयमभिमतक्षणक्षयपरमाणुलक्षणानि पश्यतोऽपि केवलमेको हि
ज्ञानसन्निवेशी स्थवीयानाकारः परिस्फुटमवभासते । यदि तुभ्यं रोचते । प्रकृतसदृश
स्मृतेरिव अव्यापृताक्षबुद्धावप्रतिभासनात् । शब्दैश्च सदृशाकारमशब्दं स्मरत्येव । तस्याश्च
प्रामाण्यं युक्तम् । न हि तयाऽर्थं परिच्छिद्य अर्थक्रियायां विसंवाद्यते । अनधिगतार्थाधि
गन्तृत्वाभावादयुक्तम्, इत्यत्रोक्तम् । तत्समुच्चयलक्षणे प्रमाणे अन्यतरस्यापि प्रामाण्यासंभ
वात् । तदशाब्दमविसंवादकं सदृशस्मरणमस्ति संहृतसकलविकल्पावस्थायां तथैव प्रति
भासनात् । तदर्थदर्शनमुपनिपत्य स्वतः स्मृतिं जनयत् नानात्मनान्तरीयकमाकारं पुर
स्कर्तुं युक्तं तदर्थवत् । तद्दर्शनं नासाधारणैकान्तगोचरं व्यापृताक्षस्य कदाचित् क्वचित्त
थैवाप्रतीतेः । नहि बहिरन्तर्वा जातुचिदसहायमाकारं पश्यामो यथा व्यावर्ण्यते तथैवा
निर्णयात् । नानावयवरूपाद्यात्मन एकस्य परिणामिनो घटादेः बहिः संप्रतीतेः अन्तः
चित्तैकाकारस्य एकस्य चित्रस्येव । न च तद्विपरीतार्थप्रकाशकं किञ्चिज्ज्ञानमस्ति यत्
प्रकृतं भ्रान्तं स्यात् । न हि तदेकान्ते स्वसदसत्समये अर्थक्रियासंभवः । तथा सति
कथमक्षणिकत्वे क्रमयौगपद्याभ्यामर्थक्रियाविरोधात् तीरादर्शिशकुनिन्यायेन ततः सत्त्वं
39 निवर्तमानं क्षणिकत्वे अवतिष्ठते इति सतः साकल्येन क्षणभङ्गसिद्धिः ? तत्रैव ताभ्यां
तद्विरोधात् । ततो यत् सत् तत्सर्वमनेकान्तात्मकम् । तदेकान्तस्यासत्त्वम् उपलब्धिल
क्षणप्राप्तावनुपलभ्यमानत्वात् । अन्यथाऽप्रमेयत्वम् ।


परस्परविलक्षणानि निरंशक्षणानि स्वलक्षणानि705 पश्यन् सौगतः अन्यो वा जिनः
706 अनेन सञ्चितालम्बनाः पञ्च विज्ञानकायाः707ति परस्य सिद्धान्तो दर्शितः ।
किमर्थमिति चेत् ?


*प्रत्यक्षं कल्पनापोढं प्रत्यक्षेणैव सिध्यति ।

प्रत्यात्मवेद्यः सर्वेषां विकल्पो नामसंश्रयः ॥ प्र॰ वा॰ २ । १२३

इस्यस्य एकम् इत्यादिना वक्ष्यमाणेन प्रत्यक्षेण बाधाप्रदर्शनार्थम्; तथाहि--


प्रत्य708क्षं कल्पनापोढं प्रत्यक्षेण निराकृतम् ।

प्रत्यात्मवेद्यं सर्वेषां जा709त्यन्तरमिह स्फुटम् ॥

तद्यथा--स्थूलं महत्त्वोपेतं घटादिकं व्यवस्यति निश्चिनोति सौगतो जनो वा न सूक्ष्मं
परमाणुरूपम् एकं युगपदनेकावयवगुणसाधारणम् । अनेन अ710क्रमानेकान्तो दर्शितः । अक्षणिकं
पूर्वापरकोटिसंघटितशरीरं मृत्पिण्डादिषु कथञ्चिन्मृदेकत्वदर्शनात् । अनेन क्रमाऽनेकान्तः711 । ननु
व्यवस्यति तथाभूतं तत्तु कल्पनामिति712कल्पितत्वात् अपरिस्फुटमिति चेत्; अत्राह--स्फुटम्
इति । स्फुटं विशदमिति । ततो निराकृतमेतत् यदुक्तं713--प्र ज्ञा क रे ण अस्थूलाऽनेकापेक्षया
तत् स्थूलमेकम् इति न पारमार्थिकम् । न हि वस्तुस्वभावाः परापेक्षया भवन्ति714 अति
प्रसङ्गात् ।
३१ ख इति । कथम् ? स्फुटत्वाभावप्रसङ्गात् । त715थैव तत्, न परापेक्षमेतत्,
स्वयं स्थूलस्यैव बिल्वकपित्थादेः सर्षपापेक्षया स्थूलताव्यवहारः । न हि तथाऽपरिणतम् अन्या
पेक्षया तद् भवति अतिप्रसङ्गात् । यत् यस्मात् वैशद्यं विद्धि जानीहि सदृशस्मृतेः
व्यवसायात्मनो दृष्टेः सम्बन्धीति ।


ननु यदि प्रत्यक्षं कल्पनापोढम् प्र॰ वा॰ २ । १२३ इत्यादेर्निषेधार्थम् एकम्
इत्यादि वचनम्; तर्हि एकं स्थूलम् इत्यनेन अक्षिणकम् इत्यनेन वा तन्निराक्रियत
इत्युभयवचनमनर्थकमिति चेत्; न; क्रमाऽक्रमानेकान्तयोः समानबलताप्रतिपादनार्थत्वात् तद्वच
नस्य । तथाहि--यथैव प्र ज्ञा क र स्य मध्यक्षणदर्शनं पूर्वोत्तरक्षणौ द्रष्टुमसमर्थमिति न तयोः716 तेन717
40 एकत्वं हेतुफलभावमन्यं वा सम्बन्धं प्रत्येतुमर्हति द्विष्ठसंबन्धसंवित्तिः718 प्र॰ वार्तिकाल॰
२ । १
इत्यादि वचनात्, नापि सत्त्वम् 719अद्वैतोपगमात् । तथा मध्यक्षणस्य पूर्वसूक्ष्मनिरंशैकांश
ग्रहणे मग्नं न तद्720 इत721रभावत्वाक्षितुं 722 क्षमते इति तेषामपि सैव वार्त्ता स्यात्723
न च तदंशज्ञान724 सामान्यवत्725 इति सर्वशून्यताप्रसङ्गः । स मा भूदिति 726स्तम्भज्ञानमेकम
भ्युपगन्तव्यम्, तच्च727 मध्यभागे प्रवर्तमानं तद्ग्रहणानुबन्धमजहदेव ऊर्ध्वाधस्तर्यग्भागेषु यथा प्रव
र्तते तथा मृत्पिण्डे प्रवर्तमानं तद्ग्रहणानुबन्धमजहदेव क्रमेण शिविका३२ क दीनि अवस्यतीति
सिद्धम्--अक्षणिकं स्फुटं व्यवस्यति इति । शेषं परस्य दुश्चेष्टितं प्रहन्तव्यं दिशाऽनया ।


पूर्वकारिकायां सदृशेत्यादिना परकीयस्य हेतोः728 अनैकान्तिकत्वं दर्शितम्, तावतैव
इत्यादिना कल्पनापोढम् प्र॰ वा॰ २ । १२३ इति लक्षणस्य व्यवच्छेद्याभावः, अनेन
श्लोकेन 729तदसंभवः इति विभागः ।


कारिकां विवृण्वन्नाह--स्वलक्षणानि इत्यादि । स्वलक्षणानि कथम्भूतानि ? स्वयम्
आत्मना सौगतेन न जैनेन नैयायिकादिना वा अभिमतः अङ्गीकृतो यः क्षणे क्षणे क्षयः नासौ
निरन्वयो न परिणामलक्षणः षट्कोणस्थानलक्षणो वा, तेन उपलक्षिता ये परमाणवः ते लक्षणं
स्वरूपं येषां तानि तथोक्तानि । तानि किम् ? इत्यत्राह--पश्यतोऽपि वीक्ष्यमाणस्यापि सौगतस्य
न केवलमपश्यतः केवलम् एको हि ज्ञानसन्निवेशः730स्थवीयान् आकारः परिस्फुटमवभा
सत
इति । ननु 731तथाविधानि स्वलक्षणानि पश्यतः तथाविध आकारोऽवभासते इति विरुद्धमेतत् ।
नहि नीलं पश्यतः पीतं तथाऽवभासते इति वचनविरुद्धम् इति चेत्; न; अर्थापरि
ज्ञानात् । अयं हि अस्यार्थः--सञ्चितालम्बनाः पञ्च विज्ञानकायाः इति 732परस्य राद्धान्तः ।
तत्र च यावन्तः परमाणवो न तावन्त्येव तदाकारानुकारीणि ज्ञानानि, 733सन्तानान्तरवद् भेदात्
समूहादिप्रतीतिविलोपात्, एकं तेषां ज्ञानं ग्राहकमभ्युपगन्तव्यम् । तच्च 734अन्योऽन्यविविक्तानेक
परमाण्वर्पिताकारानुकरणाद् ३२ ख एव 735 मुच्यते, एकः अनेकपरमाण्वर्पितभिन्नाकार
साधारणः । हि इति यस्मादर्थे, यस्मादेवं तदविसंवादकं सदृशस्मरणमस्ति इत्यनेन सम्बन्धः ।
अत्रापि तत् इत्येतत् तस्मादर्थे द्रष्टव्यः । कथम्भूतोऽसौ ? इत्यत्राह--ज्ञानसन्निवेशो 736
भेदविवक्षया परमाणुभिरर्पिता ज्ञानस्य आकारा ज्ञानानि सम्यक् कथञ्चित्तादात्म्येन निवेष्टुं
शीलः सन्निवेशी । पुनरपि कथम्भूतः ? इत्यत्राह--स्थवीयान् स्थूलतरः । ननु कारिकायाम् स्थूलं
व्यवस्यति
इति वचनात् नातिसायिकस्य 737 श्रुतिः वृत्तौ तु 739सास्ति तत्कथं
41 वृत्तिकारिकयोः साङ्गत्यमिति चेत् ? अयमभिप्रायः--सौगतापेक्षया मध्यक्षणः स्थूलः एकस्याने
कभावव्याप्तेः, स एव जैनापेक्षया अतिशयेन स्थूलः सावयवः पूर्वोत्तरक्षणव्याप्तेः । ततः प्रकृत्य
आदौ स्थूलम् इति व्याख्यातम् । तेन 740 अक्षणिकम् इति व्याख्यानं 741
742तेनाक्षणिकमिति । कोऽसौ ? इत्यत्राह--कृतोः 743वस्तुस्वभावः । कथमवभासते ? इत्यत्राह—
परिस्फुटम् इति, क्रियाविशेषणमेतत् । ननु यदि मम744 स्वलक्षणानि क्षणिकपरमाणुलक्षणानि पश्यतः
तथाविध आकारोऽवभासते कथं तथा न जानानि 745 ? क747थमन्यथा यत्
सत् तत्सर्वमनेकान्तात्मकम्
इति वक्ष्यमाणकमनुमानमर्थवत् ? इ748तरा749 क्षणक्षयेऽपि पक्षे
750दनुमानमनर्थकं न स्यादिति चेत्; अत्राह--जाना751सौष्ठवप्रदर्शनार्थः यदि तुभ्यं
सौगताय रोचते दिण्डिक 752रागं ३३ क परित्यज्य यदि तत्र रुचिं कुरुषे स्वयमेव ।
न चैवम्, तस्मात् रुचिकरणार्थमनुमानमिति मन्यते । ननु ज्ञानसन्निवेशी स्थवीयानाकारोऽवभा
सते, किन्तु तज्ज्ञानस्य754 अनक्षजत्वात्, अ755क्षजं ज्ञानं स्वार्थपरिस्फुटम्, 756अभिधानजनतिस्वर्गादि
757विकल्पप्रतिभासाऽविशेषाच्च न परिस्फुटमवभासत इति चेत्; अत्राह--प्रकृत इत्यादि । प्रकृता
प्रमाणस्य उत्पादेः 758 अधिकृता या सदृशस्मृतिः तस्यातिवा 759 अव्यापृताक्षस्य
अर्थग्रहणं प्रति अव्यापृताभ्येक्षणियस्य 760 या बुद्धिः विक
ल्पिका तस्याम् अप्रतिभासनात् एकस्य ज्ञानसन्निवेशिनः स्थवीयसत्स्वाकारस्य 761 इति 762तापरिणामेन सम्बन्धः । एतदुक्तं भवति--यथा प्रकृतसदृशस्मृतौ 763तदाकारस्य
प्रतिभासनं तथा यद्यव्यापृतेन्द्रियविकल्पबुद्धौ764 स्यात् युक्तमेतत्, न चैवम्, 765एकत्र स्फुटतया अन्यत्र766
विपर्ययेण प्रतिभासनात् । शब्दैश्च कारणभूतैर्बुद्धावप्रतिभासनात् । शब्दो भिन्नप्रक्रमः । ततः किं
जातम् ? इत्यत्राह--सदृशाकारम् इत्यादि । सदृशः साधारणः युगपत्क्रमभाविभागे स्वाकारो
767 यस्य तम् अशब्दं शब्दरर्वमर्थं 768 स्मरत्येव निश्चिनोत्येव ।


769ननु भवतु प्रकृतसदृशस्मृतौ तथाविधाकारस्य 770तथाभासनम् तथापि 771सा प्रमाणं माभूद्
दूरस्थितविरलकेशादौ तथाविधाकाराभावेऽपि तदवभासदर्शनादिति चेत्; इत्यत्राह--तस्याश्च
इत्यादि । तस्या एव प्रकृतसदृशस्मृतेरेव प्रामाण्यं ३३ ख युक्तम् उपपन्नम् । न हिः यस्मात्
तया प्रकृतसदृशस्मृत्या अर्थं सदृशाकारं वस्तु परिच्छिद्य प्रवर्तमानः अर्थस्य क्रियायां प्राप्तौ
विसंवाद्यते दूरस्थितविरलकेशादिषु स्थूलैकाकारवद् विप्रलम्भं नार्हति । भवतु अविसंवादिनीयं772
तथापि नास्याः773 प्रामाण्यं दर्शनदृष्टविषयत्वात्774 । एतदेवाह--अनधिगतार्थाधिगन्तृत्वाभावाद्
42 अयुक्तमिति,
दर्शनेन अनधिगतोऽपरिच्छिन्नो योऽर्थः तस्य अधिगन्तृत्वाद् 775 अयुक्तं प्रामाण्यमिति; अत्रोत्तरमाह--अत्रोक्तम् इति । अत्र पूर्वपक्षे उक्तम् उत्तरम् अन
धिगत
सिद्धिवि॰ पृ॰ २४ इत्यादि ।


प्रमाणमविसंवादिज्ञानम्प्र॰ वा॰ १ । ३ इत्यादि अन्यतः प्रवृत्तौ अविसं
वादनियमाऽयोगात्
सिद्धिवि॰ वृ॰ १ । ३ इत्यनेन अज्ञातार्थ प्र॰ वा॰ १ । ७
776इत्यादि च अनधिगतार्थाधिगन्तृ प्रमाणमित्यपि सिद्धिवि॰ वृ॰ १ । ३ इत्यादिना च
प्रत्येकपक्षे निराकृत्य 777समुत्तरम् अनधिगतेत्यादि प्रमाणमविसंवादिज्ञानामित्यादि अन्यतः
प्रवृत्तावविसंवादनियमायोगात् समुदायपक्षे निराकुर्वन्नाह--तत्समुच्चय इत्यादि । तयोः
प्रमाणमविसंवादिज्ञानम् प्र॰ वा॰ १ । ३ अज्ञातार्थप्रकाशो वा प्र॰ वा॰ १ । ७
इत्येतयोः समुच्चयः समुदायः स एव लक्षणं प्रमाणस्य यस्य तस्मिन् प्रमाणे अङ्गीक्रियमाणे778
प्रत्यक्षनुमानयोर्मध्ये अन्यतरस्य प्रत्यक्षस्य अनुमानस्य वा अपिशब्दाद् द्वयोरपि ३४ क
प्रामाण्यासंभवात्, तस्याश्च प्रामाण्यं युक्तम्इति सम्बन्धः । तथाहि--परस्य779 प्रत्यक्षे
अज्ञातार्थप्रकाशोऽस्ति न तु अविसंवादः, तत्र780 स्वार्थयोः विप्रतिपत्तिविषयत्वात् । अनुमाने
अविसंवादोऽस्ति न पुनः अज्ञातार्थप्रकाशः, व्याप्तिग्राहकज्ञानगृहीतगोचरत्वात् । वक्ष्यते चैतत्—
साकल्येनादितो व्याप्तिः सिद्धिवि॰ ३ । ३ इत्यादिना ।


प्रकृतमुपसंहरन्नाह--तद् इत्यादि । यत एवं तत् तस्मात् अशाब्दम् शब्दानाम्
इदं शाब्दं तत्कार्यमिति यावत्, न शाब्दम् अक्षजमित्यर्थः । अविसंवादकं स्वयम् अध्यवसि
तार्थप्रापकं सदृशस्मरणं युगपत् क्रमभाविभागसाधारणाकारज्ञानं परप्रसिद्ध्या सदृशस्मरणम्
उच्यते अस्ति विद्यते । ननु चेदं नाक्षजं किन्तु मानसं संहृतसकलविकल्पावस्थायाम् अक्षजस्य
अन्यथा दर्शनादिति चेत्; अत्राह--संहृत इत्यादि । संहृताः सकला विकल्पा यस्याम् अवस्थायां
तस्यामपि न केवलम् अन्यस्यां 781तथैव उक्तप्रकारेणैव प्रतिभासनात् स्वार्थयोः इति । ननु यदि
सा अवस्था782; कथं त783थैव प्रतिभासनम् ? तच्चेत्; न साऽवस्था, तथाप्रतिभासस्य विकल्पात्मक
त्वादिति चेत्; सत्यम्, तथापि ततोऽन्यस्य विकल्पस्य अभावात् संहृत इत्यादि वचनम् । अथवा
784रापेक्षया इदमभिधानमित्यदोषः । परेण हि याऽसौ तदवस्था उपवर्णिता संहृत्य सर्वतश्चि
न्ताम्
प्र॰ वा॰ २ । १२४ 785इत्यादिना, तस्यामपि तथैव प्रतिभासनादिति । अनेन सैव नास्ति
इत्युच्यते । ततो निराकृतमेतत् ३४ ख यदुक्तं परेण--यद् उपलब्धिलक्षणप्राप्तं यत्र
नोपलभ्यते तत् तत्र नास्ति यथा प्रदेशविशेषे घटः, उपलब्धिलक्षणप्राप्ताश्च कल्पनाः
संहृताशेषविकल्पावस्थायां दर्शने नोपलभ्यन्ते
इति । कथम् ? प्रत्यक्षबाधितत्वात् पक्षस्य ।
43 तथैव प्रतिभासनं हि कल्पनात्मकमात्मानं प्रतिपदम् आत्मनि 786विपरीतकल्पनां प्रतिहन्तीति सं
हृताशेषविकल्पावस्थायां दर्शनस्य कल्पनाविरहसिद्धौ यत् साधनमुक्तं परेण787--या कल्पना
यस्मिन् काले विद्यते सा तत्कालसम्बन्धिनी पुनः स्मर्यते, यथा गोदर्शनकालसम्बन्धिनी
अश्वकल्पना, न च संहृताशेषविकल्पावस्थाभाविनी पुनः स्मर्यते सा ।
इति । तदुक्तम्--


*पुनर्विकल्पयन् किञ्चिद् आसीन्मे कल्पनेदृशी ।

इति वेति न पूर्वोक्तावस्थायाम् इन्द्रियाद् गतौ ॥ प्र॰ वा॰ २ । १२५ इति ।

तत्रोत्तरमाह--तदर्थदर्शनम् इत्यादि । दर्शनम् अविकल्पार्थदर्शनं कर्तृ उपनिपत्य उप
ढौक्य स्वकार्यजन्मन्यव्यवहितं भूत्वा न पुनः सङ्केतस्मृतिजननेन788 । अन्यथा इदं दूषणं स्यात्--


*यः789 प्रागजनको बुद्धेः उपयोगाऽविशेषतः ।

स पश्चादपि तेन स्यादर्थापायेऽपि नेत्रधीः ॥

अस्यायमर्थः--यः अविकल्पो बोधः प्राक् स्वसत्तासमये अजनको बुद्धेः सदृशस्मृतेः स
उपयोगाविशेषतः व्यापाराविशेषतः स पश्चादपि ३५ क सङ्केतस्मृत्युत्तरकालमपि ते सौग
तस्य न स्यात् जनकः । ततः किं स्यात् ? इत्यत्राह--अ790र्थस्य अविकल्पबोधलक्षणस्य अपायेऽपि
अभावेऽपि नेत्रधीः अक्षजविकल्पबुद्धिः । ततो न युक्तमेतत्--यत्रैव जनयेदेनाम्791त्यादि ।
ततः सूक्तम्--उपनिपत्य इति । स्वतः आत्मनैव न वासनाप्रबोधद्वारेण संस्कारा विनियम्येरन्
सिद्धिवि॰ १ । ६ इति दोषात् स्मृतिं स्मरणम् जनयद् उत्पादयत् नानात्मनान्तरीयकम् आत्मनि
तदर्थदर्शनस्वरूपे अविद्यमानमाकारं सामान्यरूपं न पुरस्कर्तुं स्मृतेः अग्रे दर्शयितुं युक्तम् उपप
न्नम् । अत्र निदर्शनमाह--तदर्थवत् । तस्य दर्शनस्य अर्थो निरंशस्वलक्षणं तदर्थः स इव तद्व
दिति । यथा तदर्थ उपनिपत्य स्वतो दर्शयन् नानात्मनान्तरीयकमाकारं पुरस्कर्तुं युक्तः तथा दर्शन
मपि इति । अ792न्यथा अर्थादेव सामान्यावभासिनो 793ज्ञानस्य उदयाद् इदमयुक्तं स्यात्--तद्धि
अर्थसामर्थ्यम् 794
795त्यादि ।


यत् पुनरत्रोक्तं प्र ज्ञा क र गु प्ते न--नेदं स्वतन्त्रं साधनम् अपि तु प्रसङ्गसाध
नम् । तयाहि--बहिरर्थग्राहकं चेद् दर्शनं परेणेष्यते तस्मादुत्पन्नं तदाकारानुकारि च अभ्यु
पगन्तव्यम्, अन्यथा तदयोगादिति निरंशाऽर्थानुकारित्वात् निर्विकल्पकं सिद्धम् ।

इति; तदनेन अपास्तम्; यत्र हि व्याप्याभ्युपगमो व्यापकाभ्युपगमनान्तरीयकः796 प्रदर्श्यते ३५ ख
44 तत्प्रसङ्गसाधनम्797 । न चेह तदस्ति आकारान्तरानुकारित्वस्याप्यविरोधात् । अर्थसिद्धिर्न
स्यादिति चेत्; तथैव अविकल्पसिद्धिरपि । न चैवं नीलादिविकल्पस्य गृहीतग्राहित्वम्, इति न
युक्तम् अज्ञातार्थ प्र॰ वा॰ १ । ७ इत्यादि । यदा चैवं व्यवहारी वदति यथा मम ज्ञाना
दनुत्पन्नः अ798तदाकारानुकारी वा अर्थः त799स्य कारणम्, तथा अर्थादनुत्पन्नम् अतदाकारं ज्ञानं तस्य800
ग्राहकम्; तदापि कथं प्रसङ्गसाधनम् ? ततः स्थितम्--तदर्थवत् इति । तथा च यथा दर्शनं तदर्था
ज्जायमानम् अविकल्पकम्, तथा तद्दर्शनादुत्पद्यमानं स्मरणमपि801 इति विकल्पवार्तापि गता,
इति न युक्तमेतत्--पुनर्विकल्पयन् किञ्चिद् आसीन्मे कल्पनेदृशी । इति वेत्ति प्र॰
वा॰ २ । २२५
इति । न चा 802 स्मृतौ संहृताशेषविकल्पावस्थाप्यस्ति, कल्पनापि तदा
तथैव अन्यथा भवेत् । अथ सामान्यावभासि स्मरणमिष्यते; दर्शनमपि तथैष्यतामिति कथं त803
वस्थाभाविनी कल्पना न स्मर्यते इति भावः ।


उपसंहरन्नाह--तद्दर्शनम् इत्यादि । यत एवं तत् तस्मात् दर्शनं प्रत्यक्षं न असाधारणै
कान्तगोचरम्
असाधारण एकः असहायः अन्तो धर्मो गोचरो यस्य तत् तथोक्तम् न । कुत
एतत् ? इत्याह--व्यापृताक्षस्य इत्यादि । व्यापृतानि ज्ञानजनने प्रणिहितानि अक्षाणि इन्द्रियाणि
यस्य तस्य कदाचित् संहृताशेषविकल्पावस्थायाम् अन्यदशायां वा क्वचिद् बहिरन्तर्वा तथैव
३६ क असाधारणगोचरप्रकारेणैव अप्रतीतेः दर्शनस्य इति पदघटना । एतदेव भावयन्नाह—
न हि इत्यादि । हिः यस्यात् न बहिरन्तर्वा जातुचित् कदाचित् असहायं प्रत्यनीकधर्मरहितम्
आकारं वस्तुस्वरूपं पश्यामः यथा येन प्रकारेण व्यावर्ण्यते कथ्यते परैः804 इत्यध्याहारः ।
कुत एतत् ? इत्यत्राह--तथैवाऽनिर्णयात् तथैव वर्णितप्रकारेण अनिर्णयात् अनिश्चयात् ।
निर्णीतं च गृहीतमुच्यते इति मन्यते । एतदपि कुतः ? इत्यत्राह--नानावयवरूपाद्यात्मनः
इत्यादि । घट आदिर्यस्य शरीरादेः स घटादिः तस्य । कथम्भूतस्य ? अर्थस्य न ज्ञानस्य ।
कुत एतत् ? बहिः ज्ञानादन्यत्र देशे संप्रतीतेः निर्णयात् एकस्य न परमाणुसंचयरूपस्य अस
हायमाकारं नहि पश्यामः
इति सम्बन्धः ।


एवमपि च अवयवगुणेभ्यो भिन्नस्य त805स्य संप्रतीतेः नैयायिकादिमतसिद्धिरिति चेत्;
अत्राह--नानावयवरूपाद्यात्मन इति । नाना अवयवाश्च रूपादयश्च आत्मानो यस्य स तथोक्तः,
ते चलाश्च अचलाश्च आवृताश्च अनावृताश्च रक्ताश्च तद्विपरीताश्च नष्टाश्चाऽनष्टाश्च अवयवाः नाना
वयवाः, तदात्मनः इति वचनात् चलैः पाण्यादिभिः चलः विपरीतैः अचलः स इत्युक्तं भवति ।
कथमेकस्तथेति चेत् ? तथासंप्रतीतेः इति ब्रूमः । नहि पाण्याद्यवयवचलने स806 न चलति
इत्यत्रापि तथासंप्रतीतेरन्यत् शरणमस्ति । 807इयमेव प्रतीतिः, नेतरेति चेत्; न; ३६ ख
45 एकदेशचलनेऽपि लोके शरीरं चलति इति व्यवहारदर्शनात्, तथाहि--यदा किमयं मृत उत
जीवति
इति क्वचित् सन्देहः, तदा जीवति अयं हस्तचलनेऽपि शरीरं चलयति 808 यतः
इति व्यवहारदर्शनात् । अवयवक्रियायाः अवयविनि उपचारात् तथाव्यवहारः, अश्वक्रियायाः
पुरुषे उपचारात् पुरुषो याति इति व्यवहारवदिति चेत्; तर्हि न अवयवेऽपि परमार्थतः क्रिया
स्यात्, त809त्रापि परक्रियोपचारात् तथा व्यवहारात् । अ810स्खलत्प्रत्ययः उभयत्र समानः । एकस्य
चलेतररूपत्वमयुक्तं विरोधादिति चेत्; न; स्वरूपेण विरोधासिद्धेः । नहि यद् यस्य स्वरूपं तत्
तेन विरुध्यते, सर्वभावेषु तथात्वापत्तेः । तत्स्वरूपं च तथाप्रतीतेः ।


योऽप्याह परः811--पाण्यवयवे चलति न शरीरं चलति । कुतः ? कारणविशेषात्
क्रियाविशेषसिद्धेः । यः खलु अवयवस्य अङ्गुल्यादेः अल्पस्य क्रियाहेतुः प्रयत्नः नासौ
महतः शरीरस्य क्रियाहेतुः, न वै यावान् संयोगः तृणमपसारयति तावाक्लेष्ट812
मिति । नच अङ्गुल्यवयवे चलति शरीरं चलति इति प्रत्ययोऽस्ति ।
इति; सोऽप्यनेन
निरस्तः; न खलु अङ्गुल्यवयवे चलति तत्समवेतमपरमचलं स्वरूपं पश्यामः, त813त्र नाट्याकार
814प्रतीतिविरहात् । तथापि तत्कल्पने अचलावयवेषु चलमवयविरूपं कल्पनीयं स्यात् । प्रत्यक्ष
विरोधः अन्यत्रापि ३७ क न दण्डवारितः ।


यत्पुनरुक्तं तेनैव815--यदि अवयवसं816कर्मसमानकालम् अवयविनि कर्म
स्याद् अपि तर्हि अङ्गुल्यवयवे चलति शरीरं चलतीति प्रत्ययः स्यात् । किं कारणम् ?
असति देशव्यवधाने उपलभ्याधारसमवेतस्य कर्मणः प्रत्यक्षत्वात्, न चैवम् अङ्गुल्यवयवे
चलति चलति शरीरमिति प्रत्ययः ।
इति; तदपि न युक्तम्; उक्तोत्तरत्वात्, हस्तचलनेऽपि शरीरं
चलयति 817 इति व्यवहारदर्शनात्
इति । किञ्च, अवयवात्मकत्वे अवयविनः अवयवस्य
पाण्यादेः आकाशादिभ्यो विभागे नियमेन विभागः, तैर्वा संयोगे संयोगः सिद्धो भवति न भेदे ।
न हि हस्तस्य कुतश्चिद् विभागे केनचिद्वा संयोगे चलतः818 अचलस्य819820 युक्तः । अथ विभागज821
46 विभागोपपत्तौ संयोगजसंयोगोपपत्तेः अयमदोषः । कुत एतत् ? कारणेन वियोगिना 822संयोगिना वा
कार्यमवश्यं वियुज्यते संयुज्यते वा यथा तन्त्वादिसंयोगिना तुर्यादिना823 पटादिरिति चेत्; स्यादेतदेवं
यदि कार्यकारणयोः कथञ्चिदैक्यं स्यात्, इतरथा कु824म्भकारकारणेनापि वियोगिना संयोगिना वा केन
चित् सर्वं घटादि तत्कार्यं वियुज्येत संयुज्येत वा । समवायिकारणेन इति विशेषणादयमदोषः,
कथमदाः 825 कार्यकारणभेदैकान्ते समवायीतरकारणविभागकारणाभावात् । समवायः
तत्कारणमिति३७ ख चेत्; न; तस्य निषेधस्यमान826त्वात् प्रत्यक्षं सविकल्पकं827 सिद्धिवि॰ २ । २६ इत्यादिना । अनिषेधेऽपि यथा विवक्षितयोः कार्यकारणयोः828 अन्तराले
समवायः; तथा घटादिकुम्भकारयोरपि । अथ सम्बन्धाऽविशेषेऽपि कुतश्चित् प्रत्यासत्तेः किञ्चित्
कस्यचित् समवायि केनचित् संयुज्यमानेन वियुज्यमानेनवा संयुज्यते वियुज्यते वा क्विञ्चित्;
तर्हि तस्या829 एव कस्यचित् केनचित् तादात्म्यसिद्धेः किं समवायेन विभागजविभागेन संयोगज
संयोगेन च ? पाण्यादेश्च कुतश्चित् केनचिद् विभागात् संयोगाद्वा न प830रं शरीरस्य विभाग 831 संयोग 832 वा पश्यामः833 । तथापि तत्कल्पने एकमेव न किञ्चित् स्यात् । अथ पाणिशरीरयोरपि
भेदः; कुतः ? विभागभेदात्834; अन्योऽन्यसंश्रयः--पाणिशरीरयोः भेदसिद्धेः विभागभेदसिद्धिः,
अस्याश्च प्रकृतसिद्धिरिति । नापि पाण्याकाशयोः प835रिणामविशेषव्यतिरेकेण परस्तयोर्विभागोऽस्ति
यः शरीराकाशविभागकारणं स्यात्, अन्यथा कारणविभागात् कार्यविभागात्, कार्यविभागस्य
836तदन्तरं तयोरेकताभयात् स्यात्, तत्रापि 837तदन्तरमित्यनवस्था । स्वरूपमेव ततस्तस्य विभक्त
मिति चेत्; अन्यत्रापि तदस्तु । किञ्च, यदि आकाशादिना संयुक्ते प्रतीयमाने एव शरीरे ततः
पाण्यादिविभागप्रतीतिः स्यात्, युक्तमेतत्-- पाण्याकाशविभागात् शरीराकाश-३८ क
विभागः ततः शरीराकाशसंयोगनिवृत्तिः ।
इति । न चैवम्, तथा क्रमानुपलक्षणात्,
पाण्याकाशविभागकाल एव शरीराकाशविभागदर्शनात् । नहि कश्चित् 838खादिना संयुक्त एव शरीरे
मम 839ततः पाण्यादिकं विभक्तमिति मन्यते । उत्पलपत्रशतवेधवद् आशुवृत्तेः तदनुपलक्षणमिति
चेत्; भवेदेवं यदि तत्पत्राणां स्वरूपदेशभेदवत् तद्विभागानां स्वरूपकालभेदः कुतश्चित् सिद्धः
स्यात्, न चैवम्, प्रतीतिबाधनात् ।


यत्पुनरुक्तं परेण--पाण्याकाशयोर्विभागात् तत्संयोगविनाशः इति; तन्न सुन्दरम्;
संयोगे सति विभागानुत्पादात् तद्विरोधिनि । यथैव हि संयोगविरोधिनि विभागे समुत्पन्ने
संयोगो नश्यति तथा विभागविरोधिनि संयोगे स्थिते विभागो नोत्पद्यते । न हि शीतविरोधिनि
47 पावके स्थिते शीतोत्पादादिः । संयोगे विनष्टे तदुत्पाद इति चेत्; कुतस्तर्हि त840द्विनाशः ? विभा
गादिति चेत्; अन्योन्यसंश्रयः--सति संयोगविनाशे विभागोत्पादः, त841स्माच्च तद्विनाश इति ।
अथ दृश्यत एव संयोगे सत्येव विभागोत्पादः, न दृष्टेऽनुपपन्नं नाम इति चेत्; न; तथा
प्रतीतिविरहात् । संयोगविनाशात्मकविभागप्रतीतेश्चसंयोगविनाशः, विभागः इति नाम्नि भेदः
नार्थे । विभागाभावे कुतस्तन्नाश842 इति चेत् ? तन्नाशाभावे कुतो विभागः ? स्वकारणात् कर्मण843
इति चेत्; तासोऽपि 844 स्वकारणात् इति ब्रूमो द्रव्यादेरिति ३८ ख यद्वक्ष्यते--


*अनादिनिधनं द्रव्यम् उत्पित्सु स्थास्नु नश्वरम् ।

स्व तोऽन्यतो विवर्तेत क्रमाद्धेतु फलात्मना ॥ सिद्धिवि॰ ३ । २१ इति ।

न च अन्योन्यापसर845द्वस्तुव्यतिरेकेण परं कर्म, यद् विभागस्य अ846न्यस्य वा कारणं स्यात्,
इतरथा उत्क्षेपणादिक्ष847योत्पत्तावपि यदि द्रव्यं स्वभावतो न चलति न तर्हि तस्य कुतश्चिद्
विभागः संयोगो वा देशान्तरादिना, अविशेषेण सर्वस्य प्रसङ्गात् । अथ यस्यैव तदिति मतिः; कस्य ?
समवायसम्बन्धः आकाशादेरपि । त848त्सम्बन्धस्य तत्राप्यविशेषात् । एष यः चलयति 849 इति
प्रतीयते तस्य त850दिति; न; स्वयमचलति851 तत्प्रतीत्ययोगात् भ्रान्तताप्रसङ्गात् । स्वयं चलति चेत्; तर्हि
द्रव्यस्वरूपविशेष एव क्रिया न परा, इति न युक्तमेतत्--एकद्रव्यमगुणं संयोगविभागेषु852 कार
णमनपेक्षमिति कर्मलक्षणम् ।
वैशे॰ सू॰ १ । १ । १७ इति 853विफलम् 854कार्यविरोधि कर्म
वैशे॰ सू॰ १ । १ । १४ इति च । एतेन आकाशशरीरयोर्विभागात् 855तत्संयोगविनाशो व्याख्यातः ।


यत् पुनरेतत्--उत्तराकाशपाणिसंयोगात् शरीराकाशसंयोगः । इति; तदपि न
प्रातीतिकम्; नहि पूर्वं शरीररहितस्य पाणेः आकाशेन संयोगः, पश्चात् शरीरस्य इति प्रतीतिरस्ति ।
आशुवृत्त्या यौगपद्यविभ्रमोऽपि निरस्तः । अपि च, यदि गगनादिभ्यो वियुज्यमाने पाणौ शरीरं
वियुज्यते, तैः संयुज्यमाने तस्मिन् तत् संयुज्यते वा; तर्हितेभ्योऽवियुज्यमानेषु ३९ क पादा
दिषु तदैव 856तन्न वियुज्यते इति युगपत् 857तत् संयुक्तमन्यथा च स्यात् ।


स्यान्मतम्--सर्वात्मना तद् वियुक्तमेव, किन्तु आकाशादिभिः संयुज्यमानेषु पादादिषु आशु
858तत्संयोग इति तत्संयुक्तप्रतिपत्त्यविच्छेद इति; तन्न निरूपिताभिधानम्; अन्यथाप्यविरोधात् ।
न हि एकं चलावयवापेक्षया चलम् अन्यथा अचलम्, तथा विभक्त-संयुक्तावयवापेक्षया संयुक्तं
विभक्तं च विरुद्धम्, सचलैकरूपवत् । अथ एतदपि नेष्यते; कथं तर्हि गुणाश्च गुणान्त
रम्
वैशे॰ सू॰ १ । १ । १० इत्यत्र सूत्रे अन्तरशब्दस्य उक्तं प्रयोजनमिदं शोभते--कार्य
कारणगुणयोः क्वचित् जात्यन्तरत्वज्ञापनार्थत्वाददोषः । कथम् ? यथा शुक्लाशुक्लैः
तन्तुभिरारब्धस्य पटस्य रूपं कारणरूपेभ्यो जात्यन्तरमिति । का पुनः तत्र रूपे जातिः ?
48 चित्रत्वमिति ब्रूमः । विशेषानवधारणात्, यस्वा सौरूप 859विशेषः शुक्ल
त्वादिः सोऽस्मात् नावधार्यते इति । न चेदमरूपं द्रव्यम् उप860लब्धिप्रसङ्गात्861
वायुवत् । उपलभ्यमानत्वाच्च तन्तुवत् रूपाधिकरणम् ।
इति ।


एतेन यदुक्तम्--


*चित्रं तदेकमिति चेत्, इदं चित्रतरं महत् । प्र॰ वा॰ २ । २०० इति;

एतदपि प्रत्याख्यातम्; चित्रशब्दस्य अ862नेकार्थविषयत्वानभ्युपगमात् । क्व तर्हि वर्तते863
इति चेत् ? एकस्मिन् शबले रूपे वर्तते इति । तथा च प्रतिभासः--शबलो गौः शबलः खलु
अश्व इति । कथम् ? यदि हि शुक्लाशुक्लैः तन्तुभिर्जनिते पटे नीलादीनि रूपाणि ३९ ख
भिन्नानि बहूनि वर्तन्ते; अपि तर्हि कर्माणि बहूनि युगपदेकस्मिन् द्रव्ये ण 864वर्तन्ते865,
सजातीयत्वे समानेन्द्रियग्राह्यत्वे एकद्रव्यत्वे च सति अविभुद्रव्यवृत्तित्वात् रूपवत् ।

इत्यत्र निदर्शनस्य साध्यविकलता । अथैक866म्; नीलादयः क्व वर्तन्ते ? द्रव्ये चेत्; प्रकृतो दोषः867
तद्रूप868 इति चेत्; केन सम्बन्धेन ? संयोगेनेति चेत्; तद्रूपनीलाद्योः द्रव्यत्वम्869 । समवायेनेति
चेत्; त870द्रूपस्य द्रव्यत्वं नीलादिसमवायिकारणत्वात्871 । विशेषणीभावेनेति चेत्; रूपादयोऽपि
द्रव्ये तेनैव872 वर्तन्त इति समवायाभावः । नीलादीनां द्रव्यादिषु अनन्तर्भावात् पदार्थान्तरत्वम् ।
तादात्म्येन चेत्; सिद्धं शबलैकरूपवत्873 इति । ततः स्थितम्--चलाचलसंयुक्तासंयुक्तत्व
प्रतिपादनार्थम् एकस्य नानावयवात्मनः इति वचनम्, दृशोः 874 अवयवैः अदृशोश्च
875 दृश्येतरात्मकत्वप्रतिपादनार्थं च ।


