174

तृतीयः प्रस्तावः


३. प्रमाणान्तरसिद्धिः


एवं प्रस्तावद्वयेन सविकल्पमध्यक्षं प्रमाणं प्रसाध्य अधुना स्मरणप्रत्यभिज्ञानोहानां प्रामा
ण्यमविसंवादिनां व्यवस्थापयितुकामः तत्स्वरूपाविसंवादनिबन्धनं प्रस्तुतप्रस्तावद्वयार्थं स्मरन्नाह
प्रस्तावादौ सम्यग् इत्यादि वृत्तम् ।


सम्यक् सामान्यसंवित् व्यभिचरति न वै सत्स्वभावं परस्मात्,

चित्तं निर्णेतुमनलं स्वमपगतं सिद्धसाध्यैकरूपम् ।

संभाव्यार्थाकारविरहं तदपि विरहितं चित्रमेकं यदीयुः,

चित्राभं द्रव्यमेकं बहिरनुगमयत् तत्स्वतः पर्ययैस्तैः ॥ १ ॥

2417अर्थः--सौगतानुसारेण स्मरणादिसंवित् सामान्यसंवित् इत्युक्तम्, 2418तत्र तस्या एव
सामान्यसंवित्त्वात् । सा किम् ? इत्याह--सम्यग् इति । सम्यग् अविसंवादिनी सती वा
काचित् इत्यपेक्षम् । अत्र युक्ति 2419 व्यभिचरति इत्यादिकामाह--चित्तं ज्ञानं व्यभि
चरति
१४५ ख जहाति नवै नैव सत्स्वभावत2420 अर्थात्मनोः विद्यमानं स्वरूपम्,
क्वचित् प्लुतौ 2421 लौकिकशास्त्रीयविभ्रमे यदि विभ्रमेतररूपमेकं ज्ञानं चेदित्यर्थः । तदेव
निर्णेतुं निश्चेतुं स्वम् आत्मानम्, उपलक्षणमेतत् तेन परं च गृह्यते, अनलसमर्थम् ।
कथंभूतम् ? अपगत 2422 व्यावृत्तम् । कुतः ? परस्माद् अन्यस्मात् सजातीयाद्
विजातीयाच्च गतम् इति वचनात्, अन्यथा तं निर्णेतुं समर्थमिति गम्यते, यदि
स्वविषये निर्णयजननेतरस्वभाववदित्यर्थः । तदेव च यदि सिद्धसाध्यैकरूपं सिद्धं निश्चितं
सदादिसाध्यं फलानुमेयं स्वर्गादिप्रापणादिकम् एकं रूपं यस्य तत्तथोक्तं दृश्येतररूपमेकं चेदिति
मन्यते । व्यवहारापेक्षया उक्तम् ।


यः पुनर्मन्यते ध र्मो त्त रः--स्थवीयान् एको ग्राह्याकारो मिथ्या विचार्यमाणस्य
अयोगात्, ततो व्यतिरिक्तं निरंशं संविन्मात्रं परमार्थसत् ।
इति; तत्राह--संभाव्य
इत्यादि । संभाव्यः अर्थाकारविरहः आलोक्यः सदादिभेदो यस्य तत्तथोक्तं चित्तमेकं
यदि
इति ।


योवि 2423 मन्यते प्र ज्ञा क र गुप्तः2424--न नीलादिसुखादिशरीरव्यतिरिक्तं
संवेदनमस्ति अनुपलम्भात्
प्र॰ वार्तिकाल॰ तदेव चित्रमेकं ज्ञानम् चित्रप्रतिभा
साऽपि
प्र॰ वार्तिकाल॰ ३ । २२० 2425इत्यादि वचनात् । तं प्रत्याह--विचित्र इत्यादि ।
175 नीलादिर्ग्राह्यादृश्याकारैः 2426 चित्रा सदला 2427 भा प्रतीतिर्यस्य
तत्तथोक्तम्, चित्रमेकं यदि तदपि न विरहितम् १४६ क किन्तु सहितम् । कैः ?
पर्यायैः 2428 क्रमपरिणामैः एकम् अभिन्नम् उक्तन्यायेन ईयुः सौगताः अवगच्छेयुः यदि
इत्यनेनैतद्दर्शयति । तदनवगमे सकलशून्यता स्यादिति तदवगन्तव्यमिति । ततो निराकृतमेतत्
यदुक्तं परेण--अनुभूते स्मरणम् इत्येतन्नानुभवेन ज्ञायते तेन2429 स्मरणाऽविषयीकरणे,2430
नानेन2431 अनुभवस्यापरिच्छेदात् ।
इत्यादि2432तद् इदम् इति स्मरणप्रत्यक्षे लेखक 2433 व्यतिरेकेण नापरं 2434प्रत्यभिज्ञानम्, 2435तदभावे न तर्कोऽपि इति कथमुक्तम् प्रतिपत्त्या बाध
नात्
? किं कारयत् तत्तथा यदि ? इत्याह--बहिः इत्यादि । बहिः स्वतः अन्यत्र अनुगम
यतु2436
ज्ञापयतु2437 । किम् ? इत्याह--द्रव्य इत्यादि । यथैव हि तदेकं चित्राह 2438
मात्मानं बिभर्त्ति तथैव तथाविधं बहिर्गमयति । तथा च यदुक्तं परेण2439--स्मरणविषयस्य क्षणिक
त्वेन नाशात् प्रत्यभिज्ञागोचरस्य अभावात् प्रवृत्तौ प्राप्तिर्यतः तदविसंवादः
इति;
तदनेन निरस्तम् । ततः स्थितम्--यदि 2440तथाविधं चित्तं तर्हि सम्यक् सामान्यसंविदिति ।


तदेवं स्मरणादेः अविसंवादे सिद्धे यदपरं सिद्धं तद्दर्शयन्नाह--प्रमाणम् इत्यादि ।


2441प्रमाणमविसंवादात् मिथ्या तद्विपर्ययात् ।

गृहीतग्रहणान्नो चेन्न प्रयोजनभेदतः ॥ २ ॥

प्रत्यक्षस्यापि प्रामाण्यमविसंवादात् नपुनरर्थाकारानुकारितया अतिप्रसङ्गात् । स
पुनरनुभूतस्मृतेर्यदि स्यात् प्रामाण्यं लक्षयति । सविकल्पेऽनधिगतार्थव्यवसायाभावादयुक्त
मिति चेत्; न; प्रयोजनविशेषात्, क्वचित् सदृशाकारभेदविशेषाणामुत्तरोत्तरपर्यायविशेष
साध्यार्थक्रियावाञ्छायां तथैव प्रामाण्याविरोधात् । अन्यथा कालादिभेदेन अनधिगता
र्थाधिगतेरपि प्रमाणतानभ्युपगमात् ।


प्रमाणं स्मृतिः । कुतः ? अविसंवादात् । मिथ्या अप्रमाणं स्मृतिः इति सम्बन्धः ।
कुतः ? तद् विपर्ययात् । विसंवादात् । प्रत्यक्षतदाभासवत् इति निदर्शनमत्र
176 वक्तव्यम् । ननु नाविसंवाद एव प्रमाणलक्षणं येनैवं स्यात्, अपि तु 2442अज्ञातार्थप्रकाशोऽपि ।
स्मृतौ त2443दभावात् न प्रमाणं सेति; तदाह--2444गृहीतग्रहणात् । गृहीतस्य दर्शनेन विषयीकृतस्य
ग्रहणात् स्मृत्या विषयीकरणात् कारणात् नोचेत् यदि स्मृतिः प्रमाणम् । अत्रोत्तरमाह--
इत्यादि । यदुक्तं परेण तन्न । कुतः ? प्रयोजनभेदतः । प्रमाणस्य हि प्रयोजनं फलम्--अज्ञान
निवृत्तिः प्रवृत्तिश्च, तस्य भेदात्, प्रत्यक्षप्रयोजनात् स्मृतिप्रयोजनस्य विशेषात् । ततः यथैव हि
प्राक् प्रवृत्तम् आत्मनोऽज्ञानम् अध्यक्षं निवर्त्तयति पुनः स्वगोचरे प्रवर्त्तयति जनं तथा स्मृतिरपि
विशेषाऽभावात् ।


ननु यदुक्तम्--स्मृतिः प्रमाणम् अविसंवादात् प्रत्यक्षवत् इति; तन्न सारम्; दृष्टान्ते
अर्थसारूप्यात् प्रामाण्यसिद्धेः स्मृतौ 2445तदभावादिति चेत्; अत्राह--प्रत्यक्षस्यापि इत्यादि ।
न केवलमन्यस्य किन्तु प्रत्यक्षस्यापि प्रामाण्यम् अविसंवादात् न पुनः अर्थाकारानुकारितया ।
कुत एतत् ? इत्याह--अतिप्रसङ्गात् । भवतु अविसंवादात् 2446तस्य तदिति चेत्; अत्राह--स पुनः
इत्यादि । सः अविसंवादः पुनः अनुभूतस्य अर्थस्य स्मृतेः यदि स्याद् भवेत् प्रामाण्यं
लक्षयति
तत्स्मृतेः इति । दूषयितुं परमतमाशङ्कते--सविकल्प इत्यादिना । सविकल्पे सविक
ल्पकप्रत्यक्षपक्षे स्मृतेः अनधिगतार्थव्यवसायाभावाद् अयुक्तं प्रामाण्यम् । अनेन एतद्दर्शयति—
2447परः--यथा मम अनिश्चितार्थनिश्चयात् समारोपव्यवच्छेदाद्वा अनुभूतार्थमनित्यत्वाद्यनुमानम्2448,
नैवं स्मृतिर्विपर्ययात्2449 निश्चिते तदयोगात्2450 इति एवं चेत्; अत्राह-- इत्यादि । यदुक्तं परेण
तन्न । कुतः ? प्रयोजनविशेषात् । स च निगदितः । अत्र परेण सह एकवाक्यतामात्मनो
दर्शयन्नाह--क्वचिद् इत्यादि । क्वचित् सूभ्रादौ 2451 सदृशाकाराणां १४७ क प्रत्य
क्षाणां ये भेदा धारावाभि2452विशेषाः तेषाम् उत्तरोत्तरपर्यायविशेषसाध्यार्थक्रिया
वाञ्छायां तथैव
प्रयोजनविशेषप्रकारेणैव प्रामाण्याऽविरोधात् प्रयोजनविशेषात् स्मृतेः प्रामाण्यं
युक्तमिति । कुत एतत् ? इत्यत्राह--कालादिभेदेन आदिशब्दात् क्षेत्रादिपरिग्रहः, अन्यथा
अन्येन प्रयोजनविशेषाभावप्रकारेण अनधिगतार्थाधिगतेरपि अगृहीतार्थग्रहणादपि न केवलम्
अन्यतः तद्विशेषाणां प्रमाणताऽनभ्युपगमात् सौगतेन यथा जलप्राप्त्येकार्थक्रियावाञ्छायाम्
अवान्तरदर्शनविशेषाणाम्, इतरथा जलाध्यवसायकारणं मरीचिकादर्शनं तद्वत् प्रमाणं भवेत् ।


यदि पुनरयं निर्बन्धः गृहीतग्रहणान्न स्मृतिः प्रमाणं तर्हि तत एव तद्वत्2453 सकलमनु
मानमपि प्रमाणं न स्यादिति दर्शयन्नाह--साकल्येन आदितो व्याप्तिः इत्यादि ।


साकल्येनादितो व्याप्तिः पूर्वं चेल्लिङ्गलिङ्गिनोः ।

अनुमेयस्मृतिः सिद्धा न प्रमाणं विशेषवत् ॥ ३ ॥

177

यावान् कश्चिद् धूमवान् प्रदेशः स सर्वोऽपि अग्निमानिति व्याप्तावसिद्धायाम्
अनुमेयप्रतिपत्त्यनुपपत्तेः । सिद्धौ एवमनुमानं स्मृत्यन्तरान्न विशेष्येत । ततो लिङ्गलिङ्गि
ज्ञानयोः प्रमाणेतरव्यवस्था व्यतिकीर्येत । स्वयमनुभूताद् व्यतिरेके पुनरनवयवेन व्याप्ति
सिद्धेरयोगात् । सामान्यविषया व्याप्तिः तद्विशिष्टानुमितेः इति चेत्; पूर्वानुभूतस्मृतेरपि
तथाविधविशेषानिराकरणात् यत्किञ्चिदेतत् ।


साकल्येन सामस्त्येन आदितः आदौ सकलानुमानप्रवृत्तेः पूर्वं सिद्धा निश्चिता
व्याप्तिः अविनाभावः चेत् । कयोः ? लिङ्गलिङ्गिनोः । अनुमेयस्मृतिः अनुमानं
स्यात् प्रमाणं साकल्येन
इत्येतदत्रापि सम्बन्धनीयम् । अत्र दृष्टान्तमाह--विशेषवदिति
अननुमानस्मृतिवदिति ।


यावान् इत्यादिना कारिकार्थमाह--यावान् कश्चिद् धूमवान् प्रदेशः, उपलक्षणमेतत्
धानु 2454 कालोऽपि गृह्यते प्रदेशादिः सर्वोऽपि न केवलं कश्चिदेव अग्निमान् इत्येवं व्याप्तौ
असिद्धायां
सत्यां अनुमेयस्य अप्रसिद्धस्य या प्रतिपत्तिः तस्या अनुपपत्तेः अनुमान 2455 स्मृत्यन्तराद् अलिङ्गजात् स्मरणात् न विशेष्येत न भिद्येत । एतदुक्तं भवति--यथा अननुभूते
न स्मृत्यन्तरम् १४७ ख अतिप्रसङ्गात् तथा व्याप्यत्वेनानिश्चितात् लिङ्गात् 2456व्यापकत्वेना
निश्चितस्यानुमेयस्य प्रतिपत्तिरपि न युक्ता, अन्यथा भूमिगृहवर्धितस्य2457 अकस्माद् धूमदर्शनाद्
अग्निप्रतिपत्तिः स्यात् । तवैवं 2458 व्यापकत्वेनागृहीतस्य2459 ततः प्रतिपत्तिसंभावना,
अनुमानस्य स्मृतिविशेषत्वात् अत एवोक्तम्--स्मृत्यन्तरात् इति, ततः तदसत्त्वेन न विशेष्येत
इति मन्यते । तथा यावान् कश्चिद्भावः स सर्वः क्षणिक एव इत्येवं 2460तस्यमसिद्धायां सर्वं
वाच्यम् । तस्यां सिद्धायां को दोष इति चेत् ? अत्राह--सिद्धौ इति । सिद्धौ निश्चये एवं
व्याप्तेः इति विभक्तिपरिणामेन सम्बन्धः, अनुमानं स्मृत्यन्तरात् न विशेष्येत । कुत एतत् ?
इत्याह--अनुमेय इत्यादि । 2461साध्यं शक्यमभिप्रेतमप्रसिद्धमनुमेयम् इति, तस्य या प्रतिपत्तिः
तस्याः अनुपपत्तेः व्याप्तिज्ञानेन 2462तस्य निश्चये तदयोगात् । तथा च त्रिरूपाल्लिङ्गाद् यदनु
मेये ज्ञानं तदनुमानम्
न्यायबि॰ २ । ३ इति वचनमात्रम्; सिद्धसाध्यविषयत्वेन तस्य
प्रमाणाभासतेति मन्यते । अनुमानग्रहणमपि उपलक्षणम्, तेन उत्तरप्रदेशादिप्रत्यक्षमपि 2463ततो न
विशेष्येत व्याप्तिज्ञानेन प्रदेशादेरपि ग्रहणात्, इतरथा 2464 सर्वोऽपि अग्निमान् इति प्रतिपत्तेर
योगात्, व्याप्याप्रतिपत्तौ व्यापकाप्रतिपत्तिवत् आधाराप्रतिपत्तौ आधेयप्रतिपत्तिरपि नास्ति,
एवमर्थं च प्रदेशग्रहणम्, अन्यथा यावान् कश्चिद् धूमः इति ब्रूयात् । न च 2465भावक्षणिकत्व
व्यतिरेकेण अपरं यत्त 2466 ज्ञानेनागृहीतम् उत्तराध्यक्षेण गृह्यते । तत एव न तद्व्याप्ति
सिद्धिः । नाप्यनुमानमिष्यते इति १४८ क प्र ज्ञा क र गु प्तः 2467 कथं द्वे एव प्रमाणे
प्र॰ वार्तिकाल॰ ३ । ६२ इत्युक्तम् ? व्यवहारेणेति चेत्; तेनैव2468 तर्हि यथा व्याप्तिज्ञानेन गृहीते
178 अनुमानं प्रमाणं तथा प्रत्यक्षानुभूते स्मृतेः2469 इति द्वे एव प्रमाणे प्र॰ वार्तिकाल॰ इति
मिथ्यावचः । व्यवहारे च प्रमाणमन्तरेण व्याप्तिसिद्धौ किमन्यत्रापि 2470तदन्वेषणेन इति स एव
दोषो मिथ्या तद्वच2471 इति । 2472प्रतिभासाद्वैतादेश्च प्रतिषेधात् अत्रैव तेन स्थातव्यम् ।


2473तस्य 2474ततोऽविशेषे किं जातम् ? इत्याह--तत इत्यादि । ततः तस्य ततोऽविशेषात्
प्रमाणेतरव्यवस्था व्यतिकीर्येत । कयोः ? इत्याह--लिङ्गलिङ्गिज्ञानयोः लिङ्गज्ञाने व्याप्तिज्ञाने
प्रमाणव्यवस्था लिङ्गिज्ञाने अनुमानज्ञाने 2475इतरव्यवस्था स्यात् । विपर्ययश्चेष्यते परेण । अथ
लिङ्गज्ञानविषयाद् अन्यत्र लिङ्ग2476ज्ञानस्य2477 वृत्तिरिष्यते ततोऽयमदोषः; तत्राह--स्वयम्
इत्यादि । स्वयम् आत्मना अनुभूतात् व्याप्तिज्ञानेन विषयीकृतात् व्यतिरेको 2478 लिङ्गिज्ञान
विज्ञानविषयस्य भेदे अङ्गीक्रियमाणे पुनः अनवयवेन साकल्येन व्याप्तिसिद्धेरयोगात् सा2479
व्यतिकीर्येत इति सम्बन्धः । 2480तदनुभूते तद्वैफल्यम्, अन्यत्र तदप्रवृत्तिः इति मन्यते ।