नन्वेवम्876 एकतन्त्ववयवग्रहणेऽपि पटो गृह्येत, न चैवम्, 877भूयोऽवयवेन्द्रियसन्निकर्ष
सहायस्य अययवीन्द्रियसन्निकर्षस्य अवयव्युपलम्भकृत्त्वादिति चेत्; स्यादेतदेवं यदि अवयव
अवयविनोभे878दैकान्तः, स तु नेतीति निरूपितम् । एवं च न अवयवेन्द्रियसन्निकर्षोऽन्यः,
अन्योऽवयवीन्द्रियसन्निकर्षः, येनोच्यते--भूयोऽवयवेन्द्रियसन्निकर्षसहायस्य अवयवीन्द्रियसन्नि
कर्षस्य ४० क अवयव्युपलम्भकत्वात्
इति; साहाय्यस्य भेदनिबन्धनत्वात् । यदि च, अव
यविन इन्द्रियसन्निकर्षोऽस्ति; कुतस्तत्र879 ज्ञानं नोत्पद्यते ? कथमन्यथा समन्धकारादौ अवयवि
ज्ञानम्, नहि तत्र भूयोऽवयवेन्द्रियसन्निकर्षोऽस्ति सालोकादिप्रदेशवत्, इतरथा तज्ज्ञानेऽस्पष्टता
49 व्यवहारो न स्यात् । अवयवाऽग्रहणकृतः स880 इति परस्य दर्शनम् । अथेन्द्रियसन्निकर्षोऽपि त881स्य
नेष्यते; एकावयवस्यापि न स्यादिति त882स्यापि न ग्रहणम् । ततोऽयुक्तमेतत्--एकतन्तुवीरण
संयोगात् पटकटसंयोगः
इति; तद्ग्रहणोपायाभावात् । अथ ते शे 883ष्यते त884त्सन्नि
कर्षः; पटस्यापि स्यात् कारणसंयोगिना कार्यमवश्यं संयुज्यते प्रश॰ भा॰ पृ॰ ६४
इति वचनात्, अन्यथा वीरणेनापि न स्यात् । किंच, एकतन्त्ववयवेन्द्रियसन्निकर्षोऽपि यदि
तद्भूयोऽवयवेन्द्रियसन्निकर्षसहाय एव तन्तूपलम्भकः; तर्हि तदवयवेन्द्रियसन्निकर्षोऽपि तद्भूयोऽ
वयवेन्द्रियसन्निकर्षसहाय एव त885दवयवोपलम्भकः, एवं यावत्परमाणवः886 । न च तेषामिन्द्रिय
सन्निकर्ष इति सर्वाग्रहणम् । यदि च एकावयवेन्द्रियसन्निकर्षात् त887त्र ज्ञानं न स्यात्; तर्हि
जलमग्नकरिणः क888रमात्रदर्शनात् करी तिष्ठत्यत्र इति प्रतीतिर्न स्यात्, इष्यते च परेण । ततः
साधूक्तम्--दृश्यावयवैः दृश्यात्मनः विपरीतैः विपरीतात्मनः इत्यस्य प्रदर्शनार्थम् नानावय
वात्मनः
४० ख इति वचनमिति, तथा आ889वृतैः आवृतात्मनः विपरीतैर्विपरीतात्मन इत्यस्य च ।


890नन्वेकस्याऽऽवृतानावृतत्वानुपपत्तेः अयुक्तमेतत् । न खलु एकस्मिन्नवयवे पाण्यादौ आव
रणे सत्यपि शरीरस्य आवरणमस्ति महत्त्वात् । न हि यावान् आवारकद्रव्यसंयोगः अवयवमावृणोति
तावान् अवयविनं 891तस्य महत्त्वात्तु पुनरन्य एकावारकद्रव्यसंयोगविशेष आवृणोति यथा प्रतिशरा
दिसंयोगविशेषः कुड्यमिति । अवयवावारकं तु द्रव्यम् अवयविना संयुक्तं नाऽऽवृणोति अमह
त्त्वात् संयोगविशेषाभावाच्च, यथा कौपीनप्रच्छादकमल्पं 892वासः यथा वा परिधानवास893 इति ।
समग्रावयव्युपलब्धिप्रसङ्ग इति चेत्; 894समग्राऽसमग्र इतिशब्दयोः भेदविषयत्वात्, अवयवि
नस्तु अभिन्नत्वात् । न खलु अवयवी समग्रो नाप्यसमग्रः, तस्य एकत्वात् । अपि भवान् गृह्य
माणस्य अवयविनः किमगृहीतं मन्यते येनायमकृत्स्नो गृह्यत इत्याचष्टे ? आवृतोऽवयवो न
गृह्यत इति चेत्; न गृह्यतां नाम, अवयवी तु गृह्यते 895ततोऽन्यत्वात् । इयांस्तु विशेषः896--येषामव
50 यवानाम् इन्द्रियसन्निकर्षः तैः897 सहोपलभ्यते, येषां पुनः आवृतत्वान्नेन्द्रियसन्निकर्षः तैः
सह नोपलभ्यत इति चेत्; उच्यते--शबलैकरूपवद् आवृताऽनावृतैकावयव्युपपत्तेर्नाऽयुक्तमेतत् ।


४१ क यत्पुनरुक्तम्--नहि यावानावारकसंयोगोऽवयवमावृणोति तावान् अवयविनम्
इति; तदपि न सूक्तम्; कारणसंयोगिना हि कार्यमवश्यं संयुज्यते प्रश॰ भा॰ पृ॰ ६४
इति वचनादवयववद् अवयविनोऽप्यावारकसंयोगोऽस्ति । त898स्य चोत्पत्तौ अवयवी समवायिकारण
मिति सर्वात्मना स899 तत्कारणं चेत्; तत् सर्वत्र तत्संयोगप्रतिपत्तिरिति कथन्न तावानेव तत्संयोगः तदा
वारको न स्यात् येनोच्यते--अवयविनं पुनः अन्य एव आवारकद्रव्यसंयोगविशेष आवृणोति
इति । अथ न सर्वात्मना किन्तु एकदेशेन; सांशत्वमवयविनः । ननु चोक्तम्--समग्राऽसमग्र
शब्दयोर्भेदविषयत्वाद् अवयविनस्तु अभिन्नत्वात् त900दनुपपत्तिरिति; सत्यमुक्तम्, किन्तु तदभि
न्नत्वात्
इति वदता त901स्य एकं स्वरूपमङ्गीकृतम् । तेनैव902 चेत् संयोगसमवायिकारणम्; त903त्र संयोगः
समवेतः प्रतिभातीति न त904द्रहितं तद्रूपमस्ति इति नोक्तदोषपरिहारः ।


यच्चान्यदुक्तम्--अपि च भवान् गृहमाणस्य अवयविनः इत्यादि; तत्राप्युच्यते--अवयवि
स्वरूपं न गृह्यते नावयवस्वरूपम् । एवं कथञ्चिदवयवाऽवयविनोस्तादात्म्यात्, अन्यथा आवा
रकजलादिमध्ये दृश्यभागस्य अवयविनः स्तम्भादेः सन्देहो न स्यात्--किमस्ति किं वा नेति,
कियान् वा समस्ति ?
इति ।


यच्चान्यत्--इयांस्तु विशेषः इत्यादि; तदप्येतेन निराकृतम्; यथैव हि आवृतावयवा
इन्द्रियैरसन्निकृष्टा नोपलभ्यन्ते त905त्सहितश्च अवयवी906, तथा आवारकसंयुक्तः केवलोऽपि907४१ ख
नोपलभ्यते । ततः स्थितम्--आवृतावयवापेक्षया आवृतात्मनोऽन्यापेक्षया अन्यथाभूतस्य इत्यस्य
प्रतिपादनार्थम् नानावयवात्मनः इति वचनम् । तथा नष्टैः नष्टात्मनोऽनष्टैरनष्टात्मनः इत्यस्य
च प्रतिपादनार्थम्908


ननु च नष्टा अवयवाः त एव ये निष्क्रियावयवेभ्योऽन्ये देशान्तरादिसंयोगिनो विच्छिन्नाः
यथा पादादिभ्यो हस्तादयः, नच तेषु शरीरावयवी विद्यते प्राक्तनः पादादिषु येनोच्यते--अविन
ष्टावयवापेक्षया अविनष्टः
इति, अन्यथा निष्क्रियावयवेभ्य इव आकाशादिभ्यः चित्रपाण्यादि
विभागो न भवेत् । तदुक्तम्--द्रव्याश्रय्यगुणवान् संयोगविभागेषु अकारणमनपेक्ष इति
गुणलक्षणम्
वैशे॰ १ । १ । १६ इत्यत्र सूत्रे कैश्चित् तथा कारणयोः वंशदलयोः वि
भागो विभागमभिनिर्वर्तयिष्यन् वंशविनाशमपेक्षते । कस्मात् ? अविनष्टे वंशे अस्वात
न्त्र्यात् । स्वतन्त्रावयववृत्तिर्विभागो विभागमारभते न कार्यबद्धावयववृत्तिः, एतच्च यथा
सुबद्धं भवति तथा अग्रे वक्ष्यामः इति, तदुच्यते--कारणयोर्वंशदलयोः विभागात् सक्ते
909 यस्य अवयवस्य वंशदलस्य आकाशादिभ्यो विभागः
इति चेत्; स्यान्मतं संयोगौ
51 910 सक्रियस्य अवयवस्य वंशदलस्य आकाशादिभ्यो विभागः स क्रियाज इति न 911द्रव्यार
म्भकसंयोगविरोधिविभागारम्भकस्य कर्मणः912यानि द्रव्यानारम्भकसंयोगविरोधि-४२ क
913विभागारम्भकाणि कर्माणि न तानि द्रव्याना914रम्भकसंयोगविरोधिनं 915विभागमार
भन्ते यथा नृत्यतः अवयवकर्माणि, तथेहापि छेदनभेदनतक्षणकर्मणामपि आकाशादिभ्यो विभाग
जनकत्वे द्रव्यारम्भकसंयोगविरोधिविभागारम्भकत्वं न स्यात् । अस्ति च, तस्मादिदमुच्यते--छेद
नपाटनतक्षणकर्माणि स्वाश्रयस्य916 आकाशादिभ्यो न विभागमारभन्ते द्रव्यारम्भकसंयोगविरोधिवि
भागजनकत्वात्; 917यानि पुनः स्वाश्रयस्य आकाशादिभ्यो विभागमारभन्ते न तानि द्रव्यारम्भक
संयोगविरोधिनं विभागमारभन्ते यथा नृत्यतः अवयवकर्माणि इति । 918उभयसंयोगित्वाद् उभा
भ्यां वियुज्यते इति चेत्; स्यान्मतं यथाऽयं सक्रियोऽवयवः अवयवान्तरेण संयुज्यते तथा आका
शादिभिरपि, तस्माद् यथा अवयवान्तरेण संयुक्तत्वात् तेन वियुज्यते तथा आकाशादिभिरपि सं
युक्तत्वात् तेभ्योऽपि वियुज्यते इति; न; अनेकान्तात् । नायमेकान्तः-हस्तावयवे उत्पन्नं कर्म
919स्वाश्रयस्य सर्वसंयोगिभ्यो विभागमारभत इति, किं तर्हि कुतश्चिदेव इदम्, दृष्टत्वात् । दृष्टं खलु
अङ्गुलिकर्म अङ्गुलिद्रव्यस्य आकाशादिभ्यो विभागमारभते न अवयवान्तराद् द्रव्यारम्भकसंयोग
विरोधिनं विभागमारभत इति तथेदमपि पाटनाद्यवयवकर्म अवयवान्तराद् द्रव्यारम्भक
संयोगविरोधिनं विभागमारभते नाकाशादिभ्यः इति तस्माद् ४२ ख उभाभ्यां वियुज्यते इति
अयुक्तमुक्तमिति । कुतः पुनरयं विशेष इति चेत् ? कारणविशेषात् ।


स्यान्मतम्--हस्ताद्यवयववृत्तित्वाऽविशेषेऽपि सति कानिचित् 920कर्माणि स्वाश्रयस्य आकाशादि
भ्यो विभागमारभन्ते 921कानिचित् पुनः अवयवान्तराद् द्रव्यारम्भकसंयोगविरोधिनं विभागमारभन्त
इति किंकृतोऽयं विभागः इति ? कारणविशेषात् क्रियाकारणविशेषादयं विशेषः । तदुक्तम्—
नोदनविशेषात् 922उदसनविशेषः । वैशे॰ सू॰ ५ । १ । १० इति । तत्र कार्याविष्टे कारणे
कर्म उत्पन्नं अवयवान्तराद् विभागमारभते, विभागाद् द्रव्यारम्भकसंयोगनिवृत्तिः, ततः
कार्यद्रव्यं निवर्तते, तस्मिन् निवृत्ते कारणयोर्वर्तमानो विभागः सक्रियावयवस्य आकाशा
दिभ्यो विभागमारभते
प्रश॰ भा॰ पृ॰ ६८ इति923 । को हेतु रिति चेत् ? स्यान्मतं कार्यद्र
व्यनिवृत्तौ कारणयोर्वर्तमानाद् विभागात् सक्रियावयवस्य आकाशादिभ्यो विभाग उपजायते न
पुनः पूर्वम्
इत्यत्र को हेतुरिति ? कार्यद्रव्यविनाशसहचरितत्वं हेतुः; यदि सति कार्यद्रव्ये स
क्रियावयवस्य आकाशादिभ्यो विभाग उपजायेत, नैवं तर्हि तस्य कार्यद्रव्यविनाशसहचरितत्वं
924न स्याद् अङ्गुल्याकाशविभागवदिति चेत्; अत्र प्रतिविधीयते--


यत्तावदुक्तम्--कारणयोर्वंशदलयोर्विभागो विभागमभिनिर्वर्तयिष्यन् वंशविनाशमपेक्षते
52 इत्यादि; ४३ क तत्र अङ्गुल्यवयवे छेदक्रियातः अवयवान्तराद्विभागात् संयोगविनाशे
सति यदि अवयविनः शरीरस्य विनाशः तर्हि तदवयवछेदनकर्मादिमात्रत एव शरीरस्य नाशे 925तद्
गुणानां नाशात् तदवयव्युपलम्भविकलतदारम्भकपादाद्यवयवानामेव उपलम्भः स्यात् । न चैवम्,
926तच्छेदनात् प्राक् पश्चात् तत्समकालं च तदेवेदं शरीरम् इति प्रतीतेः । 927इतरथा छिन्नाङ्गुलिरपि
स एवायंमदीयः पुत्रः इत्यादि व्यवहारविलोपप्रसङ्गः । ननु च एकावयवसंयोगविनाशे पूर्वद्रव्यनि
वृत्तौ पुनः अवस्थितसंयोगेभ्योऽवयवेभ्यो अन्यद्रव्यमुपजायते अतोऽयमदोष इति चेत्; 928कोशपा
नैरेव केवलमर्थोऽयं प्रत्येयः, न प्रतीतेः, सर्वदैकत्वप्रतीत्युपलम्भात् । भ्रान्तेयमेकत्वप्रतीतिरिति929
चेत्; न; बाधकाभावात् । अथ पूर्वद्रव्यविनाशे द्रव्यान्तरोत्पत्तिरेव बाधिकेति चेत्; सा कुतः
सिद्धा ? तत्प्रतीतेर्विभ्रमाच्चेत्; अन्योन्यसंश्रयः--सिद्धायां द्रव्यान्तरोत्पत्तौ तत्प्रतीतेर्विभ्रमः, त
स्माच्च तत्सिद्धिरिति । यदि च, सर्वदा शरीरस्य एकत्वे प्रतीयमाने एकावयवसंयोगविनाशे पूर्व
द्रव्यनिवृत्तौ पुनः अवस्थितसंयोगेभ्योऽवयवेभ्योऽन्यद्रव्यमुपजायते इतीष्यते; तर्हि सह क्रमेण
च वरं परमाणव एव अभ्युपगताः930, तथा च अवयव्यादिसाधनप्रयासाद् भवन्तो मुच्येरन् । स्थू
लैकप्रतीत्या बाधनमन्यत्रापि ।


किंच, ४३ ख अङ्गुल्यवयवे चलति आवृते शरीरं न चलति नाप्याव्रियते तथा
प्रतीतेः
इत्यभ्युपगम्य एकावयवसंयोगविनाशे अवयविनाशः सर्वथाऽभ्युपगच्छन् कथं सुस्थः ?
तथाप्रतीतेः समानत्वात् । अपि च, यदि नाम एकावयवसंयोगविनाशः किमायातं येन 931ततो
भिन्नस्य अवयविनो विनाशः अतिप्रसङ्गात् ? न ह्यवश्यं कारणनाशाद् उत्पन्नं कार्यं नश्यति
अत्र932परिणामिकारणविनाशः933 । न च संयोगः परिणामिकारणं परस्य934 अन्यथा
ऽभ्युपगमात्935 । असमवायिकारणविनाशादपि तन्नाशः936 तथाप्रतीतेरिति चेत्; न, एकावयव
संयोगविनाशेऽपि कार्यद्रव्यस्य कथञ्चिदवस्थानस्य प्रतीतेः ।


एतेन भेदनादिभ्यः एकावयवस्य अवयवान्तराद् विभागेन संयोगनाशात् पूर्वावयवि
विनाशः प्रत्याख्यातः; नहि कर्णैकावयवस्य भेदने शरीरस्य तन्त्वेकावयवस्य पाटने पटस्य
वंशस्य स्वरल्पत्तकु937तक्षणे विनाशः प्रतीयते । ननु कार्यद्रव्याऽविनाशकवंशक्रिया
याः अवयवस्य आकाशादिभ्यो विभागः अस्वातन्त्र्यात् । स्वतन्त्रावयववृत्तिर्हि विभागः
सक्रियावयवस्य आकाशादिभ्यो विभागभारमते । कस्मादिति चेत् ? कार्यद्रव्यविनाशसह
चरितस्य आकाशादिभ्यो विभागस्य तदवयवे दर्शनादिति चेत्; तस्य तर्हि अवयवान्तराद्विभागः
कार्यद्रव्ये अविनष्टे किं प्रतीयते ? अप्रतीते एकोऽस्ति नापर इति किं ४४ क कृतो विभागः ?


स्यान्मतम्--अवयवात्तद्विभागः938 कार्यनाशान्यथानुपपत्त्या अनुमीयमानः पूर्वमप्यस्ति नाका
शादिभ्य इति; न; तदवयवान्तरादिव आकाशादिभ्योऽपि तदविभागे कार्य939विनाशात् ।


ननु यदि पूर्व940 941तदन्तरान्न तद्विभागः; कथमाकाशादिभ्यः ? कारणाभावे कार्यानुत्प
53 त्तेरिति चेत्; स्यादेतदेवं यदि अवयवकर्मणः तदन्तरादिव आकाशादिभ्यः तद्विभागो न स्यात् ।
एकस्मात् कर्मणः कथमनेको विभाग इति चेत् ? कथम् आकाशकालदिगात्मादिभ्यो युगपत्
942तस्य बहवो विभागाः तैर्वा संयोगाः, येनेदम् संयोगविभागा943नां कर्म वैशे॰ सू॰ १ । १ । २०
इत्यत्र बहुवचनस्य प्रयोजनमुक्तं शोभेत । एकावयववृत्तिकर्मणः अवयवाभ्यां द्वौ विभागौ अव
यवेभ्यः बहवो विभागाः, न च आकाशादिभ्यः इति स्वरुचिविरचितमेतत् ।


944स्यान्मतम्--छेदनादिकर्म सक्रियावयवस्य आकाशादिभ्यो विभागं नारभते द्रव्यारम्भक
संयोगविरोधिविभागजनकत्वात् । यत् पुनः तदवयवस्य आकाशादिभ्यो विभागमारभते न तद्
द्रव्यारम्भकसंयोगविरोधिनं विभागमारभते यथा नृत्यतोऽवयवकर्म इति; नायं हेतु; असिद्ध
त्वात्, संयोगविनाशस्यैव विभागत्वादिति चिन्तितमेतत् । न च छेदनादेः 945परं प्रति द्रव्या
रम्भकसंयोगविरोधिविभागजनकत्वं सर्वथा सिद्धम् अवयविनाशप्रसङ्गात्
इति च946 । यदि च
४४ ख नृत्यतोऽवयवकर्म सक्रियावयवस्य आकाशादिभ्यो विभागहेतुः, अवयवान्तरविभाग
हेतुर्न दृष्टः इति छेदादिरपि तद्वत् तदहेतुः947 प्रकल्प्यते; तर्हि कारणयोर्वंशदलयोर्वर्तमानो विभागो
निष्क्रियावयवस्य आकाशादिविभागहेतुर्न दृष्टः इति सक्रियस्यापि तथैव कल्प्यताम् अविशेषात् ।
प्रमाणबाधनं प्रकृतेऽपि ।


किंच, संयोगविभागानां कर्म कारणं सामान्यम् वैशे॰ सू॰ १ । १ । २० इति
वचनात् नृत्यतोऽवयवकर्माणि हस्ताद्यवयवानाम् अन्योऽन्यतो विभागं किन्नारभन्ते ? एवं सति948
ततः संयोगविनाशात् नृत्यतोऽवयविनो विनाशः स्यादिति चेत्; न; एकावयव
संयोगविनाशे पूर्वद्रव्यनिवृत्तौ पुनः अवस्थितसंयोगेभ्योऽवयवेभ्यः अन्यद्रव्यमुपजायते

इत्यभिधानात् पुनः प्रवृत्तिकर्मविशेषेभ्यः संयोगविशेषतोऽन्यद् द्रव्यं949 स्यात् । 950अविच्छि
न्नप्रतिपत्तिश्च आशुवृत्तेरिति । एवं सति किं लब्धमिति चेत् ? छेदनादिकर्म सक्रिया
वयवस्य आकाशादिभ्यो विभागं नारभते द्रव्यारम्भकसंयोगविरोधिविभागजनकत्वात् ।
यत् पुनः तस्य951 952ततो विभागमारभते न तत् 953तज्जनकं यथा नृत्यतोऽवयवकर्म ।
इति
प्लवते, वैधर्म्यदृष्टान्तविलोपात् । ततो यथा सक्रियावयवस्य अवयवान्तरात् क्रियातो विभागः
54 तथा तत्त्वाद् ४५ क आकाशादिभ्यः । नच अनैकान्तिकोयं हेतुः; तथाहि--954अङ्गुल्या
काशविभागाद् हस्ताकाशविभागो भवति न तु क्रियाजः 955 इति । अनेकान्त इति चेत्; उक्तमत्र
अङ्गुलिचलने हस्तस्यापि कथञ्चित् चलनम्, आकाशादिभ्यः तद्विभागे हस्तस्यापि तदैव विभागः,
अन्यथा956 पृथक्सिद्धिः स्यादिति । ननु च यद्ययं सक्रियस्य अवयवस्य गगनादिभ्यो विभागः क्रियाजः
स्यात्; तदपि तर्हि क्रियानन्तरमुत्पद्येत, आद्यावयवविभागवत्, न चोत्पन्नः । तदुक्तम्—
कुरुन्दारकोऽसि केन तदत्सरभ्रंसात्957 इति । कर्मणा यस्मिन्नवसरे
विभागः कर्त्तव्यम्958सोऽस्य नष्ट इति चेत्; न सत्यमेतत्; विभागेऽप्यस्य समानत्वात् ।
शक्यं हि वक्तुं यद्ययं विभागात् स्यात् विभागः 959तदनन्तरमुत्पद्येत, न चैवम्, क्षिअवयवविभा
गात् संयोगविनाशः तस्माच्च द्रव्यविनाशः पुनर्विभागः इत्यङ्गीकरणात् । कर्मानन्तरम् अवयवा
न्तराकाशादिभ्यश्च विभागः; इतरथा न कुतश्चित् तदनन्तरं भवेत् । तन्न कर्णाद्येकावयवच्छे
दनादिभ्यः सर्वात्मना 960पूर्वदृष्टविनाशो युक्तः ।


यत्पुनरुक्तम्--अवयवेषु कर्माणि ततो विभागः तेभ्यः संयोगविनाशः ततो
द्रव्यविनाशः
प्रश॰ भा॰ पृ॰ ४६ 961इति; तदपि न परीक्षाक्षमम्; अवयवेभ्यो भिन्नानां
कर्मणामुत्पत्तावपि त962त्स्वरूपचलनाऽभावाद् 963अतिप्रसङ्गात् । न तेषां964 ततोऽपि965 विभागभावः,
भावेऽपि 966तत एव न ततः तत्सं योगविनाशः । यद्यप्ययं967 भवेत् तथापि संयोगाद् ४५ ख
भिन्न इति संयोगस्य तदवस्थस्य अवस्थानानु 968 कार्यस्य नासौ 969 नाम ।


एतेन संयोगविरोधित्वं कर्मणः प्रत्याख्यातम् । यद् येन नाश्यते तत् तस्य विरोधि, न च
संयोगेन नाश्यते कर्म । 970ततो नाशभावेऽपि कर्मणो न किञ्चित् जायते । नचेयं प्रणालिका 971परस्य
प्रतीतिगोचरचारिणी--पूर्वम् एषु 972 कर्म, ततो विभागः, तस्मात् संयोगविनाशः, ततो
ऽपि द्रव्यविनाशः, एतस्माच्च तदाश्रितरूपादिनाशः; किन्तु दण्डादिपातानन्तरं घटादिनाश एव
973तद्गोचरचारी । ततः स्थितम्--नष्टावयवैर्नष्टः अन्यैः अनष्टोऽवयवी इत्यस्य ज्ञापनार्थं नाना
वयवात्मनः
इति वचनम् ।


एतेनेदमपि प्रत्युक्तम् यदुक्तं--द्रव्याणि द्रव्यान्तरमारभन्ते वैशे॰ सू॰ १ । १ । १०
इति; द्रव्यं च तदन्तरं च कारणद्रव्येभ्योऽन्यत् कार्यद्रव्यम् इति; कथम् ?
एकान्तेन तेभ्यः974 तदन्यत्वनिषेधात् । कथञ्चित् पक्षे समवायवैयर्थ्यात् ।


यत् पुनरेतत्--द्रव्ये च द्रव्याणि च तदन्तरमारभन्ते ते; नवैकस्य ततोः 975 संयोगः, अनेकवृत्तित्वाद् अस्य976 । तदवयवानां संयोग इति चेत्; न तेन तन्तुद्रव्यमुत्पादितम् ।
55 न च येष्वेकं द्रव्यं यदैव अवयवेषु समवेतं तदैव तेषु अपरं समवैति इति चेत्; न; स्कन्धादपि
स्कन्धोत्पत्तेः अप्रतिषेधात्, मृत्पिण्डादेः शिवकाद्युत्पत्तिदर्शनात् । नहि शिवकाद्युत्पत्तेः पूर्वं
तदारम्भकाः क्रियासंयोगभाजो भागाः प्रतीताः ।


स्यादेतत्--शिवकादयः ४६ क संयुक्तावयवारब्धाः कार्यद्रव्यत्वात् पटादिवत् इति;
तन्न; 977एकत्र तथाभावदर्शनात् सर्वत्र तद्भावकल्पने लोह लेख्यं वज्रं पार्थिवत्वात् काष्ठवत्
978त्याद्यपि स्यात् । प्रत्यक्षबाधनान्नेति चेत्; किं पुनः शिवकादीनाम् आरम्भका अवयवाः ततः प्राक्
प्रत्यक्षतः सिद्धा येन तद्बाधनं न भवेत् । किंच, तन्तवः कथं पटस्य जनकाः ? तद्भावे भावाद्
अभावेऽभावादिति चेत्; अत एव मृत्पिण्डोऽपि शिवकादिकारणमस्तु । ननु मृत्पिण्डविनाशे शिव
कभावः, अन्यथा 979तत्कालेऽपि 980तद्दर्शनं भवेत् पटकाले तन्तुदर्शनवदिति चेत्; न; मृत्पिण्डस्य
शिवकार981णामात् । न च तन्तवोऽपि 982प्राक्तनस्वभावपरिकरिततनवः पटे दृश्यन्ते
तदापि अपरापरपटोत्पत्तिप्रसङ्गात् । तदुक्तं न्या य वि नि श्च ये--


कारणस्याऽक्षये तेषां कार्यस्योपरमः कथम् ?न्यायवि॰ १ । १०३ इति ।


983नानुपरतः, पटेन प्रतिवद्धास्तन्तवः पटान्तरं नारभन्ते । तदुक्तं परेण--तन्तवः
पटमारभ्य पटेन प्रतिबन्धात् पटान्तरं नारभन्ते
इति; तत्रेदं चिन्त्यते; पेटन कारणस्य
स्वरूपापहारः, शक्त्यपहारः, व्यापारापहारः, कार्यद्रव्योत्पत्तिनिषेधो वा त984दन्तरजनने प्रतिबन्धः
स्यात् ? तत्र नाद्यः पक्षः; का985र्यकालेऽपि का986रणसत्त्वोपगमात् । नापि द्वितीयः; नित्यस्य
987तदयोगात् । तदुक्तं कैश्चित्--


*तस्य शक्तिरशक्तिर्वा या स्वभावेन संस्थिता ।

नित्यत्वादचिकित्स्यस्य कस्तां क्षपयितुं क्षमः ॥ प्र॰ वा॰ २ । २२ इति ।

988अत एव तृतीयोऽपि न युक्तः; शक्तैकस्वभावस्य ४६ ख सतः अवश्यं कार्य
जन्मनि व्यापारात् । चतुर्थः पुनः अत्यन्तमसंभवी; 989प्रति शक्तेन कारणेन क्रियमाणायाः का
र्योत्पत्तेर्निषेधाऽयोगात् । ततः पटकालेऽपि समवायि-असमवायि-निमित्तानां तन्तु-संयोगेश्वरादीनां
सद्भावात् पटान्तरोत्पत्तिः स्यात् । अन्यथेदमयुक्तम्--निवृत्ते तत्पटे अवस्थितसंयोगात्
पटान्तरमारभन्ते ।
इति । न च अकिञ्चित्करस्य990991 पेक्षणीयेति ।


एतेनेदमपि निरस्तं यदुक्तं परेण--तथा पटोऽपि रूपादीनारभ्य रूपादिवत्त्वाद्
रूपान्तरं नारभते । एवं कर्म992कर्मकारणं मुसलादिप्रतिबन्धात् 993तदन्तरं नारभते
इत्यादि ।
कथम् ? सति समर्थे कारणे केनचित् प्रतिबन्धाऽयोगात् । तस्त्पक्ष 994 पूर्वस्वभावाः
तन्तवः पटे अभ्युपगन्तव्या इति परिणामसिद्धिः । तथा च एकमपि द्रव्यं 995तदन्तरारम्भकमिति
56 सिद्धम् । द्रव्याणि द्रव्यान्तराणि आरभन्ते इत्येवं वक्तव्यम्, तेन द्रव्यान्तरं द्रव्यान्तरे
द्रव्यान्तराणि यथासंभवं द्रव्याणि आरभन्ते
इति लभ्यते । यथैव हि अनेकं द्रव्यम् एकं
द्रव्यमारभमाणं दृश्यते तथा एकमपि द्रव्यम् एकं द्रव्य996म् द्वे बहूनि द्रव्याणि आरभमाणमुपलभ्यते,
यथैको घटो द्वे बहूनि वा कपालद्रव्याणि । ननु तेषां997 विभाग एव केवलं जायते न ता998नि, पूर्व
मेव तद्भावात् । एवं घटोऽपि मृत्पिण्डावस्थायां कल्प्यताम् । 999उपम्ला1000र्थक्रिया-४७ क
व्यपदेशादिविरहः अ1001न्यत्रापि । ततः साधूक्तम्--नानावयवात्मनो घटादेः बहिः संप्रतीतेः
इति, तथा नानारूपादिस्वभावस्य


अथ रूपादेः त1002तो भेदात् कथं त1003दात्मन इति युक्तमिति ? तन्न; प्रतीतिविरोधात् । अपि च
गुणगुणिनोर्भेदैकान्ते नियमेन घटादेर्देशान्तरप्राप्तौ रूपादेः त1004त्प्रप्तिर्न स्यात् । न चात्र1005 विभागजो
विभागः संयोगजो वा संयोगः1006; द्रव्याश्रयी अगुणवान् गुणः वैशे॰ सू॰ १ । १ । १६
इति 1007वचनात् । कृतोत्तरश्चायं पक्षः1008 । न च रूपादेः स्वयं देशान्तरप्राप्तिनिमित्ता क्रिया समस्ति;
द्रव्यत्वप्राप्तेः, क्रियावद् गुणवत् समवायिकारणमिति द्रव्यलक्षणम् वैशे॰ सू॰ १ । १ । १५
इति वचनात् । ततो घटादेः रूपाद्यात्मकत्वमभ्युपगन्तव्यम् । 1009एवमिति चेत्; तर्हि रूपाद्यात्म
नामेव कारणद्रव्यान्तरारम्भो न रूपादिनिरपेक्षणाम्, नापि रूपादिरहितः 1010तदारम्भः । 1011ततोय
एव द्रव्याणां द्रव्यान्तरारम्भः स एव गुणानां गुणान्तरारम्भः इति न युक्तमेतत्1012--गुणाश्च
गुणान्तरम्
वैशे॰ सू॰ १ । १ । १० इति ।


यत्पुनरेतदुक्तं परेण--घटरूपाद्युत्पत्तौ घटः समवायिकारणं कपालगता रूपादयो
ऽसमवायिकारणम् ।
इति; तदप्येतेन निरस्तम्; नहि रूपाद्युत्पत्तेः पूर्वं घटो रूपादिरहितः कुत
श्चिन् मानात् प्रसिद्धो यः समवायिकारणं स्यात्, तदभावात् कपालरूपादेः असमवायिकारणत्वञ्चा
नुपपन्नम् । ततः स्थितमेतत्--नानारूपाद्यात्मनः इति ।


पुनरपि कथंभूतस्य ? ४७ ख परिणामिनः नवपुराणादिविवर्ताः परिणामाः तद्वत
इति । चिन्तयिष्यते चैतत् । ननु नानावयवव्यतिरेकेण नापरः तदात्मा घटादिः संप्रतीयते, नापि
रूपादिव्यतिरेकेण; तद्ग्रहणोपायाऽभावात् । तथाहि--चक्षुषा रूपं श्रोत्रेण शब्दः घ्राणेन गन्धः
रसनेन रसः स्पर्शनेन स्पर्शः संप्रतीयते तथाप्रतीतेः, न च अपरं 1013गुणिरूपं त1014त्र प्रतिभासनमवधा
र्यते, न चेन्द्रियान्तरं तद्ग्राहकमस्ति; तत् कस्य1015 एवं तदात्मनो घटादेः संप्रतीतेः इत्युच्यतामिति
चेत् ? अत्राह--अन्तः चित्रैकाकारस्य वा 1016 इत्यादि । चित्तस्य ज्ञानस्य एकस्य
1017 57 साधारणस्य नीलाद्याकारस्य । अत एव आह--चित्रस्य शबलस्य संशयादिज्ञानस्य अर्थाऽनर्थ
विषयतया शबलस्य, इव शब्दो यथा1018र्थः--यथा चित्तस्य ईदृशस्य अन्तः, तथा उक्तप्रकारस्य घटादेः
संप्रतीतेः इति । अ1019न्ये चित्रस्यैव इति पठन्ति, तेषां कारिकोपात्तोऽयमर्थो भवति न वेति चिन्त्य
मेतत् । अस्माकं तु एव1020शब्दपठनान्न दोषः । प्रतिभासैक1021 नियम सिद्धिवि॰
१ । १०
इत्यादिना समर्थयिष्यमाणो दृष्टान्तोऽत्र स्तवितो 1022 न सूचितस्य पात्रस्य
प्रवेशो निर्ग्नमो 1023वा
इति न्यायात् । नन्वस्ति ता1024दृशस्य बहिरन्तर्वा प्रतिभासः, स तु
भ्रान्तः । तदुक्तं प्र ज्ञा क रे ण--मायामरीचिप्रभृतिप्रतिभासवदसत्त्वेऽप्यदोषः । प्र॰
वार्तिकाल॰ ३ । २११
इति चेत्; अत्राह--नचेत्यादि । न च नैव तस्माद् उक्तादर्थात् यः विप
रीतार्थः
तस्य प्रकाशकं किञ्चित् प्रत्यक्षमनुमानं वा ज्ञानमस्ति यस्माज्ज्ञानात् प्रकृतमर्थतत्त्वं
भ्रान्तं स्यात् । प्रतिभासमानविपरीतार्थज्ञानेन हि बाधितं भ्रान्तम् इति व्यवह्रियते यथा एक
चन्द्रज्ञानेन चन्द्रद्वयमिति मन्यते । ननु यत एव तद्विपरीतार्थप्रकाशकं न किञ्चित् ज्ञानमस्ति अत
एव प्रकृतमर्थतत्त्वं1025 न भ्रान्तम्' इत्यपरः1026, तेन एवंवदता विभ्रमेतरविवेक1027 एव निरस्तः स्यात् न
क्रमाऽक्रमाऽनेकान्तः । तथा च क्षणभङ्गादिसाधने प्रत्यक्षमनवसरम् । त1028दभ्युपगमे प्रकृतमर्थतत्त्वं
भ्रान्तमभ्युपगन्तव्यम्, त1029च्च तद्विपरीतार्थप्रकाशके ज्ञाने सति, इति कथं न बाधकभावः ? न च
तदस्ति । कथमिति चेत् ? अत्राह--नहि इत्यादि । हिः यस्मात् तदेकान्ते स चासौ एकान्तश्च
तदेकान्तः तस्मिन् निरंशक्षणिकपरमाणुलक्षणस्वलक्षणैकान्ते स्वसदसत्समये स्व आत्मीयः
स्वस्य वा सौगतस्य सत्समयः परमार्थसमयः असत्समयोऽपरमार्थसमयः व्यवहारसमय इति
यावत् । तदुक्तम्--


*द्वे सत्ये समुपाश्रित्य बुद्धानां धर्मदेशना ।

लोकसंवृतिसत्यं च सत्यं च परमार्थतः ॥ माध्यमिक॰ का॰ २४ । ८ इति ।

तत्र अस्य सौगतकल्पितज्ञानाद्वये वस्तुनः क्रिया ४८ ख अनुभवः तस्याः संभवो न
इति । तथाहि--तस्य सत्समयो यथा पूर्वोत्तरक्षणाभ्यां मध्यक्षणस्य विवेकैकान्तः, तथा मध्यक्षणेऽ
पि स्तम्भादिसर्वभागानाम् अन्योऽन्यत1030 इति 1031परमार्थसञ्चयमात्रं तत्त्वमिति; तत्र एकपरमाणुपर्य
वसितं दर्शनं न परमाण्वन्तराणि ईक्षितुं क्षमते; एकस्य अनेकार्थविषयत्वाऽयोगात्, मध्यक्षणदर्श
नस्य पूर्वापरक्षणविषयत्वायोगवत् समदोषत्वात् । तथा च परलोकप्रख्याति 1032 । एकपरमाणुपर्यवसितं च दर्शनं पुरुषाद्वैतमाकर्षतीति निरूपयिष्यते । तन्न स्वसत्समये
अर्थक्रियासंभवः । नाप्यसत्समये; तत्र दृश्यप्राप्ययोरेकत्वे 1034प्रत्यक्षप्रामाण्योपगमात् । भवतु तद
58 संभव इति चेत्; अत्राह--तथा सति इत्यादि । तथा तेन स्वसदसत्समये इत्यनेन प्रकारेण तदे
कान्ते अर्थक्रियासुसंभवे 1035 सति कथं नैव अक्षणिकत्वे वस्तुनः कालत्रयानुया
यित्वे क्रमयौगपद्याभ्यां क्रमेण यौगपद्येन वा अर्थस्य क्षणिकत्वलक्षणस्य क्रिया अनुभवः तस्याः
विरोधात् । तथाहि--एकदा उपलब्धस्य पुनः पुनः उपलम्भे क्रमेणार्थक्रिया । न च पूर्वोपलम्भेन
पुनः पुनः तस्यैव उपलम्भ इति प्रतीयते, त1036त्काले उत्तरदर्शनानां तद्दृश्यस्य च अभावेन दर्शना
भावात् । नापि उत्तरदर्शनेसावेन 1037 पूर्वोपलब्धं प्रतीयते इति प्रतीयते; त1038त्कालेऽपि पूर्व
दर्शनदृश्यरूप४९ क योरभावात् । न तत्समुदायेन; क्रमभाविनोः1039 तदसंभवात् । उभयकाल
वर्ति तज्ज्ञानमेकं न युक्तम्; उक्तदोषात् । पूर्वेण उत्तरेण वा दर्शनेन परस्य पूर्वस्य वा ग्रहणे सर्व
ग्रहणमविशेषादिति, त1040स्याः विरोधः । तथा साक्षादशेषपूर्वापरस्वभावानुभवो यौगपद्येन अर्थ
क्रिया । त1041त्र चानाद्यनन्तस्वभावस्य एकक्षणे प्रतिभासनात्1042 तदेव क्षणिकत्वमिति त1043स्या विरोधः
स्मात् सतोऽनुभूयमानस्य साकल्येन क्षणभङ्गसिद्धिः । कुत एतत् ? इत्यत्राह--तत्रैव
इत्यादि । तत्रैव तस्मिन्नेव त1044देकान्ते न अक्षणिकत्वे इति एवकारार्थः, त1045त्र 1046तदविरोधस्य तृतीय
परिच्छेदे प्रतिपादयिष्यमाणत्वात् । ताभ्यां क्रमयौगपद्याभ्यां तद्विरोधात् अर्थक्रियाविरोधात् ।
तथाहि--न तावत् निरंशक्षणिकपरमाणुलक्षणस्वलक्षणार्थस्य क्रमेण क्रिया अनुभवः; अक्षणि
कत्वप्रसङ्गात्, 1047तस्य 1048तल्लक्षणत्वात् । नापि यौगपद्येन; 1049योगिदर्शनप्रभृतितदनुभवकार्याणाम्
एकपरमाण्वाकारदर्शनदेशकालस्वभावसाङ्कर्येण तद्वदसिद्धेः, 1050अन्यथा युगपदशेषदेशानां दर्शनेऽपि
न कालसाङ्कर्यं भवेत् । 1051ननु न यथोक्तपरमाणुलक्षणं स्वलक्षणमिष्यते, नापि युगपदनेकानुभवकारि
येनायं दोषः स्यात्, अपि तु यथाभासम्, यद् यथावभासते तत् तथैव परमार्थसत्
इत्यादि वचनादिति चेत्; अत्राह--ततो यत्सत् इत्यादि । न ४९ ख यथोक्तपरमाणुरूपं
तत्त्वम्, अपि तु यथाप्रतिभासम् इति योऽयं परस्य अभ्युपगमः तस्मात् यत् सत् उपलम्भ
गोचरचारि उपलम्भः सत्ता प्र॰ वार्तिकाल॰ ३ । ५४ इति वचनात्, तत् सर्वम्
अनेकान्तात्मकं
गत्यन्तराभावात् तस्य ।


अथवा, यदुक्तम्--न च तद्विपरीतार्थप्रकाशकम् इत्यादि; तत्र उक्तनीत्या प्रत्यक्षं यद्यपि
नास्ति तथापि यत् सत् तत्सर्वं क्षणिकं यथा घटः तथा च विवादाधिकरणम् इत्यनुमानं स्यादिति
चेत्; अत्राह--नहि इत्यादि । नहि तदेकान्ते क्षणिकैकान्ते स्वसदसत्समये सदसद् इति
59 भावप्रधानो निर्देशः । ततोऽयमर्थः--स्व1052सत्त्वसमये स्वाऽसत्त्वसमये च अर्थस्य कार्यस्य क्रिया
करणं तस्याः संभवः1053कत्र अनाद्यनन्तसन्तानस्य ए1054कक्षणपर्यवसानम्, अ1055न्यत्र कारणाभावेन कार्या
नुदय इति मन्यते ।