सामान्य इत्यादि अ र्च ट 2481मतं दूषयितुं शङ्कते--देशादिविशेषणरहितेन अग्निना तथा
भूतस्य धूमस्य व्याप्तिसिद्धिः सामान्यविषया व्याप्तिः इत्युच्यते, विशेषेण पक्षधर्मताबलाद्
देशादिविशेषेण तद्भेदेन विशिष्टस्य तैः अनुमितेः इति चेत्; अत्रोत्तरमाह--पूर्वानुभूत इत्यादि ।
पूर्वं यदनुभूतं तस्य या स्मृतिः तस्या अपि न केवलम् अनुमितेरेव १४८ ख तथाविधस्य
अनुमितौ कल्पितस्य विशेषस्य निराकरणात् कारणात् यत्किञ्चिदेतत् न किञ्चिदेतदि
त्यर्थः । तथाहि--देशादि विशेषणरहितस्य अनुभूतस्य तत्सहितस्य पुनः स्मरणे न बाधकं
पश्यामः । कथं तथाननुभूतस्य तथा स्मरणम् अतिप्रसङ्गादिति चेत् ? कथं तथाविधस्य व्याप्ति
ज्ञानेनाविषयीकृतस्य अनुमितिः अतिप्रसङ्गात् इति समानात्मत्व 2482 पक्षधर्म
ताग्रहणस्य 2484प्रकृते क्षयोपशमस्य बलमिति न विशेषः । दृश्यते हि केनचिद् विशेषेण रहितस्य
व्याख्यातुः प्रघट्टकस्य ग्रहणेऽपि पुनः स्मर्तृविशेषात् तद्विशिष्टस्य स्मरणम् । अत एव 2485तदनिरा
करणात् इत्युक्तम् ।


एतेन यदुक्तं मीमांसकेन--


*तत्रापूर्वार्थविज्ञानं निश्चितं बाधवर्जितम् ।

अदुष्टकारणारब्धं प्रमाणं लोकसम्मतम् ॥ 2486इति;

तन्निरस्तम्; पूर्वानुभूतस्मरणेऽपि 2487अस्य अनुमानवद् भावात् सप्तमप्रमाणप्रसङ्गात् ।


अधुना नैयायिको भूत्वा सूरिः सामान्यविषया व्याप्तिः विशेषेण अनुमितिः
इति 2488वदन्तं प्रमाणान्तरमन्यदापादयितुमाह--तदेवम् इत्यादि ।


179
तदेवमुपमावाक्यसंस्कारात्तत्र पश्यतः ।

तत्संज्ञासंज्ञिसंबन्धे विशेष्येदनुमानवत् ॥ ४ ॥

गोसदृशो गवयः इति वाक्यात् संज्ञासंज्ञिसम्बन्धमवगतवतः अस्येयं संज्ञेति विशे
षणप्रतिपत्तिः पुनरनुमानं नातिशेते यतः प्रमाणमनुमानं नापरम् । यदि...


तत् इत्ययं निपातः तस्मिन् इत्यस्यार्थे द्रष्टव्यः । तस्मिन् परोक्षे एवम् उक्तप्रकारेण
सति न्याये गौरिव गवयः इति वाक्यम् उपमावाक्यं तेन आहितो यः संस्कारः तस्मा
त्तत्र ज्ञानजो ज्ञानहेतुश्च संस्कारः
2489इति वचनात् । कथं तद्वाक्यात् स इति चेत् ?
पारम्पर्येण ततः तस्य भावात् ततः स इत्युच्यते इत्यदोषः । तथाहि--तद्वाक्यात् प्रतिपत्तिरिति
तद्विषयं ज्ञानम्, पुनः तत्सहकारिणा मनसा यावान् कश्चित् पदार्थः गोसदृशः स सर्वो १४९ क
गवयशब्दवाच्यः
इति सामान्येन वाच्यवाचकसम्बन्धविषयमानसमध्यक्षं जन्यते, ततः संस्कारः
इति स्मृतिः स्मरणं जायते इत्यध्याहारः । क्व ? इत्यत्राह--तद् इत्यादि । तौ च तौ संज्ञासं
ज्ञिनौ
च गवयशब्द ग2490 विशेषौ तयोः सम्बन्धे वाच्यवाचकलक्षणे । कस्य ? पश्यतः ।
किम् ? गवयम् । सा किम् ? इत्याह--विशेष्येत स्मृत्यन्तराद् भिद्येत । किमिव ? इत्यत्राह—
अनुमानवत् तदिव तद्वदिति । इदमत्र तात्पर्यम्--यथा सामान्यविषयायां व्याप्तौ विशेषेण
अनुमानं जायमानमपूर्वार्थं तथा मानसप्रत्यक्षेण सामान्येन संज्ञासंज्ञिसम्बन्धे प्रतिपन्ते पुनः
तस्य सर्वस्य स्मरणाद् वने गवयदर्शनाद् विशेषेण 2491तत्प्रतिपत्तिः अपूर्वार्थास्तु ।


यत्पुनरत्रोक्तम्--सामान्यस्य विशेषनिष्ठत्वात्, तत्प्रति पत्तौ विशेषप्रतिपत्तिः इति;
तदसारम्; अन्यत्र समत्वात् ।


कारिकां विवृण्वन्नाह--गोसदृशो गवयः इत्यादि । गोसदृशो गवयः इत्येवं वाक्यात्
तद्विज्ञानात्2492 सहकारिणः संज्ञासंज्ञिसम्बन्धम् अवगतवतः ज्ञातवतः सामान्येन पुनः कालान्त
रेण गवयदर्शनाद् अस्य प्रतीयमानस्य इयं गवयः इति संज्ञा इत्येवं विशेषेण प्रतिपत्तिः
व्याप्तिदर्शिनः सामान्येन इति सम्बन्धः । पुनः अनुमानं नातिशेते । यतः अतिशायनात्
प्रमाणम् अनुमानं नाऽपरम् उपमानं न प्रमाणं स्यात् । यतः इति वा आक्षेपे, यतो नापरं
स्यात् ? स्यादेव, उपमानं प्रमाणमभ्युपगच्छेत् ।


सौगतस्य इतरस्य वा प्रमाणान्तरं दर्शयितुं मतमाशङ्कते--यदि इत्यादिना । सुगमम् ।


अत्र दूषणमाह--प्रमाणान्तरम् इत्यादि ।


प्रमाणान्तरमन्यत्र तत्संज्ञाऽसंभवस्मृतिः । १/२

तद्वाक्याहितसंस्कारस्य अगोषु स्वयं तन्नामासम्बन्धमर्थापत्त्या उपगम्यते यथा
सामान्येन लिङ्गलिङ्गिसम्बन्धप्रतिपत्तिः प्रमाणान्तरं तथेयमपि प्रत्यभिज्ञानं प्रमाणान्तरम्,
न गवयोऽयं तादृशोपलब्धेः । अथवा, एकविषाणि खङ्गः सप्तपर्णो विषमच्छद इत्या
हितसंस्काराणां पुनस्तत्प्रत्यक्षदर्शिनामभिज्ञानं किन्नाम प्रमाणं स्यात् ?


180

उपमानादन्यत् १४९ ख प्रमाणं प्रमाणान्तरं स्यात् अन्यत्र गवयाद् अन्येषु
महिष्यादिषु गवय इति संज्ञा तत्संज्ञा तस्याः असंभवस्मृतिः ।


कारिकाखण्डं व्याचष्टे--तद्वाक्य इत्यादिना । गोसदृशो गवयः इति वाक्यं तद्वाक्यं
तेन उक्तविधिना आहितः संस्कारो यस्य तस्य प्रतिपत्तिवतः । किं तत् ? तन्नामासंबन्धं
गवयाभिधानसम्बन्धाभावम् । क्व ? इत्यत्राह--अगोषु विसदृशेषु इति । स्वयम् आत्मना ।


ननु गौरिव गवयः इति वाक्यप्रतिपत्तिसहकारिणा मनसा भवतु गोसदृशेषु सामान्येन
तत्संज्ञासंज्ञिसम्बन्धप्रतिपत्तिः तद्विसदृशेषु केन2493 तन्नामाऽसंबन्धप्रतिपत्तिः इति चेत् ? अत्राह—
अर्थापत्त्या इति । यतो गोसदृशो गवयः, ततोऽर्थात् तद्विलक्षणो न गवयः इतिवाक्यप्रतिपत्तिः
अर्थापत्तिः तया त्त्यतेनैवतन्ते 2494 तद्दर्शयति--यथा सामान्येन लिङ्गलिङ्गिनोः संज्ञा
संज्ञिनोः सम्बन्धस्य प्रतिपत्तिः प्रमाणान्तरम्2495 अनुमानादेः तथा इयमपि इति । किं जातम् ?
इत्याह--प्रमाणान्तरम् उपमानादन्यत् प्रमाणम् । किं तत् ? इत्याह--प्रत्यभिज्ञानम् । कथं
भूतम् ? इत्याह--न गवयोऽयम् इति । अयं गोविसदृशो दृश्यमानो न गवयः न गवयशब्द
वाच्य इति । अयम् इत्यनेन सामान्यार्थापत्तेः अनुमानवदस्य विशेषं दर्शयति । तत् कुतो
जायते ? इत्याह--तादृशोपलब्धेः इति । गोविसदृशोपलब्धेः इति प्रत्यभिज्ञानपदेन एतत् कथ
यति । यदि अस्य प2496रो वैधर्म्योपमाने अन्तर्भावं ब्रूयात् तर्हि जैनोऽपि अस्य उपमानस्य च
असादृश्येतरप्रत्यभिज्ञाने इति १५० क नानयोः ततः प्रमाणान्तरत्वं प्रत्यक्षादिव आगमादे
रपि तद्भावादिति ।


अधुना अस्य कारिकाखण्डस्य अन्यार्थो व्याख्यायते--अन्यत्रोक्ताद् अन्यस्मिन् विषये
तत्संज्ञासंभवस्मृतिः तस्य अन्यस्य संज्ञा नाम तस्याः संभवस्मृतिः प्रमाणान्तरमेव ।
तस्याव्याख्याने उत्तरोऽर्थोऽकारिकार्थः स्यात् ।