1056नु च जाग्रद्विज्ञानादिकं स्वसत्त्वशून्येऽपि समये प्रबोधादिकार्यं जनयति तत्कथमुच्यते
स्वाऽसत्समये अर्थक्रियाऽसंभव इति चेत्; न; पूर्वं तस्मिन्1057 समर्थे अजातं पुनस्तदभावे1058 जायमानं
स्वयमेव कथं तत्कार्यम् ? तेन जन्यमानत्वादिति चेत्; कथमसत् त1059त् तस्य जनकंखरविषाणवत् ?
स्वोत्पत्तिकाले सदिति चेत्; तदैव1060 तत्कार्यमस्तु तज्जननशक्तेः तदैव भावात् । अथ ईदृशी तच्छक्तिः
यतः कालान्तरे कार्यं तथैव दर्शनात्, यथा दृश्यते तथैव 1061तदिति चेत्; न; नित्यादपि पूर्वं समर्थात्
1062पुनः कार्यं न विरुध्येत1063 । अथ नित्यात् तथा कार्यं ५० क जायमानं न दृश्यते; नित्या
दर्शनात् । क्षणिकादर्शनात् ततोऽपि न दृश्यते । नहि जाग्रद्विज्ञानस्य अन्यस्य वा क्षणिकत्वं प्रमाण
निश्चितम् । ततः सूक्तम्--नहीत्यादि । भवत्वेवं को दोष इति चेत् ? अत्राह--तथा सति इत्यादि ।
तथा सति तत्र अर्थक्रियाऽसम्भवे सति कथम् 1064अक्षणिकत्वे क्रमयौगपद्याभ्यामर्थक्रिया
विरोधात् 1065तीरादर्शिशकुनिन्यायेन त1066तः सत्त्वं निवर्तमानं क्षणिकत्वे अवतिष्ठते ।
इति
न्यायात् सतोऽर्थक्रियाकारिणः साकल्येन क्षणभङ्गसिद्धिः ? नैव । कुत एतत् ? इति चेत् ?
अत्राह--तत्रैव इत्यादि । तत्रैव तदेकान्त एव ताभ्यां क्रमयौगपद्याभ्यां तद्विरोधात् अर्थक्रिया
विरोधात् । ननु च जाग्रद्विज्ञानं क्षणिकमपि 1067सहोच्छ्वासादि--शरीराकारादिविशेषकार्यमुपजन
यति, क्रमेण च उच्छ्वासप्रबोधादि, तत्कथमुच्यते तत्रैव इत्यादि इति चेत्; न; उक्तमत्र
तत्क्षणिकत्वाऽनिश्चयात् । अपि च, क्षणिकादक्रमेण1068 कार्यसंभवे नाक्रमात् क्रमिणो भावाः
60 प्र॰ वा॰ १ । ४५ इत्यादि विरुध्येत1069 ततो यत्किञ्चिदेतत् ।


उपसंहारमाह--तत इत्यादि । यत एवं स्वलक्षणानि स्वयमभिमतक्षणक्षयपरमाणुलक्ष
णानि पश्यतोऽपि एको हि ज्ञानसन्निवेशी स्थवीयान् आकारः परिस्फुटमवभासते तदेकान्ते
स्वसदसत्समये अर्थक्रियाऽसंभवश्च ततः
तस्मात् यत् सत् तत् सर्वम् अनेकान्तात्मकम्
इति । साध्यान्तरमाह--तदेकान्तस्य ५० ख इत्यादिना । ततः इत्यनुवर्तते तत उक्ता
न्न्यायात् तदेकान्तस्य क्षणिकैकान्तस्य असत्त्वम् अविद्यमानत्वम् । कदा ? इत्यत्राह--उपलब्धि
लक्षणप्राप्तौ
प्र1070त्ययान्तरसाकल्यं स्वभावविशेषश्च उपलब्धेः लक्षणं तत्प्राप्तौ । एवं मन्यते--त1071दे
कान्तोऽसन् उपलब्धिलक्षणप्राप्तत्वे सति अनुपलभ्यमानत्वात् । ननु यदि त1072देकान्तः क्वचित्
कदाचित् उपलम्भगोचरः कथमेकान्तेन तदभावः अतिप्रसङ्गात् ? एकान्तेन च तदभाव इति
इष्यते । अथ क्वचित् कदाचित् स त1073था नेष्यते; तर्हि असिद्धो हेतुः, विशेष1074णाऽसिद्धेरिति चेत्;
न; अन्यथा अभिप्रायात् । नेदं साधनं स्वतन्त्रसाधनाभिप्रायेण प्रयुक्तम्, अपि तु प्रसङ्गसाधना
भिप्रायेण । तथा हि--त1075देकान्तो दृश्यश्चेदिष्यते, तर्हि दृश्यस्य सतोऽनुपलम्भात् असत्त्वम् ।
अदृश्यश्चेत्; अप्रमेयत्वं प्रमाणाऽविषयत्वेन व्यवहारानुपयोगित्वात् । एतेन आश्रयासिद्धिचोदन
मप्ययुक्तम्
इत्युक्तम् । एतदेव दर्शयन्नाह--अन्यथा अप्रमेयत्वम् इति । प्रसङ्गसाधने हि प1076क्षद्व
योत्थापनं नान्यत्र युक्तम् उपलब्धिलक्षणप्राप्तौ इति वचनाच्च प्रसङ्गसाधनम्, अदृश्यादर्शन
स्यापि स्वयं गमकत्वोपगमात् ।


ननु यदुक्तम्--अन्तः चित्रकारस्येव एकस्य चित्तस्य इति; तदयुक्तम्; त1077स्यापि
1078थाऽनभ्युपगमात् । तदुक्तम्--


*किं स्यात् सा चित्रतैकस्यां न स्यात्तस्यां मतावपि ।

यदीदं स्वयमर्थेभ्यो रोचते तत्र के वयम् ॥ प्र॰ वा॰ २ । २१०

५१ क 1079ति चेत्; तत्रेदं चिन्त्यते--सौत्रान्तिकस्य योगाचारस्य माध्यमिकस्य वा
मतमपेक्ष्य इदमुच्येत ? प्रथमपक्षे दूषणमाह--प्रतिभासैक्यनियम इत्यादि ।


61
प्रतिभासैक्यनियमे धीर्न स्यादेकाभिलापिनीम् ।

प्रतिभासप्रतीतिं वा दधत्येवान्यथात्मनः ॥ १० ॥

यद्ययमेकान्तः अन्तर्बहिर्वा विरुद्धधर्माध्यासे नैकत्वं स्यादिति कथं बहिरर्थविभ्रमचे
तसां स्वसंवेदनम् ? कस्यचित् प्रमाणतदाभासस्वभावसाङ्कर्ये चित्तस्य कथं प्रतिभासभे
दादिनैकत्वं निराक्रियेत ? सविकल्पकनिर्विकल्पयोः कथञ्चिदेकत्वे सुखदुःखयोरपि तथैव
कथन्न भवेत् ? तदयमेकान्तमवलम्ब्य बहिरन्तर्मुखनिर्भासविभ्रमेतरविकल्पेतरचेतःस्वभाव
मनेकान्तनान्तरीयकं प्रतिपद्यमानः तद्द्वेषी तत्कारी चेति उपेक्षामर्हति ।


अत्र द्वौ प्रतिभासशब्दौ तत्र आद्यः संवेदनवाची अन्यो विषयाकारवाची । ततोऽयमर्थः
संपद्यते--प्रतिभासस्य संवेदनस्य ऐक्यनियमे निरंशत्वनियमे अङ्गीक्रियमाणे धीः बुद्धिः
एकैव न स्यात् किन्तु अनेका स्यात् । किं कुर्वती ? दधती । किम् ? प्रतिभासप्रतीतिं
विषयाकारगृहीतिम् । कथंभूताम् ? अभिलापिनीम् अभिधानवतीम् । कथम् ? अन्यथा
अन्येन प्रकारेण । कुतोऽन्यथा ? आत्मनः स्वरूपप्रतीतेः सकाशात् अन्यथा अभिलापिनीम् ।
एतदुक्तं भवति--आत्मनः प्रतीतिम् सर्वचित्तचैत्तानाम् आत्मसंवेदनं प्रत्यक्षं निर्विकल्पकम्
न्यायबि॰ १ । १० इति अभिलापिनीं प्रतिभासप्रतीतिं 1080तिमिराशुभ्रमणनौयानसंक्षोभाद्याहित
विभ्रमाम् इत्यभिलापिनीं विभ्राणा धीः एकैव न स्याद् अनेकैव स्यादिति । तथाहि--बहिरर्थविभ्रम
चेतसाम् अन्यैव स्वसंवेदनात् 1081केशोण्डुकादिप्रतीतिः एकस्या भ्रान्तेतराकारद्व1082याऽयोगात् । न च सा
ज्ञानरूपा 1083 अस्ति; अतिप्रसङ्गात् । तच्चेतःस्वसंवेदनेन तज्ज्ञाने नास्य विभ्रमः तदा
कारानुकरणात्, नीलाकारानुकरणे नीलतावत् । तदाकारस्य ततो भेदे स एव दोषः अनवस्था च ।
अतदाकारानुकरणे न तेन तज्ज्ञानम्, इतरथा निराकारदर्शनम्५१ ख । तस्याः स्वसंवेदनाभ्यु
पगमे एकस्य रूपद्वयभयात् स्वसंवेदनात् पुनरपि तत्प्रतीतिरन्याऽभ्युपगन्तव्या । न च साऽज्ञात
रूपाऽस्ति
इति चोद्ये तस्मिन्नेव उत्तरे स एव दोषः अनवस्था च । तदेवं केशोण्डुकादिप्रतीतेः
अनुपलम्भेन असत्त्वात् तन्निवृत्त्यर्थम् अभ्रान्तग्रहणं प्रत्यक्षल1084क्षणे कृतमनर्थकम् । व्यवहारेण
तत्कारणाददोष इति चेत्; तर्हि तेनैव सर्वचित्त न्यायबि॰ १ । १० इत्याद्यभिधानाद्
1085कस्य रूपद्वयप्राप्तिः । भवतु इति चेत्; तथा क्रमेणापि एकस्य सा1086 इति तेन क्षणभङ्गसाधन
मनवसरम् । न चैतदिष्यते 1087परेण इति साधूक्तम्--प्रतिभासैक्यनियम इत्यादि । इदं च व्या
ख्यानं शास्त्रकारस्याप्यभिमतं न ममैव1088, वृत्तौ यद्ययमेकान्त इत्यादेर्वक्ष्यमाणत्वात् ।


62

इदमपरं व्याख्यानम्--प्रतिभासैक्यनियमे धीर्विकल्पिकाः बुद्धिः, धीः इति सामा
न्यवचनात् कथमियं1089 लभ्यते इति चेत् ? अनन्तरवक्ष्यमाणगच्छाद्1090 अन्यस्याः
तदसंभवात् । सा एकैव न स्यात्, स्यात् इत्यनेन वा अनागतेन सम्बन्धात् । किं कुर्वती ?
दधती । किम् ? प्रतिभासप्रतीतिं विषयाकारसंवित्तिम् । कथम्भूताम् ? अभिलापिनीम्
अभिलापसंसर्गयोग्याम् अभिलापसंसर्गयोग्यप्रतिभासप्रतीतिः कल्पना । न्यायबि॰
१ । ५
इति वचनात् । पुनरपि किं दधती ? आत्मनः । किंस्वरूपस्य ? अन्यथा अनभि
लापिनीं प्रतीतिम् । तथा चोक्तम्--५२ क


*अशक्यसमयो ह्यात्मा सुखादीनामनन्यभाक् ।

तेन तेषां स्वसंवित्तिः नाभिलापानुषङ्गिनी1091प्र॰ वा॰ २ । २४९ इति1092

एतदुक्तं भवति--यथा आवृतात् अनावृतं चलाद् अचलं रक्ताद् अरक्तं कृतकाद् अकृतकं
रूपमेकान्तेन अन्यत्1093 तथा अनभिलापिन्याः स्वप्रतीतेः अभिलापिनी प्रतिभासप्रतीतिरपि अन्या
इति । न च सा अनुपलब्धा अस्ति; अतिप्रसङ्गात् । स्वत एव तदुपलब्धौ तस्याः1094 स्वसंवेदनम
विकल्पकम्, अन्यथा प्रकृतमपि न भवेत् । एवं चेत् स एव दोषः--ततः सा भिन्ना इति । पुन
रपि स्वत एव तदुपलब्धौ प्रकृतो दोषः । अनुपलब्धौ अनवस्था च । प्रकृतसंवेदनेन तदुपलब्धौ
तस्य तदात्मकत्वे तस्य सविकल्पकत्वं त1095स्या वा निर्विकल्पकत्वम् । अतदात्मकत्वे तत उत्पन्नेन
तदाकारानुकारिणा वा तेन तदुपलब्धौ तस्य सविकल्पकत्वम् । किंच, विकल्पस्य बुद्धिस्वसंवेदनात्
तस्याः पूर्वत्वं पुनरपि तस्याः स्वसंवेदनोपगमे समानश्चर्चः, अनवस्था । तदनुपगमे वा अर्थाऽ
विशेषात् न सा बुद्धेः आकारः स्यात् । तदेवं प्रतीतेः अनुपलम्भेन असत्त्वात् न कल्पना नाम
अभिलापसंसर्गयोग्यप्रतिभासा प्रतीतिः कल्पना न्यायबि॰ १ । ५ इत्यस्य लक्षण
स्याऽभावात्, इति तन्निवृत्त्यर्थं कल्पनापोढपदञ्च अनर्थकम् ।


एतेन नहि इमाः कल्पना अप्रतिसंविदिता एव उदयन्ते व्ययन्ते च यतः
सत्योऽपि अनुपलक्षिताः स्युः ।
इति ५२ ख

*सर्वे भावाः स्वभावेन स्वस्वभावव्यवस्थितेः ।

स्वभावपरभावाभ्यां यस्माद् व्यावृत्तिभागिनः ॥

ततो यतो यतोऽर्थानां व्यावृत्तिस्तन्निबन्धनाः ।

जातिभेदाः प्रकल्प्यन्ते तद्विशेषावगाहिनः ॥

ततो यो येन धर्मेण विशेषः संप्रतीयते ।

न स शक्यः ततोऽन्येन तेन भिन्ना व्यवस्थितिः ॥ प्र॰ वा॰ ३ । ३९-४१

63 इत्यादिकं च प्रकरणं निरस्तम् । कथम् ? कल्पनानामभावे तासामुदयव्ययौ लक्षणं व्यावृत्ति
निबन्धना जातिभेदाः प्रकल्प्यन्ते
इति च श्रद्धामात्रमतो1096पि दुर्लभमिति नानित्यत्व
सत्त्वयोः साध्यसाधनभावः, अभेदात् । संवृतेः अ1097यं स्यादिति चेत्; ननु संवृतिः1098 विकल्पबुद्धि
रेव सा1099 च नास्ति, तत एव चाय1100म् अति 1101 विरुद्धमेतत् । स्वप्नवद् भ्रान्तेरिति चेत्;
न; तत्रापि यदीयं1102 निर्विकल्पिका; न ततो1103 युक्तः । अन्यथा अ1104न्यदापि त1105त एवेति व्याह
तमेतत्--सर्व एवायम् आ॰ दिग्नागः इत्या1106दि । विकल्पिका चेत्; स एव दोषः--सैव
नास्ति तत एव चायम्
इति विरुद्धमेतत् । ततोऽस्य दोषस्य परिहारार्थं बहिरर्थेतरयोः चित्रेतरा
त्मकं सविकल्पेतरात्मकं वा एकं ज्ञानं सौत्रान्तिकेनापि अभ्युपगन्तव्यमिति कुतोऽस्य क्वचिन्निरं
शैकान्तसिद्धिः इत्यभिप्रायः ।


कारिकां विवृण्वन्नाह--यद्ययम् इत्यादि । यदिअयम् अनन्तरमुच्यमानः एकान्तोऽ
वश्यंभावः अन्तः चेतसि बहिर्घटादौ, वा इति समुच्चयो1107, विरुद्धधर्माध्यासे ५३ क सति
नैकत्वं स्याद् भवेत् । इति शब्दः पूर्वपक्षसमाप्तौ । अत्र दूषणमाह--कथम् इत्यादि । बहिरर्थे
शुक्लशङ्खादौ विभ्रमः पीतादिप्रतीतिलक्षणः येषां चेतसां विज्ञानानां तानि तथोक्तानि तेषां कथं
स्वसंवेदनं प्रत्यक्षम् ?
नैव स्यादिति चिन्तितमेतत् । 1108एतेन पर्वतादित्यादेः संलग्नतादौ विभ्रम
चेतसां कथं पर्वतादिग्रहणं प्रत्यक्षमिति द्रष्टव्यम् । कस्यचित् इत्यादिना परमतमाशङ्कते--कस्य
चित्
--तिमिराशुभ्रमणनौयानसंक्षोभाद्याहितविभ्रमस्य प्रमाणतदाभासस्वभावसाङ्कर्ये प्रमाणं यः
स्वभावः स्वसंवेदनलक्षणः तदभासो द्विचन्द्रादिग्रहणरूपो यः स्वभावः तयोः साङ्कर्य्ये कथञ्चित्तादा
म्ये चित्तस्य ज्ञानस्य अङ्गीक्रियमाणे दूषणमाह--कथम् इत्यादि । कथं न कथञ्चित् । केन ?
इत्याह--प्रतिभासभेद आदिर्यस्य विरुद्धधर्माध्यासकारणदेशकालार्थक्रियादिभेदस्य स तथोक्तः तेन
एकत्वं निराक्रियेत ? चित्तस्य इत्येतदत्रापि योज्यं मध्ये करणात्, चित्तस्य आत्मन इत्यर्थः ।


एतेन एतदपि निरस्तं यदुक्तं वैशेषिकादिना--अयम् इति ऊर्ध्वतासामान्यविशिष्टस्य
धर्मिणोऽवधारणम् निर्णयः, स्थाणुर्वा पुरुषो वा इति विशेषानवधारणं संशयः1109 एक
एव प्रत्ययः एकस्य अवधारणाऽनवधारणात्मकत्वानुपपत्तिः
इति चेत्; दृष्टत्वादप्रतिषेधः ।
64 दृष्टमिदम् ५३ ख एकं ज्ञानं सामान्यविशिष्टवस्तुनः अवधारणात्मकं सत् विशेषानवधारणात्म
कमिति । अनेन विपर्ययोऽपि व्याख्यातः । 1110सोऽपि हि सामान्यविशिष्टस्य वस्तुनोऽवधारणात्मकः
सन् विशेषे विपर्ययः यथा स्थाणौ पुरुषः इति प्रत्यय इति । कथम् ? यदि संशयविपर्ययेतर
स्वभावमेकं ज्ञानमिष्यते; तर्हि सामान्यविशेषात्मकं तथैव सर्वं स्यात्, अन्यथा अयमिति स्थाणु
रिति पुरुष इति च प्रत्ययाः परस्परपरिहारस्थिततनव1111 इति न संशयादिव्यवस्था ।


व्याख्याता एकेनार्थेन कारिका, द्वितीयेनेदानीं व्याख्यायते--सविकल्पनिर्विकल्पयोः चेतः
स्वभावयोः इति मन्यते । कस्य ? चित्तस्य इत्यनुवर्तते । तयोः कथञ्चिदेकत्वे अङ्गीक्रियमाणे ।
तत्र दूषणमाह--सुखदुःखयोरपि तथैव तेनैव प्रकारेण कथं न भवेद् भवेदेव कथञ्चिदेकत्वमिति ।
कुत एतत् ? प्रतिभास इत्यादि । चर्चितमेतत् । यदुक्तं ध र्मो त्त रा दि ना--कल्पनापोढमभ्रा
न्तं प्रत्यक्षम्
न्यायबि॰ १ । ४ इत्यत्र लौकिकी भ्रान्तिः 1112केशोण्डुकादिप्रतीतिरूपा,
1113कल्पना च जात्यादिविशिष्टग्रहणात्मिका ।
तदनेन चर्चितम्, कस्यचित् चित्तस्य इति
वचनात् । स हि कस्यचित् चित्तस्य भवति न पूर्वस्य, अन्यथा कल्पनारहितस्य भ्रान्तस्य वा 1114 संभवात् लक्षणमसंभवि स्यात् प्रत्यक्षस्य । यच्चोक्तं तेनैव-- शास्त्रीया च सकलालम्बनप्रतीतिः
सर्वमालम्बने भ्रान्तम् इति राद्धान्ता1115त् ग्राह्यग्राहकाकारप्रतीतं
५४ क सर्वं ज्ञानं
कल्पना
इति1116 च । कथमिदमवगम्यते अविशेषेण अभिधानात् ? सा1117 हि सर्वविज्ञानसाधा
रणी, तस्या ग्रहणे न किञ्चिद्विज्ञानं कल्पनापोढमभ्रान्तं वा लभ्येत
इत्यभिधानात् ।
तन्निराकुर्वन्नाह--तदयम् इत्यादि । तद् इत्ययं निपातः सः इत्यस्यार्थे वर्तते । ततोऽयमर्थः—
सोऽयं ध र्मो त्त रा दिः एकान्तं क्षणिकनिरंशपरमाणुतत्त्वमात्रम् अवलम्ब्य । किम् ? इत्यत्राह—
बहिः इत्यादि । बहिश्च अन्तश्च मुखं निर्भासो यस्य विभ्रमेतरविकल्पेतरचेतःस्वभावस्य
65 स तथोक्तः । एतदुक्तं भवति--बहिर्मुखो विभ्रमः चेतः सर्वमालम्बने भ्रान्तम् प्र॰ वार्ति
काल॰ ३ । १९६
इति वचनात्, अन्तर्मुख इतरोऽविभ्रमः चेतःस्वभावः, तथा बहिर्मुखो विकल्पः
तत्स्वभावः ग्राह्य प्र॰ वा॰ ३ । ५३०1118त्याद्यभिधानात् अन्तर्मुख इतरोऽविकल्पः
सर्वचित्त1119 न्यायवि॰ १ । १० इत्याद्युक्तेः । तं कथम्भूतम् ? इत्यत्राह--अनेकान्त
नान्तरीयकं प्रतिपद्यमानः तद्
दुष्यते 1120 अनेकान्तद्वेषी तत्कारी च अनेकान्तकारी
इति हेतोः उपेक्षाम् अवज्ञाम् अर्हति ।


ननु नाऽसौ तद्द्वेषी तत्कारी च, सर्वदा बुद्धैः 1121 एकस्याः चित्रायाः अभिन्नयोग1122
क्षेमत्वेनोपगमात्, एकान्तस्य तु बहिः । तदुक्तं ध र्म की र्त्ति ना--


*नीलादिश्चित्रविज्ञाने ज्ञानोपाधिरनन्यभाक् ।

अशक्यदर्शनस्तं हि पतत्यर्थे विवेचयन् ॥

यद्यथा भासते ज्ञानं तत्तथैवानुभूयते ।

इति नामैकभावः स्यात् चित्राकारस्य चेतसि ॥ प्र॰ वा॰ २ । २२०-२१

प्र ज्ञा क र गु प्ते ना प्युक्तम्--५४ ख *"चित्रकाराप्येकैव बुद्धिः बाह्यचित्रविलक्षण
त्वात् । शक्यविवेचनं हि बाह्यं चित्रम्, अशक्यविवेचनास्तु बुद्धेः नीलादय आकाराः

प्र॰ वार्तिकाल॰ ३ । २२० इति चेत्; अत्राह--अन्तर्बहिर्मुखाभादि इत्यादि ।


अन्तर्बहिर्मुखाभादि नाक्रमं संवेदिनम् ।

भिनत्ति चेत्क्रमाधीनं भिन्द्यादेव सुखादिकम् ॥ ११ ॥

बहिरन्तर्मुखविभ्रमेतरविकल्पाविकल्पप्रमाणेतरत्वादि परस्परविभिन्नं संविदं न
भिनत्ति चेत् अवयविनं कथमाक्षिपेत् हर्षादयो वा कथमात्मानं यतो नैरात्म्यसिद्धिः ?
एकत्राभिन्नविषयेऽपि अभिलापसंसर्गयोग्यायोग्यप्रतिभासयोः संप्लवप्रवर्तनं कथन्नेच्छेत् ?
वस्तुनः स्वभावभेदस्य वस्त्वभेदकत्वात् ।


अन्तर्बहिश्च मुखं यस्या सा भा ग्राह्यग्राहकप्रतिभास आदिर्यस्य प्रमाणेतरत्वादेः
तत् तथोक्तं तत् कर्तृ, संविदं न भिनत्ति, तत्सद्भावेऽपि एकैव संविदिति यावत् ।
चेद् यदि । कथंभूतम् ? अक्रमम् संविदा सह उत्पत्तिविनाशानुभवाऽननुभववत् ।
अनेन अभिन्नयोगक्षेमत्वं दर्शितम् । अत्र दूषणं तदयमुपेक्षामर्हति । इदमत्र तात्पर्यम्--यदि अन्त
र्बहिर्मुखाभादि अक्रमत्वात् संविदं न भिनत्ति तर्हि एकक्षणभाव्यशेषज्ञानजातमपि1123 न भिनत्ति
66 इति एकज्ञानमशेषम् एकदा जगत्, पु1124नरपि तथा पुनरपि तथैवेति एकसन्तानमात्रमपि, इति
परस्मै परार्थानुमानम् न्यायबि॰ ३ । १ इत्ययुक्तम्; परस्य1125 अभावात् ।


एतेन नानाविज्ञानसन्तानवादी योगाचारोऽपि चिन्तितो द्रष्टव्य इति ।


स्यान्मतम्--नाक्रमत्वाद् अन्तर्बहिर्मुखाभादिना संविद् ऐक्यमनुभवति येनायं दोषः स्यात्,
अपि तु कथञ्चित्तादात्म्येनावभासनादिति; अत्रोत्तरमाह--न क्रमाधीनं भिन्द्यादेव सुखा
दिकं
क्रमायत्तं सुखम् आदिर्यस्य दुःखादेः तत् तथोक्तम्, तन्न भिन्द्यादेव संविदम्, क्रमभावि
सुखाद्यात्मिका एका संवित् स्यात् तथाभासादिति मन्यते । तथा च परस्य क्षणप्रत्यभिज्ञा
५५ क भङ्गसाधनमनवसरम् ।


कारिकां विवृण्वन्नाह--बहिरित्यादि । बहिश्च अन्तश्च मुखं येषां तानि च तानि विभ्रमे
तरविकल्पाविकल्पप्रमाणेतरत्वानि
च तथोक्तानि आदिर्यस्य ग्राह्यादिनीलाद्याकारनिकुरुम्बस्य
तत्तथोक्तम् । कथंभूतं तत् ? इत्याह--परस्पर इत्यादि । तत् किं कुर्यात् ? इत्याह--संविदं बुद्धिं
न भिनत्ति चेद् यदि । एतदुक्तं भवति--बहिर्मुखो विभ्रमः सर्वमालम्बने भ्रान्तम् प्र॰
वार्तिकाल॰ ३ । १९६
इति वचनात्, अन्तर्मुख इतरोऽविभ्रमः सर्वचित्त न्यायबि॰
१ । १०
इत्याद्युक्तेः । एतेन विकल्पाऽविकल्पौ व्याख्यातौ । प्रमाणेतरत्वे पुनः बहिर्मुखे
शब्दक्षणिकत्वाद्यपेक्षया1126 चन्द्रद्वित्वाद्यपेक्षया1127 च, अन्तर्मुखे च स1128च्चेतनस्वर्गप्रापणादिसामर्थ्यापेक्षया ।
तदेतद् विभ्रमादिकं ग्राह्यादिकं च एकसंविदात्मकमिति । ननु च विभ्रमेतरावेव प्रमाणेतरत्वे
तत्किमर्थम् इत्यदोषः ? । अत्रोत्तरम्--हर्षेत्यादि सुगमम् । अत्र अयमभिप्रायः ?भिनत्ति ?
इति; तदनेन निरस्तम्; एकात्महर्षादौ साम्यात् । भवत्वेवम्; तथापि को दोष इति चेत् ? न
कश्चित्, केवलम् यद् यथावभासते तत्तथैव परमार्थसद्व्यवहारावतारि यथा नीलं
नीलतया अवभासमानं तथैव तद्व्यवहारावतारि, प्रतिभासन्ते च क्षणिकतया सर्वे
भावाः
1129त्यत्र पक्षस्य प्रत्यक्षबाधनं हेतोश्च आश्रयासिद्धिः, यतो नैरात्म्यसिद्धिः नैव नैरा
त्म्यसिद्धिः अपि तु सात्मसिद्धिरिति ।


अनेन सात्मकं जीवच्छरीरं प्राणादिमत्त्वात् ५५ ख न्यायबि॰ ३ । ९७
1130त्यत्र यदुक्तं परेण--प्राणादिसत्त्वस्य 1131 क्वचित् सात्मके दर्शनात् तदभावेऽपि
भावाशङ्काऽनिवृत्तेः अनैकान्तिकत्वम्, विज्ञानसन्तान एव भावाद् विरुद्धत्वं च
इति1132;
तन्निरस्तमिति दर्शयति । कथम् ? यदि उक्तन्यायेन त1133त्र दृष्टमपि1134 न दृष्टम् अन्यत्र1135 दृष्टं वोच्यते;
तर्हि अग्निमति धूमवत्त्वं दृष्टम् 1136तत्रादृष्टम् अन्यत्र दृष्टं वा कल्प्यताम् ।


67

यत्पुनरुक्तम्--


*यः पश्यत्यात्मानं तस्यात्मनि भवति सास्वतः 1137

स्नेहात् सुखेषु तृष्यति तृष्णा दोषं तिरस्कुरुते ॥ प्र॰ वा॰ १ । २१९ इत्यादि;

तदप्यनेन निरस्तम्; यदि हि क्रमाऽक्रमानेकान्तचित्तात्मनि1138 दृष्टे अवश्यं स्नेहादिः संसा
रस्य1139; न कदाचित् सौगतस्य मुक्तिः सर्वदा तस्यैव1140 दर्शनात्1141 । ननु अ1142क्रमेणेव क्रमेणापि चित्तमेकं
चित्रमस्तु न बाह्यमिति चेत्; अत्राह--अवयविनम् इत्यादि । कथमाक्षिपेत् निराकुर्यात् । ननु
चैकत्र अवयवे गुणे वा प्रवृत्तमिन्द्रियं नाऽवयवान्तरं गुणान्तरं वेक्षितुं क्षमते, कथमतः तत्साधार
णरूपस्य1143 ग्रहणम्, न च तदात्मकम् अन्यथा वा तदुपलभ्यते इति चेत्; अत्राह--एकत्र इत्यादि ।
एकत्र अभिन्ने विषयेऽपि ग्राह्येऽपि न केवलं चित्ते विषयिणि संप्लवप्रवर्तनं कथं नेच्छेत् ?
इच्छेदेव सौगतादिः । कयोः ? इत्याह--अभिलापसंसर्गयोग्यम् अनेकविशेषसाधारणं सामान्यं
तदयोग्यो विशेषः तयोः प्रतिभासौ तयोः, इति चित्तवद् विषयेऽपि सामान्यविशेष-५६ क
प्रतिभासादित्यभिप्रायः । तथा लौकिकी प्रतीतिः यमहं पश्यामि तमेव1144 स्पृशामि, यमहमद्राक्षं
तमेव स्पृशामि
इति च ।


अथवा, अभिलापसंसर्गयोग्यायोग्ययोः प्रतिभासयोः इति व्याख्येयम् । तदुक्तं
न्या य वि नि श्च ये--


*आत्मनाऽनेकरूपेण न्यायवि॰ १ । ९ इत्यादि1145

एवं तर्हि अभिलापसंसर्गयोग्यस्वभावाक्रान्तम् अन्यत्1146 तद्विपरीतस्वभावाक्रान्तञ्च अन्य
द्वस्तु स्याद् 1147अन्यथा क्वचिदपि तद्भेदो1148 न स्यादिति चेत्; अत्राह--वस्तुन इत्यादि । अत्रैवं मन्य
ते--द्वौ भेदौ वस्तुनः स्वभावभूतौ यथा ज्ञानस्य1149 विभ्रमेतरत्वादिः, अन्यश्च यथा ज्ञानान्तरस्य, स एव
तत्र वस्तुनः स्वभावः स्वरूप1150यो भेदः तस्य वस्तुनः अभेदकत्वात् कथमाक्षिपेत् इति ?
तन्न सौत्रान्तिकमते किं स्यात् प्र॰ वा॰ २ । २१०1151त्यादि युक्तम् ।


यत्पुनरेतद् योगाचारस्य मतम्--


*अविभागोऽपि बुद्ध्यात्मा विपर्यासितदर्शनैः ।

ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते ॥ प्र॰ वा॰ २ । ३५४ इति;

तत्रापि तन्न युक्तमिति दर्शयन्नाह--भागीव इत्यादि ।


भागीव भाति चेत्किन्नासत्क्रमः क्रमवानिव ।

लक्ष्यतेऽभागबुद्ध्यात्मा बहिरन्तर्मुखादिभिः ॥ १२ ॥

68

अत्र स्वयम् अविभागोऽपि बुद्ध्यात्मा भागीव भाति इत्येकं दर्शनम्, तदनन्तरभाविनी
विकल्पिका बुद्धिः तमन्यथाप्रतिभासमपि सभागमिव व्यवस्यति
इत्यपरम् । तत्र प्रथमं दर्शयित्वा
तावद् दूषयति-- विद्यते भागो यस्य स चासौ बुद्ध्यात्मा च बुद्धिरेव । स किम् ? इत्याह—
भाति । क इव ? भागीव । कैः ? इत्याह--बहिरन्तर्मुखादिभिः आदिशब्देन संवित्ति
परिग्रहः । तदुक्तं ५६ ख परेण ग्राह्यग्राहकसंवित्तिभेदवान् प्र॰ वा॰ २ । ३५४ इति
चेद् यदि; दूषणम्--अक्रमः सुखादिक्रमरहितः अविभाग 1152 बुद्ध्यात्मा किन्न
क्रमवान् इव
सुखादिक्रमवानिव भाति इति संबुद्धौ 1153 । ग्राह्यग्राहकसंवित्तिभेदवत्
सुखादिभेदोऽपि न तात्त्विक इति त1154त्संवेदनस्य प्रत्यक्षत्वदर्शनवर्णनमनर्थकम् । ननु यद्यसौ1155
क्रमवान् प्रतिभाति क इवार्थः ? न हि नीलं नीलतया प्रतिभासमानं नीलमिव युक्तम् । अथ तथा
न प्रतिभाति, तथापि क इवार्थः ? न खलु नीलमपीततयाऽवभासमानं पीतमिव भवितुमर्हतीति
चेत्; तर्हि यदि ग्राह्यग्राहकसंवित्तिभेदवत् प्रतिभाति क इवार्थः ? अन्यथापि क इवार्थ इति
समानम् ।


किञ्च, यदि अविभागः प्रमाणतः स कदाचित् प्रतिपन्नः स्यात्; तदा अन्यदा सवि
भागदर्शनात् सविभाग इव इति युक्तो व्यवहारः, अ1156जलस्य मरीचिकाचक्रस्य क्वदाचिद्दर्शनात्
1157त्र जलमिव इति व्यवहारवत् । न चैवमिति निरूपयिष्यते अनन्तरमेव स्वयमद्वयस्य द्वय
निर्भासप्रतीतेः
इत्यनेन । तथा च निराकृतमेतत्--


*अविभागोऽपि प्र॰ वा॰ २ । ३५४ इत्यादि ।

*मन्त्राद्युपप्लुताक्षाणां यथा मृच्छकलादयः ।

1158न्यथैवाऽवभासन्ते तद्रूपरहिता अपि ॥

तथैवाऽदर्शनात्तेषामनुपप्लुतचक्षुषाम् ।

दूरे यथा वा मरुषु महामाल्यादि 1159 दृश्यते ॥

यथादर्शनमेवेयं मानमेयफलस्थितिः । ५७ क

क्रियतेऽविद्यमानापि ग्राह्यग्राहकसंविदाम् ॥ प्र॰ वा॰ २ । ३५५-५७ इति;

कथम् ? दृष्टान्तदार्ष्टान्तिकयोः असाम्यात् । न हि यथा अनुपप्लुतचक्षुषां मृच्छकलादि
दर्शनमन्यथा1160 तथा बुद्ध्यात्म दर्शनमिति1161 । न च दृष्टान्तमात्रादभिमतार्थः सिद्धिमुपगच्छति, अन्यथा
सर्वं सर्वस्य सिध्येत् तदविशेषात् । एतेनैतदपि निरस्तम्--


*अन्यथैकस्य भावस्य नानारूपावभासिनः ।

सत्यं कथं स्युराकाराः तदेकत्वस्य हानितः ॥ प्र॰ वा॰ २ । ३५८ इति;

दृ1162श्यमानस्य नानारूपावभासतः स1163त्यताविरहात्, प1164रमार्थस्य च दर्शनविरहान्न किञ्चित्
69 स्यात्, इति यथादर्शनमेवेयं मानमेयफलस्थितिः आहो यथातत्त्वम् इति कुतो
निश्चयः ?