एतदेव विवृण्वन्नाह--अर्थेच2497 इत्यादि । अथवा इत्येतद् व्याख्यानान्तरसूच
कम् । एकविषाणी खङ्गः सप्तपर्णो विषमच्छदः इत्येवम् आहितसंस्काराणां पुरुषाणां पुनः
पश्चात् तत्प्रत्यक्षदर्शिनां तत्खङ्गादिकं प्रत्यक्षेण द्रष्टुं शीलानाम् अभिज्ञानम्--अयं स खङ्गादि
शब्दवाच्योऽर्थः इति प्रत्यभिज्ञानं किन्नाम प्रमाणं स्यात् साधर्म्योपमाने वैधर्म्योपमाने वा अस्य
अनन्तर्भावात् तल्लक्षणत्वादस्यान्यन्नाम कर्त्तव्यमिति मन्यते ।


अत्रैवोदाहरणान्तरमाह तथे2498त्यादिना ।


स्त्र्यादिलक्षणश्रवणेन पुनस्तथादर्शिनः ।

संख्यादिप्रतिपत्तिश्च पूर्वापरनिरीक्षणात् ॥ ५ ॥

सोपानादिषु सह पृथग्वा दृष्टेषु पौर्वापर्यादिस्मृतिस्तदपेक्षैव ।


स्त्रा2499दीनाम् द्वन्द्वः, पुनः अस्य आदिशब्देन बहुब्रीहिः, अस्यापि लक्षण
शब्देन षष्ठीसमासः, अस्य च श्रवणेन, तस्मात् पुनः तथा श्रवणप्रकारेण दर्शिनः स्त्र्यादि
181 दिदर्शनवतः स2500मभिज्ञानं किन्नाम प्रमाणम् इति सम्बन्धः । अपरमपि प्रमाणान्तरमस्य
दर्शयन्नाह--संख्यादि इत्यादि । संख्यैकत्वादिलक्षणा आदिर्येषां कार्यकारणभावपरवाक्य
दूरासन्नादीनां ते तथोक्ताः तेषां प्रतिपत्तिश्च प्रमाणान्तरम् इति सम्बन्धः ।


आत्मनो 2501ऽर्थसन्निकर्षजत्वात् मानसं प्रत्यक्षं सुखादिप्रतिपत्तिवत् सा2502त्येके ।
तत्राह--पूर्व इत्यादि । पूर्वश्च अपरश्च तयोः निरीक्षणात् तत्प्रतिपत्तिः । अत्रायमभिप्रायः—
यथा आत्ममनश्चक्षुराद्यर्थ१५० ख सन्निकर्षाज् जायमानं ज्ञानं चक्षुरादिप्रत्यक्षमुच्यते नान्यत्,
तथा आत्ममनोऽर्थसन्निकर्षात्2503 मानसम् इत्युच्यतां न प्रकृतम्2504 । यदि पुनः त2505दपि ज्ञानत्वात्
चक्षुरादिजनितरूपादिज्ञानवत् इन्द्रियार्थसन्निकर्षजम्; तर्हि अनुमानादिना व्यभिचारः ।
2506स्यापि पक्षीकरणे मा2507नसप्रत्यक्षत्वम् । तद्धेतुलिङ्गादेरप्यपेक्षणान्न दोष इति चेत्; अन्यत्र पूर्वा
परनिरीक्षणस्य अपेक्षणान्न दोष इति न समानमिति ।


एतद्विवृण्वन्नाह--सोपान इति । अत्र आदिशब्देन कारणादिपरिग्रहः, तेषु सह पृथग् वा
दृष्टेषु
सोपानेषु पृथगेव दृष्टेषु कारणादिषु संख्यादिप्रतिपत्तिर्भवन्ती उक्तन्यायेन प्रत्यक्षादेः अति
रिच्येत, ततः पृथक् प्रमाणं भवेत् । कथंभूता ? इत्याह--पौर्वा इत्यादि । पूर्वापरयोर्भावः
आदि
र्यस्य स्थूलेतरत्वादेः तस्य या स्मृतिः तदपेक्षैव नान्यथा इति एवकारार्थः । तथाहि--पूर्व
दर्शनाहितसंस्कारस्य अपरदर्शने सति ततः पूर्वस्मरणे च तस्माद् अयमेकः तेन द्वितीयः
इत्यादि प्रतिपत्तिः, एवं कारणभावादौ योज्यम् ।


अन्यदपि 2508तद्दर्शयन्नाह--नाम इत्यादि ।


नामादियोजनाज्ञानं पश्यताञ्चोपमानवत् । १/२

पूर्वापरप्रमाणव्यक्त्यविनाभाविशब्दादियोजनाज्ञानं सर्वं प्रमाणान्तरम् ।


नाम अभिधानम् आदिर्येषां जातिगुणादीनां ते तथोक्ताः तेषां योजनाज्ञानम् केषां
वत् ? 2509 इत्याह--पश्यताम् अभिधेयाभिधानादिकम् उपलभमानानाम् । शब्दो भिन्न
प्रक्रमः ज्ञानम् इत्यस्यानन्तरं द्रष्टव्यः । तत् किम् ? इत्याह--उपमानवद् इति । तद्वत् प्रमा
णान्तरं स्यात् इत्यर्थः ।


एतद्व्याचष्टे पूर्व इत्यादिना । अभिधानाभिधेयविशेषणादीनां पूर्वापरप्रमाणव्यक्तयः
तदविनाभावि यत् शब्दादियोजनाज्ञानं तत् सर्वं निरवशेषम् १५१ क उपमानमिव प्रमा
णान्तरम् ।


किं पुनः आपाद्यान्येतान्येव प्रमाणानि आहोस्वित् पराण्यपि सन्ति इति कश्चित् ? सन्ति
इति दर्शयन्तमाह--अर्थापत्तिः इत्यादि ।


182
अर्थापत्तिरियं चिन्ता मेयान्यापोहनोहनम् ॥ ६ ॥

देशकालादिनियतं पश्यतः शृण्वतो वा पुनः इदमित्थमेव नान्यथेति विधिप्रतिषेध
लक्षणं विकल्पद्वयं कथञ्चन स्मार्तमेवेति संकीर्येत न वा ? संभवप्रत्ययस्वभावमवधारणपरं
स्मार्तमेव ।


प्रमाणषट्कविज्ञातो यच्चालुः 2510 साध्याभावे नियमेनाभवन् यत्र अदृष्टमर्थं कल्पयेत्
सा अर्थापत्तिः । तदुक्तम्--


*प्रमाणषट्कविज्ञातो यत्रार्थोऽनन्यथाभवन्2511

अदृष्टं कल्पयेदर्थं सार्थापत्तिरुदाहृता ॥ मी॰ श्लो॰ अर्था॰ श्लो॰ १ इति ।

अटव्यां गवयदर्शनात् नगरे गवि या स्मृतिः इत्यनेन गृह्यते, अन्यस्याः प्रमाणान्तरत्वेन
अविशेषेण प्रसाधितत्वात् । यावान् कश्चिद् धूमवान् प्रदेशः स सर्वोऽप्यग्निमान् इत्यादि
प्रतिपत्तिः चिन्ता । अथ 2512इयम् अदृष्टश्रुतपूर्वा इति किं स्वरूपा सा इति पृष्ट इव तत्स्वरूपं
दर्शयितुमाह--मेय इत्यादि । मेयोऽनुमेयः अग्न्यादिः विपक्षः 2513 तस्माद् अन्यो यो
अनग्न्यादिविपक्षः तस्माद्धेतोः अपोहनं व्यावृत्तिः तस्य ऊहनं वितर्कणम् ।


अथवा, मेयो धूमादिहेतुः तस्य अन्यस्माद् अनग्न्यादेः अपोहनम् तन 2514मिति केचित्2515; तद्युक्तमन्यथेति वा चिन्त्यम्; सूत्र एव तदवयवव्याख्याने प्रयोजना
भावात्, 2516वृत्त्यविशेषप्रसङ्गात् अतिप्रसङ्गाच्च । तस्माद् अन्यथा व्याख्यायते--मेयः प्रत्यक्षादि
प्रमाणपरिच्छेद्यः स्वपररूपाभ्यां भावाऽभावात्मको घटादिः तस्य ऊहनम् दीर्घोऽयम् अन्यथा
वा
इत्यादि रूपेण दर्शनानन्तरं मानसविकल्पेन चिन्तनम्, तत्रैव अन्यस्य पटादेः अपोहनं
व्यावृत्तिः, तस्य तदिह नास्ति इति ऊहनं वितर्कणम् । एतदुक्तं भवति--यथा तदत्र नास्ति
इति ऊहनदर्शनाद् अभावाख्यं प्रमाणमिष्यते तथा इत्थमिदम् इत्यूहनदर्शनाद् भावाख्यमपि अपरं
2517तदिष्यताम्, भावांशवद् अभावांशस्यापि १५१ ख प्रत्याक्षादेरेव अ2518न्यथा ग्रहणाद् अभावा
ख्यमपि तन्नाभ्युपगन्तव्यमिति, तदेतत् सर्वम् उपमानवदिति सम्बन्धः ।


मध्यपदद्वयस्य उत्तरकारिकाद्वयेन यथाक्रमं व्याकरिष्यमाणत्वात् । आद्यन्तपदद्वयं
साधिकार्थं कृत्वा व्याख्यातुमाह--पश्यतः इत्यादि । पश्यतः चक्षुरादिना साक्षात्कुर्वतः । किम् ।
इत्याह देश इत्यदि । आदिशब्देन द्रव्यस्वभावपरिग्रहः, तैः नियतम् । अत्रायमभिप्रायः—
यथा स्वदेशादिना सत्त्वं भावस्य प्रत्यक्षतः प्रतीयते तथा परदेशादिना असत्त्वमपि । ततो निरा
कृतमेतत्--