स्यान्मतम्--न क्रमभाविसुखादिव्यतिरिक्तेभावा1165बुद्ध्यात्मा अनुभूयते, केवलं
क्रमजन्मसुखादिवेदनात्, कथं स1166 क्रमवानिव भाति इत्युच्यते ? अन्यथा खरविषाणं
तथा भाति इ1167ति; ग्राह्याकारव्यतिरिक्तोऽपि नाऽनुभूयते नीलादिकमहं वेद्मि इति सर्वदा प्रतीतेः
इति समानम् । त1168दाकारकल्पने सन्तानान्तरवत् प्रसङ्गः1169 । य1170त्पुनरेतत्प्रसङ्गः ।


यत्पुनरेतत्--प्र ज्ञा क र गु प्त स्य प्र ति भा सा द्वै त सि द्धि प्र क र णे चोद्यम्—
यद्यसौ1171 क्रमवानवभासमानोऽपि क्रमवानिव भातीत्युच्यते तर्हि असन् सन्निव अचेत
नश्चेतन इव भातीति किन्नोच्यते ?
इति; तदपि प्रकृते भवति न वेति चिन्त्यम् । तन्न
प्रथमं दर्शनम् ।


द्वितीयं दूषयति दर्शयित्वा--भागीव भाति वुद्ध्यात्मा बहिरन्तर्मुखादिभिः
लक्ष्यते
५७ ख निरंशदर्शनपृष्ठभाविविकल्पेन निश्चीयते चेद् यदि । अत्र दूषणम्--अक्रमः किन्न
क्रमवानिव लक्ष्यते
तेनैव विकल्पेनाव्य1172वसीयते इति ? न्यायस्य समानत्वात् सर्वस्य ।


किञ्च, विकल्पोऽपि तथा तं व्यवसन् 1173 ग्राह्यग्राहकसंवित्तिभेदवान् भवति न
वेति चक्षुषी निमील्य उन्मील्य वा चिन्तय तावत् । यदि स1174 कुतश्चित् त1175था भवति; तद्यश्चि
1176 एव बुद्ध्यात्मा तत एव तथा भवतु इति किं विकल्पकल्पनया ? तत्रापि पुनस्तथा
कल्पने अनवस्था । न च परस्य विकल्पो नाम इत्युक्तम् । तन्न द्वितीयमपि दर्शनं श्रेयः ।


कारिकायाः सुगमत्वाद् व्याख्यानमकृत्वा यद्यप्यभागबुद्ध्यात्मा भागीव क्रमवानिव वा
भाति लक्ष्यते वा तथापि सौगतस्य पुरुषाद्वैतवादिनो वा मतं सिध्येत् न जैनस्य । हि त1177था
भासनात् स त1178थैव भवति, न खलु जलमिव मरीचिकाचक्रं1179 जलमेव भवति
इति चोद्यं मनसि
निधाय दूषयन्नाह--तत्र सद्भिः इत्यादि ।


तत्र सद्भिरसद्भिश्च एकत्वं कस्यचिद्यदि ।

तथैव किन्नानेकान्तः क्रमवद्भिरक्रमात्मनः ॥ १३ ॥

इदमत्र तात्पर्यम्--भागीव इति वचनात् तत्र बुद्ध्यात्मनि भासमाना अपि ग्राह्यादयो
भागा न परमार्थसन्तः, असन्तोऽपि न बुद्ध्यात्मनो भिन्ना एव । वित्तेर्विषयनिर्भास
सिद्धिवि॰ इत्यादि वक्ष्यमाणदोषात् । ततः ते ततः कथञ्चिदभिन्ना अभ्युपगन्तव्या इति ।


नन्वेवमपि असद्भिः इति वक्तव्यम् न्याय्यत्वात् किं सद्भिः इत्यनेन विपर्ययादिति
चेत्; सत्यम्; तथापि यद् यथावभासते५८ क तत्तथैव परमार्थसद्व्यवहारावतारि
70 यथा नीलं नीलतयावभासमानं तथैव तद्व्यवहारावतारि, अवभासन्ते च क्षणिकतया
सर्वे भावाः
1180त्यभिधाय यदि ग्राह्यग्राहकसंवित्तिभागवत्तया भासमानोऽपि बुद्ध्यात्मा तथैव
परमार्थसन्न भवेत्; तेनैव1181 हेतोर्व्यभिचारः स्यात्, तस्मात् तथैव1182परमार्थसन् इति प्र ज्ञा क र स्य
प्रदर्शनार्थम् सद्भिः इति वचनं व्याख्यातम् इति तात्पर्यार्थः ।


शब्दार्थो व्याख्यायते--सद्भिः विद्यमानैः सच्चेतनादिवद् असद्भिः अविद्यमानैः
मरीचिकातोयादिवत् चेति समुच्चये । कैः ? इत्याह--बहिरित्यादि । आदिशब्दः संवित्ति
ग्रहणार्थः । तैः किम् ? इत्याह यदि इत्यादि । कस्यचित् इति सामान्यवचनं पूर्वस्य विक
ल्पस्य च बुद्ध्यात्मनः संग्रहार्थम्, एकत्वं सिध्येत् । अत्र दूषणम् तथैव इत्यादि । तथैव
तेनैव प्रकारेण सुखदुःखादिभिः क्रमवद्भिः सद्भिः असद्भिर्वा किन्न अक्रमात्मनः
सिद्धिः स्याद् एकत्वस्य इति मन्यते । ततः किं सिद्धम् ? इत्याह--अनेकान्त इत्यादि ।
उभयथापि सद्भिर्वा एकत्वप्रकारेण असद्भिरपि एकत्वे एकस्य विभ्रमेतरत्वसिद्धिः नैरात्म्य
सिद्धेरभावः ।


एवं प1183रस्य अनिष्टसिद्धिं प्रदर्श्य अधुना अत्रैव पूर्वपक्षे इष्टाभावं कथयन्नाह--प्रत्यक्षम्
इत्यादि ।


प्रत्यक्षमविभागं चेच्चित्तं भागीव किं बहिः ।

नान्तस्तदेव प्रत्यक्षं कल्पनापोढमञ्जसा ॥ १४ ॥

कल्पनापोढस्याभ्रान्तस्यापि विकल्पभ्रान्तिसंभवे प्रत्यक्षतदाभासयोः किं कारण
माश्रित्य भेदं लक्षयेदिति प्रत्यक्षस्य लक्षणान्तरं शक्यं वक्तुम्, चन्द्रमेकं पश्यतोऽपि
द्विचन्द्रभ्रान्तिः मानसी स्वयमविभागबुद्धौ कल्पनारचितग्राह्यग्राहकसंवित्तिभेदसंवेदन
वत् । बहिरप्यनुमानादिनिर्णयज्ञानं सविकल्पकमिव कुतश्चित् प्रतिभाति । तन्न प्रत्यक्षप
रोक्षविषयव्यवस्था, प्रमाणेतरव्यवस्थाऽभावे तत्त्वेतरव्यवस्थाऽयोगात् ।


अविभागं भागीव सिवानिव 1184 भाति चेत् यदि चित्तं ज्ञानम् ।
अत्र दूषणमाह--अन्तः स्वरूपे तदेव चित्तं प्रत्यक्षं कल्पनापोढं ५८ ख कल्पनापोढ
त्वात् तदपि अभ्रान्तत्वात् यत् प1185रेणोक्तं न लक्ष्यते इति पूर्वकारिकाक्रियापदेन सम्बन्धः ।
अञ्जसा परमार्थेनकेवलम् इच्छयैव लक्ष्यत इत्यर्थः । निरंशस्य सांशतया अवभासंते 1186 विभ्रमस्य सदाकारसाधारणतया च कल्पनायाः व1187 कल्पनाया स्वभावादसिद्धो हेतुः इत्यभिप्रायः ।


ननु च प्रथमं द1188र्शनम् अविभागमेव आ1189त्मानं पश्यति तदनन्तरभाविविकल्पस्तु तत्सभागमिव
व्यवस्यति ततोऽयमदोष इति चेत्; अत्राह--किं बहिरि ति इत्येतदत्रापि सम्बन्ध
71 नीयं मध्ये करणात् । ततोऽयमर्थः बहिः चन्द्रादौ चित्तं सर्वे 1190 किन्न प्रत्यक्षं कल्पना
पोढम्
अभ्रान्तं लक्ष्यते किन्तु लक्ष्यत एव ।


कारिकां विवृण्वन्नाह--प्रत्यक्ष इत्यादि । प्रत्यक्षंतदाभासं च तयोः । किम्
किञ्चिद् वत 1191कारणं निमित्तम् आश्रित्य भेदं लक्षयेत् ? आकस्मिकं लक्षयेद्
इत्यर्थः । कदा ? इत्यत्राह--कल्पना इत्यादि । कल्पनापोढस्य अभ्रान्तस्यापि चित्तम्
इत्यनुवर्तमानं जात ता1192परिणामम् इह सम्बध्यते चित्तस्य इति । अपिशब्दः परा
भ्युपगमसूचकः । विकल्पभ्रान्तिसंभवे एकस्य सदसदाकारसाधारणस्य भावात् विकल्पस्य नि
रंशस्य सांशतया अवभासभावाद् भ्रान्तेश्च संभवे सति । एतदुक्तं भवति--प्रत्यक्षत्वस्य
कल्पनापोढाऽभ्रान्तत्वे व्यापके, ते च स्वविरुद्धकल्पना-भ्रान्तिव्याप्त ५९ क सर्वज्ञानेभ्यो
व्यावर्तमाने स्वव्याप्यं प्रत्यक्षत्वमादाय निवर्त्तेते इति न प्रत्यक्षं नाम, त1193दभावे न त1194दाभासं
तदपेक्षत्वादस्य, इति तर्हि कल्पनापोढ1195भ्रान्तत्वाऽभावेऽपि प्रत्यक्षस्य लक्षणान्तरस्मात्
1196 शक्यं वक्तुं प्रतिपादयितुम् । किम् ? इत्याह--चन्द्रम् इत्यादि । चन्द्रग्रहणम्
एकग्रहणं वा उपलक्षणं तेन संख1197 करितुरगादिशुक्लतद्वेशादिग्रहणं तं पश्यतोऽपि चक्षुर्ज्ञानेन
साक्षात्कुर्वतोऽपि न केवलम् अपश्यतः । किम् ? इत्याह--द्विचन्द्रभ्रान्तिः इति । अत्रापि द्विचन्द्र
ग्रहणम् उपलक्षणनिमिति 1198 स्वापादौ देशादिग्रहणं तस्य भ्रान्तिः अन्यथाग्रहणम्, सा च
मानसी इति द्रष्टव्या । तं प1199श्यतो1200ऽन्यस्याऽसंभवात् । कस्य इव ? इत्यत्राह--स्वयम् इत्यादि ।
स्वयम् आत्मनः अविभागा निरंशा या बुद्धिः तस्यां कल्पनारचिता ग्राह्य ग्राहकसंवित्ति
भेदाः
तेषां संवेदनस्य इव तद्वत् इति । एतदुक्तं भवति--यथा अविमागबुद्धिं पश्यतोऽपि ग्राह्य
ग्राहकसंवित्तिभेदसंवेदनं भ्रान्तिः मानसी तथा प्रकृताऽपि इति । तस्मात् प्रत्यक्षेत्यादि स्थितम् ।
पूर्वं प्रत्यक्षाभावात् तदाभासभेदं न लक्षयेत् इत्युक्तम्, इदानीं तदाभासाऽभावात् प्रत्यक्षमिदं
न लक्षयेत्
इत्युच्यते । ततो निराकृतमेतत्--


*1201त्रिविधं कल्पनाज्ञानम् आश्रयोपप्लवोद्भवम् ।

अविकल्पकमेकं च प्रत्यक्षाभं चतुर्विधम् ॥ प्र॰ वा॰ २ । २८८ इति ।

कथम् ? प्रत्यक्षाभस्य विकल्पस्य कस्यचिदभावात् । न1202नु द्विचन्द्रभ्रान्तिः मानसी चेत्;
किमिदानीमिन्द्रियज्ञानम् ? यद् ५९ ख इन्द्रियस्य भावाऽभावाभ्यां भावाऽभाववत् तत्त
स्येति चेत्; द्विचन्द्रादिज्ञानम् अत एव त1203स्य अस्तु । तस्य विकारे यद् विकारवत् तत्तस्येति चेत्;
एतदपि अनेन नोत्सृष्टम् । तदुक्तम्--


72
*1204किञ्चेन्द्रियं य क्षाणां भावाभावानुरोधि चेत् ।

तत्तुल्यं विक्रियावच्चेत् सा चेयं न किमिष्यते ॥ प्र॰ वा॰ २ । २९६

किञ्च, द्विचन्द्रादिभ्रान्तिर्मानसी चेत्; तर्हि स1205र्पादिभ्रान्तिवत् इन्द्रिय विकृतावपि निवर्तेत,
अक्षविप्लवे निवृत्तेऽपि वा न निवर्तेत । एतदप्युक्तम्--


*सर्पादिभ्रान्तिवच्चास्याः स्यादक्षविकृतावपि ।

निवृत्तिर्न निवर्तेत निवृत्तेऽप्यक्षविप्लवे ॥ प्र॰ वा॰ २ । २९७

अपि च, सर्पादिभ्रान्तिवद् एतस्याः1206 शब्दैः तद्वाचकैः अन्यसन्ताने समर्पणं पूर्वदृष्टद्विच
न्द्रादिस्मरणापेक्षणम् अ1207परिस्फुटप्रतिभासनञ्च स्यात् । तथा चोक्तम्--


*कदाचिदन्यसन्ताने तथैवार्प्येत वाचकैः ।

दृष्टस्मृतिमपेक्षेत न भासेत परिस्फुटम् ॥ प्र॰ वा॰ २ । २९८

इति चेत्; तन्न; अस्य प्रकृतेऽपि समानत्वात् । तथाहि--ग्राह्यग्राहकसंवित्तिभेदसंवेदनं
भ्रान्तिश्चेत् मानसी; किम् इदानीमिन्द्रियज्ञानम् ? इन्द्रियभावाभावानुरोधि चेत्; तत्तुल्य
मितरत्रापि । एवं शेषमपि वक्तव्यम् । तथापि इ1208यं मानसी; तथा द्विचन्द्रादिभ्रान्तिरपि स्यादिति
मन्यते ।


एतेन एतदपि निरस्तं यदुक्तं परेण--निरालम्बनाः सर्वे प्रत्ययाः प्रत्ययत्वात् स्वप्न
प्रत्ययवत्
प्र॰ वार्तिकाल॰ ३ । ३३१1209ति; कथम् ? वादिनं प्रति दृष्टान्तस्य साध्यविकल
त्वात् । अथ प्रतिवादिनं प्रति न तस्य ६० क तद्विकलतेत्यदोषः; तर्हि प्रतिवादिनोऽनुसरणे न
अविभागबुद्ध्यात्मसंवेदनसिद्धिः ।


एवम् अविकल्पकमेकं च प्रत्यक्षम् 1210 प्र॰ वा॰ २ । २८८ इत्येतत्
निराकृत्य त्रिविधं कल्पनाज्ञानं प्रत्यक्षाभम् प्र॰ वा॰ २ । २८८ इत्येतत् निरा
कुर्वन्नाह--बहिः इत्यादि । अ1211न्तः प1212रेण अनुमानादेः अविकल्पकत्वमिष्यते इति बहिर्ग्रहणम्,
1213त्रापि कल्पनापोढम् । किं तत् ? इत्याह--अनुमानादिनिर्णयज्ञानम् इति । आदिशब्देन
भ्रान्तिसंवृति स1214ज्ञानादिपरिग्रहः । प्रत्यक्षवत् यदि अनुमानादि अविकल्पकम्; 1215तद्
गृहीतेऽपि समारोपः स्यादिति तन्निरासार्थं निर्णयज्ञानं सविकल्पकमिव मानसविकल्प इव
कुतश्चिद् विकल्पवशात् प्रतिभाति इति निराकृतमेतत्--भ्रान्ति संवृतिसं1216
73 ज्ञानम्
प्र॰ समु॰ १ । ८1217त्यादि । तथाव्यवहाराभावः अन्यत्रापि समानः ।


1218द्विविधो हि अर्थः प्रत्यक्षः परोक्षश्च, तत्र यो ज्ञानप्रतिभासं स्वान्वयव्यतिरे
कावनुकारयति स प्रत्यक्षोऽर्थः अन्यः परोक्षः
इत्येतदिदानीं दूषयन्नाह--तन्न इत्यादि । तत्
तस्मात् उक्तन्यायात् न प्रत्यक्षव्यवस्था कल्पनापोढस्याऽभ्रान्तस्य विकल्पभ्रान्तिसंभवे न प्रत्य
क्षार्थो लक्षणाभावादिति मन्यते । नापि परोक्षविषयव्यवस्था तैमिरिकं प्रति परोक्षत्वेन अभि
मतस्य एकचन्द्रादेः आनुमानिकं च प्रति पावकादेः स्वप्रत्यक्षत्वादिति भावः । ततो निराकृत
मेतत्--प्रमाणं द्विविधं मेयद्वैविध्यात् प्र॰ वा॰ २ । १ इति; हेतोरसिद्धत्वात्1219 । अत्रैव
धर्मिणोऽसिद्धिं दर्शयन्नाह--प्रमाणेत्यादि । ६० ख प्रमाणमविसंवादि ज्ञानम्1220 इतरद् अप्रमा
णम् तयोर्व्यवस्थाने 1221, एतदपि कुतः ? इत्यत्राह--तत्त्वेतर इत्यादि । तत्त्वं परमार्था
द्वयं ज्ञानम् इतरः अपरमार्थो द्विचन्द्रादिः तयोर्व्यवस्थाऽयोगात् उक्तन्यायेन तन्नि षेधात्


तन्न योगाचारमतेऽपि किं स्यात् प्र॰ वा॰ २ । २१० इत्यादि युक्तम् । केवलं
मायामरीचिप्रभृतिप्रतिभासवदसत्त्वेऽप्यदोषः प्र॰ वार्तिकाल॰ ३ । २११ इत्येतत्
तदेतन्नूनमायातम् प्र॰ वा॰ २ । २०९1222त्यादि च माध्यमिकस्य दर्शनमवशिष्यते,
तत्रापि तन्न युक्तमिति दर्शयन्नाह--आत्मसंवेदनम् इत्यादि ।


आत्मसंवेदनं भ्रान्तेरभ्रान्तं भाति भेदिवत् ।

प्रत्यक्षं तैमिरं चान्द्रं किन्नानेकान्तविद्विषाम् ॥ १५ ॥

न हि भ्रान्तेः स्वसंवेदनं भ्रान्तं युक्तम्, तदप्रत्यक्षत्वे विषयवत्स्वभावासिद्धिप्रस
ङ्गात् । नापि तत् सर्वथा अभ्रान्तमेव स्वयमद्वयस्यापि द्वयनिर्भासप्रतीतेः । यदि पुनः
इदं प्रत्यक्षमेव तिमिराभ्युपहतचक्षुषां किन्न स्यात् ? तद्...।


भ्रान्तेः अन्तर्बहिर्विभ्रमस्य यदात्मनः स्वरूपस्य संवेदनं ग्रहणं तदभावे अर्थवत्
तदसिद्धेरिति मन्यते । तत् अभ्रान्तम् अवितथम्, काक्वा1223 व्याख्येयमेतत् । यदीति वा
अध्याहार्यम्, अन्यथा भ्रान्तेरसिद्धिः । अत्र दूषणमाह--भाति भेदिवत् । भाति चकास्ति
तत्संवेदनं भेदी चित्रपतङ्गादिः तेन समानं तद्वत् । एतदुक्तं भवति--यथा चित्रपतङ्गादिः
एकानेकरूपतया भाति तथा तत्संवेदनमपि विभ्रमेतरैकानेकरूपतया इति । केषां तदित्थम् ?
इत्यत्राह--अनेकान्तविद्विषाम् विभ्रमैकान्तवादिनाम् । अत्रैव दोषान्तरमाह--प्रत्यक्षम्
इत्यादि । चन्द्रस्य इदं चन्द्रविषयं चान्द्रम् । किं सर्वम् ? न, तैमिरं तिमिरग्रहणं भ्रान्ति
74 का1224रणोपलक्षणम्, तस्माद् आगतम् द्विचन्द्रादिज्ञानमिति यावत् । तत् किम् ? इत्याह--प्रत्यक्षं
भेदिवत् भाति
च कथञ्चित् प्रत्यक्षमित्यर्थः । केषाम् ? ६१ क अनेकान्तविद्विषाम्
एव । तथा च यदुक्तं तैरेव--यद्वभासते न तत् सत् यथा द्विचन्द्रादि, अवभासते च
ज्ञानघटादि
इति; तन्निरस्तम्; सर्वथा विभ्रमस्य 1225दृष्टान्तेऽपि न सिद्धिरिति भावः ।


1226एकानेकत्वाद्यशेषविकल्पशून्यं स्वसंवेदनमात्रनिष्ठं तत्त्वम् इत्यपरः माध्य
मिकः । तं प्रति आह--आत्मसंवेदनम् इत्यादि । भ्रान्तेर्नीलादिबुद्धे स्मार्थ 1227 निरालम्बनाः स्वरूपालम्बनाः प्रत्ययाः प्र॰ वार्तिकाल॰ पृ॰ ३६५1228त्यभिधानात्
आत्मसंवेदनं स्वरूपग्रहणम् अभ्रान्तम् विभ्रमाकारशून्यम् अन्यथा सकलविकल्पशून्यताऽ
सिद्धेरिति मन्यते । अत्र दूषणम् भ्रान्ति 1229 तदात्मसंवेदनं प्रतिभासते भेदिना चित्र
पतङ्गादिना समानमिति । एतदुक्तं भवति--सर्वविकल्पातीतत्वेन निरंशस्य ग्राह्याकारैः सांशस्य
इव भासनात् कथं तदभ्रान्तम् यतः प्रकृतमर्थतत्त्वं सिध्येत् ? तथापि प्रत्यक्षत्वे दूषणमाह—
प्रत्यक्षं तदात्मसंवेदनम् तैमिरं चान्द्रं द्विचन्द्रादिविषयं ज्ञानम् किन्न प्रत्यक्षम् अपि तु
प्रत्यक्षमेव । केषाम् ? इत्यत्राह--स्याद्वादविद्विषां 1230 सर्वविकल्पा
तीतैकान्तवादिनाम् । तथा च यद् विशददर्शनावभासि न तत् परमार्थसत् यथा द्विच
न्द्रादि, तदवभासि च जाग्रत्स्तम्भादि ।
इत्यत्र वा1231दिनो दृष्टान्ते साध्यहीनता इत्यभिप्रायः ।


कारिकां विवृण्वन्नाह--नहि इत्यादि । भ्रान्तेः बहिरन्तर्विभ्रमैकान्तस्य स्वस्य स्वरूपस्य
संवेदनं ग्रहणं नहि भ्रान्तम् शक्यं युक्तमुपपन्नम् किन्तु अभ्रान्तमेव युक्तम् इति ६१ ख
अनेकान्तसिद्धिः । अस्यानभ्युपगमे दूषणमाह--तद् इत्यादि । तस्य भ्रान्तिस्वसंवेदनस्य अप्रत्य
क्षत्वे
भ्रान्तत्वे इत्यर्थः विषयवत् घटादिवत् स्वभावासिद्धिप्रसङ्गात् भ्रान्तिस्वरूपासिद्धिप्रस
ङ्गात् । तदुक्तं न्या य वि नि श्च ये--


*विभ्रमे विभ्रमे तेषां विभ्रमोऽपि न सिध्यति न्यायवि॰ १ । ५४ इति ।

द्वितीयमर्थं कथयन्नाह--नापि इत्यादि । पक्षान्तरसूचकः आपिशब्दः सर्वथा सर्वात्मना तत्
भ्रान्तेः आत्मसंवेदनम् अभ्रान्तमेव1232 । नापि न केवलं सर्वथा न भ्रान्तमेव । कुत एतत् ? इत्य
त्राह--स्वयम् इत्यादि । स्वयम् आत्मना सौगतोपगमाद् अद्वयस्यापि तकं 1233वेदनस्यापि
सर्वविकल्पातीतस्य द्वयनिर्भासप्रतीतेः संवेदनग्राह्याकारैः एकानेकाकारप्रतीतेः । ननु च यदि
नीलादिशरीरसुखादि ग्राह्यम् न त1234तोऽपरं ग्राहकं ग्रहणं वा प्रतीयते । अथ तद् ग्राहकम्; नापरं
75 ग्राह्यं ग्रहणं वा इति तद्युक्तं स्वयम् इत्यादि इति चेत्; तन्न अहं नीलादिकं वेद्मि इति
प्रतीतेरपलापे सर्वापलापप्रसङ्गात् ।


एतेन एतदपि निरस्तं तदुक्तं परेण--यन्निमित्तमस्ति अयं ग्राह्याकारः अयं ग्राहका
कारः अयं संवेदनाकार इति व्यवस्था, तस्य चेद् भेदः तर्हि तेषामपि भेद एव इति नैकं
1235तदात्मकं युक्तम्, अन्यथा न तद्व्यवस्था ।
इति; कथम् ? एवं प्रतिभागं विचारणे सर्वस्य
परमाणुगमने न सन्तानान्तरसिद्धिः सकलशून्यतामात्रम् अत्राणं वा । अत एव एकानेकरूप-६२ क
विकल्पशून्यप्रतिभासमात्रमपि न युक्तम् । ततः प्रतिभासमात्रमभ्युपगच्छता नीलमहं वेद्मि
इत्येकं ज्ञानमभ्युपगन्तव्यमिति सूक्तम्--स्वयम् इत्यादि । तथापि तदभ्रान्तमभ्युपगच्छतो दूष
णमाह--यदि पुनः इत्यादि । इदम् अद्वयं द्वयनिर्भासवत् संवेदनं यदि पुनः प्रत्यक्षमेव संविदपि
नाप्रत्यक्षम् इति एवकारार्थः । तिमिराभ्युपहतचक्षुषां किन्न स्यात् ? स्यादेव संवेदनं प्रत्यक्षमेव
चन्द्रादिविषयम् । कुत एतत् ? इत्यत्राह--तद् इत्यादि । सुगमम् । पूर्वव्याख्यानेऽपि एतदेव यो
ज्यम् । अयं तु विशेषः तत्र कथञ्चिद् इति । तन्न माध्यमिकदर्शनेऽपि किं स्यात् प्र॰ वा॰
२ । २१०
1236त्याद्युपपन्नम् ।


उक्तमर्थमुपसंहृत्य दर्शयन्नाह--स्वार्थस्वलक्षणम् इत्यादि ।


स्वार्थस्वलक्षणं ज्ञानं लक्षयेत् परिणामि च ।

अन्तर्बहिश्च तत्क्वेदं प्रत्यक्षं कृतलक्षणम् ॥ १६ ॥

अन्तः स्वलक्षणस्य परमार्थतो द्वयनिर्भासप्रतीतेः बहिरेकस्य स्थवीयसः प्रतिभास
नात् । तदेकं स्थवीयांसं परिणामिनमाकारं सकललोकसाक्षिकमभ्रान्तं सन्दर्शयन्ती बुद्धिः
अनेकान्तसिद्धिः स्वयमेकान्तं निराकरोतीति किन्नश्चिन्तया ?


स्वस्वलक्षणमर्थस्वलक्षणं च स्वं स्वग्रहणयोग्यं वा अर्थस्वलक्षणं कर्मतापन्नं ज्ञानं
कर्तृ परिणामि च उक्तन्यायेन लक्षयेत् निश्चिनुयात् पराभ्युपगतपरिणामं च इत्युक्तम् ।
क्व ? इत्यत्राह--अन्तर्बहिश्च इति । अन्तः स्वस्वलक्षणम् बहिः अर्थस्वलक्षणम् । ततः किं
जातम् ? इत्यत्राह--तत् क्वेदम् इत्यादि । यत एवं तत् तस्मात् क्व क्वचित् बहिरन्तर्वा
इदं सौगतेन उच्यमानम् किम् ? प्रत्यक्षम् । कथंभूतम् ? कृतलक्षणं कल्पनापोढम
भ्रान्तम्
न्यायबि॰ १ । ४ इति कृतं लक्षणं यस्य तत् तथोक्तम्, क्वचिदपि इति । यदि वा,
प्रत्यक्षं दर्शनग्राह्यं वस्तु कृतलक्षणं निश्चितस्वरूपं क्व इति व्याख्येयम् ।


कारिकां विवृण्वन्नाह--अन्तः इत्यादि । ६२ ख अन्तःस्वलक्षणस्य ज्ञानस्वलक्षणस्य
द्वयनिर्भासप्रतीतेः एकानेकाकारप्रतीतेः । किम् ? परमार्थतो न विपर्यासात् अन्यथाभूतस्य
अन्यथाग्रहणात् । बहिः एकस्य इत्यनेन सञ्चितालम्बनाः पञ्च विज्ञानकायाः इति
76 परस्य1237 मतं न युक्तमिति दर्शयति । स्थवीयसः इत्यनेन निरंशपरमाणुमात्रं तत्त्वम् इति निरा
चष्टे1238 प्रतिभासनात् इत्यतः तस्य विकल्पविषयत्वम्1239 । ततः किम् ? इत्यत्राह--तदेकम् इत्यादि ।
तस्य अन्तर्बहिःस्वलक्षणस्य एकम् अनेकरूपसाधारणं स्थवीयांसम् अत एव परिणामिनम्
विवक्षितेतरपर्यायवन्तम् आकारं लक्षणं सकललोकसाक्षिकम् अभ्रान्तं सन्दर्शयन्ती बुद्धिः
अनेकान्तसिद्धिः
अनेकान्ता सिद्धिः निर्णीतिः यस्या सा तथोक्ता स्वयं वा तस्य सिद्धिः । सा
किं करोति ? इत्यत्राह--स्वयम् इत्यादि । स्वयम् आत्मनैव न परेण एकान्तं निराकरोति, अने
कान्तसिद्धेः एकान्तनिषेधात्मकत्वादिति मन्यते । इति हेतोः किं नः अस्माकम् चिन्तया एकान्त
निषेधार्थपरीक्षयेति ?


ननु कथमेकान्तं सा1240 निराकरोति एकान्तविषयानुमानेन बाधितत्वादिति चेत् ? अत्राह—
ज्ञानम् इत्यादि ।


ज्ञानं स्वार्थबलोद्भूतं स्वलक्षणविलक्षणम् ।

सामान्यलक्षणं सिद्धिरनेकान्तात्तथेक्षणात् ॥ १७ ॥

यथा अन्तर्बहिर्वा परपरिकल्पितलक्षणं स्वलक्षणं प्रत्यक्षलक्षणं न पुष्णाति तथैव सामा
न्यम् । क्वचित्...द्रव्य... ...।


ज्ञानं स्वग्राह्यस्य अर्थस्य न लिङ्गादेः बलेन उद्भूतम् उत्पन्नम् अध्यक्षम् इति
यावत् । यथा स्वलक्षणविलक्षणं निरंशक्षणिकपरमाणुग्रहणपराङ्मुखं तथा सामान्यलक्षणं
सामान्यं लक्ष्यते यस्य ६३ क येन वा तत्तथोक्तं ज्ञानम् अनुमानम् इति यावत् स्वलक्षणवि
लक्षणम्
इति सम्बन्धः । तथा च कुतः तेन तद्बुद्धेर्वा इति भावः । यथातथाशब्दावन्तरेणापि
प्रतिवस्तूपमालङ्काराश्रयाणादयमर्थो लभ्यते । कुतस्तर्हि तत्त्वसिद्धिः ? इत्यत्राह--सिद्धिः
तत्त्वस्य आत्मलाभः निर्णीतिर्वा अनेकान्ताद् अनेकान्तमाश्रित्य तेन हेतुना वा । कुतः ?
तथेक्षणात् अनेकान्तप्रकारेण सर्वस्य दर्शनादिति ।


कारिकां विवृण्वन्नाह--यथा इत्यादि । यथा येन प्रकारेण अन्तर्बहिर्वा स्वलक्षणं कर्मता
पन्नं प्रत्यक्षलक्षणम् अध्यक्षप्रमाणं कर्तृ न पुष्णाति न गृह्णाति । कथंभूतं तत् ? इत्याह--परपरि
कल्पितं
सौगतकल्पितं तथैव सामान्यं 1241विषयिणि विष1242यशब्दोपचारात् अनुमानं तत् 1243 पुष्णाति इति । परपरिकल्पितम् इत्येतदत्रापि योज्यम् । कुत एतत् ? इत्यत्राह--द्रव्य इत्यादि
सुगमम् । तत्त्वं न पुष्णातीति ।


अथवा, अन्यथा कारिकेयमवतार्यते--यदि सौगतकल्पितमविकल्पकं दर्शनं न क्वचिदस्ति
तर्हि इदमस्तु1244--


*अस्ति ह्यालोचनाज्ञानं प्रथमं निर्विकल्पकम् ।

बालमूकादिविज्ञानसदृशं शुद्धवस्तुजम् ॥ मी॰ श्लो॰ प्रत्यक्ष॰ श्लो॰ ११२

77

इति चेत्; अत्राह--ज्ञानम् इत्यादि । अत्रापि प्रतिवस्तूपमालङ्काराश्रयणात् यथा ज्ञानं स्वा
र्थस्य
निरंशक्षणिकपरमाणुरूपस्य बलेन उद्भूतम् अविकल्पं दर्शनम् स्वलक्षणविलक्षणं
स्वग्राह्यपराङ्मुखं तथा सामान्यलक्षणं सामान्यविषयं ६३ ख स्वलक्षणविलक्षणं स्व
विषयग्रहणपराङ्मुखम् । उभयत्र लक्ष्यत इति लक्षणम् इति व्युत्पत्तेरयमर्थः । कुत एतत् ?
इत्याह--सिद्धिः निर्णीतिः स्वलक्षणस्य सामान्यस्य अनेकान्ताद् अनेकान्तमाश्रित्य तथे
क्षणात्
तथा वा 1245 दर्शनात् ।


यथा इत्यादिना कारिकार्थमाह--यथा अन्तर्बहिर्वा स्वलक्षणं परपरिकल्पितं सौगतकल्पितं
न प्रमाणसिद्धं कर्तृ प्रत्यक्षलक्षणं कल्पनापोढमभ्रान्तम् न्यायबि॰ १ । ४ इत्यध्यक्षस्वरूपं
कर्मतापन्नं न पुष्णाति तत्र स्वरूपासमर्पकत्वात्, तथैव परपरिकल्पितं सामान्यं तन्न पुष्णाति
इति । कुत एतत् ? इत्यत्राह--क्वचित् इत्यादि । एतदपि कुतः ? इत्यत्राह--द्रव्य इत्यादि ।


इतश्च सामान्यलक्षणमनुमानादि परस्य स्वलक्षणविलक्षणमिति दर्शयन्नाह--अङ्गीकृता
इत्यादि ।


अङ्गीकृतात्मसंवित्तेरविकल्पोपवर्णनम् ।

अनुमाद्यात्माऽविकल्पेनार्थस्याविकल्पनात् ॥ १८ ॥

स्वानुभवमन्तरेण बुद्धेर्न स्वार्थानुभवः । यथा ज्ञानसत्तामात्रेण अर्थानुभवे न
सर्वस्य सर्वदर्शित्वं संभवति तथैव अनिश्चितस्वानुभवसत्तामात्रेणापि अर्थनिश्चये तन्निश्चय
इति सर्वस्य सर्वनिश्चय इति यः स्वभावो निश्चयेन न निश्चीयते स कथं तद्विषयः स्यात्
बहिरर्थवत्
यतः प्रत्यक्षमविकल्पकं भवेत् ? परतः संवेदने वा अनवस्थादेः ।


अङ्गीकृता नैयायिकादिनिरासेन अभ्युपगता सौगतेन आत्मसंवित्तिः सर्वचित्तचै
त्तानां स्वरूपगृहीतिः तस्या अविकल्पोपवर्णनं1246 निर्विकल्पत्वादि, अनुमानादिः 1247
तस्यात्मा स्वरूपं तस्य अविकल्पो निर्विकल्पकत्वं तेन अर्थस्य क्षणक्षयादेः अविकल्पनाद्
अनिश्चयात् अविषयीकरणात् । तत्र यः स्वभावो निश्चयैर्न निश्चीयते स कथं तेषां विषयः
स्यात् ।
इत्यभिधानात् इति कथं तैः अनेकान्तसिद्धेः बुद्धेः बाधनमिति भावः ।


कारिकां विवृण्वन्नाह--स्वानुभव इत्यादि । स्वानुभवं स्वरूपग्रहणमन्तरेण बुद्धे द्वनिस्या
1248र्थस्य
६४ क घटादेः अनुभवो ग्रहणं यथा येन ज्ञानसत्तामात्रेण अर्थानुभवे1249न्ता
नान्तरज्ञानसत्तामात्रापेक्षयादि 1250 तदनुभवे सर्वस्य सर्वदर्शित्वम् इति प्रकारेण न संभ
वति तथैव
तेनैव अनिश्चितस्वानुभवसत्तामात्रेण अर्थनिश्चये सन्तानान्तरज्ञानतन्मात्रेणापि
1251न्निश्चय इति सर्वस्य सर्वनिश्चय इति प्रकारेण स्वनिश्चयमन्तरेण स्वार्थनिश्चयो न तुसंभवति
इति सम्बन्धः । तथा च अनुमानम्--यत्र यस्य यदनिश्चितस्वरूपं ज्ञानं तत्र तस्य तदपेक्षया न परमा
र्थतो निश्चितव्यवहारः यथा घटादौ देवदत्तस्य यज्ञदत्तज्ञानापेक्षया न तथा तद्व्यवहारः, अनि
श्चितस्वरूपं च सौगतस्य सर्वत्र सर्वविकल्पज्ञानमिति । अथ स्वविकल्पस्य विषयीकरणम् अन्यस्य
78 विपर्ययः ततोऽयमदोष इति चेत्; अत्राह--यः स्वभावः इत्यादि । यः स्वभावो यत्स्वरूपं निश्च
यैर्न निश्चीयते स
स्वभावः कथं नैव तेषां निश्चयानां विषयः स्याद् भवेत् । अत्र दृष्टान्तमाह—
बहिरर्थ इव तद्वत् इति । तथा च प्रयोगः--न स्वरूपं निश्चयानां विषयः तैः1252 तदनिश्चयात् बहि
रर्थवत् । अ1253स्य त1254द्विषयत्वे स्वलक्षणगोचरत्वं तेषामनिष्टंस्यात् । स्यान्मतम्--स्वरूपस्य दर्शनं बहि
रर्थस्य ततो विशेष इति; न; अनिश्चितस्य क्षणिकत्ववद् दर्शनमिति कुतः ? सिद्धं फलं दर्शयन्नाह—
यत इत्यादि । यतः तस्य तद्विषयत्वात् प्रत्यक्षमविकल्पं सर्वचित्तचैत्तानाम् आत्मसंवेदनं ६४ ख
भवेत् । यत इति वा आक्षेपे, नैव भवेत् । अथ निश्चयानां स्वभावः निश्चयान्तरैर्निश्चीयत इत्य
दोषः; तत्राप्याह--परतः इत्यादि । परतः अनुभवान्तरात् निश्चयान्तराच्च संवेदने निश्चये वा
निश्चयानाम् अनवस्थादेः आदिशब्देन अविशेष्यविशेषणस्याविशेषः सौगतवैशेषिकयोरिति ।
ततो यथा वैशेषिकस्य अनुभवाभावेन प्रत्यक्षादेरभावात् प्रत्यक्षानुमानागमबाधितकर्मनिर्दे
शानन्तरप्रयुक्तो हेतुः कालात्ययापदिष्टः1255
इत्ययुक्तम्, तथा सौगतस्य अनिराकृतः
न्यायबि॰ ३ । ४० इत्यपि1256, कस्यचित् निराकरणाभावादिति भावः ।


ननु सौगतस्य अन्यस्य वा एकान्तवादिनो क्वचित् प्रत्यक्षं कृतलक्षणम्, त1257द्वा स्वलक्षणं
सामान्यलक्षणं वा न पुष्णाति । कथम्भूतं तर्हि तत्1258 कीदृशं वा स्वलक्षणं सामान्यलक्षणं वा
पुष्णाति इति चेत् ? अत्राह--प्रत्यक्षम् इत्यादि ।


प्रत्यक्षं विशदं ज्ञानं प्रसन्नाक्षेतरादिषु ।

यथा यत्राविसंवादस्तथा तत्र प्रमाणता1259 ॥ १९ ॥

प्रत्यनीकधर्मसाधारणसंवित्स्वप्रमितेः असाकल्यसंभवे विषयस्वलक्षणेऽपि किन्न
भवेत् इति किमाश्रित्य तत्राप्रमाणत्वम् ? प्रसन्नाक्षबुद्धेः सर्वथा संवादिनियमायोगात्
किन्न प्रमाणमपि । दृष्टे प्रमाणान्तरावृत्तेः । उपप्लुताक्षाणामपि विनैव लिङ्गलिङ्गिसम्बन्ध
प्रतिपत्त्या अर्थं परिच्छिद्य प्रवृत्तावविसंवाददर्शनात् । तावता च प्रामाण्यसिद्धेः ।


अत्रायमर्थः--यदा केनचित् चक्षुरादिसामग्र्यनुपचरितं प्रत्यक्षं प्रमाणमिष्यते तदा तत्र
प्रसङ्गसाधनसामर्थ्यात् ज्ञानत्वमापाद्यते, तथा1260विधप्रत्यक्षप्रमाणस्य ज्ञानत्वेन व्याप्तेः । किमर्थमिति
चेत् ? तदनभ्युपगच्छतः प्रसङ्गविपर्ययात्, तज्ज्ञानं प्रत्यक्षं प्रमाणं यथा स्यादिति । यदा तु
केनचिद् अविशदं व्याप्त्यादिज्ञानं प्रत्यक्षमिष्यते तदा ज्ञानं विशदं प्रत्यक्षमिति साध्यते वक्ष्य
माणप्रमाणान्तरसद्भावाऽन्यथानुपपत्तेः । ज्ञानम् इति एकवचनं जात्यपेक्षया सर्वविशद
६५ क ज्ञानपरिग्रहार्थम् । कुत एतत् ? इत्यत्राह--प्रसन्नाक्षेतरादिषु प्रसन्नाक्षाः पुरुषा इतरे
अप्रसन्नाक्षाः, आदिशब्देन आसन्न-आसन्नतरादिपुरुषपरिग्रहः, तेन यथा येन प्रकारेण यत्र
79 विषये विशदं तथा तेन प्रकारेण तत्र विषये प्रत्यक्षम् इति सम्बन्धः, इतरत्र तदेव पमा1261
क्षमित्यभिप्रायः । न केवलं प्रत्यक्षम् अपि तु यथा येन प्रकारेण यत्र प्रसन्नाक्षेतरादिषु ज्ञानेषु
मध्ये यस्मिन् ज्ञाने अविसंवादो वर्णनं 1262 तथा तेन प्रकारेण तत्र ज्ञाने प्रमा
णता ।
अनेन एतत् कथयति--सर्वं संसारिज्ञानं स्वगोचरे विशदमविशदं प्रमाणमन्यथा च इत्य
नेकान्तः, तथा तत्साध्यमपि तदेव पुष्णाति इति । अथ कोऽयमविसंवादो नाम ? स्वार्थव्यवसायः
नातः परोऽविसंवादः इति वचनादिति चेत्; स्वप्नादौ प्रसङ्गात् । त1263त्रापि हि स्वार्थव्यव
सायलक्षणस्य अविसंवादस्य भावात् विज्ञानं प्रमाणमिति प्रमाणेतरप्रविभागविलोपः ।


स्यान्मतम्--न त1264त्र स्वा1265र्थौ; बाध्यमानत्वात्, अतो न त1266द्व्यवसायलक्षणोऽविसंवाद इति ।
1267नु किमिदं बाध्यमानत्वम् ? तद् यदि प्रतिभासकाले ज्ञानान्तरेण बाधकेन स्वरूपापहारः
असत्त्वज्ञापनं वा; तर्हि अश्रद्धेयम् । नहि ज्ञानस्य इतरस्य वा स्वरूपमपहर्तुं शक्यम्, प्रतिभास
मानस्य अप्रतिभासप्रसङ्गात् । नापि असत्त्वज्ञापनम्; जाग्रत्स्तम्भादौ प्रसङ्गात् । यदि पुनस्त1268त्र
मिथ्या वितर्कितमेतत् इति प्रत्ययाऽभावान्नायं दोष इति मतिः, सापि न युक्ता ६५ ख अस
त्येऽपि कदाचिद्भावात् सत्येऽप्यभावात् । प्रत्ययस्यापि सदर्थत्वे समानो दोषः; अनवस्था च ।
अथ कालान्तरे; तदा असतः सर्वथा कोऽपहारः अन्यद्वा । तन्न स्वार्थव्यवसायोऽविसंवादः ।
उपलब्धस्य पुनःपुनरुपलब्धिः फलेन वाऽभिसम्बन्धः स1269 इति चेत्; न; तस्य1270 क्षणिकत्वान्नाशेन
1271तदसंभवात्, स्वप्ने भावाच्च । ततो न क्वचिद् अविसंवाद इति ।


अत्र प्रतिविधीयते--एवं हि सर्वप्रतिभासाऽविशेषे 1272प्रमाणेतरप्रविभागाऽभावाद् अर्थवत्
कुतः स्वसंवेदनमात्रसिद्धिः, यतः प्रतिभासाद्वैतमन्यद्वा स्यात् ? प्रतिभासात्सिद्धौ1273; बहिरर्थसिद्धिः ।
1274अत एव अत्र स्वप्नेऽपि तत्सिद्धेर्हि विभ्रमेतरवियोगः1275, 1276अपरत्र बहिरर्थसिद्धेः असौगतं जगत्
स्यात् । प्रतिभासविशेषः अन्यत्रापि न वार्यते । ननु बुद्धेः स्वसंवेदनमस्तु प्रतिभासनात् नान्त
र्बहिरर्थो विपर्ययात् घटादीनामपि स्वसंवेदनात्मकत्वादिति चेत्; तर्हि यद्ग्राह्यतया ज्ञान
वपुषि प्रतिभाति तदसत् तैमिरिककेशादिवत्, त1277त्र प्रतिभाति च तथा जाग्रद्घटादिकम्

इत्यत्र वादिनोऽसिद्धो हेतुः । प्र1278तिवादिनः सिद्ध इति चेत्; न; प्र1279माणतः तत्सिद्धौ द्वयोरपि सिद्धः,
80 प्रमाणस्य क्वचित् पक्षपातेतरयोः अयोगात् । अ1280भ्युपगमात् त1281त्सिद्धौ न ततः कस्यचित् साध्यसिद्धिः
अतिप्रसङ्गात्, इतरथा सौगतप्रसिद्धेन उत्पादविनाशात्मत्वेन घटवत् सुखादौ अचेतनत्वं साधयन्1282
सांख्यः ध र्म की र्त्ति ना किमिति प्रतिक्षिप्तः1283 ? ६६ क प्रसङ्गसाधनत्वाददोषः, तथाहि—
जाग्रद्घटादीनां ग्राह्यत्वेन अवभासनं चेदङ्गीक्रियते बहिरर्थवादिना, तर्हि तेषां1284 तैमिरिकोपलब्ध
केशादिवदसत्त्वमभ्युपगन्तव्यम्, इतरथा न कस्यचिदित्येकान्त इति चेत्; न; अस्य प्रसङ्गसाधन
लक्षणाऽभावात् । यत्र हि व्याप्याभ्युपगमो व्यापकाभ्युपगमनान्तरीयकः1285 प्रदर्श्यते तत् प्रसङ्ग
साधनम् । न चैतदत्रास्ति । स्वसंवेदनैकान्ते वादिप्रतिवादिनोः स्वप्नादावपि स्तम्भादीनां ग्राह्यत्वेन
प्रतिभासाऽसिद्धेः कस्याऽसत्त्वेन व्याप्तिः यदभ्युपगम इतराभ्युपगमनान्तरीयकः प्रदर्श्येत ? प1286रस्य
सिद्धं सर्वमेतदिति चेत्; उक्तमत्र प्रमाणतस्तत्सिद्धौ उ1287भयोः सिद्धम्, इ1288तरथा 1289परस्यापि न सिद्धम्
इति । यदा च कश्चिद् गुडं विषं मारणात्मकं वा अभ्युपगम्य पुनर्मोहात् शर्करादिकमपि विषम्
इत्यवगच्छति, स किं विदुषैवं वक्तव्यः--यदि 1290तत् विषम् इत्यभ्युपगच्छति तर्हि तन्न खाद येन
म्रियसे, उक्तो1291 भक्षयित्वा किं म्रियते वा ? ततः सिद्धं हेतुमभ्युपगच्छता अभ्युपगन्तव्य एव
बहिरर्थप्रतिभासः इत्ययुक्तं विपर्ययादिति1292


अपि च, घटादीनां कुतः स्वसंवेदनात्मकत्वम् ? यदवभासते तज्ज्ञानं यथा सुखादि,
अवभासन्ते च घटादयः, जडस्य प्रतिभासाऽयोगात्
1293त्यनुमानादिति चेत्; उच्यते--जडस्य
प्रतिभासाऽयोगः त1294त्र प्रतिभासाभावः । तत्र य1295द्ययं जडं कञ्चित् विपक्षं न प्रतिपद्यते; कथं तत्र1296
साधनाभावमवैति ? नहि अप्रतिपन्नभूतलस्य अत्र ६६ ख भूतले घटो नास्ति इति निश्चयो
भवति, अन्यथा क्वचिद् देशविशेषे प्रतिपत्तृप्रत्यक्षे इति1297 च वावा 1298 न जाघ
टीति । यथा च जडेऽप्रतिपन्नेऽपि तत्र प्र1299कृतसाधनाभावनिश्चयः तथा सर्वज्ञे अनुपलब्धेऽपि
तत्र वक्तृत्वादिसाधना1300भावः कथन्न निश्चीयते ? यत इदमनुमानम्1301--सुगतः सर्वज्ञः परम
वीतरागो वा न भवति वक्तृत्वात् रथ्यापुरुषवत्' इति । अथवा, यद्यपि जडं किञ्चिन्नोप
लभ्यते तत्र तथापि साधनाभावनिश्चयः त1302दभावादिति । कुत एतत् ? अनुपलम्भादिति चेत्; किं
81 पुनः सर्वज्ञोपलम्भोऽस्ति ? 1303सोऽयम् अनुपलम्भमात्रात् सर्वज्ञाभावमनिच्छन् त1304त एव जडाभाव
मिच्छति
इति स्वेच्छावृत्तिः, सर्वज्ञवत् जडस्यापि केनचिदुपलम्भाऽविरोधात् । ततो ध र्म की र्त्ति ना
यदुक्तम् तदयुक्तम्


*यस्याऽदर्शनमात्रेण व्यतिरेकः प्रसाध्यते ।

तस्य संशयहेतुत्वात् 1305शेषवत्तदुदाहृतम् ॥ प्र॰ वा॰ ३ । १३ इति ।

तदभ्युपगच्छता अदृष्टे जडे न साधनाभावोऽभ्युपगन्तव्यः । प्र ज्ञा क र गु प्त स्तु
तत्कार्ये कारणे वाऽप्रतिपन्ने न कारणकार्यभावनिश्चयः परचैतन्ये वाऽविषयीकृते न
तस्य स्वदृष्टे वृत्तिः निश्चीयते
इति वदन् जडेऽदृष्टेऽपि हेत्वभावं प्रत्येति इति कथमनुन्मत्तः ?
ननु त1306स्मिन्नप्रतिपन्नेऽपि स्वतो वा परतो वा जडस्य प्रतिभासः स्यात् इत्यादिविचारात् साधनाऽ
भावः प्रतीयते इति चेत्; उच्यते--यद्य1307यं न प्रमाणम्, कथमतः क्वचित् कस्यचित् विधिप्रति
षेधयोः सिद्धिः अतिप्रसङ्गात् ? प्रमाण६७ क त्वेऽपि न प्रत्यक्षम्; परामर्शात्मकत्वाद् विचा
रस्य, तद्विपरीतत्वाच्च1308 अध्यक्षस्य । भवतु वा तथापि न तत् स्वयमविषयीकृते विपक्षे साधना
भावमवैति त1309थाविधे अन्यथा परलोकादौ तत्सन्तानाभावमवैति इति यदुक्तं ध र्म की र्त्ति ना
वि नि श्च ये तदेव तत्र नास्ति, तत एव तदभावसिद्धिः इत्ययुक्तम् इति प्लवते । नाप्य
नुमानम्; अलिङ्गजत्वात् । अपि च, यावान् कश्चित् प्रतिषेधः स सर्वोऽनुपलब्धेः, अप्र
तिषिद्धोपलम्भस्याभावासिद्धेः
इति व1310चनात्, तत्र तदभावः अनुपलम्भात् प्रत्येयः । एवं
चेत्तर्हि यद्ययं विकारः 1311 अनुमानात्मकः स्वभावानुपलम्भजनित इष्यते; युक्तं प्रतिभासस्य
पक्षयोर्घटादिसुखाद्योः उपलब्धस्य ततः क्वचिज्जडे विपक्षे अभावसाधनम्, किन्तु जडस्य 1312निषेध्य
विविक्तस्य प्रतिपत्तिरभ्युपगन्तव्या 1313तस्या एव 1314तदनुपलम्भात्मकत्वात् घटविविक्तभूतलप्रतिपत्तेः
घटानुपलम्भात्मकत्ववत् । न च सेष्यते परेण । अथ च स्वभावविरुद्धहेतुः ज1315नितः;
तर्हि कः तद्विरुद्धो हेतुः ? जडत्वमिति चेत्; तदप्रतिपत्तौ कस्य तेन विरोधः प्रतीयताम् ? अन्यथा
अदृश्यात्मनामेव तेषां तद्विरुद्धानां च सिद्धिः असिद्धिर्वा वेदितव्या 1316अन्येषां विरोधकार्य
कारणभावाभावासिद्धेः
न्यायबि॰ २ । ४७ इत्यस्य विरोधः ।


ननु च सुखादौ प्रतिभासो ज्ञानत्वेन व्याप्तः प्रतिपन्नः, ज्ञानत्वविरुद्धं च जाड्यम्,
ततोऽस्मान्निवर्त्तमानं ज्ञानत्वं स्वव्याप्यं प्रतिभासमादाय निवर्तत इति व्यापकानु६७ ख पलब्धि
जनितोऽयम्
इत्यपि वार्त्तम्; अतिप्रसङ्गो हि एवं स्यात् । शक्यं हि वक्तुं क्वचिद् रथ्यापुरुषे
वक्तृत्वादेः असर्वज्ञत्वं व्यापकं प्रतिपन्नं सर्वज्ञत्वेन विरुद्धम्, अतः 1317तन्निवर्तमानं स्वव्याप्यं
82 वक्तृत्वादिकमादाय निवर्तत इति वक्तुरसर्वज्ञत्वसिद्धिरिति । ततो यथा न वक्तृत्वादेः असर्व
ज्ञत्वेन व्याप्तिः तथा न ज्ञानत्वेन प्रतिभासस्य । अथ जडेन विरोधादस्य1318 तेन1319 व्याप्ति; तर्हि अन्योऽ
न्यसंश्रयः--सिद्धे हि जडेन अस्य विरोधे तेन व्याप्तिः, अस्यां च सिद्धायां तेन विरोधः सिध्यति
इति । ततो वक्तृत्वादिवत् शेष1320वानयं हेतुरिति स्थितम् । अथ प्रतिपद्यते किञ्चित् जडम्; तेनैव
प्रतिभासात् इत्यस्य हेतोर्व्यभिचारः । मा वा भूदयं दोषः, तथापि अतो हेतोर्जायमानमनुमानं
स्वतोऽर्थान्तरं साध्यं न चेद् विषयीकरोति; कथं तत्र प्रमाणम् अतिप्रसङ्गात् ? भ्रान्तिरपि
सम्बन्धतः प्रमा
1321इति चेत्; नन्वत्र हेतुसाध्ययोः तादात्म्यलक्षणः सम्बन्धः हेत्वनुमानयोः
कार्यकारणलक्षणः, अन्यस्यासंभवात् । ततः किम् ? यथैव योग्यतया हेतुः अनुमानं स्वसमान
कालमन्य1322थाभूतं वा जनयति तथैव ज्ञानम् अर्थं तथाविधं यदि गृह्णाति को विरोधः सर्वस्य सम
त्वात् ? अथात्र कश्चित् कार्यकारणभावलक्षणः अन्यो वा सम्बन्धो नेष्यते; तर्हि--


*लिङ्गलिङ्गिधियोरेवं पारम्पर्येण वस्तुनि ।

प्रतिबन्धात् तदाभासशून्ययोरप्यवञ्चनम् ॥ प्र॰ वा॰ २ । ८२ इति प्लवते ।

व्यवहारेण तदभिधानाददोष इति चेत्; कोऽयं व्यवहारो नाम ? सम्बन्धा-६८ क
भावेऽपि त1323द्विकल्प इति चेत्; कथं त1324द्दर्शितात् सम्बन्धात् अनुमानं प्रेक्षकारिणः कुर्वन्तु ? कृताद्वा
भा1325वतः साध्यमनुमिन्वन्तु ? सर्वतः ईश्वराद्यनुमानात् सर्वस्य स्वार्थसिद्धिप्रसङ्गात् त1326त्कल्पनायाः
सर्वत्राऽविशेषात् । यथैव च सोगतेन व्यवहारनिमित्तमग्न्याद्यनुमानं स्वमतसिद्धये वन्विकुलमिव
1327 कक्षीक्रियते तथैव ईश्वरादिवादिनापि सौगतानुमानम् । तन्न साध्यसम्बन्धात् तद
नुमानं प्रमाणम् ।


एतेन समारोपव्यवच्छेदकरणात् तत्तत्र प्रमाणम् 1328इति निरस्तम्; स्वसमानासमान
कालसमारोपव्यवच्छेदकरणवद् विज्ञानस्य अर्थग्रहणं न विरुध्येत ।


यत्पुनरुक्तं परेण--अनुमानं सहकारिकारणं प्राण 1329 पूर्वः समारोपक्षणः
स्वकार्यं 1330तत्क्षणम् 1331उत्तरतत्क्षणजनने अक्षमं जनयति ।
इति; तदप्येतेन दूषितम्; कार्यकारण
भाववद् ग्राह्यग्राहकभावसिद्धेः । संवृत्या ततस्तत्तथेति चेत्; त1332त एव जडस्यापि प्रतिभासा1333भावात्
प्रत्यक्षतः पक्षबाधा किन्न स्यात् ? परमार्थतः तद्व्यवच्छेदकरणमपि दुर्लभम् । संवृतिसिद्धेन
1334त्करणेन अनुमानं प्रमाणं न त1335या सिद्धेन घटादिनाड्य 1336 ग्राहिप्रत्यक्षेण पक्षबाधनमिति
83 किं कृतो विभागः ? अथ अनुमानेन अस्य प्रत्यक्षस्य बाधनात् नानेन पक्षबाधनम्; अने
नाप्यनुमानस्य बाधनात् न तेन तद्व्यवच्छेदकरणमिति समानम् । ततो घटादिज्ञानत्वे अनुमान
मिच्छता प्रमाणं तद्विषयमभ्युपगन्तव्यम् । तत्स्वतो1337 भिन्नं भावतोऽनुभवति न ६८ ख ज्ञानान्तरं
1338डमर्थमिति स्वेच्छाविरचितदर्शनप्रदर्शनमात्रम् ।


ततो निराकृतमेतत्--यदि भिन्नकालो ज्ञानेन अर्थोऽवगम्यते; अ1339विशेषाद् एकस्य
तथाविधाशेषार्थावगमप्रसङ्गः । अथ समकालः; सम्बन्धाभावात् किं केनावगम्यते ? नीला
दिना वा ज्ञानमवगम्येत1340 । गृहीतिकरणाद् विज्ञानं तस्य ग्राहकमिति चेत्; न; अस्याः1341
1342तोऽभेदे ज्ञानं नीलादिः तज्जन्यत्वाद् उत्तरज्ञानवत् । भेदे ज्ञानं नीलादिः गृहीति
1343 परस्पराऽसम्बद्धं त्रितयमिति किं केन गृह्यते ? पुनस्तयापि त1344दन्तरकरणे
अनवस्था ।
इत्यादि । कथम् ? प्रकृतेऽपि समत्वात् । यदि पुनस्तदनुमानं प्रमाणं नेष्यते; कुतः
प्रकृततत्त्वसिद्धिः ? प्रत्यक्षात् इत्यपि नोत्तरम्; त1345तो विवादस्यानिवृत्तेः । ननु यथा सुखादयोऽ
विद्यमानावे1346दकाः1347 प्रतिभासमानाः प्रत्यक्षसिद्धस्वसंवेदना उच्यन्ते तथा घटादय इति
चेत्; यद्येवं लभ्येत, कृतं स्यात्, तत्तु न लभ्यम्, घटमहं वेद्मि, पटमहं वेद्मि इति अहमह
मिकया प्रतीयमानप्रत्ययवेद्यतया सर्वदा तेषाम् 1348अकरासवात् 1349 । न च तथावभा
सनादन्यत् स्वसंवेदनेऽपि शरणमस्ति । 1350परदुर्णयः प्रागेव चिन्तितः । तदेवं स्वसंवेदनवत् ग्राह्या
कारस्यापि प्रतिभासभावात् स्वप्नेतरग्राह्याकारयोरिव तयोः समानः सर्वथा धर्मभावोऽस्तु । तथापि
स्वसंवेदनस्यैव परमार्थत्वे जाग्रद्ग्राह्याकार एव परमार्थः तथा स्यादिति स्वार्थव्यवसायोऽविसंवादः
नातिव्यापकः । ६९ क दृष्टस्य पुनः प्राप्तिरविसंवादः । इत्यत्र यदुक्तम्--क्षणि
कत्वेन नाशात् न तस्य तत्प्राप्तिः
इति; तत् प्रतिभासैक्यनियमे सिद्धिवि॰ १ । १०
इत्यादिना निरस्तम् ।


यच्चाप्युक्तम्--दृष्टस्य प्राप्तिः स्वप्नेऽप्यस्तीति 1351तत्रापि दर्शनं प्रमाणं स्यादिति; तत् ग्राह्यप्र
तिभासेऽपि समम् । ततः सूक्तम्--यथा यत्राविसंवादः तथा तत्र प्रमाणता इति ।


विशदम् इति प्रत्यक्षविशेषणमयुक्तं निवर्त्त्याभावात् । सामान्येऽनुमानादि दूरपाद
पादौ अवयविज्ञानमपि विशदं स्वविषयग्रहणलक्षणत्वात्1352, वै1353शद्यव्यवहारः पुनः विशेषा
वयवाग्रहणकृतः' इत्येके । ध्यामलिताकारस्य नीलाद्याकारवत् बुद्ध्याकारत्वेन वस्तुत्वात् न
1354तदपेक्षया किञ्चिद् विज्ञानमविशदम्, बाह्यं तु न तस्य विषयः इति न तत्र तदविशदमन्यथा
वा । एतेन अर्थाकारत्वमस्य चिन्तितम्; अनर्थाकारत्वे न तत्र ज्ञानं प्रमाणं विसंवादकत्वात्
अतः अविसंवादः इत्येवास्तु इत्यपरे ।


अत्रोच्यते--विशेषावयवाग्रहणाद् गृहीतेऽप्यस्पष्टताव्यवहारः इत्ययुक्तम्; न खलु 1355अन्य
84 स्याग्रहणे अ1356न्यत्र तद्व्यवहारः, इतरथा घटाग्रहणे गृहीते पटे तद्व्यवहारः1357 स्यात् । जातितद्वतोः
अवयवावयविनोश्च भेदैकान्ते सम्बन्धाभावात् । ततो मण्याद्यन्तरितसूत्रादिवत् स्वत एवाविशदं
ज्ञानमित्युन्नेयम् ॥


यत्पुनरेतत्--ध्यामलिताकारस्य इत्यादि; तत्र न सारम्; सारूप्याऽभावात् । तत्प्रति
ज्ञायाः प्रत्यक्षबाधनात् । अहमहमिकया अर्थग्राहिणो ज्ञानस्य निराकारस्य ६९ ख स्वसंवे
दनाध्यक्षसिद्धत्वात्, न चासौ आकारः तत्र प्रतिभासाद् बहिर्युक्तः, तत एव अनुगताकारोऽपि
स्यादित्यसौगतमशेषम् । एवमपि यथा चन्द्रादिद्वित्वादावसति1358 विशदं ज्ञानं तथा तदाकारेऽपि
इति न किञ्चिदविशदं नामेति चेत्; तत् न चन्द्रादौ द्वित्वादिवद् धर्मिणापि विसदगत्र नु धर्नि
ण्यष्य 1359विशदम् । न चैतावता न कस्यचिद् ग्रहणम्; अनुमा
नात् तत्त्वसिद्धिप्रसङ्गात्, तथा च कुतो हेतुफलभावाद्यभावसिद्धिर्यतः प्रतिभासाद्वैतम् ? अनुप
लम्भादिति चेत्; किम1360यं तत्प्रतिबद्धः1361 क्वचित् प्रतिपन्नो येनैवं स्यात् ? तथा चेत्; कथमनुमानं
प्रमाणं नेष्टं स्यात् ? तदिच्छति, तत्त्वविषयं न इति विरुद्धम् । ततोऽविशदानुमाननिवृत्त्यर्थं
विशदग्रहणम् । तथा यावान् कश्चिद् धूमवान् प्रदेशः स सर्वोऽप्यग्निवान् इत्यादि व्याप्ति
ज्ञाननिवृत्त्यर्थं च । नहि त1362द् विशदम्, अनुमानप्रतिभासाविशिष्टप्रतिभासत्वात् । तथापि तथा
तदभ्युपगमे न किञ्चिदविशदं भवेत् ।


एतेन अकस्माद् धूमदर्शनाद् अग्निरत्रे वि 1363 ज्ञानं1364 चिन्तितम् ।


मनोऽक्षार्थसन्निकर्षजत्वादविशदमपि व्याप्तिज्ञानं प्र1365त्यज्ञानं 1366 प्रत्यक्षम् इत्येके1367
कुतः पुनः तत्तज्ञानं ज्ञानम् 1368 इन्द्रियार्थसन्निकर्षजं
1369 ज्ञानत्वात् चक्षुरादिजनितरूपादिज्ञानवदिति चेत्; न; अनुमानादिज्ञानेन 1370व्यभिचारात् ।
अस्यापि पक्षीकरणे कुतः अध्यक्षाद् भेदः ? प्रत्यक्षाऽनुमानोपमानशब्दाः प्रमाणम्
न्यायसू॰ १ । १ । ३ इति यतः ७० क 1371संख्या व्यवतिष्ठेत । अथ इन्द्रियस्य अर्थेन साक्षा
त्सम्बन्धमन्तरेण भावात्13721373तोऽस्य भेदः; तथा व्याप्तिज्ञानस्यापि स्यात् । नहि तदपि तस्य
अतीतानागतवर्त्तमानार्थेन त1374था सम्बन्धात् जायते, विरोधात् । सम्बन्धसम्बन्धः1375 1376अन्यत्रापि न
वार्यते । लिङ्गादिहेतुत्वाद् भेदे दृष्टसाधर्म्यात् साध्यसाधनमुपमानं प्रमाणान्तरं स्यात्, दूरादिज्ञानं
च सर्वस्मादध्यक्षत1377 इति निरूपयिष्यते । ततो वैशद्यादेव ततोऽस्य भेद इति सूक्तम्--विशदमेव
ज्ञानं प्रत्यक्षम्
इति ।


मा वा भूदस्य तन्निवर्त्त्यम्, तथापि इन्द्रियार्थसन्निकर्षोत्पन्नम् न्यायसू॰ १ । १ । ४
1378इत्यादेः परकीयस्य प्रतिषेधार्थम् अध्यक्षस्य विशदम् इति विशेषणम् । 1379तल्लक्षणे हि
85 सुखादिसंवेदनमध्यक्षं न भवेत् तल्लक्षणविरहात् । अप तदपि1380 इन्द्रियार्थसन्निकर्षजं तत्त्वात्
चक्षुरादिजनितरूपादिज्ञानवत्
इत्युच्यते; तन्न; तथाप्रतीतिविरोधात् । न खलु पूर्वमुत्पन्नैः
सुखादिभिः इन्द्रियस्य सन्निकर्षे 1381तत्संवेदनमुपजायते
इति प्रतीतिरस्ति, यूनः कान्तासमागमे संवे
दनस्य आह्लादनाकारात्मनः 1382तथानुभवात्, 1383स्वसंवेदनाध्यक्षबाधितः परपक्षः । हेतुश्च सुखादि
संवेदनवेदनेन व्यभिचारी । तस्यापि पक्षीकरणे अनवस्थादिप्रसङ्गः इति प्रतिपादयिष्यते । कथम् ?
सिद्धंयन्न परापेक्षम् सिद्धिवि॰ १ । २३ इत्यादिना । एतेन सत्यस्वप्नज्ञानं व्याख्यातम् ।
1384सदसद्वर्गः कस्यचिदेकज्ञानालम्बनम् अनेकत्वात् पञ्चाङ्गुलवत् इत्यादिना अनुमितम
1385ध्यक्षं 1386परलक्षणेन कथमनुगृहीतम् ? इन्द्रियार्थ७० ख सन्निकर्षजत्वादिति चेत्; कथमशेषं
सदसद्वर्गं युगपद् विषयीकरोति ? न खलु मनसः अन्यस्य चे1387न्द्रियस्य युगपत् सर्वार्थसन्नि
कर्षोऽस्ति विप्रतिषेधात् । सम्बन्धः 13881389 प्राणभृन्मात्रस्य, ततः तस्यापि तज्ज्ञानं
भवेत् । विशिष्टादि1390ष्टसहकारिनियमकल्पनावि 1391 पापीयसी; 1392भेदैकान्ते 1393समवायाऽविशेषतः
अदृष्टस्यापि नियमाऽसिद्धेः । तन्न इन्द्रियार्थसन्निकर्षजं 1394तज्ज्ञानमिति कथन्न प्रकृतो दोषः ?
चक्षुर्जनितं रूपज्ञानं च इन्द्रियार्थसन्निकर्षमन्तरेण भावात् इति प्रतिपादयिष्यते पश्यत्येव
हि सान्तरम्
सिद्धिवि॰ ४ । १ इत्यादिना ।


यत्पुनरेतत्--संप्रयोग मी॰ द॰ १ । १ । ४ 1395इत्यादि; तदप्येतेन नोत्सृष्टम् ।


इन्द्रियवृत्तिः प्रत्यक्षम् इति 1396सांख्यः; सोऽप्यनेन कृतोत्तरो द्रष्टव्यः; स्वसंवेदनादौ तद
संभवात् । किञ्च, तैमिरिके1397 तद्वृत्तिर्यदि प्रत्यक्षम्; तदाभासविलोपः । यथार्थज्ञानहेतुरिति चेत्;
न; तथाविशेषणाभावात् । अचेतनं प्रत्यक्षमन्यद्वा प्रमाणं न इति चर्चितम् । ततः साधूक्तम्—
प्रत्यक्षं विशदं ज्ञानम् इति । ननु च--


*एकस्यार्थस्वभावस्य प्रत्यक्षस्य सतः स्वयम् ।

कोऽन्यो न दृष्टो भागः स्याद् यः प्रमाणैः परीक्ष्यते ॥ प्र॰ वा॰ ३ । ४२

86

इति न्यायात् प्रमितस्याऽप्रमिताम1398 स्याभावात् कथमुच्यते--यथा यत्राऽविसं
वादः तथा तत्र प्रमाणता
इति चेत्; अत्राह--प्रत्यनीक इत्यादि । प्रत्यनीका अन्योन्यं
विरुद्धा ये धर्मा विभ्रमेतर-विकल्पेतर-संशयेतर-ग्राह्यग्राहकसंवित्त्यादयः ७१ क ते का 1399 साधारणी या संवित् तस्याः स्वप्रमितेः स्वपरिच्छित्तेः असाकल्यसंभवे खण्डशः संभवे अङ्गीक्रि
यमाणे । एतदुक्तं भवति--विरुद्धधर्माध्यासभयाद् एकस्य प्रमितेतररूपद्वयं नेष्यते, स च त1400दध्यासः
अन्यथापि जात इति परं तस्याः स्वप्रमितेः असाकल्यसंभवोऽभ्युपेयः तस्मिन् वा इति । किम्
इत्याह--विषयस्वलक्षणेऽपि । द्विविधो विषयः1401 सामान्यं स्वलक्षणं च । तस्मात् सामान्ये कल्पिते
1402दभावेऽपि न सौगतस्य दोष इति स्वलक्षणग्रहणं तत्रापि, न केवलम् उक्तसंविदः किन्न भवेत्
इति किम्
निमित्तमाश्रित्य नाना 1403 विसंवाद 1404प्रमाणत्वम् तिमिरादिज्ञानस्य 1405 कथञ्चित् चन्द्रत्वादिना संवादात् किन्न प्रमाणमिति, न केवलमप्रमाणमेव । यदि च कथञ्चिद्
विसंवादात् त1406दप्रमाणमेव; तर्हि परस्य न किञ्चित् प्रमाणं स्यादिति दर्शयन्नाह--प्रसन्न इत्यादि ।
प्रसन्नानि निर्दोषाणि करणभूतानि अक्षाणि यस्याः बुद्धेः तस्या अपि न केवलं तिमिरबुद्धेः
सर्वथा सर्वेण नीलादिना इव क्षणक्षयादिप्रकारेण संवादिनियमाऽयोगात् कारणात् किन्न कथ
ञ्चित् संवादात् प्रमाणमपि भवेदिति । कुतस्तन्नियमाऽयोग इति चेत् ? अत्राह--दृष्टे प्रमाणा
न्तरावृत्तेः ।
दृष्टे दर्शनेन विषयीकृते शब्दादौ धर्मिणि प्रमाणान्तरस्य क्षणक्षयाद्यनुमानस्य
समन्तात् वृत्तेः तन्नियमाऽयोगः ततः तद् इति पदघटनात् । इदमत्र तात्पर्यम्--यदि दर्शनं
शब्दत्वादिवत् ७१ ख नाशादावपि संवादकम्, तर्हि तदनुमानं 1407संवृतिवदप्रमाणम् । अथ
विसंवादकम्; तत्रास्तु प्रकृतवद् अप्रमाणमेवेति धर्माद्यसिद्धेः कुतः प्रमाणान्तरवृत्तिः ? अस्ति
च, ततः प्रकृतमिति ।


अत्राह--प्र ज्ञा क र गु प्तः--यत एव दृष्टे प्रमाणान्तरवृत्तिः अत एव शब्दादिवत्
क्षणक्षयादेरपि दर्शनम्, अन्यथा दर्शनस्य क्षणिकत्वानुमानेन तस्य वा दर्शनेन बाधनं
स्यात् ।
इति; तस्य विप्लुताक्षः शुक्लं शङ्खं पीतं पश्यन् प्रतिपन्नव्यभिचारो यदैवं करोति शु
क्लोऽयं शङ्खत्वात् पूर्वदृष्टशङ्खवत्
इति, तदा तद्दर्शनं शङ्खत्ववत् शुक्लतामपि पश्येत् । शक्यं
हि वक्तुं यत एव विप्लुताक्षदर्शने दृष्टे प्रमाणान्तरं शुक्लताविषयं प्रवर्तते तत एव तत् शुक्ल
तामवैति, अन्यथा तद्दर्शनेन प्रमाणान्तरस्य अनेन वा तस्य बाधनं भवेत् । न चैवम् । न हिमालो
1408 डाकिन्या भक्ष्यते । अथ पीततामात्रे तस्याने बाधनमिष्यते; न; सर्वात्मना
धर्माद्यसिद्धिप्रसङ्गात्, तथा प्रकृतेऽपि इष्यतामिति साधूक्तम्--प्रसन्नेत्यादि ।


यत्पुनराह1409 स एव--अप्रतिपन्नव्यभिचारः तैमिरिकः तज्ज्ञानात् प्रवर्तमानो विसंवाद्यते
87 इति न कथञ्चिदपि तत्प्रत्यक्षम्, प्रतिपन्नव्यभिचारस्तु प्रतिभासोऽयम् अभिमतसंस्थानवान्
पूर्वदृष्टैवंप्रतिभासवत्
इति पर्यालोच्य प्रवर्त्तते इत्यनुमानमेव तत्राविसंवादकम् । तदुक्तम्--


*ममैवं प्रतिभासो यः न स संस्थानवर्जितः ।

एवमन्यत्र ७२ क दृष्टत्वात् अनुमानं तथा सति ॥ प्र॰ वार्तिकाल॰ पृ॰ ५ इति ।

तत्रोत्तरम्--उपप्लुताक्षाणामपि इत्यादि । उपप्लुताक्षाणां न केवलं विपरीतानां1410 विनैव
लिङ्गलिङ्गिसम्बन्धप्रतिपत्त्या
लिङ्गं प्रतिभासविशेषः लिङ्गि संस्थानवत्त्वम् तयोः सम्बन्धः तादा
त्म्यं तेषां प्रतिपत्तिः तामन्तरेण अर्थं परिच्छिद्य प्रवृत्तौ सत्याम् अविसंवाददर्शनात् । न खलु
विप्लुताक्षः 1411 सर्वे सर्वदा ममैवम् इत्याद्यनुतिष्ठन्तः समुपलभ्यन्ते । तथापि तदभ्युपगमे
तिमिरज्ञानाऽनुमानयोः विभ्रमं प्रति अविशेषाद् अनुमानप्रतिभासेऽपि ममैवं प्रतिभासः
त्यादि कल्पनायाम् अनवस्थाप्रसङ्गे नानुमान 1412 व्यवहारिजनानुरोधादनुमानमविसंवादकमि
च्छन् 1414तत एव तिमिरज्ञानं कथञ्चित्तथा1415 नेच्छतीति स्वेच्छावृत्तिः । भवतु तदप्यविसंवादकं प्रमाणं
तु न इति चेत्; अत्राह--तावता च अविसंवाददर्शनादेव प्रामाण्यसिद्धेः कारणात् कथञ्चित्
प्रमाणमपि भवेत् इति स्थितम्--यथा यत्र इत्यादि । शेषं सुगमत्वादव्याख्यातम् ।


एवं तावत् चित्रप्रतिभासाप्येकैव बुद्धिः बाह्यचित्रविलक्षणत्वात् प्र॰ वार्ति
काल॰ ३ । २२०
इति वचनात् चित्रमेकं ज्ञानमभ्युपगच्छतः संविदः स्वप्रमितेरसाकल्यसंभव
उक्तः । इदानीम् अविभागोऽपि बुद्ध्यात्मा प्र॰ वा॰ २ । ३५४ इत्यादि वचनात् 1416
दनभ्युपगच्छतस्तं दर्शयन्नाह--वित्तेः इत्यादि


वित्तेः विषयनिर्भासविवेकानुपलम्भतः ।

विज्ञातायाः क्वचित्सिद्धो विरुद्धाकारसंभवः ॥ २० ॥

बहिरन्तर्मुखनिर्भासादिविरुद्धधर्माभ्युपगमे तस्या विषयनिर्भासविवेकपरमार्थप्रती
तावपि कथञ्चिदनेकान्तसिद्धिः । दूरदूरतरादिव्यापृतचक्षुषां च वस्तुसत्तामात्राविसंवादात्
तद्भेदाप्रतित्तौ च तत्प्रमितिसाधनं समञ्जसम् । यतो यावदपि उपलम्भमन्तरेण प्रमाणान्तरा
वृत्तेरसंव्यवहारप्रसङ्गात् । यत्पुनरन्यत्-- आरामं तस्य पश्यन्ति न तं पश्यति कश्चन
बृहदा॰ ४ । ३ । १४ इति; तत्रापि समानोऽयं प्रसङ्गः । केवलं समयान्तरप्रवेशः ।


वित्तेः बुद्धेः । कथंभूतायाः ? विज्ञातायाः स्वसंवेदनाध्यक्षगृहीताया अ1417न्यथा तद्भा
वासिद्धेः सम्बन्धी ७२ ख विषयो ग्राह्यो घटादिः तस्य स एव वा निर्भास आकारः त
स्य विवेको बुद्धेः सकाशाद् अन्यत्वं तस्याऽनुपलम्भो यः तस्मात् ततः क्वचित् तैमिरि
कोपलब्धे चन्द्रादौ सिद्धो निश्चितो विरुद्धस्य दृश्यचन्द्रत्वाद्याकारापेक्षया प्रत्यनीकस्य अदृश्यै
कत्वादेः आकारस्य संभवः । अत्रायमभिप्रायः--यद्ययं स्थवीयान् घटाद्याकारस्य न्नितरो 1418 वा वित्तेः आत्मभूतः; तर्हि चित्रैका सा1419 भवेत्, तत्र चोक्तो दोषः । अथासन्नमा
88 त्मभूतः 1420 ततः सीद्यद्या 1421 त्मनो भेदमवैति कुतस्तदाकारा भ्रान्तिः
यतः यदवभासते तत् ज्ञानम् यथा सुखादि, अवभासते च स्तम्भादिनीलादिकम्
इत्यत्र आश्रयासिद्धिर्न स्यात् । नहि पीततारहिते शुक्ले शङ्खे प्रतिभासमाने पीतताविभ्रमो युक्तः ।
अथ तं नावैति; सिद्धः स्वप्रमितेरसाकल्यसंभवः इति ।


कारिकां विवृण्वन्नाह--बहिरन्तर्मुख इत्यादि । अत्र आदिशब्देन संवेदनविकल्पेतरादि
परिग्रहः, स एव निर्भास आकारः स एव च विरुद्धो धर्मः तस्य अनभ्युपगमेऽपि न केवलम
भ्युपगमे तस्याः वित्तेः विषयनिर्भासस्य घटाद्याकारस्य संबन्धी यः विवेकः स एव परमार्थः
तस्याः 1422 प्रतीतावपि कथञ्चित्1423च्चेतनादिरूपेण संवेदनात् अनेकान्तसिद्धिः । एवंतावद्
दृश्येतरवित्तिनिदर्शनेन सौगतप्रसिद्धेन विषयस्वलक्षणे प्रमितेरसाकल्यसंभव उक्तः । इदानीं तं
७३ क प्रति लोकप्रसिद्धेन दृश्येतरबाह्यनिदर्शनेन स उच्यते दूरेत्यादिना । अत्र आदि
शब्देन दूरतरदूरतमपरिग्रहः, तत्र व्यापृतचक्षुषां पुसां वस्तुनो वृक्षादेः सत्तैव तन्मात्रं
तस्य अविसंवादात् कारणात् तस्या असाकल्यप्रमितेः साधनं समञ्जसं युक्तम् । कस्मिन्
सत्यपि ? इत्यत्राह--तस्य वस्तुसत्तामात्रस्य ये भेदा विशेषा वृक्षादयः तेषामप्रतिपत्तावपि
केवलं प्रतिपत्तौ । शब्दः अपिशब्दार्थः । एददुक्तं भवति--यथा दूरदूरतरादौ प्रत्यक्षेण विशेषा
ग्रहणेऽपि तत्सत्तामात्रग्रहणं तथा प्रकृतेऽपि दृश्येतरत्वं स्यादिति । यतः इत्यादिना एतदेव
भावयति--यतः यस्माद् यावदपि यत्परिमाणस्य पूर्वमुपलम्भो मयोक्तः तत्परिमाणस्य यथा भवति
नाधिकस्य, तथा परेणापि उच्यते यदा तदा यावत् तावदपि यथा भवति तथा उपलम्भः तम
न्तरेण प्रमाणान्तरस्य
अनुमानस्य अवृत्तेः अप्रवृत्तेः हेतोः असंव्यवहारप्रसङ्गात् कारणात्
तत्प्रमितिसाधनं समञ्जसम् इति सम्बन्धः । एतदुक्तं भवति--दूरदूरतरादौ यथा तद्भेदाऽ
प्रतीतिः तथा चेद् वस्तुसत्तामात्रस्याप्यप्रतीतिः तर्हि त1424त्र व्यापृतचक्षुषामन्धतैव स्यात् । न खलु
सामान्यविशेषावन्तरेण तत्त्वमस्ति यत् तत्रावभासेत । तथा च विशेषमात्रमिदं सत्तामात्रं ७३ ख
केनचिद् विशेषेण तद्वत्त्वात्1425 पूर्वदृष्टतन्मात्रवद् इति तदवृत्तिः, तस्या 1426 च तत्र तदप्रवृत्तिः,
न चैवम्, प्रवृत्तिदर्शनात् । ननु भेदवत् त1427न्मात्रस्यापि न तत्र प्रतीतिः, अभेदाद्यात् 1428 प्रतीतिः सा भ्रान्ता, तत एव प्रमाणान्तरवृत्तिः ममैवं प्रतिभासो यः प्र॰ वार्ति
काल॰ २ । १
इत्यादि इति चेत्; उक्तमत्र--तत्र व्यापृतचक्षुषां वस्तुसत्तामात्राविसंवाददर्शनात् ।
तथापि तद्विभ्रमे न किञ्चिदभ्रान्तं स्यात् ।


अथवा, सौगतं प्रति दृश्येतरबुद्धिदृष्टान्तसद्भावादस्तु स्वप्रमितेर्विषयस्वलक्षणे असाक
ल्यसंभवो नैयायिकं प्रति विपर्ययादिति चेत्; अत्राह--दूरेत्यादि । तत्र व्यापृतचक्षुपाम् इत्य
नेन वस्तुसत्तामात्रविषयं प्रत्यक्षं दर्शयति, वस्तु द्रव्यादि तस्य सत्तामात्राविसंवादात् तत्प्रमिति
साधनम्
असाकल्यप्रमितिसाधनं समञ्जसं युक्तम् । कस्मिन् सत्यपि ? इत्यत्राह--तद्भेदा
प्रतिपत्तौ च
तस्य तन्मात्रस्य भेदो द्रव्याद्याधारपेक्ष्याधे 1429यत्वविशेषः तस्याप्रति
89 पत्तावपि । नहि आधाराऽग्रहणे तदपेक्षमाधेयत्वम् आत्मभूतमपि प्रत्येतुं शक्यम् । ननु तद्भेद
1430त् तन्मात्रस्याप्यप्रतीतिरिति चेत्; अत्राह--यत इत्यादि । सा1431मान्यप्रत्यक्षत्वे उभयविशेषाणां
तद्विपरीतविशेषाणां वा स्मृतौ संशयादिः, तद्व्यवच्छेदार्थं च प्रमाणान्तरं प्रवर्त्तते । तन्मात्राऽ
प्रत्यक्षे तु दुर्लभमेतत् ७४ क ततोऽसंव्यवहारप्रसङ्गात् तत्प्रमितिसाधनं समञ्जसम् इति ।


किञ्च, अ1432यं स्थाणुः पुरुषो वा ? पुरुष एव इति वा संशयादिज्ञानम् एकधर्मिणि अर्थ
विषयम् अन्यत्र विपरीतमभ्युपगच्छन् दृश्येतररूपमेकभियौग 1433 कथं न
स्वर 1434चेष्टितः ?