*न तावदिन्द्रियेणैषा नास्तीत्युत्पाद्यते मतिः ।

भावांशेनैव सम्बन्धः योग्यत्वादिन्द्रियस्य हि ॥ मी॰ श्लो॰ अभाव॰ श्लो॰ १८ इति ।

यथैव हि त2519तो भावांशस्य प्रतीतेः त2520त्र त2521द् योग्यं तथा अभावांशस्यापि इति, अत्रापि
183 2522द्योग्यमस्तु अविशेषात् ।


यत्पुनरेत2523त्--अभावः स्वसमानजातीयप्रमाणवेद्यः प्रमेयत्वात् भाववत् इति; तदप्यनेन
निरस्तम्; प्र2524त्यक्षबाधनात् प्रतिज्ञायाः । तथा शृण्वतो वा शब्दात् प्रतिपद्यमानस्य वा देश
कालादिनियतम् ।
अनेन पूर्वस्य हेतोः व्यभिचारं दर्शयति अग्निहोत्रं जुहुयात्
स्वर्गकामः
कृ॰ य॰ काठक॰ ६ । ७ इति2525 वाक्यात् स्वभावाद् अभिमतसत्त्ववद्2526
अन2527भिमतासत्त्वस्यापि प्रतीतेः, किमन्यथा तदुच्चारणेनेति ? तस्य किम् ? त्याह--पुनः
इत्यादि । पुनः दर्शनश्रवणाद् ऊर्ध्वं विकल्पद्वयं जायते इत्युपस्कारः । कथंभूतम् ? इत्याह—
विधिप्रतिषेधलक्षणं विधिप्रतिषेधयोः भावाभावयोः लक्षणं निश्चयनं यस्य यस्मिन् वा तत्त
थोक्तम् । केन प्रकारेण ? इत्याह इत्थम् इत्यादि । इदं दृश्यमानं च इत्थम् अनेन स्वदेशादि
१५२ क प्रकारेणैव नान्यथा परदेशादिप्रकारेण नैव । एवकारोऽत्रापि सम्बध्यते । इति
समुच्चये । इतिः एवमर्थे । पुनरपि कथम्भूतम् ? अवधारणपरमुक्तवत् । तत्किम् ? इत्याह—
कथञ्चन इत्यादि । कथञ्चन केनापि युक्तिप्रकारेण स्मार्त्तमेव । स्मृतिशब्दः पूर्वोऽनुवर्तते 2528त्येव
वर्त्तते
इत्येवं संकीर्येत न वा ? यदि संकीर्येत; तर्हि विधिलक्षणविकल्पवत् प्रतिषेधलक्षण
विकल्पोऽपि न स्मृतेः प्रमाणान्तरं स्यात् । अथ न संकीर्यते; प्रतिषेधलक्षणविकल्पवत् विधि
लक्षणविकल्पोऽपि प्रमाणान्तरं स्यादिति मन्यते । तन्न कु मा रि लः प्रमाणषट्कवादी2529


योऽपि प्र भा क रो मन्यते2530--नाऽभावः प्रमाणान्तरं प्रत्यक्षादिप्रमाणपञ्चकशेषत्वादस्य
इति तं प्रत्याह--संभव इत्यादि । अस्यायमर्थः--अनुमानार्थापत्तिव्यपदेशभाक्, च शब्दोऽत्र पूर्व
समुच्चयार्थो द्रष्टव्यः । विकल्पद्वयम् इति सम्बन्धः । कथंभूतम् ? इत्याह--संभवः साध्यभावे
भावः नियमेन तदभावे अभावः, दृश्यमानस्य श्रूयमाणस्य वा देशकालादिनियतस्य तयोः प्रत्ययः
प्रतीतिः अन्यथानुपपत्तिग्रह इति यावत् । स एव स्व आत्मीयः कारणत्वेन भावो यस्य तत्त
थोक्तम् । अनेन यथा अनुमानस्य साध्याभावासंभवनियमनिर्णयलक्षणो हेतुः कारणं तथा अर्था
पत्तेरपि इति दर्शयति । पुनरपि कथंभूतम् ? इत्याह--अवधारणपरं जीवादिः सत्त्वादिभ्यः परि
184 णाम्येव नान्यथा
इत्यवधारणप्रधानम् । एतेन त2531योः १५२ ख स्वरूपाभेदं कथयति । तत् किम् ?
इत्याह--संकीर्येत न वा संकीर्येत ? कथम् ? इत्याह--कथंचन, अनुमानप्रकारेण अर्थापत्तिप्रकारेण
चैकीभवेद्वा न वा ? यदि संकीर्येत; तर्हि यथा कु मा रि ल स्य प्रमाणषट्कवार्त्ता वार्त्तैव तथा
प्रकारस्य 2532 प्रमाणपञ्चककथा कृत्वैव 2533 । अथ न संकीर्येत; त्रिरूपलि
ङ्गजनितादनुमानानुमानद्वत्त 2534 यथा साधर्म्यदृष्टान्तरहिताया अर्थापत्तेः भेदः2535 तथा
तस्याः2536 पक्षधर्मत्ववर्जिताया2537 इति स एव दोषः तयोः2538 प्रमाणसंख्याव्याघात इति मन्यते । नन्व
नुमानं स्मरणजम्, दृष्टान्तस्मरणभावे भावात्, नैवमर्थापत्तिर्विपर्ययात् ततस्त2539योर्भेद इति चेत्;
अत्राह--स्मार्त्तमेव इति । स्मृतेर्जातं स्मार्त्तम् । एवकारेण एतत्कथयति--यदि अनुमानोत्थापकोऽर्थो
दृष्टान्तस्मरणमन्तरेण अनुमानं नोत्थापयितुमलम्, तर्हि अर्थापत्त्युत्थापकोऽपि तथैवाऽस्तु । अथ
विपक्षे सद्भावबाधकप्रमाणबलादेव अर्थोऽर्थापत्तिमुपजनयति, तथा अनुमानमपि इति निरूपयि
ष्यते । यदि पुनः अर्थापत्तौ दृष्टान्तस्याऽसतो2540न स्मरणम्, अनुमाने सतोऽपि; अकिञ्चित्करस्य
किं स्मरणेन इति समानः तदभावः2541 । अथायं निर्बन्धो लिङ्गं दृष्टान्तमन्तरेण साध्याविनाभावि
ज्ञातुं न शक्यते इति; तथा अर्थापत्त्युत्थापकोऽप्यर्थः2542, इति सूक्तम्--स्मार्त्तमेव इति ।


ननु यदुक्तं स्मृतिः उपमानवदिति न दोषाय अभ्युपगमादिति चेत्; अत्राह--गविस्मृतिः
इत्यादि ।


गवि स्मृतिः प्रमाणं स्यात् गवयं पश्यतः कथम् ।

अन्यत्र तद्विलक्ष्येऽपि प्रयोजनवशान्न किम्2543 ॥ ७ ॥

उपमावाक्याद् यथा क्वापि सादृश्यप्रतिपत्तिस्तथा कस्यचित् केनचिद् वैलक्षण्य
प्रतिपत्तिः अर्थापत्तेः । तदुत्तरप्रत्यक्षात् पूर्वस्मृतिरविशेषेण प्रमाणमस्तु प्रयोजनवशात्
प्रसिद्धसाधर्म्यात्साध्यसाधनमुपमानम्2544, संज्ञासंज्ञिसम्बन्धप्रतिपत्तिश्च उपमानार्थ इति
किं परिसंख्यानेन ? कृतेन अकृतवीक्षणस्य सर्वस्यैव भवति उपमानम् । नन्वेवमुपमाना
नुमानयोः अभेदप्रसङ्गः, तथास्तु । उदाहरणसाधर्म्यवैधर्म्याभ्यां सह पृथग्वा स एव तत्र
साधनम् । अत्रापि उपमानसाधर्म्यानुमानयोरभेदः स्याद् विशेषादर्शनादिति विपरीतल
क्षणप्रज्ञो जडात्मा । ततोऽनुमानमेव, सर्वथा अविनाभावसम्बन्धप्रतिपत्तिमन्तरेण प्रामा
ण्यानुपपत्तेः । प्रत्यक्षेऽपि समानः प्रसङ्गः । तथैवानुमानेऽपि । कस्यचित् कथञ्चित् स्वतः
सिद्धिमन्तरेण उत्तरस्यावृत्तेः चिन्तोपमानवत् ।


185

गोरलाभे गवयेन तत्कार्यं कर्त्तव्यम् इति १५३ क श्रुत्वा कश्चित् कञ्चिद् आटव्यं2545
पृच्छति कथंभूतो गवयो भवति ? स तं प्रत्याह--गौरिव गवयः इति । स पृष्ट्वा एवं श्रुत्वा नगरे
गामुपलभ्य पुनः अटवीं पर्यटन्, यद्वा2546तत्र2547 गवयमुपलभ्य गां स्मरति तदा सा गवि गवयसा
दृश्यविशिष्टे स्मृतिः प्रमाणं मीमांसकस्य उपमानाख्यं मानं स्याद् भवेत्, गवयं पश्यतः
पुंसः । चेच्छब्दोऽत्र द्रष्टव्यः, कात्वा 2548 वा तदर्थो व्याख्यातव्यः । अत्र दूषणमाह--कथम्
इत्यादि । कथं केन प्रकारेण न प्रमाणम् अपि तु प्रमाणमेव । अन्यत्र क्वचित् महिष्यादौ
स्मृतिः इति सम्बन्धः । कथंभूते ? इत्याह--तद् इत्यादि । तस्माद् गवयाद् विसदृशरूपेण
लक्ष्यते इति तद्विलक्ष्यः तस्मिन्नपि न केवलं तत्सदृशे गवि इति । एतदुक्तं भवति--यथा
सादृश्यविशिष्टे गवि तद्विशिष्टे वा सादृश्ये, गोग्रहणमुपलक्षणम्, स्मृतिः प्रमाणान्तरं तथा
वैलक्षण्यविशिष्टे महिष्यादौ तद्विशिष्टे वा वैलक्षण्ये2549 इति । ननु गोसदृशालम्भनादि2550 यथा
सदृशस्मृतेः प्रयोजनं नैवं वैलक्षण्यस्मृतेरिति चेत्; अत्राह--प्रयोजनवशात् इति । वैदिकवद्
2551तरप्रयोजनभावादिति भावः ।