साम्प्रतं सौगतादिदोषं पुरुषाद्यद्वैतमतेऽपि समानमित्यस्य प्रदर्शनार्थं तदेव दर्शयति
यत्पुनः इत्यादिना । न्मतं पुनः सौगतादिमताद् अन्यत् । किम् तदागमं 1435 चेतनादिभेदादोयं 1436 तस्य पुरुषादेः पश्यन्ति द्रष्टारः न तं पुरुषादिमद्वैतरूपं कश्चन
तेषां तद्दृष्टॄणां कश्चित् पश्यति । इति शब्दः आ1437द्यर्थः । तेन--


*गु1438णानां1439 परमं रूपं1440 न दृष्टिपथमृच्छति ।

यत्तु1441 दृष्टिपथप्राप्तं तन्मायेव सुतुच्छकम् ॥

*1442नित्यः सन्मात्रदेहः विविधकृतिरिह द्रव्यमेकः पदार्थः,

यत्तत्कुक्षिं प्रविष्टा जलमही1443वायवः प्राणिनश्च ।

एको देशोऽस्य तिर्यक्सुरनरनरकेष्वस्ति सांसारिकत्वम्,

देशोऽन्यः तस्य नित्यः शिवसुखमतुलं प्रास्रुतेसौ1444द्विरूपः ॥

इत्यादेर्ग्रहणम् । तत्रापि यत् तन्मतं यत् इत्यनेन निर्दिष्टं तत्र इत्यनेन परामृश्यते । न
केवलं सौगतादिमते अपि तु तत्रापि सर्वोऽप्युक्तदोषः अ क ल ङ्क दे व स्य प्रत्यक्षतया मनसि
प्रतिभातीति तम् अयम् इत्यनेन निर्दिशति । समानः साधारण प्रसङ्गो दोषः । तथाहि—
यदुक्तं सौगतं प्रति नहि बहिरन्तर्वा जातुचिद७४ ख साहायमाकारं पश्यामः यथा
व्यावर्ण्यते तथैवाऽनिर्णयात् ।
सिद्धिवि॰ १ । १० इत्यादि, तत्रापि समानम् ।


यत्पुनरेतत् एकान्तस्य उपलब्धिलक्षणप्राप्तौ असत्त्वम् अन्यथा स्यादप्रमेयत्वम्
सिद्धिवि॰ १ । ९ इति तदपि, तथा प्रतिभासैक्यनियमे सिद्धिवि॰ १ । १० इत्यादि चेत्
1445 तस्यारामम् बृहदा॰ ४ । ३ । १४ इति वचनात् 1446तदारामयोः कथञ्चिदेकत्वे विभ्रमे
तरविकल्पेतरादीनाम् आकाराणां तेन एकत्वाभ्युपगमस्य अवश्यम्भावात् । अथ एक एव हि
90 भूतात्मा
ब्र॰ बि॰ ११ इत्यादेः1447 यथा विशुद्धमाकाशम् बृहदा॰ भा॰ वा॰ ३ । ५ । ४३
1448त्यादेश्च श्रुतेः अविभागोऽपि ब्रह्मा भागीव लक्ष्यत इत्युच्यते; तर्हि सद्भिरसद्भिर्वा
सिद्धिवि॰ १ । १३ इत्यादि समानम् । शक्यं हि वक्तुम्--यदि सद्भिः असद्भि
र्वा चेतनेतराद्याकारैः कस्यचिद् ब्रह्मणः एकत्वं तथैव बहिरन्तर्मुखादिभिः 1449तत् किन्न कस्यचिद्
बुद्ध्यात्मनः सिध्येत् । यदि पुनः विद्येतरयोः एकत्वविरोधात् तस्माद् आगमो 1450 भिन्न
इष्यते; तर्हि तदप्रत्यक्षत्वे इदं समानम्--तदप्रत्यक्षत्वे विषयवत् स्वभावासिद्धिप्रसङ्गात्
सिद्धिवि॰ १ । १५ इत्यादि । तथा च तदाग1451मयोरप्रतिभासनात् सकलशून्यता इति ।


स्यान्मतम्--1452आरामस्य स्वतो दर्शनम्; स्वसंवेदनग्राह्याकारवत् प्रसङ्गः । यदा तु आराम
विविक्तमात्मानमसौ पश्यति; तदा विभ्रमाभावः । नेति चेत्; आयातमिदं समानम्--वित्तेः
इत्यादि । तदेवं समाने प्रसङ्गे बुद्धिब्रह्मात्मनोः त्यागाभ्युपगमाविशेषेण इति मन्यते । ननु किमु
७५ क ते समानः, यावता 1453बुद्ध्यभ्युपगमे 1454क्षणयस्तत्तनान्तर 1455साधने
महान् प्रयासः न पुनः ब्रह्मोपगमे तत्र तदभावाऽभ्युपगमादिति चेत्; अत्राह--केवलम् इत्यादि ।
सुगमम् । अयमत्राभिप्रायः--तत्प्रतिभासतया बुद्धिमेकाम् अनभ्युपगच्छतोऽपि समयान्तरप्रवेशः
परस्य इति ।


एवं *ततः किम् इत्यादिना ग्रन्थेन जातिगुणक्रियात्मिकाम् अध्यक्षे कल्पनां प्रसाध्य,
साम्प्रतं यदुक्तं परेण1456--न ह्यर्थे शब्दाः सन्ति तदात्मानो वा येन तस्मिन् प्रतिभासमाने
तेऽपि प्रतिभासेरन्1457
इत्यत्र यद् यत्र नास्ति तस्मिन् अवभासमाने तन्नाऽवभासते
यथा रूपे रसः, नास्ति च अर्थे शब्दः
इति; तत्र पराभ्युपगमेन हेतोः व्यभिचारं दर्शय
न्नाह--स्थूलम् इत्यादि ।


स्थूलमेकासदाकारं परमाणुषु पश्यताम् ।

स्वलक्षणेषु पुनस्तेषु शब्दः किन्नावभासते ॥ २१ ॥

शब्दवत् दृश्यमानस्वलक्षणानां तदनात्मतायां कथं तत्र स्थवीयानाकारोऽन्वयी
अवभासते रसादिवत् ? यतोऽयं शब्दयोजनारहितमर्थं पश्येत् ।


स्थूलं महत्त्वोपेतं एकम् अनेकावयवगुणसाधारणम् आकारम् पराभ्युपगगेन
असन्तम् अविद्यमानं स्वलक्षणेषु । कथंभूतेषु ? परमाणुषु पश्यतां सौगतानाम् ।
पुनः इति पक्षान्तरसूचकः, तेषां तेषु शब्दः किन्नावभासते अवभासत एव असत्त्वा
ऽविशेषात् । तथा च पश्यन्नयम् अशब्दमर्थस्य पश्यति इति दुर्लभम् ।


ननु च मरीचिकादौ यथा जलाद्याकार एव असंप्र1458तिभाति ननुरागा 1459
91 कारः तथा तेषु1460 स्थूलाकार एव प्रतिभाति न शब्दाकारः, प्रतिनियतत्वाद् भ्रान्तीनाम् ।
तथा दर्शनादिति चेत्; नैतदस्ति; यतः न खलु तेषु कदाचित् क्वचिदसतः स्थूलाकारस्य प्रतिभास
दर्शनात् सर्वत्र सर्वदा तेनैव प्रतिभासितव्यम्, तथा शब्दाकारस्य तथा प्रति७५ ख भासदर्शनात्
तेन न प्रतिभासितव्यम्
इति निश्चयोऽस्ति, कस्यचिद्1461 उपलशकलविशेषे कदाचिदसतो रज
ताकारस्य प्रतिभासदर्शनेऽपि तत्रैव प1462र्यायेण कनकोपयोगि1463नोऽसतः कनकाकारस्य प्रतिभासदर्शनात्,
तेषु1464 शब्दाकारोऽपि प्रत्यभात् प्रतिभात्यत्र प्रतिभास्यति इति शङ्का न निवर्तत इति तद्धि
अर्थसामर्थ्यादुपजायमानम् अर्थस्यैव आकारम् अनुकरोति न शब्दादेः
इति1465 प्रा1466कृतमेतत् ।


अन्ये तु मन्यन्ते--चक्षुरादिना रूपादिपरमाणुषु नेन्द्रियान्तरविषयस्या14671468 सतोऽपि
ग्रहणम्, अदर्शनात् । न वै विभ्रमदशायामपि चक्षुषि गन्धः प्रतिभाति इन्द्रियान्तरवैफल्यं वधि
राभावश्च स्यात्
इति; तन्न युक्तम्; असर्वदर्शिनोऽदर्शनमात्रेण तथानिश्चयाऽयोगात्, अन्यथा त1469
एव सर्वरसादीनाम् एकाध्यक्षेण1470 ग्रहणासिद्धेरसर्वज्ञं1471 जगत् स्यात् । मनोक्व1472विषयस्य
स्थूलस्य अनेकावयवगुणसाधारणत्वेन सामान्यस्य एकस्याकारस्य अक्षान्तरे चक्षुरादिकेऽपि
प्रतिभासाभ्युपगमात् परेण अनेकान्तः चेत 1473 नेन्द्रियान्तरवैफल्यं निरस्तम्; अन्यथा
समान्यस्य चक्षुरादिना ग्रहणे अनुमानवैयर्थ्यमापद्येत 1474तस्य सामान्यविषयत्वात् अन्यत्
सामान्यं सोऽनुमानविषयः
न्यायबि॰ १ । १६, १७ इति वचनात् ।


यत्पुनरुक्तम्--वधिराऽभावः स्यात् इति; तदपि न दोषाय; 1475कस्यचित् तत्प्रतिभासोपग
मात्, तस्यावाधिर्येऽपि न सर्वस्य तत्७६ क 1476सोऽपि वा वधिरोऽस्तु श्रवणेन शब्दाऽग्रहणात् ।
ननु प्रतिभातु शब्दोऽपि तेषु, नैतावता शब्दकल्पना अध्यक्षे, असता तेन1477 तदयोगादिति चेत्;
तर्हि अभिलापसंसर्गयोग्यप्रतिभासात् कल्पना क्वचिज्1478 ज्ञाने न स्यात्, 1479सोऽपि तत्र अन्यत्र
वा न परमार्थसन् । अथवा, यथा परमाणुरूपतायां स्थूलाकारोऽसन् न स्वरूपेण बाधकाभावात्
तथा शब्दोऽपि इत्यदोषः ।


यत्पुनरुक्तं परेण--


*अर्थोपयोगेऽपि पुनः स्मार्त्तं शब्दानुयोजनम् ।

1480अक्षधीर्यद्यपेक्षेत सोऽर्थो व्यवहितो भवेत्14811482इति;

तदप्यनेन दूषितम्; स्थूलाकारवत् तेषु1483 शब्दाकारस्यापि अस्मृतस्य अवभासाविरोधात् ।


92

शब्दवत् इत्यादिना कारिकां विवृणोति--शब्दस्य इव दृश्यमानानि प्रत्यक्षीक्रियमाणानि
यानि स्वलक्षणानि परमाणुलक्षणानि तेषाम्तदनालता1484याम्1485 अतत्स्वभावतायाम्
अङ्गीक्रियमाणायाम् आकारस्य स्थवीयसः स कथं तत्र आकारः स्थवीयान् अन्वयी अवभासते,
नैव । अत्र निदर्शनमाह--रसादिकमिव । यथा रसादिकं परस्परमनात्मतायां तत्र परस्परात्मनि
नावभासते तथा प्रकृतमपि इति, तस्य1486 आकारस्य प्रतिभाससंभवे स्वलक्षणेषु शब्दः किन्नावभासते ?
यतः यस्माद् अनवभासाद् अयं सौगतो लोको वा शब्दयोजनारहितमर्थं पश्येत् । यतः
इति वा आक्षेपे, नैव पश्येत् । तदेवं व्यवसायात्मके ज्ञाने प्रमाणे सति सुस्थितमेतत्--प्रमाण
स्य फलं साक्षात्
इत्यादि1487


अत्रापरः प्राह--स्वार्थयोरभावाद् ७६ ख भ्रान्तत्वाद्वा कस्य का सिद्धिः यतः तस्याः
कस्यचित् प्रमाणस्य भावात् तत्सूक्तं स्यात् इति; 1488तं प्रत्याह--ब्रुवन् इत्यादि ।


ब्रुवन् प्रत्यक्षमभ्रान्तं बहिरन्तरसंभवम् ।

अनुमानबलादध्यक्षमनात्मज्ञस्तथागतः ॥ २२ ॥

स्वभावनैरात्म्यं सर्वथा सर्वभावानां ब्रुवन् प्रत्यक्षमभ्रान्तं लक्षयन् कथमनुन्मत्तः ?
कुतश्च यथादर्शनमेव मानमेयफलस्थितिः न पुनः यथातत्त्वमिति स्वयमबुद्ध्येत बोधयति
वा प्रमाणादेरभावात् । यथा यथार्थाः चिन्त्यन्ते विशीर्यन्ते तथा तथा इति
मिथ्याज्ञानान्न प्रतिपत्तुमर्हति समयान्तरवत् । कथञ्चिद्याथात्म्यप्रतिपत्तिमन्तरेण यथाद
र्शनमेव1489 क्षणिकभ्रान्तैकान्तचित्तसन्तानान्तराणि स्वभावनैरात्म्यं वेत्यादि ब्रुवतः शौद्धोद
नेस्तावदयं प्रज्ञापराधः कथमिति सविस्मयं सकरुणं नश्चेतः1490 । सन्त्यस्यापि अनुवक्तार
इति कमन्यदनात्मज्ञतायाः । यथादर्शनं चित्तं बहिर्मुखाकारं परमार्थैकसंवेदनं स्वयम
भ्युपयतः परमात्मसिद्धिरेव किन्न भवेत् ? तत्त्वमक्रमं सकलविकल्पातीतं यथादर्शनं मिथ्या
व्यवस्थामवतरति, तत्त्वमिथ्यास्वभावयोरेकत्वमभ्युपगन्तव्यम् । तस्मिंश्च सामान्यविशेषा
त्मकत्वं बहिरन्तश्च परिणामि किन्न लक्ष्यते ? सर्वथा अनेकान्तसिद्धेरनिवारणात् ।


बहिरन्तरसंभवम् । कथम्भूतम् ? प्रत्यक्षं प्रमाणप्रमितं स्वयं तत्प्रतीतौ तथाग
तस्य प्रत्यक्षैकप्रमाणात्मकत्वेन प्रमाणान्तराभावात् इति मन्यते । कुत एतदिति चेत् ? अत्राह—
अभ्रान्तं विभ्रमरहितं यतः, तथाविधस्यैव प्रत्यक्षत्वात्, इतरथा मरीचिकाजलवत् कथं प्रत्यक्षं
तत् ? किं कुर्वन् ? इत्याह--ब्रुवन् विनेयसत्त्वान् प्रति कथयन् । कुतः ? अनुमानबलात्
त्रिरूपलिङ्गसामर्थ्यात् । वचनमात्रात् तेषां तत्प्रतिपत्त्ययोगात्, प्रमाणान्तरं वा स्यादिति भावः ।
अत्रापि अभ्रान्तम् इति क्रियाविशेषणत्वेन सम्बन्धनीयम्, अभ्रान्तं यथा कुर्वन् 1491इति ।
93 कोऽसौ ? इत्याह--तथागतः सुगतः । कथम्भूतः ? इत्याह--अनात्मज्ञः आत्मानं स्वस्वरूपम्
उन्मत्तवत् न जानाति इत्यनात्मज्ञः । कथम् ? अध्यक्षम् स्पष्टं यथा भवति । तथाहि--यदि
सर्वाभावः; न तर्हि प्रत्यक्षमपि, इति कुतस्तस्य त1492त्प्रतिपत्तिः यतः तं परं प्रति ब्रूयात् । अथ प्रत्य
क्षमस्ति; न सर्वथाऽभावः । अस्यापि ततो व्यतिरेके1493 तद्रूपताव्यतिरेके सम्बन्धाऽसिद्धेः, न तस्य
ग्रहणम् । तदुत्पत्तिसारूप्यकल्पने; न सर्वशून्यता इति । तथा, परप्रतिपादनोपायलिङ्गवचनभावा
भावयोः 1494अनिवृत्तः प्रसङ्गः । यदि च ज्ञानं भ्रान्तम्; कथं प्रत्यक्षम् ? त1495तः त1496स्य सिद्धिर्वा विष
यवत् । एवं वचनादावपि वक्तव्यम् ।


स्वभाव इत्यादिना ७७ क कारिकार्थमाह--स्वभावनैरात्म्यं रूपरहितत्वम् सर्वथा
पररूपादिना इव स्वरूपादिनापि सर्वभावानां चेतनेतरवस्तूनां ब्रुवन् विनेयसत्त्वान् प्रति कथयन्
प्रत्यक्षं तद्विषयम् 1497आत्मनि विशदं ज्ञानम् अभ्रान्तं विभ्रमरहितम् 1498लक्षयन् कथमनुन्मत्तः ?
सुगतः अन्यो वा उन्मत्त एव । यत्पुनरुक्तं परेण--


*यथादर्शनमेवेयं 1499मानमेयव्यवस्थितिः ।

क्रियतेऽविद्यमानापि ग्राह्यग्राहकसंविदाम् ॥ प्र॰ वा॰ २ । ३५७ इति;

तत्राह--कुतश्च इत्यादि । कुतः न कुतश्चित् । च शब्दः पूर्वसमुच्चयार्थः । यथा
दर्शनमेव
--यथाप्रतिभासमेव मानमेयफलव्यवस्थितिः न पुनः यथातत्त्वम् न तु परमार्थाऽन
तिक्रमेण इत्येवम् स्वयम् आत्मना अवबुद्ध्येत पायं 1500 बोधयति वा । कुत एतत् ?
इत्यात्राह--प्रमाणादेरभावात् स्वावबोधे अध्यक्षस्य परावबोधे अनुमानस्य प्रमाणस्य आदिशब्देन
वचनस्य अभावात् । भावे वा स्ववचनविरोध इति मन्यते ।


ननु च न प्रमाणबलात् स्वभावनैरात्म्यं यथादर्शनमेव इत्यादि वा कश्चित् प्रतिप
द्यते प्रतिपादयति वा येनायं दोषः स्यात्; अपि तु विचारात् । तदुक्तम्--


*1501तदेतन्नूनमायातं यद्वदन्ति विपश्चितः ।

यथा यथार्थाश्चिन्त्यन्ते विशीर्यन्ते तथा तथा ॥ प्र॰ वा॰ २ । २०९

इति चेत्; अत्राह--यथा यथा इत्यादि । यथा यथा येन अवयवावयविबाह्येतरसत्ये
तरादिप्रकारेण चिन्त्यन्ते विचार्यन्ते अर्था भावा तथा तथा विशीर्यन्ते शून्या भवन्ति इत्येवं
मिथ्याज्ञानात् न
७७ ख प्रतिपत्तुमर्हति, विचारस्यास्य 1502प्रत्यक्षानुमानत्वेन प्रमाणत्वाभा
वात् मिथ्याज्ञानत्वमिति भावः । ननु च सर्वस्य तत्त्वव्यवस्थापने अयं विचार एव परं शरणं पर
मार्थतः प्रमाणादेरभावादिति चेत्; अत्राह--समयान्तरवत् इति । समयान्तराणि नित्यादिदर्श
नानि तथैव 1503 तद्वत् इति । यथा अयं सुगतोऽन्यो वा तेष्वपि1504 मिथ्याज्ञानात् न किञ्चित्
प्रतिपत्तुमर्हति तथा स्वसमयेऽपि इति दृष्टान्तार्थः ।


94

अधुना यथादर्शनमेव इत्याद्युक्त्वा भावतः सौत्रान्तिकादिसमयभेदेन क्षणक्षयादिकं
वदतः सुगतस्य प्रज्ञापराधं दर्शयन्नाह--कथञ्चिद् इत्यादि । कथञ्चित् केनापि प्रत्यक्षप्रकारेण
अनुमानप्रकारेण वा याथात्म्यप्रतिपत्तिर्या तामन्तरेण यथादर्शनमेव इत्यादि वचनं ब्रुवतः
कथयतः । कानि ? क्षणिकभ्रान्तैकान्तचित्तसन्तानान्तराणि । क्षणिकग्रहणं सौत्रान्तिकमतत
त्त्वोपलक्षणार्थम्, तेन सर्वसंसारेतरवर्त्मवित्तिः गृह्यते । भ्रान्तैकान्तवचनम् यद् विशददर्श
नपथावतारि न तत् परमार्थसत् यथा तैमिरिकोपलब्धं केशादि
इत्यस्य माध्यमिकविशेषस्य
मतसंग्रहार्थम् चित्तंतत्सन्तानान्तराणि इति कथनं योगाचारस्य1505, तेषां द्वन्द्वः तानि इति ।
न केवलं तान्येव किन्तु स्वभावनैरात्म्यं वा सकलशून्यत्वं वा ब्रुवतः । कस्य किं जातम् ?
इत्यत्राह--शौद्धोदनेः इत्यादि । शौद्धोदनेः1506 ७८ क सुगतस्यैव नान्यस्य तावदयं प्रज्ञापराधः
कथं
केन प्रकारेण जातः इत्यध्याहारः इति हेतोः सविस्मयं साश्चर्यं सकरुणंसदयं नः अस्माकं
चेतः । विधूतकल्पनाजाल प्र॰ वा॰ १ । १ 1507इत्यादि विशेषणस्य कारणमन्तरेणैव स
जात इत्यभिप्रायः । साम्प्रतं तदनुसारिणां तदपराधं दर्शयन्नाह--सन्ति इत्यादि । सन्ति
अस्यापि
प्रज्ञापराधवतोऽपि अनु पश्चात् वक्तारः तदुक्तं समर्थयितारः इति किम् अन्यद्
अनात्मज्ञतायाः
सैव इति ।


ननु च ग्राह्याकारं स्वप्नेतरसाधारणम् अविचारितरमणीयमुद्दिश्य यथादर्शनमेव
प्र॰ वा॰ २ । ३५७ इत्याद्युक्तम् । तथाह--प्र ज्ञा क र गु प्तः प्रमाणमविसंवादि ज्ञानम्
इत्यादि प्रमाणलक्षणं व्यवहारेण
प्र॰ वार्तिकाल॰ २ । ५ एतदेवाह--यथादर्शनम् इत्यादि ।
यथादर्शनं प्रमाणादिरूपेण अविचारितरमणीयम् । किं तत् ? इत्यत्राह--चित्तं ज्ञानम् । कथं
भूतम् ? बहिर्मुखाकारं तेन रूपेण तत्तथेति मन्यते । स्वरूपसंवेदनं तूद्दिश्य परमार्थत एव
प्रमाणादिरूपम् । तथा चाह स एव1508 अज्ञातार्थप्रकाशो वा इत्येतल्लक्षणं परमार्थेन प्रमा
णान्तरेण अज्ञातस्य संवेदनाद्वैतस्य प्रकाशनात्
प्र॰ वार्तिकाल॰ २ । ५ एतदप्याह—
परमार्थ इत्यादिना । परमार्थो वस्तुभूतम् एकम् अखण्डम् संवेदनं स्वसंवेदनाकारो यस्य तत्
तथोक्तम् चित्तम् इति सम्बन्धः । ततः प्रमाणादेरभावात् इत्यसिद्धमिति भावः परस्य ।
अत्रोत्तरमाह--स्वयम् इत्यादि । स्वयम् इत्यादिना अभ्युपयतः ७८ ख अभ्युपगच्छतः तथा
विधं चित्तं सौगतस्य परमात्मसिद्धिरेव परमस्य अनेकान्तरूपस्य आत्मनो जीवस्य उक्तन्यायेन
सिद्धिरेव न सन्देहादि किन्न भवेत् स्यादेव । परमार्थसिद्धिरेव इति वा पाठो द्रष्टव्यः । अत्रा
यमर्थः--यथा प्रतिभासाविशेषेऽपि संवेदनबहिर्मुखाकारयोः परमार्थतः सत्येतरव्यवस्था तथा तद
विशेषेऽपि स्वप्नेतरबहिर्मुखाकारयोरपीति निर्णीतप्रायमेतत् ।


स्यान्मतम्, सौत्रान्तिकादिदर्शनभेदः संवेदनग्राह्याकारयोः सत्येतरभेदश्च व्यवहारेण न
परमार्थतः तथागतेनोक्तः ततोऽयमदोषः । तथा चोक्तम्--


95
*द्वे सत्ये समुपाश्रित्य बुद्धानां धर्मदेशना ।

लोकसंवृतिसत्यं च सत्यं च परमार्थतः ॥ माध्य॰ का॰ पृ॰ ४०२ इति ।

यदि वा, पूर्वपक्षार्थं तत्तेनोक्तम्, पुनः प्रतिषेधविधानात् । तदुक्तम्--


*सर्वमस्तीति वक्तव्यमादौ तत्त्वगवेषिणा ।

पश्चादवगतार्थस्य भा1509वग्राहो निवर्त्तते ॥ इति ।

शब्दविकल्पातीतं तु तत्त्वमिति । तदेवाह--तत्त्वम् इत्यादिना । तत्त्वं सविदः परमार्थस्वरूपम्
अक्रमम् कालादिक्रमरहितम् । पुनरपि कथम्भूतम् ? इत्यत्राह--सकलविकल्पातीतम् । नित्याऽ
नित्य-सत्याऽसत्य-स्वपर-ग्राह्यग्राहकसंवेदन-एकानेकादिभावादयः सकलविकल्पाः1510 तान् अतीतम् ।
कथं तत्तथेति चेत् ? अत्राह--यथा इत्यादि । दर्शनस्य प्रतिभासस्य अनतिक्रमेण यथादर्शनम् ।
अत्र दूषणं दर्शयन्नाह--७९ क मिथ्या इत्यादि । मिथ्याव्यवस्थाम् असत्यामवस्थितिम् अव
तरति ।
कथमिति चेत् ? उच्यते--अक्रमत्वं सकलविकल्पातीतत्वं यदि तस्य भावतोऽस्ति; कथं
सकलविकल्पातीतम् ? त1511योरेव विकल्पत्वात् । अथ नास्ति; तथापि कथं तदतीतम् ? त1512दतीत
त्वनिषेधे सकलविकल्पप्रसक्तेः, अभावनिषेधस्य विध्यात्मकत्वात् । अथवा, यदुक्तं तन्नित्यं
तथोपलम्भवैधुर्यात् । एकं हि कालत्रयानुयायि नित्यम्, तस्य कुतश्चिदनुपलम्भ इति तत्र तदक्षा
1513वोऽपि । यथैव हि मध्यक्षणे क्षीणकुक्षि प्रत्यक्षं न पूर्वोत्तरक्षणौ ईक्षितुं क्षमते तथा नीला
वलोकनान्नीलं न शुक्लादिकमाम् 1514, एवं नीलमात्रांशेष्वपि तावच्चिन्त्यम् यावत् मध्यक्ष
णवत् प्रतिपरमाणुनियतसंविदां सिद्धिः, तत्र च एकपरमाणुवेदनेनान्यासामु1515पलम्भेन
सन्तानान्तरसमता1516, तद्वेदनमपि विवादगोचरचारीति किन्नाम तत्त्वं यद् अक्रमं सकलविकल्पातीतं
भवेत् । एवम् अनित्यं तन्न भवति इत्यत्रापि चिन्त्यम् । यथा खलु पूर्वोत्तरक्षणयोरदर्शने न
सत्त्वं नापि 1517ताभ्यां विवेको मध्यक्षणस्य क्षणिकत्वं प्रत्येतुं शक्यं तथा नीलादितदंशानां सत्त्वं
विवेको वा प्रत्येतुं कथं शक्यो यतः सकलविकल्पातीतं तत्त्वं भवेत् ।


एतेन 1518एकानेकविकल्पशून्यत्वं परीक्षितम्, न्यायस्य समत्वात् । तथापि तत्त्वकल्पने तत्
मिथ्याव्यवस्थामवतरति इति हेतोः संवेदनलक्षणो यः तत्त्वस्वभावः स्थिरस्थूलादि ७९ ख
ग्राह्याकारलक्षणश्च मिथ्यास्वभावः तयोरेकत्वम् अभ्युपगन्तव्यम् । तस्मिंश्च तत्त्वमिथ्यास्वभावै
कत्वे अभ्युपगम्यमाने सामान्यविशेषात्मकम् । क्व ? बहिरन्तश्च । कथम् ? यथादर्शनं दर्शनाऽ
नतिक्रमेण । कथम्भूतम् ? परिणामि तत् किन्नलक्ष्यते ? लक्ष्यत एव तत्त्वमिति । ननु घटाद्याकार
एव 1519 संवेदनं न तस्मात् तदन्यद् ग्राह्याकारो वा तत्कथं तत्त्वमिथ्यास्वभावैकत्वमिति चेत् ?
96 अत्राह--सर्वथा इत्यादि । सर्वथा सर्वेण तत्त्वमिथ्यास्वभावैकत्वेन घटाद्याकारस्य संवेदनेन अन्येन
च उक्तेन प्रकारेण अनेकान्तसिद्धेरनिवारणात् कारणसामान्य इत्यादि लक्ष्यते इति ।


एवं तावत् सिद्धिः अर्थनिश्चयः साक्षात् प्रमाणस्य फलं प्रसाध्य, अधुना सिद्धिः स्वनि
निश्चयः 1520तथा तत्फलं समर्थयमानः प्राह--सिद्धम् इत्यादि ।


सिद्धं यन्न परापेक्षं सिद्धौ स्वपररूपयोः ।

तत्प्रमाणं ततो नान्यदविकल्पमचेतनम्1521 ॥ २३ ॥

प्रमातृप्रमितिप्रमेयप्रमाणानां साकल्येन प्रमेयत्वं सदृशं रूपम्, तत्रैतावान् विशेषः
स्वतः सिद्धं प्रमाणम् । सिद्धिः अविप्रतिपत्तिः, अव्युत्पत्तिसंशयविपर्यासलक्षणाज्ञाननि
वृत्तिः प्रमितिः । तद्यतः सम्पद्यते तत्प्रमाणम् । तत्पुनः यावतोः स्वभावपरभावयोः साध
नमन्यानपेक्षं प्रमात्मत्वात् न पुनः स्वसंविन्मात्रं निर्णयरहितम् अतिप्रसङ्गात् । सर्वचित्त
चैत्तानामात्मसंवेदनं प्रत्यक्षं हिताहितप्राप्तिपरिहारसमर्थमिच्छतां स्वापप्रबोधयोः को
विशेषः संभाव्यते यतः स्वापादौ सम्यग्ज्ञानपूर्विका सर्वपुरुषार्थसिद्धिर्न भवेत् । न हि
स्वापादौ चित्तचैतसिकानामभावं प्रतिपद्यमानान् प्रमाणमस्ति । न च तेषां तदा आत्म
संवेदनं मुक्त्वा सतां लक्षणान्तरमस्ति यतः प्रत्यक्षलक्षणं ततो निवर्तेत । स्वापादिस्वसंवे
दनस्य जाग्रच्चित्तचैतसिकक्षणक्षयादिस्वसंवेदनस्य च कञ्चिद् विशेषं संप्रेक्षामहे यत
स्तदनुपलक्षितमास्ते । साक्षात् संप्रतिपत्तिभावाविशेषात् । तथा च स्वार्थविषयं प्रमाण
मिति जाग्रद्विज्ञानक्षणक्षयादिस्वभावसंवित्तेः प्रत्यक्षात्मनोऽपि यद्यप्रमाणत्वं न तर्हि सं
वित्तेः प्रत्यक्षता । यदि पुनः संवित्तिस्तथैव सत्यपि प्रत्यक्षं न स्यात् प्रमाणं वा प्रमाण
लक्षणं ततोऽन्यथैव व्यवस्थापनीयं यदतिव्यापकं न भवेत् । तथा च सर्वं स्वभावे परभावे
वा कथञ्चिदेव प्रमाणं न सर्वथा । चक्षुरादिज्ञानस्यापि सर्वथा परतः प्रामाण्ये कुतस्त
तोऽर्थं परिच्छिद्य प्रवर्तमानस्य पुनरविसंवादः ? क्षणक्षयादौ विसंवादेऽपि नीलादौ प्रमा
णत्वे मृगतृष्णादिज्ञानस्यापि सलिलादिविसंवादिनः कथञ्चित्प्रमाणत्वं परीक्षायाः
प्रतिष्ठापयितुं युक्तम्, अन्यथा तद्दर्शिनः सुप्तत्वाविशेषप्रसङ्गात् । यथैव हि परतः प्रमा
ण्यैकान्ते अनवस्थानादप्रतिपत्तिः तथैव सर्वज्ञानानां स्वतः स्वभावानिश्चयैकान्ते । ततः
सर्वज्ञानानां स्वरूपव्यवसायात्मकत्वं चित्तचैतसिकानां निर्विकल्पप्रत्यक्षलक्षणं निराकरो
त्येव । स्वसंवेदनमन्तरेण अर्थग्रहणानुपपत्तिवत् स्वरूपव्यवसायमन्तरेण विषयव्यवसायानु
पपत्तिश्चोक्ता । तन्नायमेकान्तः संवित्तिः सर्वा संवित्स्वभावापि सती स्वरूपं वेदयत्येव
वेदयति भ्रान्तेरभावप्रसङ्गात्, व्यवसायात्मकत्वाद्वा स्वरूपं सर्वथा व्यवस्यति । तथा
च स्वार्थानुभवेतरस्वभावलक्षणं स्वपररूपव्यवसायेतरस्वभावं वा विभ्राणं विज्ञानं तदन्त
रेण न कथञ्चिदुपपनीपद्येत । तन्नाविकल्पदर्शनं प्रमाणं स्वयमनुभूतस्वभावस्यापि सर्वथा
अननुभूतकल्पत्वात् चेतनत्वेऽपि सुषुप्तादिवत् । स्वविषयीकृते वस्तुनि तदन्तरापेक्षित्वात्
97 तदपेक्षणीयस्यैव प्रामाण्यम्, तत्कारणत्वेऽपि सन्निकर्षादिवत् मुख्यतः प्रमाणतानुपपत्तेः ।
उपचारतः सन्निकर्षादेः व्यपदेशाविघातात् । यतः प्रभृति प्रेक्षापूर्विका पुरुषप्रवृत्तिः
तस्य मुख्यतः प्रमाणत्वोपपत्तिः । स्वेक्षितेऽन्यानपेक्षस्य अविसंवादैकभवनस्य विकल्प
विषयस्य च तत्त्वतः, यतोऽयमस्खलद्वृत्तिः हिताहितप्राप्तिपरिहारयोः सङ्करव्यतिकर
व्यतिरेकेण प्रवर्तेत । अतस्तद्द्वेषी तत्कारी चेत्युपेक्षामर्हति ।


सिद्धं निश्चितं यत् तत् प्रमाणं न पुनः मीमांसक-सांख्यकल्पितं परोक्षं ज्ञानमिति मन्यते ।
क्व प्रमाणम् ? इत्यत्राह--सिद्धौ निर्णीतौ कर्त्तव्यायाम् नाऽधिगतिमात्रे, क्षणक्षयाद्यनुमानवैफल्य1522
प्रसङ्गादिति भावः । ननु निश्चयान्तरेण निश्चितं निर्विकल्पकं वा सविकल्पकं वा स्वसंवेदनं तत्
प्रमाणम्, अतः सिद्धसाधनमिति चेत्; अत्राह--न परापेक्षम् इति । तत्सिद्धौ यत् परापेक्षं
न भवति अपि तु स्वतः सिद्धमिति । ततः तस्माद् उक्तादन्यत् न प्रमाणम् । किं तत् ?
इत्यत्राह--८० क अविकल्पमचेतनम् च स्वसंवेदनशून्यं घटादिप्रख्यं यद् विज्ञानम् इति ।


कारिकां विवृण्वन्नाह--प्रमातृप्रमिति इत्यादि । प्रमाता चेतनः परिणामी वक्ष्यमाणो
जीवः प्रमितिः स्वार्थविनिश्चयः अज्ञाननिवृत्तिः साक्षात् प्रमाणस्य फलं प्रमेयं घटादिवस्तु तेषां
साकल्येन अनवयवेन प्रमेयत्वं प्रमाणविषयत्वं सदृशं रूपं साधारणः स्वभावः प्रमाणस्य च
निर्णयज्ञानस्य च अन्यथा तत्सत्ताऽसिद्धिरिति भावः । एवं तर्हि सर्वेषां प्रमेयत्वात् प्रमेयपदेनैव
वचनात् किमर्थं प्रमात्रादीनां पृथगुपादानमिति चेत् ? प्रमेयशब्दस्य घटादावेव प्रवृत्त्यर्थम् ।
ततोऽयमर्थो लभ्यते--प्रमात्रादीनां प्रमातृत्वादिवत् प्रमेयत्वमप्यस्ति, प्रमेयस्य तु तदेव1523 इति यदुक्तं
परेण--प्रदीपादयः प्रमेया अपि ज्ञानहेतुत्वात् प्रमाणमपि1524ति; तन्निरस्तम् । प्रमीयते
संशयादिव्यवच्छेदेन मीयते वस्तुतत्त्वं येन तत्प्रमाणम् । न च प्रदीपादिना तथा किञ्चित् मीयते,
ज्ञानकल्पनावैफल्यप्रसङ्गात् । त1525द्धेतुत्वेन तत्प्रमाणत्वे घटादिरपिस्वं 1526 प्रमाणं भवेत् त1527
विशेषात् अर्थवत् अर्थसहकारिव्यवसायात्मकाऽव्यपदेश्याऽव्यभिचारिज्ञानजनने प्रमा
णम्
इति वचनात् । प्रमेयादर्थान्तरं प्रमाणम् इत्यपि वचनात् नायं दोष इति चेत्; तर्हि
तत एव प्रमात्रादीनां प्रमातृत्वादि दुर्लभम् । तथापि तेषां त1528त्त्वे ८० ख प्रमेयस्य प्रमाणत्वम
निवार्यम् । एवमर्थं च तेषां प्रमेयत्वं सदृशं रूपम् इत्युक्तम् । ततो यथा घटादीनां ज्ञानहेतु
त्वेऽपि न प्रमाणत्वं तथा प्रदीपादेरपि किन्तु प्रमेयत्वमेव इति तथा तदुपादानमिति ।


स्यादेतत्--सिद्धं परानपेक्षं प्रमाणम् इति प्रस्तुते किमर्थमप्रस्तुतं प्रमेयत्वं तेषु प्रस्तूयत
इति चेत् ? उच्यते--प्रमातृप्रमेयाभ्यामर्थान्तरं प्रमाणम्1529त्यभिधानात् प्रमाणवत् प्रमातृ
प्रमितिभ्यामपि ततो भिन्नाभ्यां भवितव्यम् । न चैवम्, अनुपलम्भेन तदसत्त्वादिति न सूक्तमे
98 तत्--चतृसृष्वेवंविधासु तत्त्वं परिसमाप्यते यदुत प्रमाता प्रमितिः प्रमेयं प्रमाणमिति
न्यायभा॰ पृ॰ १ । अथ प्रमेयमपि तच्चतुष्टयं तथेष्यते; प्रमातृप्रमेयाभ्यामर्थान्तरं प्रमा
णम्
इत्यस्य व्याघातः, इत्यस्य प्रतिपादनार्थं प्रस्तूयते । अथवा यदुक्तम्1530--ज्ञानं स्वतोऽ
र्थान्तरेणैव ज्ञानेन वेद्यते प्रमेयत्वात् घटादिवत्
इति; तत्र यथा घटादिकं प्रमेयत्वे सति
भिन्नेनैव ज्ञानेन वेद्यमानं दृष्टं तथा प्रमात्राद्यपि । ततो घटादिनिदर्शनेन यद्वत् प्रमेयत्वात्
तज्ज्ञानं त1531दन्तरेणैव विषयीक्रियते इति साध्यते तद्वत् तत एव प्रमातापि त1532दन्तरेणैव विषयी
क्रियते इति साध्यतामविशेषात्, तदन्तरमपि तदन्तरेणैवेत्यनवस्थानान्न कस्यचित् प्रमातुः प्रति
पत्तिः इत्यभावः । अथ तदविशेषे ८१ क प्रमाता स्वयमेव आत्मानं प्रमिणोति; तर्हि ज्ञानं
ज्ञानान्तरेणैव ज्ञायते प्रमेयत्वात्
इत्यस्य तेनैव1533 व्यभिचार इत्यस्य कथनार्थं तत् प्रम्तूयते ।


एवमपि प्रमातृप्रमितिप्रमेयप्रमाणानां साकल्येन प्रमेयत्वं सदृशं रूपम् इति वक्तव्ये
किमर्थम् प्रमाणस्य च इति प्रथग् वचनमिति चेत् ? स्वतः सिद्धत्वेन प्रमेयादस्य1534 प्राधान्यख्याप
नार्थम् । एतदेव दर्शयन्नाह--तत्रैतावान् इत्यादि । तत्र तेषु प्रमात्रादिषु मध्ये प्रमाणस्य विशेषः
भेदः एतावान् अधिकः स्वतः सिद्धं प्रमाणम् । ननु प्रमातापि स्वतः सिद्ध इति चेत्; सत्यम्;
अतएव नैवमवधारणीयम् प्रमाणमेव इति, किन्तु स्वतःसिद्धमेव इति । सिद्धं निर्णीतम्
अधिगतमिति । ततो निरस्तमेतत्--परोक्षा हि नो बुद्धिः प्रत्यक्षोऽर्थः, स हि बहिर्देशसम्बद्धः
प्रत्यक्षमनुभूयते, ज्ञाते त्वनुमानादवगच्छति
शाबरभा॰ १ । १ । ५ इति । कथम् ? येन हि
साक्षात् प्रमेयं परिच्छिद्यते तत्प्रमाणम्, न च परोक्षबुद्ध्या त1535था किञ्चित् परिच्छिद्यते, इ1536तरथा
सन्तानान्तरबुद्ध्यापि परिच्छिद्यते 1537 इति सर्वदर्शित्वम् । आत्मबुद्ध्या इति नोत्तरम्; परोक्षायां
1538था निश्चयविरहात् । न खलु आत्मनि ज्ञानमस्ति परत्र च 1539 इति श्रोत्रियस्य1540 निश्चयोऽस्ति ।


स्यान्मतम्--मम1541 1542अर्थापरोक्षताजननात् मयि इति निश्चय इति; तदपि न सुन्दरम्;
यतः अर्थापरोक्षता 1543तज्जनितापि केन प्रतीयते ? न तावदर्थेन; अचेनत्वादस्य ८१ ख अर्थान्तर
वत् । नापि बुद्ध्या; तस्याः परोक्षत्वात्, अतिप्रसङ्गात् । अत एव नात्मनापि । तन्न अर्थापरो
क्षता उत्पन्ना प्रत्येतुं शक्या । किंच, मम 1544सा इत्यपि कुतः ? मदीयबुद्धिजन्यत्वादिति चेत्;
अन्योन्यसंश्रयः--सिद्धे हि 1545तस्या मदीयबुद्धिजन्यत्वे मम सा इति निश्चीयते, तन्निश्चये च तन्म
दीयबुद्धिजन्यत्वनिश्चयः इति । मम सा इति निश्चयेऽपि न मदीयबुद्धिजन्यत्वनिश्चयः, अन्य
सम्बन्धिकारणजन्यानामपि1546 मम इति निश्चयदर्शनात् अन्यव्यानात् 1547 मम
विषापहारादिवत् इति । तन्न प्रत्यक्षोऽर्थः शावरभा॰ १ । १ । ५ इत्यादि सूक्तम् ।


99

एतेन ज्ञाते त्वनुमानादवगच्छति शाबरभा॰ १ । १ । ५ इति निरस्तम्; अर्थ
ज्ञातत्वस्य हेतोरसिद्धेः । अपि च, तज्ज्ञातत्वं क्व बुद्धौ प्रतिबद्धं प्रतिपन्नं येन त1549तस्तदनुमानम् ?
अथ अर्थप्रत्यक्षता कादाचित्कत्वात् कस्यचित् कार्यम्; कारणस्य ततः द् बुद्धिः इति नाम
क्रियते इति; क्रियताम्, यदि चक्षुरादिव्यतिरिक्तं त1550त्कारणं व्यवस्थापयितुं शक्येत । इदं तु
युक्तम्--चक्षुरादिव्यापारानन्तरं तद्भावात् त1551देव तत्कारणम्, चक्रादिव्यापारानन्तरं यथा घटस्य
भावात् चक्रादि कारणम् । चक्षुरादेरेव तन्नाम इति चेत्; किं पुनरेतद्बालभाषितम्--सत्सम्प्र
योगे यद् बुद्धिजन्म तत् प्रत्यक्षम्
मी॰ द॰ १ । १ । ४ इति ? तन्न अर्थप्रत्यक्षताया बुद्धेर
नुमानम्, उक्तन्यायेन परबुद्धेरपि तत्कारणत्वेस्त्व 1552बुद्धेश्च । किं च तदनुमानम् ?
अर्थापत्तिबुद्धिरेव । तस्या स्व 1553 परोक्षत्वे तदेव ८२ क चोद्यमनवस्था च । तन्न श्रोत्रि
यमतं सूक्तम् ।


एतेन इन्द्रियाणि अर्थमालोचयन्ति अहङ्कारोऽभिमन्यते मनः संकल्पयति बुद्धि
रध्यवस्यति पुरुषश्चेतयते ॥
इति1554 चिन्तितम् । पुरुषस्य परोक्षत्वे न तस्य बुद्धिः अन्यद्वा,
प्रयुक्तन्यायस्य समानत्वात् ।