कारिकां विवृणोति उपमा इत्यादिना । गौरिव गवयः इति वाक्याद् यथा क्वापि
गवि सादृश्यप्रतिपत्तिः तथा कस्यचित् महिष्यादेः केनचिद् गवादिना वैलक्षण्यप्रतिपत्तिः ।
कुतः ? अर्थापत्तेः, यत एवं तत् तस्मात् उत्तरप्रत्यक्षात् गवयप्रत्यक्षात् पूर्वस्य गवादेः स्मृतिः
प्रमाणमस्तु
अविशेषेण, सदृशस्मृतिवद् विसदृशस्मृतिरपि प्रमाणं भवतु । कुत एतत् ? इत्याह—
१६३ ख प्रयोजन इत्यादि ।


ननु यदुक्तम्--चिन्तोपमानवत् इति; तत्र साकल्येन लिङ्गलिङ्गिसम्बन्धबुद्धिर्यदि
चिन्ततेयस्याः 2552 साक्षात् परम्परया मनोऽर्थसन्निकर्षादुत्पत्तेर्मानसप्रत्यक्षत्वेन प्रमा
णता इति2553 सिद्धसाधनम् । अथवा यदुक्तम्--प्रमाणान्तरम् इत्यादि; तदपि तादृगेव2554; वैधर्म्यो
पमानत्वादस्य, शेषं मानसमध्यक्षम् इति नैयायिकादयः । तान् प्रत्याह--प्रसिद्ध इत्यादि । प्रसिद्धेन
गवादिना प्रसिद्धं वा यत् साधर्म्यं तस्मात् साध्यस्य संज्ञासंज्ञिसम्बन्धज्ञानस्य साधनम्
प्रमातृप्रमेयाभ्यामन्यः2555 कारणकलापः उपमानम् प्रमाणम् । अस्य फलम् अर 2556 संज्ञा इत्यादि ।
उपमानार्थ उपमानफलम् इत्येवं शब्दः पूर्वसमुच्चये किं परिसंख्यानेन परिगणनेन, न
किञ्चित् । किं तर्हि भवतु ? इत्याह--कृतेन इत्यादि । कृतेन निश्चितेन कृतस्य परो
क्षस्य यद् वीक्षणं ज्ञानं तस्य सर्वस्यैव निरवशेषस्यैव भवति उपमानम्, उपमानादपरं परोक्षं
प्रमाणं मा भूद् इति मन्यते । एतदुक्तं भवति--यथा विशदेन्द्रियार्थसन्निकर्षजज्ञानसाधर्म्यात्
186 साक्षात् परम्परया तत्सन्निकर्षजं विशदमविशदं वा2557 प्रत्यक्समुच्यते तथा प्रसिद्धसाधर्म्यात् साध्य
साधनोपमानसाधर्म्यात् कृतेनाकृतज्ञानम् उपमानमस्तु अवान्तरविशेषस्य सर्वत्र भावादिति2558


पर आह--नन्वेवम् इत्यादि । ननु इति अक्षमायाम् । एवं सति उपमानाऽनुमानयोः
अभेदप्रसङ्गः;
भेदश्च तयोर्लोके प्रसिद्ध इति मन्यते । १५४ क तथास्तु इति वदन्तमाचार्यं
प्रत्याह--स एव तत्र इत्यादि । तत्र तयोः उपमानाऽनुमानयोर्मध्ये साधनम् अनुमानम् । काभ्याम् ?
इत्याह--उदाहरण इत्यादि । उदाहरणं निदर्शनं तेन यत् साधर्म्यं कृतकत्वादि समानधर्मेण
सदृशत्वम् वैधर्म्यं तद्धर्माऽभावेन विसदृशत्वं पक्षस्य ताभ्याम् इति । सह इत्यनेन अन्वयव्य
तिरेकवत् पू2559र्ववच्छेषवत्सामान्यतोऽदृष्टम् इत्यनुमानं दर्शयति पृथग्वा इत्यनेन केवलान्वयि पूर्व
वच्छेषवद् इति केवलव्यतिरेकि पूर्ववत्सामान्यतोऽदृष्टम् इति च उपमानलक्षणमुक्तमिति नोच्यते ।


अत्र दूषणमाह आचार्यः--अत्रापि इत्यादिना । न केवलं पूर्व2560 व्याप्तिज्ञानस्य
मानसाध्यक्षत्वकल्पने किं चैत्रापि 2561 उपमानसाधर्म्यानुमानयोरभेदः स्यात्
प्रसिद्धसाधर्म्यात् साध्यसाधनम्
न्यायसू॰ १ । १ । ६ इत्यस्य उदाहरणसाधर्म्यात्
साध्यसाधनम्
न्यायसू॰ १ । १ । ३४ इत्यस्य च विशेषाऽदर्शनात् इति मन्यते । तथा च
परः2562 परमार्थतः तयोर्भेदं कथयति लक्षणं च समानं ब्रूते इति विपरीतलक्षणप्रज्ञो जडात्मा
इति ।
सत्यं निदर्शनमात्रमेतत् तेन वैधर्म्योभयोपमानानुमानयोरभेदः स्यादिति च द्रष्टव्यम् ।


एवं स्वयम् आचार्येण नैयायिके निरस्ते सौगताः प्राहुः--ततोऽनुमानमेव इत्यादि ।
अस्यायमर्थः--यस्मात् कृतेन अकृतवीक्षणं सर्वम् इति विभक्तिपरिणामेन सम्बन्धः ।


अत्राह परः2563--प्रसिद्धसाधर्म्यादन्यतो वा साध्या१५४ ख विनाभाविनः साध्यसाधनमनुमा
नमस्तु 2564परं तु उपमानादिकं स्यादिति चेत्; अत्राह सौगतः--सर्वथा इत्यादि । सर्वेण प्रसिद्धसाधर्म्य
प्रकारेण अन्येन वा सर्वथ अविनाभावसम्बन्धप्रतिपत्तेः विना तमन्तरेण प्रामाण्यानुपपत्तेः
अनुमानमेव अस्तु इति सम्बन्धः । एतदुक्तं भवति--यदि प्रसिद्धसाधर्म्यस्य अन्यस्य वा
अविनाभावसम्बन्धप्रतिपत्तिरस्ति; सिद्धमस्मत्समीहितम् । अन्यथा ततो जायमानं न किञ्चित्प्र
माणम् अतिप्रसङ्गादिति । ननु यथा प्रत्यक्षस्य अविनाभावसम्बन्धप्रतिपत्तेर्विना प्रामाण्यं तथा
उपमानादेः स्यादिति चेत्; अत्राह--प्रत्यक्षेऽपि इत्यादि । न केवलमन्यत्र2565 अपि तु प्रत्यक्षेऽपि
समानः
सदृशः प्रसङ्गः प्रसक्तिः अविनाभाव इत्यादिकस्य । 2566तदपि हि वस्तुप्रतिबन्धात्
तत्र प्रमाणं नान्यथा ।


अत्राह चार्वाकः--अनुमाने तर्हि अविनाभावसम्बन्धप्रतिपत्तेरभावात् प्रामाण्यं न स्यादिति;
तत्राह--तथैव इत्यादि । तथा तेन प्रत्यक्षप्रकारेण अनुमानेऽपि न केवलम् अन्यत्र समानः
प्रसङ्गः इति पदघटना । अस्ति च 2567तत्रापि सा2568 इति मन्यते । तदुक्तम्--


187
*अर्थस्यासंभवेऽभावात् प्रत्यक्षेऽपि प्रमाणता ।

प्रतिबद्धस्वभावस्य तद्धेतुत्वे समं द्वयम्2569 ॥ इति2570

एवं स्वमतं व्यवस्थाप्य सौगताः कदाचिदेवं ब्रूयुः--अस्माकं कथं चिनो 2571 पमान
वद्
इति । तत्राह आचार्यः--कस्यचिद् इत्यादि । कस्यचित् धूमादेः कथञ्चित् केनापि प्रका
रेण स्वतः साधनान्तरेण ज्ञानापेक्षामन्तरेण सिद्धिः१५५ क निर्णीतिःतामन्तरेण उत्तरस्य
अध्यक्षद् 2572 अनुमानस्याऽवृत्तेः चिन्तोपमानवत् इति । अत्रायमभिप्रायः--अस्याः सिद्धेः
सद्भावे ततः अनुमानमेव अस्तु इत्ययुक्तं प्रत्याख्यानम्


प्रत्यक्षानुमानयोरन्यतरत्र त2573दन्तर्भावात् न दोष इति चेत्; अत्राह--भूता इत्यादि ।


भूता भव्याः सर्वे सन्तो भावाः क्षणक्षयाः ।

इति व्याप्तौ प्रमाणं ते न प्रत्यक्षं न लैङ्गिकम् ॥ ८ ॥

परोक्षस्य सम्बन्धात्तदविनाभाविनोऽन्यतः सिद्धिरनुमानमेवेति; अत्र सम्बन्धो नैव
प्रत्यक्षो भवितुमर्हति यतोऽनुमानव्यवस्था स्यात् । न हि कस्यचित् साकल्येन व्याप्तिज्ञानं
क्वचित् कदाचित् प्रत्यक्षं सन्निहितविषयबलोत्पत्तेरविचारकत्वात् । यदि तद्बलोत्पन्नं
विकल्पज्ञानं न भवेत् अनुमानं च न स्यात् । अनधिगतलिङ्गलिङ्गिस्वलक्षणाध्यवसायेऽपि
यदि न प्रमाणान्तरं प्रत्यक्षमपि न स्यात् । तत्प्रत्यक्षानुमानाभ्याम् अविकल्पित सांवृता
भ्याम्
नार्थाधिगतिर्नाम । समारोपव्यवच्छेदस्याप्यभावात् । यत् सत् तत्सर्वं क्षणिकमेवेति
प्रत्यक्षसिद्धौ शब्दक्षणिकत्वमेव किमनुमेयम् ?


भावाः सन्तः पदार्थाः सर्वे निरवशेषाः । के ते ? इत्याह--भूता इत्यादि । क्षणि
2574क्षया इ
त्येवं व्याप्तौ व्याप्तिविषये प्रमाणं ते सौगतस्य न प्रत्यक्षं न लैङ्गिकम्
नानुमानम् । त2575दभावाभ्युपगमान्नायं दोष इत्येके । तेषां व्याप्तेरग्रहे नानुमानं नाम, इत्ययुक्तमि
दम्2576--प्रत्यक्षमनुमानं चेति द्वे एव प्रमाणे । इति । व्यवहारेण तदभिधानाददोष इति
चेत्; व्यवहारेण तत् न परमार्थतः इति कुतोऽवसेयम् ? विचारादिति न युक्तम्; अस्य2577 अप्रमा
णत्वे ना2578तस्तदवसेयम् अतिप्रसङ्गात् । प्रमाणत्वमपि नाध्यक्षत्वेन 2579नभ्युपगमात् विरोधाच्च ।
नानुमानत्वेन; अनभ्युपगमात् । तन्न विचारात् तदवसेयम् । प्रत्यक्षादिति; न; एवंवादिनः स्वसं
वेदनप्रत्यक्षादन्यस्य असंभवात् । न च तत्2580 स्वरूपादन्यत्र वृत्तिमत् इति कुतस्ततः अन्यत्
प्रत्यक्षम् अनुमानं च व्यवहारेण
इति प्रतिपत्तिः ? नहि नीलज्ञानं पीतादिकम् इदंतया नेदंतया
वा व्यवस्थापयितुमलम्, ज्ञानान्तरकल्पनावैफल्यप्राप्तेः । अथ अन्यत् प्रत्यक्षादिकम् असत्;
188 असतश्च सत्त्वेन अन्यथा2581 वा कल्पनं नान्यतो व्यवहारात् इति चेत्; कुतस्तदसत्त्वसिद्धिः ?
अनुपलम्भात् इत्यनुत्तरम्; स्वयमेव अतः परेण2582+अनुमानव्यवस्थानात् १५५ ख प्रतिषेधाच्च
कस्यचित्
इति वचनादिति2583 । अस्य व्यवहारेण प्रामाण्ये कुतः अन्तः परमार्थतोऽन्याभाव
सिद्धिः यतः स्वसंवेदनाध्यक्षाद्वैतमेव इति युक्तम् । नाप्यत एव तदभावः सिध्यति; तत्र अस्य
अव्यापारात्, इतरथा सुखादीनां परस्परमनुलम्भात् सर्वाभावः स्यात् ।


एतेन 2584यदुक्तं प्र ज्ञा क रे ण--प्रतिभासाद्वैतादन्यस्य अभावात् कथमुच्यते भूता
इत्यादि
इति; तन्निरस्तम् । अस्याः ग्रहणम् उपलक्षणम्, तेन अन्यस्यामपि, तन्न तस्य
प्रमाणम् इत्यनुमानोच्छेदः ।


कारिकार्थं दर्शयितुमाह--परोक्षस्य इत्यादि । परोक्षस्य इन्द्रियविषयस्य सम्बन्धात्
तदविनाभाविनोऽन्यतः
ततोऽन्यस्मात् सिद्धिः अनुमानमेव न प्रमाणान्तरम् । इति शब्दः
परपक्षसमाप्तौ । सूरिः आह--अत्र इत्यादि । अत्र परपक्षे संबन्धो लिङ्गलिङ्गिनोः अविनाभावो
नैव प्रत्यक्षो भवितुमर्हति यतो यस्मात् तत्प्रत्यक्षभवनार्हत्वात् अनुमानव्यवस्था स्यात् । यत
इति वा आक्षेपे, नैव स्यात् । एतदुक्तं भवति--उपलम्भः सत्ता प्र॰ वार्तिकाल॰ ३ । ५४
इति2585 वचनात् प्रत्यक्षभवनार्हत्वाभावेन सर्वंचस्तदभावे 2586 नानुमानं कारणाभावे
कार्यानुत्पत्तेरिति । एतदेव दर्शयन्नाह--नहि इत्यादि । हि यस्मात् न कस्यचित् सौगतस्य
नैयायिकादेर्वा साकल्येन सामस्त्येन व्याप्तिज्ञानं लिङ्गलिङ्गिसम्बन्धग्रहणं प्रत्यक्षं क्वचिद्
व्यवहारे परमार्थे वा देशे वा कदाचित् संसारिदशायां योगिदशायां वा काले वा भवितु
मर्हति ।
ततो निराकृतमेतत्--यस्य यावता2587देशमात्रा १५६ क प्र॰ वार्तिकाल॰
३ । ६१
इति । केनचिद् धर्मेण न तावद्वैशद्येन; 2588तत्र तदभावात्, तथा अव्यवहारात् ।
तथापि तत्र तदङ्गीकरणे न किञ्चिदविशदं ज्ञानं भवेत् । नापि चक्षुराद्यक्षप्रभवत्वेन;
तत्र तदव्यापारात्, अन्यथा प्रत्यक्षसंख्यानियमव्याघातः । अभ्यासजत्वेनेति चेत्; अत्रेदं
चिन्त्यते--विकल्पमात्रं वा अभ्यासपरिकरगोचरीकृतं तत् स्यात्, अनुमानं वा ? प्रथमविकल्पे
न तत्प्रमाणम्, कामाद्युपप्लुतदृष्टिवत् । द्वितीये व्याप्तिज्ञानादनुकृतान्वयव्यतिरेकं कारणम्
नाऽकारणं विषयः 2589इत्यस्य प्रमाणतोऽर्थप्रतिपत्त्या प्रवृत्तिसामर्थ्याद् अर्थवत्
189 प्रमाणम्
न्यायभा॰ पृ॰ १ अर्थसहकारिव्यवसायादिविशेषणज्ञानकं प्रमातृप्रमेया
भ्यामर्थान्तरं प्रमाणम्
इत्यस्य च वचनात् स्वविषयकार्येण तेन भवितव्यम्, इति न स्वस
मानसमयभुवो ग्रहणम् तस्य 2590तदकारणत्वात् । यच्च कारणं तदपि तद्देशादिसन्निहितमेव न सर्वं
विवक्षितम्, अन्यथा स्वान्यकार्यदेशादौ तेन तत्कर्त्तव्यमिति निरूपयिष्यते अनन्तरमेव । ततः
सूक्तम्--सन्निहितेत्यादि सन्निहितः तत्कालानन्तरकालो यो विषयः तस्य बलेन उत्पत्तेः
कारणात् प्रत्यक्षस्य, तज्ञानं2591 न प्रत्यक्षं भवितुमर्हतीति । हेत्वन्तरमाह--अविचारकत्वात्
इति । अविकल्पकत्वाऽस्वग्रहणात्मकत्वाभ्यां सन्निहितस्यापि विषयस्य अव्यवस्थापकत्वात् त2592न्न
2593द् भवितुमर्हतीति । तद्व्याप्तिज्ञानं तर्हि अनुमानं स्यादिति चेत्; अत्राह--तद्बलाद् इत्यादि । न
केवलं तज्ज्ञानं प्रत्यक्षं न भवितु १५६ ख मर्हती त्कं 2594 किन्त्वनुमानं च तदपि न स्यात् ।
यदि
चेद् विकल्पज्ञानमूक2595 ज्ञानं न भवेत् । कथम्भूतम् ? तद्बलोत्पन्नं प्रत्यक्ष
सामर्थ्योत्पन्नम् ऊहो मतिनिबन्धनः इति वचनात् । अस्ति तत्2596, केवलं प्रमाणं न भवति,
प्रमाणमपि लिंगिक 2597मेव इति चेत्; अत्राह--अनधिगत इत्यादि । अनधिगतं प्रत्यक्षा
दिना अविषयीकृतं लिङ्गलिङ्गिस्वलक्षणं यत् तस्याध्यवसायेऽपि न केवलम् अनध्यवसाये
यदि न प्रमाणान्तरम् । तथाहि--यदि न प्रमाणं प्रत्यक्षमपि न स्यात् तस्यापि तल्लक्षणान्तरा
भावात् । यदि न तदन्तरं किन्तु अनुमानमेनमेव, अनुमानं न स्यात् अनवस्थानादिति मन्यते ।