तर्हि ज्ञानान्तरग्राह्यत्वात् सिद्धं तदिति चेत्; अत्राह--स्वत इति । अत्रायमभिप्रायः--यथा
खलु मीमांसकस्य परोक्षज्ञानग्राह्योऽर्थो न सिद्धो भवतीति ज्ञानान्तरं कल्पितं तथा परोक्षज्ञान
ग्राह्यं ज्ञानमपि न सिध्यतीति तत्रापि तदन्तरं कल्पनीयम्, अन्यथा द्वितीयमपि ज्ञानं न कल्प
नीयं1555 भवेत्, तथा च अनवस्थानात् स्वज्ञानं तदन्तरेणैव गृह्यते प्रमेयत्वात् घटादिवत्
इत्य1556त्र धर्मिहेतुदृष्टान्तासिद्धिः । अथ तज्ज्ञानं स्वतःसिद्धमिष्यते; तर्हि धर्म्यादिग्राहकप्रमाण
बाधितत्वात् कालात्ययापदिष्टो हेतुः स्यात् ।


यत्पुनरुक्तं परेण--ज्ञाने ज्ञानान्तरेण वेद्ये मम घटादिदृष्टान्तोऽस्ति न स्ववेद्ये
जैनस्य
इति; तन्न; अस्य1557 दृष्टान्त एव नास्ति, भ1558वतः पुनः सकलानुमानसामग्र्यभावः । किञ्च,
भवतोऽपि नीलं नीलम्1559 इत्यत्र न कश्चिद् दृष्टान्तः । प्रत्यक्षसिद्धेः 1560 किं तेन1561 इत्यपि1562
समानम् । यथा खलु नीले नीलतया न लोकस्य विवादः तथा अहमहमिकया प्रतीयमाने ज्ञाने
स्वसंवेदनेऽपि । यदि पुनरयं निर्बन्धः--अनुमानमन्तरेण न तत्सिद्धिः, 1563तदपि न दृष्टान्तमन्तरेण
इति; सोऽपि न, सात्मकं जीवच्छरीरं प्राणादि८२ ख मत्त्वात्' इत्यादिवत् अर्थज्ञानं
स्वग्रहणात्मकम् अर्थग्रहणात्मकत्वात्, यत् पुनः स्वग्रहणात्मकं न भवति तद् अर्थग्रहणात्मकमपि
न भवति यथा अर्थान्तरम्
इत्येतावतैव प्रयोजनपरिसमाप्तेः । तत्सूक्तम्--स्वतःसिद्धम् इति ।


नन्वेवमपि कारिकायां वृत्तौ च दृष्टवचनं स्पष्टार्थं कर्त्तव्यं न सिद्धवचनमिति चेत्; तन्न;
100 1564निर्विकल्पस्वसंवेदनदृष्टमपि दृष्टम् इत्याशङ्का न र्निवर्त्तेत, न च तत्1565 प्रमाणम् । ज्ञापकं हि प्रमा
णमिष्यते, न च तदेवम्, अन्यथा दा1566न-हिंसाविरतिचेतसां स्वर्गप्रापणसामर्थ्यं स्वर्गादिफलज्ञापकं
भवेत्, न चैवमिति प्रतिपादयिष्यते । विषयदर्शनवादिना सिद्धवचने पुनः क्रियमाणे सिद्धं
निर्णीतम् इति गम्यते, सिद्धः पक्षो निर्णीतः इति प्रसिद्धिदर्शनात् । ततः साधूक्तम्--स्वतः
सिद्धं प्रमाणम्
इति ।


कुत एतदिति चेत् ? अत्राह--सिद्धिः इत्यादि । सिद्धिः तत्त्वनिर्णीतिः । अस्याः
पर्यायमाह--अविप्रतिपत्तिः अव्युत्पत्तिसंशयविपर्यासलक्षणाज्ञाननिवृत्तिः । अनेकाधि अनेन
अधिगतिः तत्फलम् इति1567 वचनात् त1568न्मात्र1569 सिद्धिः इत्यादि शङ्का1570 निवर्त्तयति ।
तथा अप्र 1571 सिद्धिः, सा किम् ? इत्यत्राह--प्रमितिः प्रमाणफलम् । एतेन सर्वेण सिद्धौ
इत्येतद् व्याख्यातम् । सा यतः यस्मान्निष्ठात् सम्पद्यते समाप्तिं प्रतिपद्यते तत् वस्तु प्रमाणम् ।
अत्र सिद्धसाधनम् इत्यपरे । तान् प्रत्युत्तरमाह--तत्पुनः इत्यादि । ततः तन्निष्ठात् पुनः
इति भावनायाम् स्वभावपरभावयोर्यावतोः ८३ क यत्परिमाणयोः अनेन छद्मस्थज्ञानम्
अंशेन प्रमाणम्
इत्युक्तं भवति । तयोः किम् ? साधनं साधकम् यावतोरिति वचनात् तावतोः
प्रमाणम् इति गम्यते यत्तदोर्नित्यः सम्बन्धः इति न्यायात् । तत् किम् ? इत्याह—
अन्यानपेक्षम् इति । व्याख्यातमेतत् । कुत एतत् ? इत्यत्राह--प्रमाण1572त्वात् । प्रमा प्रमाणं
तद् आत्मा स्वभावो यस्य तस्य भावात् तत्त्वात् । एतदुक्तं भवति--प्रमाणं करणम्, तच्च साध
कतमम्, न च सिद्धिफलं प्रत्यन्यापेक्षं तद्युक्तमिति1573


ननु मा भूत् नैयायिकादिकल्पितम् अन्यापेक्षं ज्ञानं प्रमाणं सौगतविकल्पितं त1574द्विपरीतं
स्यादिति चेत्; अत्राह--न पुनः इत्यादि । स्वसंवित्तेः एतन्मात्रं निर्णयरहितं स्वसंवेदनं
तत् न पुनः नैव स्वभावपरभावयोः प्रमाणम् इति । कुत एतत् ? इत्यत्राह--अतिप्रसङ्गात् इति ।
स्वापदगर्भाण्डमूर्च्छितस्ववेदनमपि प्रमाणं भवेदविशेषात् । ननु किमुच्यते अविशेषात्
इति, यावता विशेषोऽस्ति इति चेत्; अत्राह--सर्वचित्तचैत्तानाम् इत्यादि । सर्वाणि जाग्रत्सुप्त
मूर्च्छितादिसम्बन्धीनि यानि चित्तानि नीलादिज्ञानानि चैत्तानि सुखादिविकल्पवेदनानि तेषाम्
आत्मनः स्वरूपस्य संवेदनं प्रत्यक्षं कल्पनापोढाऽभ्रान्तत्वाभ्यां प्रमाणम् । कथम्भूतम् ? इत्याह—
हित इत्यादि । सम्यग्ज्ञानपूर्विका स1575कलपुरुषार्थसिद्धिः न्यायबि॰ १ । १ इति वच
नात् हितं स्रगादि, अहितं विषादि तयोः याथासंख्येन प्राप्तिश्च परिहारश्च ८३ ख तयोः
समर्थम्, इ1576च्छतां सौगतानां स्वापो सुस्वप्नदर्शिन्यवस्था, प्रबोधः तस्मात् उत्थितचित्तदशा
101 तयोः अधिकरणयोः को विशेषः न कश्चिद्भेदस्तस्य संभाव्यते, साक्षात्सम्प्रतिपत्तेरभावाऽविशे
षादिति मन्यते । यतः यस्मात् विशेषात् स्वापादौ आदिशब्देन मदादिपरिग्रहः सम्यग्ज्ञान
पूर्विका सर्वपुरुषार्थसिद्धिर्न भवेत् । यतः
इति वा आक्षेपे, स्यादेव इति । एतेन परस्य
जाग्रत्-सुप्त-सुषुप्त-मृतावस्थाचतुष्टयाभावं दर्शयति ।


स्यान्मतम्--स्वापादौ तेषा1577मनुपलम्भेन असत्त्वात् कथमयं दोषः ? इत्यत्राह--नहि इत्यादि ।
हि र्यस्मात् न स्वपादौ चित्तचैतसिकानाम् अभावं प्रतिपद्यमानान् प्रति यद् दर्शयति तत्
प्रमाणमस्ति यावान् कश्चित् प्रतिषेधः स सर्वोऽनुपलब्धिः 1578, सा च प्रबोधेऽपि अस्ति ।
अत एवोक्तम्--स्वापप्रबोधयोः को विशेषः संभाव्येत इति । न च अनैकान्तिकाद् हेतोः
साध्यसिद्धिः अतिप्रसङ्गादिति मन्यते ।


किञ्च, तदनुपलब्धिः स्वसम्बन्धिनी, परसम्बन्धिनी वा स्यात् ? स्वसम्बन्धिनी चेत्;
सा उपलब्धिनिवृत्तिरूपा यदि; कथमत1579स्तदभावसिद्धिः1580 ? इतरथापि तन्निवृत्तिस्तदभावज्ञा
पिका स्यात् । ज्ञाता च सा1581 तज्ज्ञापिका ज्ञापकत्वात् धूमवत् । तज्ज्ञप्तिश्च यदि तदन्तरात्; अन
वस्था । उपलब्ध्यन्तरस्वभावा चेत्; तत्र15821583दन्तरभावे कथं चित्तचैतसिकानामभावः ? तदभा
वोऽपि यदि तुच्छः; स1584मयान्तर८४ क गमनम् । स्वापादिशरीरादिस्वभावत्वे; त1585दप्रतिपत्तौ
न त1586दभावनिश्चयः । न खलु भूतलाग्रहणे तत्र घटाभावग्रहणमस्ति । यदि पुनः जाग्रत्प्रबोधज्ञानं
तदनुपलब्धिः; एवमपि न तत्र तदभावसिद्धिः, अन्यथा इहलोकप्रत्यक्षात् परलोकाभावः सिध्येत् ।
तन्न स्वसम्बन्धिनी । परसम्बन्धिनी चेत्; सापि तदा अदृश्यानां तेषां कथमभावमवैति इति,
1587सन्तानान्तरासिद्धिप्रसङ्गात् । अथ अवस्थाचतु1588ष्टयान्यथानुपपत्तितः 1589तत्र तदभावसिद्धिः; तत्रेदं
चिन्त्यते--यथा परपरिकल्पितस्य आत्मनोऽसिद्धौ न तेन आत्मजीवच्छरीरं सात्मकं सिध्यति
इति, तथा निर्विकल्पकचित्तचैतसिकानामभावः । तदभावो1590सिद्धौ न 1591तदपेक्षे जाग्रत्सुप्त
दशे सिध्यतः, तथा तन्निवृत्त्यपेक्षे मृतसुषुप्तदशे अपि । तर्वादौ चैतन्यासिद्धौ विज्ञानेन्द्रिया
युर्निरोधलक्षणमरणासिद्धिवत् चतुष्टयमसिद्धम् । व्यवहारिणः सिद्धं चेत्; यदि प्रमाणतः;
प्रकृतो दोषः । एवमेव; इत्यपि वार्त्तम्; वृक्षादौ मरणमपि 1592तथा सिद्धमस्तु ।


यत्पुनरेतत्--एवं विचारणे प्रतिभासाद्वैतमवशिष्यते इति; तत्रापि चित्रप्रतिभासा
प्येकैव बुद्धिः
प्र॰ वार्तिकाल॰ ३ । २२० इत्यादि वचनात् चित्रैकज्ञानरूपेण यदि तेन
परितोषः; क्रमभाविसुखदुःखाद्यात्मनापि परितोषः क्रियताम् । अथ एकानेकविकल्पशून्येन;
तत्रापि सकलप्रतिभासशून्येन क्रियताम् इति चर्चितम् । ततः स्थितम्--नहि इत्यादि ।


सन्तु ८४ ख तर्हि त1593त्रापि तानि इति चेत्; अत्राह--न च इत्यादि । न च नैव तेषां चित्त
चैतसिकानां तदा स्वापादिदशायाम् आत्मसंवेदनं मुक्त्वा सतां विद्यमानानां लक्षणान्तरमस्ति
102 स्वसंवेदनलक्षणत्वाज् ज्ञानस्येति मन्यते । यतो लक्षणान्तरात् प्रत्यक्षलक्षणं ततस्तेभ्यो निवर्त्तेत ।
ननु भवतोऽपि न तदा1594 तभा1595वोऽस्ति; आ1597त्मनोऽपि निवृत्तिप्रसङ्गात् । सतां च तेषां
स्वपरावभासित्वं मुक्त्वा न लक्षणान्तरमस्ति ततः समानो दोषः इति चेत्; अत्राह--स्वापादि
इत्यादि । स्वापादौ स्वस्यैव संवेदनं स्वापादिस्वसंवेदनम् तस्य जाग्रत्चित्तचैतसिकानां यः
क्षणक्षयादिस्वभावः, आदिशब्देन निरंशत्वस्वर्गादिप्रापणसामर्थ्यादिपरिग्रहः तस्य यत् स्व
संवेदनं ग्रहणं तस्य च तद 1598 कञ्चिद् विशेषमन्तरं संप्रेक्षामहे, यतः तत् क्षणक्षयादिस्व
भावसंवेदनम् अनुपलक्षितम् आस्ते तथा स्वापादिस्वसंवेदनमपि इति भावः । कुत एतदिति
चेत् ? अत्राह--साक्षात् इत्यादि । साक्षात् प्रत्यक्षतः या संप्रतिपत्तिः निर्णीतिः तस्या 1599उभयत्र
यो भावः तस्य अविशेषाद् अन्यथा क्षणक्षयादिभावानुमानमनर्थकम् । लिङ्गात् संप्रतिपत्तिः उभ
यत्र, एकत्र सत्त्वादेः अन्यत्र व्यापारव्याहारात् इत्यभिप्रायः ।


यदि पुनर्मतम्--पावकात् दृष्टोऽपि धूमः यथा पुनः धूमादेव दृश्यते, तथा चित्ताद् दृष्टोऽपि
व्यापारादिः पुनः व्यापारादेरेव दृक्ष्यत इति कथं त1600तस्तत्र1601 स्वसंवेदनसिद्धिरिति ? तत्रोच्यते
८५ क अन्यधियो गतेः1602त्यनर्थकं भवेत्, तद्गत्युपायविरहात् । शक्यं हि वक्तुम्--पावकवत्
निवृत्तेऽपि जन्मान्तरचेतसि इहजन्मनि सर्वदेहान्तरेषु व्यापारादेरेव व्यापारादिरिति न त1603दर्थं शास्त्र
प्रणयनम् । कथं चैवंवादिनो जलाद्याकारविशेषदर्शनात् भाविन्यामर्थक्रियायां तदर्थिनो नियमेन
प्रवृत्तिः ? कदाचित् तस्याः दृष्टोऽपि तदाकारविशेषः पुनस्तत1604 एव स1605 इत्याशङ्काऽनिवृत्तेः ।
तथा रूपादे1606 रसो दृष्टोऽपि रसादेव1607 स भवेत् इति कथमिदमनुमानम्--एकसामग्र्यधी
नस्य1608
प्र॰ वा॰ ३ । १८ इत्यादि ।


एतेन स्वभावविरुद्धोपलब्ध्यादिकं चिन्तितम्, न्यायस्य समानत्वात् । एवं प्रत्यक्षमपि
चिन्त्यम् । तदपि प्रथमनीलार्थात् तदाकारं पुनः तत1609 एव आसंसारमिति 1610अभ्रान्तग्रहणमनर्थ
कम् । व्यवहारी तथा न मन्यते; किं पुनरसौ स्वापादौ चैतन्याभावं मन्यते ? तथा चेत्;
मृतवत् 1611तत्रापि दाहादिसाहसमाचरेत् ।


एतेन नैयायिकादिरपि 1612तत्राऽभावं कल्पयन् निरस्तः । कुतो वा प्रतिबोधे आत्ममनः
संयोगात् 1613 ? आस्तां तावदेतत् । जाग्रद्विज्ञानात्; इदमपि आस्ताम् इति यत्किंचिदेकंतत्
1614 केवलं तद्विशेषासंप्रेक्षणे स्वापादौ स्वसंवेदनमनुपलक्षितं सिध्यति अपि
तु इदं दूषणान्तरं दर्शयन्नाह--तथा च इत्यादि । तथा तेन तद्विशेषासंप्रेक्षणप्रकारेण वा च शब्दः
103 अवधारणे तथैव इति । स्वं वा 1615 अर्थश्च तावेव विषयौ गोचरौ तयोः प्रमाणम् इत्यभिमतं
८५ ख जाग्रद्दशायां सौगतस्य यद् विज्ञानं तस्य यः क्षणक्षयादिस्वभावः तस्य या संवित्तिः,
अग1616मकत्वात् सापेक्षस्यापि वृत्तेः देवदत्तस्य गुरुभार्यावद् इति । यदि वा, तस्य क्षणक्षयादेर्ग्रा
हिणी स्वभावभूता संवित्तिः इति ग्राह्यम्, तस्याः प्रत्यक्षात्मनोऽपि विसभावा 1617 अपि क्षणक्षयाद्यनुमानाप्रमाणताभयात् यद्यप्रमाणत्वम् इष्यते इत्यध्याहारः । न तर्हि संवित्तेः
संवित्स्वरूपस्य प्रत्यक्षता कल्पनापोढाभ्रान्तता प्रमाणम् ।


ननु तस्याः1618 प्रत्यक्षता नास्ति । ततः कथं सा प्रमाणमिति चेत् ? अत्राह--यदि इत्यादि ।
यदि, पुनः इति वितर्के, संवित्तिः तथैव स्वसंवेदनप्रकारेणैव सत्यपि विद्यमानोऽपि 1619 प्रत्यक्षं न स्यात् कल्पनापोढाऽभ्रान्तस्वभावा न भवेत् प्रमाणं वा संवादिनी वा न स्यात्,
प्रमाणलक्षणं ततः सर्वचित्तचैतसिकानामात्मसंवेदनं प्रत्यक्षं प्रमाणम् न्यायबि॰
१ । १४
इत्येवंरूपाद् अन्यथैव व्यवस्थापनीयम् । कथंभूतम् ? इत्यत्राह--यत् प्रमाणलक्षणम्
अतिव्यापकं न भवेत् स्वापादिसंवेदने यन्नास्ति इत्यर्थः ।


ननु उक्तमेव--यत्रैव जनयेदेनां1620 तत्रैवास्य1621 प्रमाणता ।प्रवर्त्तकं प्रमाणम्
प्र॰ वार्तिकाल॰ पृ॰ १५१, २२ इति च वचनं स्वापादौ क्षणक्षयादौ वा तदस्ति इति चेत्;
अत्राह--तथा च इत्यादि । तथा च परपरिकल्पितप्रकारेण च सर्वं प्रत्यक्षादि प्रमाणं स्वभावे
स्वस्वरूपे परभावे ८६ क पररूपे वा कथञ्चिदेव सच्चेतनादिनीलादिरूपेणैव न क्षणक्षयादि
रूपेण प्रमाणम् । अत आह--न सर्वथा इति सिद्धम् । येन अभ्यासदशायां भाविनि प्रवर्त्तकत्वात्
प्रत्यक्षं प्रमाणमिष्टम्, तस्यापि तद्रूपादावेव प्रमाणं न दृश्यप्राप्यविवेके स्वयं विषयीकृतेऽपि, तयो
रेकत्वाध्यवसायोऽन्यथा न स्यात् विरोधात् । सतोऽविषयीकरणे एकस्यार्थस्वभावस्य
प्र॰ वा॰ ३ । ४२1622त्यादि विरुध्यते ।


अत्रैव दूषणान्तरमाह--चक्षुरादि इत्यादि । न केवलं सर्वचित्तचैतसिकानामात्मसंवेदनस्य,
अपि तु चक्षुरादिज्ञानस्यापि आदिशब्देन श्रोत्रादिज्ञानपरिग्रहः सर्वथा क्षणक्षयादाविव नीला
दावपि परतः विकल्पात् प्रामाण्ये अङ्गीक्रियमाणे कुतः न कुतश्चित् ततः चक्षुरादिज्ञानात् अर्थं
परिच्छिद्य प्रवर्तमानस्य पुनः
पश्चाद् अविसंवादः । कुत एतत् ? प्रवर्त्तनस्यैवाऽसंभवात् ततः
इत्यनेन सम्बन्धः । परत एव प्रवर्त्तनसंभवादिति मन्यते । पुनरत्रैव दूषणान्तरमाह--क्षणक्षयादि
इत्यादि । क्षणक्षयादौ आदिशब्देन परिमण्डलादौ विसंवादेऽपि चक्षुरादिज्ञानस्य इति सम्ब
न्धः । नीलादौ प्रमाणत्वे अङ्गीक्रियमाणे मृगतृष्णादिज्ञानस्यापि न केवलम् अन्यस्य । कथम्भू
तस्य ? सलिलादिविसंवादिनः शुक्लादिस्वभावाऽविसंवादात् कथञ्चित् न सर्वात्मना प्रमाणत्वं
परीक्षायाः
युक्तेः सकाशात् प्रतिष्ठापयितुं ८६ ख युक्तम् ।


स्यान्मतम्--मृगतृष्णादिज्ञानमविकल्पकमभ्रान्तं न तत्सलिलादिविषयं कथं तस्य1623 तत्र1624
विसंवादः, अन्यथा नीलज्ञानं पीते विसंवादि भवेत् । यच्च सलिलादिज्ञानं संम 1625 तन्मृग
104 तृष्णादिज्ञानं तोयादिविभ्रमस्य मानसत्वोपगमादिति; न; तत्र ज्ञानद्वयानुपलक्षणात् । तथापि
तत्कल्पनेऽप्युक्तम् । शक्यं हि वक्तुम्--चन्द्रमेकं पश्यतोऽपि द्विचन्द्रभ्रान्तिरिति इत्यादि । ननु मृग
तृष्णाज्ञानेन शुक्लादिस्वभावाग्रहणात् कथं तत्र तदविसंवादो यतः कथञ्चित् प्रमाणं स्यादिति
चेत् ? अत्राह--अन्यथा इत्यादि । अन्यथा उक्ताभावप्रकारेण तद्दर्शिनो मृगतृष्णादिसलिल
दर्शिनः पुरुषस्य सुप्तत्वाऽविशेषप्रसङ्गात् कथञ्चित् तस्य प्रामाण्यं प्रतिष्ठापयितुं युक्तम् । दृश्य
मानस्यापि शुक्लादिस्वभावस्य अदर्शनकल्पने सलिलादिप्रतिभासे कः समाश्वास इति ? दृष्टान्त
द्वयस्य किं प्रयोजनमिति चेत् ? उच्यते--यदा एकस्मिन्नपि विज्ञाने तस्मिन् सलिलादिप्रतिभासं
परोऽभ्युपगच्छति न शुक्लादिप्रतिभासं तदा उक्तन्यायेन सलिलादिप्रतिभासस्यापि निह्नवात् सुप्तेन
अस्वप्नदर्शिनोऽविशेषप्रसङ्गात् इत्युच्यते । यदा पुनः शुक्लादिस्वभावविषयमविकल्पं दर्शनं
विशदं सलिलादिगोचरं पुनः सविकल्पमपि विशदं मानसं ज्ञानमभ्युपगच्छति, तदा निर्विकल्प
कस्य सतोऽप्य८७ क नुपलक्षणाद् अस्पष्टसलिलादिज्ञानस्यात्त्वेऽपि भावात् अ1626न्येना
ऽविशेषप्रसङ्गाद् इत्यभिधीयते । अथ स्वसंवेदनाध्यक्षनिर्णयविचारप्रस्तावे न उपयोगः चक्षु
रादिज्ञानस्य येन तदत्र विचार्यते इति, स्वरूपे स्वसंवेदनाध्यक्षं कथञ्चिदेव न सर्वथा इत्यत्र
निदर्शनार्थम् । अत एवोक्तम्--स्वभावे वा परभावे वा इत्यर्थः ।


साम्प्रतं ज्ञानान्तरवेद्यज्ञानैकान्ते यद् दूष1627णं सौगतस्य प्रसिद्धं तदेव--यत्रैव जनये
देनां तत्रैवास्य प्रमाणता
इत्यत्रापि प्रदर्श्य स्वतः स्वरूपव्यवसायात्मकं सर्वं ज्ञानं प्रसाधय
न्नाह--यथैव हि इत्यादि । यथैव येनैव हि प्रकारेण परतः ज्ञानान्तरात् प्रामाण्यम् आद्यस्य
ज्ञानस्य स्वार्थव्यवसायः प्रामाण्यं चेतसां स्वार्थव्यवसायः इति वचनात् इति एवम् एका
न्ते
यौगकल्पिते अनवस्थानात् ज्ञानान्तरेऽपि तदन्तरापेक्षणात् अप्रतिपत्तिः स्वार्थयोः इत्य
ध्याहारः । तथैव तेनैव प्रकारेण सर्वज्ञानानां सविकल्पकनिर्विकल्पकचेतसां स्वतः आत्मना
स्वभावाऽनिश्चयैकान्ते स्वभावस्य स्वरूपस्य अ1628निश्चयैकान्ते अङ्गीक्रियमाणे अनवस्थानाद्
अनवस्थितेः अप्रतिपत्तिः स्वार्थयोरेव 1629गन्तव्या । एतदुक्तं भवति--यथा आद्यं दर्शनं
स्वभावे व्यवसायसामर्थ्यविधुरमुत्पन्नमपि अनुत्पन्नकल्पमिति यत्रैव जनयेदेनाम् इत्या
द्युक्तम्, तथा तत्स्वभावे समुत्पन्नापि विकल्पबुद्धिः स्वतः स्वव्यवसायसामार्थ्य८८ क विधुरा
इति उत्पन्नाप्यनुत्पन्नकल्पा इति तत्स्वभावव्यवसायेऽपि त1630दन्तरान्वेषणं तत्रापि तदन्तरान्वेषण
मित्यनवस्था । ततः तस्माद् अनन्तराद् दोषात् सर्वज्ञानानां स्वरूपव्यवसायात्मकत्वं अव
गन्तव्या
इत्यनेन जातनपुंसकलिङ्गपरिणामेन सम्बन्धात् । तत् किं करोति ? इत्यत्राह--निर्वि
कल्पेयदि
निदि 1631 निर्विकल्पं च तत् प्रत्यक्षलक्षणं च तत् कर्मतापन्नं निराकरोत्येव ।
केषां सन्बन्धि ? इत्यत्राह--चित्तचैतसिकानाम् इति ।


स्यान्मतम्--स्वरूपव्यवसायात्मकत्वाऽभावे किमनुपपन्नं यदर्थं तत् साध्यते ? इत्यत्र
उत्तरमाह--स्वसंवेदनम् इत्यादि । स्वस्य आत्मनः संवेदनं ग्रहणम् तदन्तरेण अर्थग्रहणानुप
105 पत्तिवत् स्वरूपव्यवसायम्
आत्मनिर्णयमन्तरेण विषयस्य स्वार्थलक्षणस्य व्यवसायानुपप
त्तिश्च उक्ता ।
अनेन अङ्गीकृतात्मसंवित्तेः सिद्धिवि॰ १ । १८ इत्यादिना परहृतं
चोद्यं कृतमिति दर्शयति ।


उक्तमर्थमुपसंहरन्नाह--तन्नायम् इत्यादि । यत एवं स्वपरविषयप्रमाणाभिमतविज्ञानस्य
इत्या1632दि सुप्तत्वाविशेषप्रसङ्गात् इत्य1633न्तं च व्यवस्थितं तस्मात् नायम् एकान्तो वः संवित्तिः
बुद्धिः सर्वा निरवशेषा सर्वज्ञशन्तिवद1634न्यापि स्वरूपम् आत्मानं वेदयत्ये
वेदयति
तस्य किञ्चिन्न वेदयति इत्येवकारार्थः । कथम्भूता ? इत्यत्राह--संवित्स्वभावापि सती
इति । यदुक्तं ध र्मो त्त रे ण--द्विविधा भ्रान्तिः--लौकिकी द्विचन्द्रादिग्रहणात्मिका ।
शास्त्रीया च ग्राहकसंवित्तिभेदलक्षणात्मिका च
तस्या अभावप्रसङ्गात् । तथाहि--सच्चेत
नादिस्वरूपवत् तद्विभ्रमविवेकमपि यद्यात्मनः सा1635 वेदयति कुतः तद्भ्रान्तिः ? इतरथा नील
ज्ञानस्य पीते सा भवेत् । एतेन लौकिकी भ्रान्तिर्निरस्ता; तस्या ग्राह्याकाराभावे अभावात्,
1636न्निबन्धनत्वात् ।


अत्रापरः प्राह--भ्रान्तरेभावो न दोषाय सौगतस्य तदभ्युपगमादिति; तन्न; यथाप्रतिभासं
तत्त्वोपगमे जैनदर्शनप्रसङ्गात् । तथा च सति भवतः किं सिद्धम् ? इत्यत्राह--व्यवसाय इत्यादि ।
तन्नाऽयमेकान्तः इत्येतदत्रापि अनुवर्त्तते । ततोऽयमर्थ--यतः परकीया संवित्तिः एवंविधा तत्
तस्माद् व्यवसायात्मकत्वात् इति हेतोरेव वा संवित्तिः स्वरूपं विषयरूपत्वात् सर्वथा व्यव
स्यति इत्ययं नैकान्तः भ्रान्तेरभावप्रसङ्गात्
इति सम्बन्धः । यथैव हि वैशेषिकस्य संवित्तिः
व्यवसायात्मिका अयम् इत्येवं परामृश्यमानं धर्मिणं व्यवस्यति तथैव यदि तस्य स्थाणुत्वपुरुष
त्वयोः अन्यतरविवेकं स्वभावभूतम्, अन्यथा स्वभावाव्यवस्थाप्रसङ्गात्, व्यवस्यति1637; कुतः संश
यादिव्यवस्था अतिप्रसङ्गात् ? एवं सर्वस्य एकान्तवादिनः आत्मनैकवाक्यतां समर्थितामुपसंहर
न्नाह--तथा च तेन प्रकारेण च सर्वैक८८ ख वाक्यभावे स्वंअर्थश्च स्वो वा अर्थः
तयोः तस्य वा अनुभवाश्च 1638 इतरश्चाऽननुभवः तावेव स्वभावौ लक्षणं स्वरूपं विभ्राणं
दधानम् । किं तत् ? विज्ञानम् । एतत् सौगतमुद्दिश्य उक्तम्, स्वपररूपव्यवसायेतरस्वभावं
वा
स्वपररूपयोः व्यवसायो निर्णयः इतरोऽनिर्णयः तावेव स्वभावः स्वरूपं तं वा विभ्राणम् ।
एतत् वैशेषिकमुद्दिश्य कथितम् । तद् अनेकान्तमन्तरेण कथं न कथञ्चिद् उपपनीपद्येत ।


उपसंहारमाह--तद् इत्यादिना । यत एवं तत् तस्मात् अविकल्पदर्शनं न विद्यते विकल्पः
स्वपररूपव्यवसायो यस्य सौगतादिकल्पितदर्शनस्य तत् तथोक्तम्, स्वपरभावयोः प्रत्यक्षं सत्
प्रमाणम् । कुत एतत् ? इत्यत्राह--स्वयम् इत्यादि । स्वयम् आत्मना अनुभूतो गृहीतो यः स्व
भावः
स्वरूपम् स्वो वा भावो ग्राह्यः पदार्थात्मा, तस्यापि न केवलमन्यस्य सर्वथा क्षणिकादिप्रका
रेणेव नीलादिप्रकारेणापि । यदि वा, विकल्पानुभवान्तराभावापेक्षाभावप्रकारेणेव तदपेक्षाप्रकारे
णापि अननुभूतकल्पत्वात् ।


106

ननु मा भूत् नैयायिकादिदर्शनं प्रत्यक्षं सत् प्रमाणं स्वग्रहणसामर्थ्यवैधुर्येण घटादि
वदचेतनत्वात्1639 न सौगतदर्शनं त1640त्सामर्थ्यभावेन चेतनत्वादिति चेत्; अत्राह-- चेतनत्वेऽपि
इत्यादि । अपि संभावनायाम्, भावतः त1641त्र चेतनत्वासिद्धेः, तस्मिन्नपि । स्वयमनुभूतस्यापि
सर्वथा
८९ क अननुभूतकल्पत्वात् इति सम्बन्धः । अत्र निदर्शनमाह--सुषुप्तादिवत्
इति । चिन्तितमेतत् । ननु भावत एव तत्र चेतनत्वे कुतः कारणादुच्यते--चेतनत्वेऽपि
इत्येतदिति चेत्; अत्राह--स्वविषयीकृत इत्यादि । स्वेन आत्मना विषयीकृते अनुभूते
वस्तुनि क्षणिकादिनीलादिरूपे परकल्पिताद् दर्शनप्रमाणात् अनुमानं विकल्पश्च तदन्तरं
तदपेक्षित्वात्
कारणात् चेतनत्वेऽपि इत्युच्यते इति । ननु प्रमितिसाधकं प्रमाणम्,
सा1642 च नीलादौ दर्शनादेव जातेति तत्र विकल्पः प्रमाणमेव न भवति1643 किमुच्यते तदन्तरम्
इति चेत्; अत्राह--तद् इत्यादि । तदपेक्षणीयस्यैव क्षणिकत्वादौ अनुमानस्यैव नीलादौ विक
ल्पस्यैव1644 प्रमाणं 1645 प्रमितिं प्रति साधकतमत्वोपपत्तेः । तस्यैव प्रामाण्यम् इति मन्यते ।
अथ प्रमितिं प्रति साधकतमस्य विकल्पस्य हेतुत्वाद् दर्शनमपि तां1646 प्रति साधकतममुच्यते ।
तदुक्तम् अ र्च टे न--पक्षधर्मतानिश्चयः प्रत्यक्षाज्जायते इति पक्षधर्मतानिश्चयः प्रत्यक्षत
इत्युच्यते
इति1647 । तत्रोत्तरमाह--तत्कारणत्वेऽपि इत्यादि । अभेदात् सदृशस्मृत्याम्
सिद्धिवि॰ १ । ६ इत्यादिवचनात् दर्शनस्य विकल्पकारणत्वं नास्ति, अत एव तत्कारणत्वेऽपि
इति, अपिशब्दः संभावनायाम् । सन्निकर्षादेरिव तद्वत् मुख्यतः प्रमाणतानुपपत्तेः
अविकल्पदर्शनं प्रमाणम् । उपचारतः तदुपपत्तिः स्यादिति चेत्; अत्राह--उपचारत इत्यादि ।
उपचारात् सन्निकर्षादेः ८९ ख प्रमाणम् इति प्रकारेण व्यपदेशाऽविघातात् ।


ननु व्यवहारे अन्यत् प्रत्यक्षं प्रमाणं नास्ति, अविकल्पदर्शनस्यैव मुख्यतः प्रमाणतोपपत्तिः
इति; अत्राह--यतः इत्यादि । प्रभृतिशब्दोऽयम् आद्यर्थो रिसंज्ञिसंज्ञः 1648 । ततोऽयमर्थः—
यतः प्रभृति यस्मात् आदितः विज्ञानात् पुरुषस्य प्रवृत्तिः तस्य व्यवसायात्मनः विज्ञानस्य
मुख्यतः प्रमाणत्वोपपत्तिः नाऽविकल्पदर्शनं प्रमाणम् इति प्रभृतिशब्देन एतद्दर्शयति--पूर्वमक
स्मात् सुखहेतोः दुखहेतोर्वा दर्शने ततः सुखाद्यनुभवने च पुरुष एवमवगच्छति इदं मेसुख
साधनं दुःखसाधनं वा ।


यत्पुनरत्रेदं चोद्यम्--सुखादिसाधनदर्शनकाले न सुखादिवेदनम्, त1649त्काले च न तत्साधन
वेदनम्, तत् कुतः सुखादिसाधनयोः हेतुफलभावप्रतीतिरिति ? तत् प्रतिभासैक्यनियमे
सिद्धिवि॰ १ । १० इत्यादिना निरस्तम् । ततः 1650तदवगमात् तस्य संस्कारः, पुनः कालान्तरे
तस्य तज्जातीयस्य वा दर्शनात् संस्कारप्रबोधे तत्र स्मृतिः, ततः तदेवेदं तत्सदृशम् इति वा प्रत्य
भिज्ञा, अतोऽपि यदित्थं तद् इयता कालेन सामग्रीविशेषेण वा इत्थंभूतकार्यकारिइति चिन्ता
107 तर्कः, ततोऽपि इत्थं चेदं तस्मात् पूर्ववत् विवक्षितकार्यकारि इत्यनुमानम्, अतः पुरुषस्य प्रवृत्तिः
इति । वक्ष्यते चैतदत्रैव--अक्षज्ञानैरनुस्मृत्य सिद्धिवि॰ १ । २७ त्यादिना ।


यत्पुनरेतत्--प्रवृत्तेः फलभावेन असत्त्वान्न कस्यचित् कुतश्चित् प्रवृत्तिः इति; तद् युगप
दिव च क्रमेणापि चित्रैकज्ञान९० क संभवेन प्रत्यक्षबाधितमिति । ननु मृगतृष्णादिजल
ज्ञानादपि पुरुषप्रवृत्तिरस्तीति तस्यापि मुख्यतः प्रमाणत्वोपपत्तिः स्यादिति चेत्; अत्राह--प्रेक्षा
पूर्विका
इति । प्रकृष्टा संशयादिरहिते क्षा दर्शनं पूर्वं कारणं यस्याः सा तथोक्ता सम्यग्ज्ञान
पूर्विका इति यावत्, विभ्रमसर्वविकल्पातीतत्वाद्येकान्तनिषेधात् ।


ननु निर्विकल्पकदर्शनादेव त1651था पुरुषप्रवृत्तिः, अतः तस्यैव मुख्यतः प्रमाणतोपपत्तिः ।
तदुक्तम्--


*तद्दृष्टावेव दृष्टेषु संवित्सामर्थ्यभाविनः ।

स्मरणादभिलाषेण व्यवहारः प्रवर्त्तते ॥ प्र॰ वार्तिकाल॰ पृ॰ २४

इति चेत्; अत्राह--स्वेक्षित इत्यादि । स्वेक्षिते स्वानुभूते वस्तुनि अन्यानपेक्षस्य व्यव
सायात्मनो विज्ञानस्य, अ1652त एव स्मरणादिः नान्यत इति मन्यते । उक्तं चैतदत्रैव--व्यवसा
यात्मनो दृष्टेः
सिद्धिवि॰ १ । ४ इत्यादिना ।


स्यान्मतम्--भवतु व्यवसायात्मनो विज्ञानाद् आदितः प्रेक्षापूर्विका पुरुषप्रवृत्तिः तथापि
न तस्य1653 मुख्यतः प्रमाणतोपपत्तिः अवस्तुसामान्यविषयत्वेन विसं वादकत्वात् । तदुक्तम्--विक
ल्पोऽवस्तुनिर्भासो विसंवादादुपप्लवः ।
1654ति चेत्; अत्राह--अविसंवाद इत्यादि । अविसं
वाद
स्य एकम् अन्यनिरपेक्षं भवनं यस्मात् तस्य विकल्पविषयस्य च तत्त्वतो वस्तुत्वादिति
भावः । एतदर्थमेवेदं स्वेक्षित इत्यादि ।


अत्र चोद्यते--व्यवसायात्मनो नातीते पुरुषप्रवृत्तिः तस्य अनुभूतत्वात्, न वर्तमाने अनु
भूयमानत्वात्
। नहि सुखादौ अनुभूयमाने कश्चित् प्रवर्त्तते 1655प्रवृत्तेरनवस्थाप्रसङ्गात् । नापि
भाविनि; प्रत्यक्षतः तदप्रतिपत्तेः न ९० ख क्वचित् पुरुषप्रवृत्तिरिति । तत्रोत्तरम्--यतोऽयम्
इत्यादि । अयं चोद्यकारः प्र ज्ञा क र गु प्तः अन्यो वा प्रवर्त्तेत तथा विचारं कुर्वन्नपि न तिष्ठेत् ।
कथम्भूतः ? अस्खलद्वृत्तिः । एतदुक्तं भवति--यद्ययं प्रेक्षाकारी नियमेन प्रवृत्तिविषयं नास्ति
इति पश्येत् न तत्र नित्यवद् अस्खलद्वृत्तिः प्रवर्त्तेत, न चैवं 1656 सुपरीक्षक विचारं कुर्वन्नपि न तिष्ठेत्
कथंभूतः अस्खलद्वृत्तिः । एतदुक्तं भवति सुपरीक्षकस्यापि जलादौ प्रवृत्तिदर्शनात् अतः तत्कारी
तद्द्वेषी चेति उपेक्षामर्हति
इति । क्व प्रवर्त्तेत इति चेत् ? अत्राह--हित इत्यादि । निमित्तयोः
द्विवचनमेतत्, तेन हितस्य ओदनादेः प्राप्तौ प्राप्तिनिमित्तम् अहितस्य विषादेः परिहारे परिहार
निमित्तम् । न चैतच्चोद्यम्--सुखदुखयोरप्रतिपत्तौ न त1657त्कारि हितमहितं वा ज्ञातुं शक्यत इति; तथा
अनुमानाऽप्रतिपत्तौ न लिङ्गस्य तद्धेतुत्वं प्रतीयते इति न त1658दर्थी त1659त्रापि प्रवर्त्तेत तोनुदयात् अतोऽ
108 नुमानानुदयात्
कुतः स्वयं तत्त्वमवबुध्येत परं वा बोधयेत् ? स्वसंवेदनाध्यक्षस्य अनंशस्य विवाद
गोचरापन्नत्वात् । तदयं भाव्यनुमानम् अप्रतियन्नपि लिङ्गस्य त1660द्धेतुतामवैति न पुनः तथाविधं
सुखादिकम् अप्रतिपन्नौदनादेः 1661 तद्धेतुतामिच्छतीति स्वेच्छावृत्तिः । कथं
प्रवर्त्तते इति चेत् ? अत्राह--सङ्कर इत्यादि । ९१ क यस्य प्राप्तिः तस्य परिहारः यस्य परिहारः
तस्य प्राप्तिः इति सङ्करः, प्राप्तिविषये परिहारः परिहारविषये च प्राप्तिरेव व्यतिकरः, तयोः
व्यतिरेकेण
अभावेन यतो यस्मात् ततः यतः प्रभृति इत्यादि सुस्थम् ।


अत्र अपरः सौगतः प्राह--यत्रैव जनयेदेनां तत्रैवास्य प्रमाणता इति ध र्मो
त्त र स्य मतमेतत् । तच्च ययैव युक्त्या अ1662स्माभिर्निरस्तं तयैव जैनैः इति सिद्धोपस्थायित्वं तेषाम्1663,
दर्शनं तु विकल्पनिरपेक्षं प्रमाणम् । यद्यप्रमाणं विकल्पः कथं दर्शनेन अपेक्ष1664ते ? प्रमाणत्वे1665
प्रमाणसंख्याव्याघात इति । तत्रोत्तरमाह--विषदर्शनवद् इत्यादि ।


विषदर्शनवदज्ञस्य दर्शनमविकल्पकम् ।

न स्यात्प्रमाणं सर्वमविसंवादहानितः ॥ २४ ॥

विषमालोक्य तत्र अज्ञ इव प्रमाणयति न पुनः व्यवसायात्मकं प्रमाणमविसंवाद
कमिति लक्षयति चेति विपरीतलक्षणप्रज्ञो देवानांप्रियः । सर्वमेव दर्शनमविकल्पकं कथं
प्रत्यक्षं विसंवादकं अज्ञस्य विषदर्शनमिव । व्यवसायात्मकस्यैवाविसंवादकत्वोपपत्तेः ।
तदितरस्याव्यवसायात्मकत्वेन विसंवादात् । ननु अविकल्पकं सुखादिनीलादिनिर्भासि
ज्ञानमविसंवादकम्; न च तदविसंवादकम् अपि तु विकल्पकमेव व्यवसायात्मकत्वात् ।
तदविसंवादिनः प्रत्यक्षस्य निर्विकल्पकत्वे क्षणक्षयादिवत् साधनान्तरमपेक्षते अनिश्चयादि
ति । कल्पनापोढमभ्रान्तमपि दर्शनं विसंवादयत्येव यथादर्शनं निर्णयायोगात् । विशेषाका
रेण अर्थानामनवभासनात् सामान्याकारेण च व्यवसायानिर्णयात् । यथाप्रतिपत्रभिप्रायं
प्रमाणलक्षणमविसंवादकत्वं प्रमाणान्तराबाधितविषयमयुक्तं स्वमतव्याघातात् । तस्मान्ना
यमविकल्पोऽनुभवः स्वलक्षणग्राही यथार्थनिर्भासं व्यवसाययितुं समर्थोऽविसंवादको नाम ।
न चाविकल्पितेन स्वभावेन स्वलक्षणव्यवस्थापनं युक्तमद्वैतवदिति भेदाभावात् ।
विकल्पानां भेदैकान्तेऽपि निःस्वभावतोपपत्तेः ।


अज्ञानस्य 1666 विषे अव्युत्पत्तिसंशय विपर्यासोपेतस्य संबन्धि यत् विषदर्शनं
स्वानुभूते वस्तुनि संशयविपर्ययकारि अकिञ्चित्करं वा तदिव विषदर्शनवत् इति, सर्वं
चतुर्विधमपि, यदि वा सर्वम् अनभ्यासजमिव अभ्यासजमपि दर्शनं न प्रमाणं स्यात् भवेत् ।
कथम्भूतम् ? अविकल्पकम् अभिलापसंसर्गयोग्यप्रतिभासा प्रतीतिः कल्पना
न्यायबि॰ १ । ५1667दात्मकं न भवति निरंशार्थविषयमित्यर्थः । अत्रायमभिप्रायः--यदि विकल्प
निरपेक्षं स्वतन्त्रं दर्शनं प्रमाणम्; हन्त तर्हि विषाऽज्ञस्य विषदर्शनं तथाविधमनिवारितमिति
तदपि प्रमाणं स्यात् । तथा च सति सन्देहादेः न कस्यचिद् विषे प्रवृत्तिः इति ।


109

यत्पुनः--यत्रैव जनयेदेनाम् अनुमानबुद्धिं तत्रैवास्य प्रमाणता इति व्याख्यानम्;
तदप्येतेन निराकृतम्; भाविमरणसंबन्धिविषाकारविशेषलिङ्गदर्शनस्य सजातीय९१ ख
स्मरणस्य च अनुमानहेतोः अ1668त्रापि कदाचिद् भावात् अनुमानजननादपि प्रमाणं स्यात् । न चैवम्,
अतो विषदर्शनवदज्ञस्य सर्वमविकल्पकदर्शनमप्रमाणमिति । ननु कल्पनात्मकमपि विषस्य
अन्यस्य च अभ्यासदशायां दर्शनं प्रमाणं दृश्यते, ततः सर्वं दर्शनमप्रमाणमिति वदतो दृष्टबा
धनमिति चेत्; अत्राह--अविसंवादहानितः इति । अभ्यासदशायां प्रतिपरमाणुनियतं दर्शनं
प्रमाणम् इति यः अविसंवादः अविप्रतिपत्तिः तस्य हानितः सर्वं दर्शनं न प्रमाणमिति । यदि
वा, दृष्टस्य परमाणुमात्रस्य अप्राप्तेः त1669द्धानितः इति व्याख्येयम् ।


विषदर्शनं सोपहासं व्यतिरेकमुखेन विवृण्वन्नाह--विषम् इत्यादि । विषम् आलोक्य
दर्शनविषयीकृत्य तत्र प्रमाणयति प्रमाणमाचष्टे । किम् ? इत्यत्राह--अज्ञ इव इति । अज्ञो व्याख्यातः
स इव अव्युत्पन्नः अव्युत्पत्तिसंशयविपर्यासः1670सौगत इत्यभिप्रायः । तत्र चोक्तं दूषणम् ।
किं पुनर्न प्रमाणयति ? इत्यत्राह--न पुनः इत्यादि । व्यवसायात्मकं प्रमाणं प्रमाणयति
पुनः ।
कथम्भूतं तत् ? इत्यत्र1671अविसंवादकम् इति । प्रमाणमविसंवादिज्ञानम्
प्र॰ वा॰ १ । ३ इति एवं लक्षयति च अवधारयति च इति हेतोः विपरीतलक्षणप्रज्ञो देवानां
प्रियः ।
यत् प्रमाणं तदविसंवादकं न भवति, ९२ क यच्च अविसंवादकं तत् प्रमाणं न वेत्ति इति
मन्यते । मा भूत् तर्हि विषदर्शनं प्रमाणं व्यवसायात्मकं वा ज्ञानमविसंवादकमपि तु1672दकमपि 1673 तु दर्शनमिति चेत्; अत्राह--सर्वमेव इत्यादि । अनेन शेषमन्वयमुखेन व्याचष्टे--सर्वमेव निरव
शेषमेव दर्शनम् । कथम्भूतम् ? अविकल्पकम् अज्ञस्य संबन्धि । केन प्रकारेण ? कथं प्रत्यक्षं
प्रमाणं न कथं चित् । पुनरपि कथम्भूतम् ? इत्यत्राह--विसंवादकं विसंवादकत्वात् इति
गम्यते यथा सद् अनित्यम् इत्युक्ते सत्त्वादिति । कस्य किमिव तत्तथाविधम् ? इत्यत्राह—
अज्ञस्य विषदर्शनमिव इति । तथा च प्रयोगः--सर्वमेव अविकल्पं दर्शनं न प्रमाणं विसंवाद
कत्वाद् अज्ञस्य विषदर्शनवत् इति यदुक्तं परेण--विवादगोचरमविकल्पं दर्शनं प्रत्यक्षं
प्रमाणम् अविसंवादकत्वात्
इति; तत्र हेतोर्विरुद्धतां दर्शयन्नाह--व्यवसायात्मकस्यैव इत्यादि ।
व्यवसायात्मकस्यैव नान्यस्य इति एवकारार्थः । निगदितं विना अविसंवादकत्वोपपत्तेः ।


ननु यदुक्तं सर्वमेव इत्यादि; तत्र असिद्धो हेतुः; तथाविधदर्शनस्यैव अविसंवादभावा
दिति चेत्; अत्राह--तद् इत्यादि । तस्य व्यवसायात्मनो विज्ञानस्य य इतरः अन्यः तस्य
विसंवादात् । केन कृत्वा ? इत्यत्राह--अव्यवसायात्मकत्वेन अवस्तुनिरंशैकान्तगोचरत्वेन ।


ननु अव्यवसायात्मकं दर्शनं विसंवादकम् अव्यवसायात्मकत्वेन ९२ ख इत्युच्यमाने
अनित्यः शब्दः शब्दत्वात् इत्यादिवत् प्रतिज्ञातार्थैकदेशाऽसिद्धो हेतुरिति चेत्; आस्तां
तावदेतत्, उत्तरत्र अस्य विचारयिष्यमाणत्वात् ।


110

स्यान्मतम्--अविकल्पं दर्शनं यद्यपि क्षणक्षयादौ विसंवादकं1674 तथापि नीलादिसुखादौ संवा
दकमिति भागाऽसिद्धो हेतुरिति । एतदेव प1675रः दर्शयन्नाह--ननु इत्यादि । ननु इति वितर्के । अवि
कल्पं च सुखादिनीलादिनिर्भासिज्ञानम् अविसंवादकम् ।
तत्रोत्तरमाह--न च इत्यादि । न च
नैव तत् सुखादिनीलादिनिर्भासिज्ञानम् अविसंसादकं निर्विकल्पकम् । किं तर्हि तत् ? इत्य
त्राह--अपि तु विकल्पकमेव इति । कुत एतत् ? इत्यत्राह--व्यवसायात्मकत्वात् । वस्तुसत्
सामान्यविशेषात्मकार्थनिर्णयात्मकत्वात् । न चान्यस्य1676 अविसंवादकत्वधर्मः अन्यस्य1677 इति परिक
ल्प्य भागासिद्धता हेतोः परिकल्पयितुं शक्या, अन्यथा क्वचित् शब्दादौ सामान्यादिप्रसिद्धम्
असत्त्वादिकं परिकल्प्य तथा तदपि भागाऽसिद्धम् उद्भावनीयं भवेत् । तद् विकल्पकमिति कुतोऽ
वगम्यते इति चेत् ? अत्राह--तद् इति । तस्य सुखादिनीलादिनिर्भासस्य अविसंवादिनः प्रत्यक्षस्य
निर्विकल्पकत्वे
अङ्गीक्रियमाणे क्षणक्षयादिनिर्भासवत् साधनान्तरमपेक्षते प्रत्यक्षम् इति
विभक्तिपरिणामेन सम्बन्धः । कुत एतत् ? इत्यत्राह--निश्चयादिवत् 1678 सुखादि
९३ क स्वभावस्य प्रत्यक्षेण अनिश्चयादिति । न च तदपेक्षते ततो विकल्पकमेवेति ।


ननु यदि नाम साधनान्तरमपेक्षते अविकल्पकं दर्शनं नैतावता1679 विसंवादकं साधनान्तरानु
ग्रहेण सुतरामविसंवादकत्वसिद्धेः आगमवत् । कल्पनापोढाऽभ्रान्तदर्शनमिति चेत्; अत्राह—
कल्पनापोढम् इत्यादि । कल्पनापोढमभ्रान्तमपि । अपिशब्दः संभावनार्थ उभयत्र सम्बन्ध
नीयः । दर्शनेऽपि तथा च सति स्वार्थ सिद्धिवि॰ १ । २३ इत्यादिना कल्पनायाः
अन्तःस्वलक्षणस्य द्वयनिर्भासप्रतीतेः सिद्धिवि॰ इत्यादिना च विभ्रमस्य व्यवस्था
पितत्वात् दर्शनं विसंवादयत्येव । कुत एतत् ? इत्यत्राह--यथा दर्शनमिति दर्शनाऽनति
क्रमेण यथादर्शनम् निर्णयस्य अयोगात् । यदि यथादर्शनं निर्णयः स्यात् तर्हि तदनुग्रहात्
तदविसंवादकं नितरां भवेदिति युक्तम्, न चैवमस्ति इति मन्यते । नचैत1680न्निर्विकल्पकमविसंवा
दकम् इति । अत्रैव युक्त्यन्तरमाह--विशेष इत्यादि । विशेषाकारेण सजातीयेतरविलक्षणा
कारेण चक्षुरादिबुद्धीन् 1681 अर्थानां सु1682खादिनीलादीनाम् अनवभासनात् कारणात् न
चैतत् निर्विकल्पकमविसंवादकम् इति संबन्धः अपि तु विकल्पकमेव इत्यत्रापि तदाह--सामान्य
इत्यादि । सामान्याकारेण, च शब्दः विशेषाकारेण इत्यस्य समुच्चयार्थः, व्यवसायाऽनिर्णयात्
चक्षुरादिबुद्धौ अर्थानाम्
अपि तु विकल्पकमेव इति पदघटना ९३ ख


ननु अविकल्पकं च सुखादिनीलादिनिर्भासिज्ञानम् अविसंवादकम् इत्यस्य साधिकां
परस्य युक्तिं प्रदर्श्य दूषयन्नाह--यथाप्रतिपत्रभिप्रायम् इत्यादि । प्रमाणस्य लक्षणम् अवि
संवादकत्वम् प्रमाणमविसंवादि ज्ञानम्
प्र॰ वा॰ १ । २ इति वचनात् । कथंभूतं तत् ?
इत्यत्राह--यथाप्रतिपत्रभिप्रायम् दृश्यप्राप्ययोर्नैकत्वम्, अन्यथा दृश्यमेव प्राप्यमेव वा स्यात् ।
तथापि तयोरेकत्वाध्यवसायाद् यदेव दृष्टं तदेव प्राप्तम् इति प्रतिपतॄणाम् अभिप्रायः1683 तस्य
111 अनतिक्रमेण यथाप्रतिपत्रभिप्रायम् न पारमार्थिकम् इत्यभिप्रायः । अथवा, मरीचिकाजलवत्
सत्याभिमतमपि जलं न परमार्थसत्, तथापि अत्र वा1684सनादार्ढ्येन चिरं प्रतिभासानुगमेन सत्य
मेतत् जलम् अर्थक्रियाकारित्वात् नेतरद् विपर्ययात्
इति तेषामभिप्रायः, तस्य अनतिक्रमेण यथा
प्रतिपत्रभिप्रायम् ।
यदि वा, जाग्रद्दशावत् स्वप्नदशानामपि 1685 दृष्टस्य प्राप्तिः अवि
संवादोऽस्ति इति त1686ज्ज्ञानमपि प्रमाणं प्रसक्तम्, तथापि न त1687या जातपरितोषा जन्तवो जायन्ते
इति न सा अर्थप्राप्तिः, जाग्रद्दशायां तु विपर्ययाद् भवति इति तेषामभिप्रायः तस्य अनतिक्रमेण
यथाप्रतिपत्रभिप्रायम् इति । नन्वेवमपि विकल्पकमविसंवादकं प्राप्तम्, तत्रैवास्य सद्भावादिति
चेत् अत्राह--प्रमाणान्तराबाधितविषयम् इति । प्रमाणान्तरेण ९४ क अबाधितो विषयो
यस्य तत् तथोक्तम् प्रमाणलक्षणम् इति । तत् पुनः अविकल्प एव संभवि न विकल्पे, सामान्यादेः
प्रमाणान्तरेण बाधनादिति; तत्र दूषणमाह--अयुक्तम् इति । एतदपि प्रत्यक्षलक्षणमयुक्तम् । कुत
एतत् ? इत्यत्राह--स्वमतव्याघातात् । अन्तर्बहिश्च सर्वं क्षणिकं निरंशम् इति बौद्धस्य स्वम्
अत्मीयं मतं तस्य व्याघातात् । न हि क्षणिका निरंशाः परमाणवो दृष्टाः प्राप्ता वेति प्रतिपतॄणाम
भिप्रायोऽस्ति, यतः तस्य1688 अनतिक्रमेणं त1689ल्लक्षणं युक्तं भवेत् । यदि च यथाप्रतिपत्रभिप्रायं न
पारमार्थिकं तल्लक्षणं कुतः क्षणिकाः सर्वसंस्काराः 1690इत्यादिकस्य नान्योऽनुभाव्यो
बुद्ध्यास्ति
1691इत्यादिकस्य च परमार्थतः सिद्धिः स1692मयान्तरवत् ? प्र1693तिभासाद्वैतस्य निषिद्धत्वात्
निषेत्स्यमानत्वाच्च अनन्तरमेव । प्रमाणान्तराबाधितविषयत्वं च प्रमाणमविकल्पदर्शनमेवेति च
चिन्तितम् ।


उपसंहारमाह--तस्मात् नायम् अविकल्पोऽनुभवः । कथंभूतः ? स्वलक्षणग्राही यथार्थ
निर्भासम्
अर्थनिर्भासाऽनतिक्रमेण व्यवसायपितुं व्यवसायं कर्तुं न समर्थः अविसंवादको नाम
किन्तु विसंवादक एव । ननु न व्यवसायकरणाद् अविसंवादकः अपि तु स्वलक्षणग्रहणात् ।
व्यवसायोऽपि 1694तद्ग्रहणात् नाऽपरः, जात्यादिप्रतिभासस्य इन्द्रियज्ञाने निषेधादिति चेत्; अत्राह—
न च इत्यादि । न च नैव अविकल्पितेन अनिश्चितेन ९४ ख स्वभावेन स्वरूपेण स्वलक्ष
णस्य व्यवस्थापनं युक्तम्
उपपन्नम् । अत्र दृष्टान्तमाह--अद्वैतवत् इति । पुरुषाद्वैतम् इह अद्वैतं
112 गृह्यते न प्रतिभासाद्वैतं तत्र बौद्धस्य विवादाभावात्, तस्य इव तद्वदिति । ननु अद्वैत-स्वलक्षणयोः
अप्रतिभासेतरकृतो विशेषोऽस्ति अतः अद्वैतवत् इत्ययुक्तमिति चेत्; अत्राह--भेदाऽभावात् इति ।
भेदस्य विशेषस्य अभावात् स्वलक्षणस्यापि अप्रतिभासनादिति मन्यते । ततः सूक्तम्--अद्वैतवत्
इति । अथ मतम्--त1695दद्वैतं यदि सुखादिनीलादिप्रतिभासात्मकं तर्हि साकारे सौगतदर्शने पुरुष इति
नाम कृतं भवेत्, अन्यथा अचेतनं नावभासते इत्यसत्, सुखादिनीलादिसत्त्वे च न तदद्वैतम्,
तदसत्त्वे प्रकृतेऽपि तदस्तु इति; तत्रोत्तरमाह--विकल्पानाम् इत्यादि । विकल्पानां सुखादिनी
लादिभेदानां भेदैकान्तेऽपि निरंशस्वलक्षणैकान्तेऽपि न केवलम् अद्वैते निःस्वभावतोपपत्तेः अस
त्त्वोपपत्तेः, अन्यथाप्रतिभासस्य तत्रापि भावादिति भावः, अन्यथा अनेकान्तसिद्धिः इत्युक्तम् ।


इदमपरं व्याख्यानम्--निरंशस्वलक्षणदर्शनानन्तरभाविनां विकल्पानां यथा स्थूलादिदू
रादिभेदा विषयाः तथा निःकलपुरुषदर्शनानन्तरभाविनां तेषां सुखादिनीलादिभेदा विषयाः, तेषां
विकल्पानां भेदैकान्तेऽपि निःस्वभावतोपपत्तेः । स्वः ९५ क आत्मीयः सौगतकल्पि
तो भावः पदार्थः तस्मान्निष्क्रान्तानां भावः तत्र तस्या उपपत्तेः भेदाऽभावादिति सम्बन्धः । ततः
सूक्तम्--अविसंवादकज्ञानं विकल्पकमेव इति ।


भवत्वेवं तथापि न त1696त् प्रत्यक्षम्; मानसत्वेन वैशद्यविरहात्, तथा चोक्तम्—

*न विकल्पानुविद्धस्य स्पष्टार्थप्रतिभासिता ।

स्वप्नेऽपि स्मर्यते स्मार्त्तं न च तत् तादृगर्थदृग् ॥ प्र॰ वा॰ २ । २८३

इति चेत्; अत्राह--न चैतद् इत्यादि ।


न चैतद् व्यवसायात्मप्रत्यक्षं मानसं मतम् ।

प्र1697तिसंख्याऽनिरोध्यत्वादर्थसन्निध्यपेक्षणात् ॥ २५ ॥

न हीदं स्वार्थव्यवसायात्मकं मानसं प्रत्यक्षम्, गवि सन्निहिते मानसीं गोबुद्धिं
विनिवर्त्य तदा अश्वकल्पनायामपि गोरेव विनिश्चयात् । स पुनः निश्चयः विकल्पान्त
रवदर्थसन्निधिं नापेक्षेत । तस्मादिदं स्पष्टं व्यवसायात्मकं ज्ञानं स्वार्थसन्निधानान्वयव्य
तिरेकानुविधायि प्रतिसंख्यानिरोध्यविसंवादकं प्रमाणं युक्तम् ।


एतत् सुखादिनीलादिनिर्भासिज्ञानम् । कथंभूतम् ? व्यवसायात्म निर्णयात्मकं मानसं
मनोनिमित्तम् न च नैव मतम् । कुत एतत् ? इत्यत्राह--प्रत्यक्ष1698 इति । प्रत्यक्षं
विशदम्--इन्द्रियाश्रितं वा यत इदं तन्न मानसमिति । तदाश्रितं च अक्षान्वयव्यतिरेकानुविधायि
त्वात् अन्वादा 1699वभावात् । तथापि मानसत्वे अस्य1700 द्विचन्द्रदिज्ञानस्यापि मानसत्वमिति
व्याहतमेतत्--


*किञ्चेन्द्रियं यदक्षाणां भावाभावानुरोधि चेत् ।

तत्तुल्यम्1701प्र॰ वा॰ २ । २९६ इति ।

113

अत्रैव युक्त्यन्तरमाह--प्रतिसंख्या इत्यादि । प्रतिसंख्य1702या प्रतिविकल्पेन अनिरोध्य
त्वाद्
अनिराक्रियमाणत्वात् । तथा च प्रयोगः--एतद् विवादगोचरापन्नं ज्ञानं न मानसम्,
प्रतिसंख्याऽनिरोध्यत्वात्, यत् पुनर्मानसं न तत् प्रतिसंख्याऽनिरोध्यं यथा गवि सन्निहिते
गौरयम् इति मानसो विकल्पः । पुनरपि तदन्तरमाह--अर्थ इत्यादि । अर्थस्य घटादेः
सन्निधिः योग्यदेशाद्यवस्थानं तदपेक्षणात् ।


कारिकां विवृण्वन्नाह--नहीदम् इत्यादि । इदं विवादा९५ ख स्पदीभूतं ज्ञानम् ।
कथंभूतम् ? स्वार्थव्यवसायात्मकम् । तत्किम् ? मानसम् इति युक्तम् । नहि न खलु । कुत
एतत् ? प्रत्यक्षं विशदम् अक्षाश्रितं वा यतः । इतश्च न मानसम्; इत्याह--गवि इत्यादि । गवि
पशुविशेषे । कथंभूते ? सन्निहिते । गोबुद्धिम् गौरयं महान् शुक्लः दीर्घः अन्यथा वा इत्यादि
परामर्शात्मिकां मानसीं विनिवित्य 1703 तदा तद्विवर्त्तनकाले गोरेव विनिश्चयात् ।
कस्यां सत्याम् ? इत्याह--अश्वकल्पनायामपि न केवलं तदकल्पनायाम् । एतदुक्तं भवति--यद्ययं
स्थिरस्थूलसाधारणाकारे गोनिश्चयः प्रकृतगोबुद्धिवत् मानसः; तर्हि तद्वद् अश्वकल्पनायां विनि
वर्तेत । न चैवम्, तन्न मानसः । विनिश्चयात् इत्यनेन एतद्दर्शयति । 1704तत्कल्पनाकाले गोद
र्शनं यदि अविकल्पकम्; तर्हि क्षणक्षयदर्शनवत् 1705तद्व्यवहारो न भवेत् 1706तद्विकल्पानुत्पत्तेः, युग
पद् विकल्पद्वयानभ्युपगमात् । तस्मात् निश्चयात्मकमिति । एवकारेण पुनः एतत् कथयति—
दर्शनमात्रात् तथा गोव्यवहारे क्षणक्षयादिव्यवहारोऽपि भवेद् विशेषाभावात् । न चैवमिति ।


ननु यदा गोविनिश्चयो न तदा अश्वविकल्पना, जैनस्य युगपद् उपयोगद्वयाऽनुत्पत्तेरिति
चेत्; मानसं सममुपयोगद्वयं युगपन्नेष्यते न इन्द्रियमानसे1707, कथमन्यथा न्या य वि नि श्च ये—
सहभुवो गुणाः 1708इत्यस्य--


*सुखमाह्लादनाकारं विज्ञानं मेयबोधकम् । ९६ क

शक्तिः क्रियानुमेया स्यात् यूनः कान्तासमागमे ॥ 1709इति निदर्शनं स्यात् ?

एतेन अक्षणिकज्ञानलक्षणसमारोपव्यवच्छेदात् क्षणिकानुमानं प्रमाणम् इति निरस्तम्;
अक्षणिकज्ञानस्य समारोपत्वाऽसिद्धेः, अश्वकल्पनायामपि तन्निवृत्त्यसिद्धेः इति । युक्त्यन्तरमाह—
स पुनः इत्यादि । सः अनन्तरोक्तः पुनः इति युक्त्यन्तरसूचकः, निश्चयः गोव्यवसायः विकल्पा
न्तरवद्
ईश्वरादिविकल्पवत् यदि मानसः स्यात् तथा 1710 अर्थस्य सन्निधिं योग्यदेशाद्य
वस्थितिं न अपेक्षेत । अपेक्षते च, तन्न मानसमिति । अनेन अर्थसन्निध्यपेक्षणात् इत्येतत्
व्यतिरेकमुखेन व्याख्यातम् । उपसंहारार्थमाह--तस्मात् इत्यादि । यत एवं तस्माद् इदम्
अनन्तरोक्तम् स्पष्टं विशदं व्यवसायात्मकं ज्ञानम् । कथंभूतम् ? स्वार्थसन्निधानान्वयव्यतिरे
114 कानुविधायि प्रतिसंख्याऽनिरोध्यविसंवादकं प्रत्यक्षं प्रमाणं युक्तम् ।
अथ 1711तस्य स्वार्थसन्नि
धानान्वयव्यतिरेकानुविधायित्वं चेत्; अर्थकार्यता, इति ल धी य स्त्र ये 1712तत्प्रतिषेधो विरुध्यते
इति; तन्न; नोत्पत्तौ 1713तदन्वयव्यतिरेकानुविधायित्वम्, अपि तु व्यापारो 1714, अर्थे सद्ग्रहणे
व्याप्रियते नान्यथा इति आचार्याभिप्रायात् । कुत एतदवगम्यत इति चेत् ? स्वग्रहणात् । नहि
किञ्चित् स्वोत्पत्तौ स्वान्वयव्यतिरेकानुविधायि, विप्रतिषेधात् । ततः सर्वं सुस्थम्


स्यान्मतम्--माभूत्तन्मनसमपि त्वेन्द्रियं तथेन्द्रियं 1715 भ्रान्त
मस्तु । न च ९६ ख इन्द्रियविभ्रमाः प्र1716तिसंख्यानेन निवर्त्यन्ते चन्द्रमेकम् इति भावयतोऽपि
द्विचन्द्रप्रतिभासानिवृत्तेरिति । तत्रोत्तरमाह--तच्चेद् इत्यादि ।


तच्चेदवस्तुविषयमप्रमाणं यतोऽन्यतः ।

निर्णयात्मकत्वात्सिद्धेः अर्थसिद्धेरसंभवात् ॥ २६ ॥

दर्शनसिद्धिप्रतिज्ञायां विप्रतिपत्तिविषयस्य साधनान्तरप्रतीक्षस्य सिद्धेरनुपपत्तेः ।
अधिगतिरित्यपि निर्णीतिरेव । तथा च अनिश्चितार्थनिश्चयेन अविसंवादकं ज्ञानं स्पष्टप्रति
भासमन्यद्वा प्रमाणं नापरम् । ततो व्यवसाय एव अविसंवादनियमोऽधिगमश्च निश्चेतव्यः
तत्रैव तद्भावात्, तद्वशादेव तत्प्रतिष्ठानात् ।


तद् अनन्तरोक्तं चेत् यदि अप्रमाणम् । कुत एतत् ? अवस्तुविषयं यतः ।
सामान्यविशेषात्मकतत्त्वम् अवस्तु विषयो यस्य तत् तथोक्तम् । किं तर्हि प्रमाणम् ? न किञ्चिद्
इत्यर्थः । अविकल्पकं दर्शनम् इति चेत्; अत्राह--अन्यतः इत्यादि । अन्यतः मिथ्यै
कान्तवादिकल्पितात् प्रमाणाद् अर्थसिद्धिः 1717 अत्यन्तम् असंभवात् । ननु सिद्धिः
अधिगतिमात्रं त1718तोऽपि संभवति इति चेत्; अत्राह--सिद्धेः निर्णयात्मकत्वात् ।


अस्याऽनभ्युपगमे दूषणमाह--दर्शन इत्यादि । दर्शनम् अर्थसाक्षात्करणं निरंशादर्थात्
तदाकारात्मलाभ इति यावत्, तदेव सिद्धिः इति या सौगतस्य प्रतिज्ञा तस्यां च क्रियमाणायां
सिद्धेः ज्ञप्तेः अनुपपत्तेः दर्शनस्य, सिद्धेः निर्णयात्मकत्वम् इति । कथंभूतस्य ? विप्रतिपत्ति
विषयस्य ।
पुनरपि कथंभूतस्य ? साधनान्तरप्रतीक्षस्य साधनान्तरे प्रतीक्षा यस्य इति । अनेन
दर्शनाऽभावात् तत्सिद्धिः इत्युक्तं भवति ।


यत्पुनरेतत्--अधिगतिस्तत्फलम् इति1719; तद् अर्थतो निराकृतम्, शब्दतो निराकुर्व
न्नाह--अधिगतिः इत्यपि न केवलमन्या अपि तु अधिगतिरित्यपि या सिद्धिः परस्य1720 सापि
निर्णीतिरेव । निर्णीतिपर्यायः अधिगतिशब्दः इति मन्यते । ततः किं जातम् ? इत्याह--तथा च
इत्यादि । तथा च तेन च प्रकारेण अनिश्चितस्य अर्थस्य यो निश्चयः न दर्शनमात्रम्, तेन
अविसंवादकं ज्ञानं स्पष्टप्रतिभासम् अन्यद्वाऽस्पष्टप्रतिभासं प्रमाणं नापरम् इति युक्तं पश्यामः ।


115

उपसंहारार्थमाह--तत इत्यादि । यत एवं ततो व्यवसाय एव निर्णये एव अविसंवाद
नियमः अधिगमः
स्वार्थग्रहणं च निश्चेतव्यः । कुत एतत् ? इत्यत्राह--तत्रैव व्यवसाय एव
अन्तयोः 1721 अविसंवादनियम-अधिगमयोः भावात् । एतदपि कुतः ? इत्यत्राह—
तद्वशादेव व्यवसायादेव तत्प्रतिष्ठानात् तयोः प्रतिष्ठानात् ।


एवं व्यवसायात्मकमविसंवादिज्ञानं प्रमाणं व्यवस्थाप्य साम्प्रतं ततः प्रवृत्तिक्रमं दर्शयति
अनागतमर्थं च सूत्रयति--अक्षज्ञानैः इत्यादिना ।


अक्षज्ञानैरनुस्मृत्य प्रत्यभिज्ञाय चिन्तयन् ।

आभिमुख्येन तद्भेदान् विनिश्चित्य प्रवर्तते1722 ॥ २७ ॥

स्पर्शनरसनघ्राणचक्षुःश्रोत्रमनांसि इन्द्रियाणि । तैः स्वविषयग्रहणम् अवग्रहाद्यात्मि
का मतिः बहुबहुविधक्षिप्रानिःसृतानुक्तध्रुवाणां सेतरप्रकाराणाम् । अत एवानेकान्तसिद्धिः ।
नहि संवित्तेः बहुबहुविधप्रभृत्याकृतयः स्वयमसंविदिता एवोदयन्ते व्ययन्ते वा यतः
सत्योऽप्यनुपलक्षिताः स्युः कल्पनावत् तथेतराकृतयः । स्वलक्षणसामान्यलक्षणैकान्ते
पुनः संवेदनाकृतीः न पश्यामः तथैवापश्यन्तः कथमात्मानमेव विप्रलभामहे । तदेवं पर
मार्थतः सिद्धिः अनेकान्तात् । मन्यते मननं वा इति मतिः, स्मरणं स्मृतिः, संज्ञानं संज्ञा,
चिन्तनं चिन्ता, अभिनिबोधनमभिनिबोध इति
तथामनन्ति त त्त्वा र्थ सू त्र का राः—
मतिः स्मृतिः संज्ञाचिन्ताभिनिबोध इत्यनर्थान्तरम् त॰ सू॰ १ । १३ इति । मति
स्मृत्यादयः शब्दयोजनामन्तरेण न भवन्तीत्येकान्तो न यतस्तत्रान्तर्भाव्येरन् । तदेकान्ते
पुनः न क्वचित् स्युः तन्नामस्मृतेरयोगात् अनवस्थानादेः


अतो निबन्धनस्थानाद् वाक्यान्तराणि उपप्लवन्ते--अक्षज्ञानैः तद्भेदान् विनिश्चित्य
प्रवर्तते
इत्येकं वाक्यम्, अनुस्मृत्य तद्भेदान् प्रवर्तते इति द्वितीयम्, प्रत्यभिज्ञाय
तद्भेदान् प्रवर्तते
इति तृतीयम्, चिन्तयन् वितर्कयन् तद्भेदान् प्रवर्तते इति चतु
र्थम्, आभिमुख्येन तद्भेदान् विनिश्चत्य प्रवर्तते इति पञ्चमम्, चिन्तयन्नाभिमु
ख्येन तद्भेदान्विनिश्चित्य प्रवर्तते
इति षष्ठं समुदितम् । तत्र अक्षाणि चक्षुरादीनि इन्द्रि
याणि तेषां कार्यभूतैः ज्ञानैः तद्भेदान् हिताहितार्थविशेषान् विनिश्चित्य प्रवर्तते पुरुषः ।
अयं च प्रवृत्तिक्रमः अभ्यासदशायां द्रष्टव्यः । नहि तस्यां प्रवर्त्तमानो नियमेन सजातीयानुस्मरणा
दिकमपेक्षते जनः तथाऽप्रतीतेः ९७ ख अमुमेवार्थमाश्रित्य अभ्यासे भाविनि प्रवर्त्तक
त्वात् प्रत्यक्षं प्रमाणम्
इति1723 । तत्सर्वं युक्तम्, इदं तु अयुक्तम् प्र ज्ञा क र गु प्ते नोक्तम्—
भाविनि इति; दाहादिकारणे पावकादौ लोकस्य प्रवृत्तिदर्शनात् । दाहाद्यदर्शने कथं तत्
तत्कारणम्
इति प्रतीयते इति चेत् ? अभ्यासात् किन्न जायते ? स्वयं च 1724व्यवहारमाश्रित्य
116 ततोऽप्रतिपन्नमपि प्रत्यक्षेण भावि प्रतिपन्नमिच्छन् तमेव1725 आश्रित्य वर्त्तमानं तत्कारणं प्रत्यक्ष
मिच्छन्तं न सहते इति प्राकृतबुद्धिः ।


अथवा, यदुक्तम्--गवि सन्निहिते गोबुद्धिं विनिवर्त्त्य तदा अश्वकल्पनायामपि गोरेव
विनिश्चियात्
इति; तत्र प्रवृत्तौ 1726इदं वाक्यम्, तत्र अनुस्मृत्यादेर्विरोधात् । अनुस्मृत्य तद्भेदान्
प्रवर्तते
1727
पूर्वव्यवस्थापितनिक्षेपादिषु प्रवृत्त्यर्थम् । प्रत्यभिज्ञाय तद्भेदान् तु प्रवर्तते
इत्येतत् पुनः तदेवेदं तेन सदृशम् इति वा अनुसन्धानमात्रेण प्रवृत्तौ । चिन्तयन् तद्भे
दान् प्रवर्तते
इतीदम् अदृश्यमेरुमकार1728वाडवाग्निविवेकविनिश्चयेन देशाद्य
न्तरवृत्तौ । आभिमुख्येन तद्भेदान् विनिश्चित्य प्रवर्तते इत्येतत् अकस्माद् धूमदर्श
नात् पावकोऽत्र
इति प्रवृत्तौ । चिन्तयन् आभिमुख्येन तद्भेदान् विनिश्चित्य प्रवर्तते
इत्येतत् अनित्यः शब्दः श्रावणत्वात् इत्याद्यनुमानात् प्रवृत्तौ । समुदितं तु वाक्यम् वह्नि
रत्र, धूमात्, यत्र यत्र धूमः तत्र तत्र वह्निः यथा महानसादौ, धूमश्चात्र
इत्येवमाद्यनुमानात्
प्रवृत्तौ । तत्र अक्षज्ञानैः ९८ क पूर्वमनयोः सम्बन्धे गृहीते सति पुनस्तैरेव क्वचित् धूमे विषयी
कृते पूर्वसंस्कारप्रबोधः, ततः स्मृतिः, तस्याः प्रत्यभिज्ञा, पुनः तर्कः, अतोऽनुमानं ततः प्रवृ
त्तिरिति ।


कारिकां विवृण्वन्नाह--स्पर्शन इत्यादि । स्पर्शनरसनघ्राणचक्षुःश्रोत्रमनांसि । किम् ?
इन्द्रियाणि । मनः सर्वज्ञसिद्धौ निरूपयिष्यते । तैः स्पर्शनादिभिः का1729रणभूतैः स्वविषयाणां
स्पर्शादीनां ग्रहणं तद्ग्राहकं यज्जन्यते ज्ञानम् । तत् किं नाम ? इत्यत्राह--मितिः इति । 1730 किमात्मिका सा ? इत्यत्राह--अवग्रह इत्यादि । 1731अवग्रहादयो वक्ष्यमाणकाः तदात्मि
का
इति । केषां सा ? इत्यत्राह--बहु 1732इत्यादि । बहु च युगपत् समानजातीयानां बहूनां ग्रहणम्,
बहुविधं च भिन्नजातीयानाम्, क्षिप्रं च झटिति, अनिःसृतं च आलोकाद्यनपेम 1733 अनुक्तं
च पानकादौ गुडादिरसविशेषस्य अकथितं च । ध्रुवं च दृढतया कालान्तरस्मरणकारणम् तेषाम् ।
कथंभूतानाम् ? सेतरप्रकाराणाम् सह इतरप्रकारैः अबह्वादिभिः वर्तमानानाम् । तथा च सति
किं सिद्धम् ? इत्यत्राह--अत एव इत्यादि । यत एव तैः स्वविषयाणां ग्रहणमेवंविधम्, अत एव
अनेकान्तसिद्धिः ।


ननु आगमादेव केवलात् सर्वमेतत् सिद्धं नान्यतः अनुपलक्षणात्, ततो भवत आ1734गमि
कत्वमिति चेत्; अत्राह--नहि इत्यादि । नहि संवित्तेः इन्द्रियमतेः सम्बन्धिन्यः बहुबहुविध
प्रभृत्याकृतयः स्वयम्
आत्मना असंविदिता एव अज्ञाता एव उदयन्त उत्पद्यन्ते ९८ ख
व्ययन्ते विनश्यन्ति वा यतो यस्माद् असंविदितोदयव्ययात् सत्योऽपि अनुपलक्षिताः स्युः ।
अत्र प1735रप्रसिद्धं दृष्टान्तमाह कल्पनावत् इति । यथा नहि इमाः कल्पनाः 1736इत्यादि वचनात्
117 ईश्वरादिकल्पना नाऽनुपलक्षिताः उदयन्ते व्ययन्ते च तथा प्रकृता अपि इति । तथा तेनैव
प्रकारेण इतराकृतयः अबह्वाद्याकृतयः न सत्योऽपि अनुपलक्षिता उदयन्ते व्ययन्ते वा इति ।
तर्हि तथैव स्वलक्षणसंवेदनाकृतयः सामान्यसंवेदनाकृतय एव वा स्वयं स्वसंविदिता एव उद
यन्ते व्ययन्ते चेति चेत्; अत्राह--स्वलक्षण इत्यादि । स्वलक्षणंसामान्यलक्षणं च ते एव
एकान्तौ तयोः संवेदनाकृतीः पुनः न पश्यामः । चर्चितं चैतत् । तथापि ताः सत्यः कल्प्य
ता1737मिति चेत्; अत्राह--तथैव इत्यादि । तथैव परपरिकल्पितप्रकारेणैव अपश्यत्तत
1738 कथं कल्पनया
स्वलक्षणसामान्यलक्षणैकान्ते संवेदनाकृतिकल्पनया आत्मानमेव
विप्रलभामहे
वञ्चयामः ।


उपसंहारमाह--तदेवम् इत्यादिना । तत्त गोत् 1739 एवम् उक्तप्रकारेण पर
मार्थतः सिद्धिः
सर्वभावानां निष्पत्तिः प्रतिपत्तिर्वा अनेकान्ताद् अनेकान्तमाश्रित्य ।


मत्यादीनां निरुक्तिं दर्शयन्नाह--मन्यते इत्यादि1740 । सुगमम् । त त्त्वा र्थ सू त्र का रे
ण सहात्मनः एवाक्यतां दर्शयन्नाह--तथा इत्यादि । तथा उक्तप्रकारेण आमनन्ति
त त्त्वा र्थ सू त्र का राः । कथम् ? ९९ क इत्याह--मतिः स्मृतिः संज्ञा चिन्ताभिनिबोध
इत्यनर्थान्तरम्
त॰ सू॰ १ । १३ इत्येवम् । सर्वसूत्राणां सोपस्कारत्वात् अत्र प्रवर्त्तकः
इत्यध्याहार्यम् । इति शब्दः स्वसूत्रे वाक्यान्तरसमाप्त्यर्थः । ततोऽयमर्थो जायते--मतिः प्रव
र्तिका
इति, स्मृतिः प्रवर्तिका इति, संज्ञा प्रवर्तिका इति, चिन्ता प्रवर्तिका इति, अभिनिबोधः
प्रवर्तकः, चिन्ताभिनिबोधः प्रवर्तकः, मतिः स्मृतिः संज्ञा चिन्ताऽभिनिबोधः प्रवर्तकः इति च ।


ननु च एतन्मत्यादिकमन्योन्यं भिन्नमभिन्नं वा ? उभयथापि स्वलक्षण इत्यादि विरुध्यते
इति चेत्; अत्राह--अनर्थान्तरम् इति । ईषदर्थे नत 1741 प्रवर्तते । ईषत् कथञ्चिद् अर्था
न्तरम् अनर्थान्तरमिति । उक्तं ल घी य स्त्र ये--प्रमाणफलयोः