ननु माभूद् अनुमानं तथापि न सौगतस्य काचित् क्षतिः स्वयं तदभावोपगमात् । तत्त्वा
भ्युपगतस्य प्रतिभासाद्वैतस्य प्रत्यक्षतः सिद्धिरिति चेत्; अत्राह--तत्प्रत्यक्ष इत्यादि । ते च ते
सौगतकल्पिते परमार्थसंवृतिरूपे प्रत्यक्षम2598नुमाने च ताभ्याम्, कथम्भूताभ्याम् ? इत्याह—
अविकल्पित इत्यादि । सुगमम् । नार्थाधिगतिर्नाम व्यवहारे अर्थस्य व्यप्तिलक्षणस्य परमार्थे
2599दद्वैतलक्षणस्य अधिगतिर्न, प्रत्यक्षस्य सकलविकल्पविकलस्य प2600रं प्रति असिद्धेः, अनुमानस्य
2601सांवृतस्य तत्त्वाऽसाधकत्वादिति मन्यते ।


ननु यदुक्तम्--मा2602ऽनुमा--अनुमानेन नार्थाधिगतिः नाम इति; तत्सिद्धसाधनम्; तेन2603
तदधिगतेरनभ्युपगमात् । समारोपव्यवच्छेदकरणात् 2604तत् प्रमाणमिष्यत १५७ क इति चेत्;
अत्राह--समारोप इत्यादि । न केवलम् अर्थाधिगतेः अपि तु 2605तद्व्यवच्छेदस्याप्यभावात् ।
अर्थाधिगतिमन्तरेण स्वापादिवत् तद्व्यवच्छेदासंभवादिति मन्यते ।


यस्तु मन्यते प्र ज्ञा क र गु प्तः--योगिज्ञानं व्याप्तिज्ञानम् इति2606 । तं प्रत्याह—
190 यत्सत् इत्यादि । यत् सत् अर्थक्रियाकारि तत्सर्वं क्षणिकमेव नित्यं न भवति इत्येवं प्रत्यक्ष
सिद्धौ शब्दक्षणिकत्वमेव किमनुमेयं
किन्तु सर्वम् अनुमेयं स्यात् इति न किञ्चित् प्रत्यक्ष
प्रमाणप्रमेयं भवेत् । अथ सुखादि-नीलादि त2607त्प्रमेयमिष्यते, तथा क्षणिकत्वमपि अस्तु तदविशेषा
दिति न किञ्चिदनुमेयम् । न च योगिज्ञानविषयीकृते समारोप्येभ्यासदशाचद्यतः 2608 तद्व्यवच्छेदकरणादनुमेयं स्यात्, समारोपे वा न प्रत्यक्षतः तद्व्याप्तिसिद्धिः ।
न वा निश्चितलिङ्गवत् सा2609 अनुमानकरणमिति मन्यते ।


एतेन स2610न्बन्धसम्बन्धजं मानसमध्यक्षं चिन्तितम् ।


एवं तावत् सामान्येन परस्य साकल्येन व्याप्तिग्रहणे2611संभवीति प्रतिपाद्यं 2612 यदुक्तम्2613 अ र्च टे न--सर्वस्य क्षणिकत्वेन साकल्यव्याप्तिग्रहणं नाध्यक्षतः, अपि तु
अक्षणिकात् सर्वतः सत्त्वं व्यावर्त्तमानं तीरा2614दर्शिशकुनिन्यायेन गत्यन्तराऽभावात् क्षणिके
व्यवस्थितिं कुर्वत् तेन व्याप्तमिति निश्चीयते, ततः तद्व्यावृत्तिश्च तद्व्यापिकाया अर्थ
क्रियायाः व्यावृत्तेः, अस्याश्च व्यापकयोः क्रमयौगपद्ययोः ।
इति । तत्राह--सत्ताम्
इत्यादि ।


सत्तां सर्वतोऽक्षणिकात् स्वनिवृत्तौ निवर्तयेत् ।

व्याप्यामर्थक्रियां चेत्सा क्षणिके केन सिध्यति ॥ ९ ॥

क्रमाक्रमयोः व्यापकयोरन्यतरेण क्षणिके अर्थक्रियायाः प्रत्यक्षप्रवृत्तिरेव विपक्षे
बाधकप्रमाणवृत्तिः । सा पुनः क्षणक्षयानुपलक्षणात् कथं प्रत्यक्षा ? प्रत्यक्षापि कथं तत्स
म्बन्धिनी । जातेः...कथंप्रत्यक्षा । क्षणिकस्यार्थक्रियासिद्धिमन्तरेण सत्ता व्यावर्तमाना कथ
ञ्चित्क्षणिके सत्तां साधयेत् विपक्षानतिशायनात् । तदयं क्षणिके अर्थक्रियामेव कुतश्चित्
साधयितुमर्हति अन्यथा विपक्षव्यावृत्त्यसिद्धेः । कारणस्य क्षणिकस्य सत्तैवार्थक्रिया प्रत्यक्षेति
चेत्; तथाऽक्षणिकस्य अविशेषात्, प्रतीतिवत्त्वविशेषः इतरत्रापि । कार्योत्पत्तिः...अन्य
त्रापि समानम् । कारणाच्चेत्; किं केन व्याप्तम् ? ततः स्वभावानुपलब्धिरेव विपक्षे बाधकं
प्रमाणम् । सा पुनः क्षणिकोपलब्धिरसिद्धैव विप्रतिपत्तेः अन्यथा साधनवैयर्थ्यात् ।


191

सर्वतः कुदस्यात् 2615 कालान्तरस्थायिनश्च यदि वा दृश्याभिमताद् १५७ ख
अन्यतश्च अक्षणिकात् चेत् सत्तां निवर्त्तयेत् । कथम्भूताम् ? व्याप्यां स्वव्याप्याम्
इत्यवगन्तव्यम्, यथा मातरि वर्त्तितव्यम् इत्यत्र स्वस्याम् इति । का ? इत्यत्राह--अर्थक्रिया
इति । कस्मिन् सति ? इत्याह--स्वनिवृत्तौ इति । तत्र दूषणम् सा अर्थक्रिया स्वाहिमेत 2616 क्षणिके वस्तुनि । केन प्रमाणेन प्रकारेण वा सिध्यति, न केनचित् । एतदुक्तं
भवति--अक्षणिके व्यापकयोः क्रमाऽक्रमयोरनुपलम्भः क्षणिकेऽपि इति तत्रापि त2617दभावो न वा
क्वचिदिति ।


कारिकां विवृण्वन्नाह--क्रम इत्यादि । क्रमाक्रमयोर्मध्ये । कथंभूतयोः ? व्यापकयोः
अर्थक्रिया
इति सम्बन्धः । अन्यतरेण क्रमेण अक्रमेण वा क्षणिके निरन्वयनश्वरे वस्तुनि
या अर्थक्रिया तस्याः प्रत्यक्षप्रवृत्तिः अध्यक्षोत्पत्तिरवा 2618 विपक्षे अक्षणिके । यदा हि
शब्दः क्षणिकः सत्त्वात् साध्यते तदा अन्यः2619 सर्वः क्षणिकः सपक्षो भवति अक्षणिको विपक्ष
इति बाधकप्रमाणवृत्तिः अर्थक्रियायाः इति गतेन सम्बन्धः । अन्वयप्रतिपत्तिरेव व्यतिरेक
प्रतिपत्तिः; कथमन्यथा निश्चितान्वयवचनादेव सामर्थ्याद् व्यतिरेकगतेः त2620द्वचनं निग्रह
स्थानम्
उक्त2621 2622 शोभेत ? सात्मके च क्वचित् प्राणादेरदर्शनेऽपि कुतश्चित् निरात्मका
न्निवृत्तिः स्यादिति मन्यते । तथाभ्युपगच्छतो दोषमाह--सा इत्यादि । सा अर्थक्रिया । पुनः इति
वितर्के क्षणक्षयानुपलक्षणात् कथं केन प्रकारेण प्रत्यक्षा ? तस्या अपि क्षणिकैकान्ते क्षणिक
त्वेन अनुपलक्षणादिति मन्यते । १५८ क प्रत्यक्षाऽपि कथं तत्सम्बन्धिनी क्षणक्षयसम्ब
न्धिनी सिध्येत् । दृष्टान्तम् आह--जातेः इत्यादिकम् । कथं केन प्रकारेण प्रत्यक्षा । सुगमम् ।
मा सिधत्2623 तत्सम्बन्धिनी2624 सा2625; को दोष इति चेत् ? अत्राह--क्षणिकस्य इत्यादि । क्षणिकस्य
अर्थक्रियायाः
या सिद्धिः निर्णीतिः तामन्तरेण क्षणिकात् सत्ता अर्थक्रिया व्यावर्त्तमाना
कथञ्चित्क्षणिके सत्ताम्
अर्थक्रियां साधयेत् । कुत एतत् ? इत्यत्राह--विपक्षानतिशायनात् ।
उपसंहारमाह--तद् इत्यादि । यत एवं तस्माद् अयं सौगतः क्षणिके अर्थक्रियामेव कुतश्चित्
प्रमाणात् साधयितुम् अर्हति, अन्यथा तत्र तत्साधनाभावप्रकारेण विपक्षव्यावृत्तेरसिद्धिः
2626
विपक्षाद क्षणिकाद् अर्थक्रियायाः या व्यावृत्तिः तस्या असिद्धेः इति । का2627 इति
योगविभागात् का-सः2628 तात्परः तपरः इति यथा । अपर आह--कारणस्य । कथम्भूतस्य ?
क्षणिकस्य सत्तैव स्वरूपसत्त्वमेव अर्थक्रिया, तदुक्तम्2629--भूतिर्ये2630षां क्रिया सैव कथं
भूता सा ? इत्याह--प्रत्यक्षा इति एवं चेद् यदि । पराभिप्रायसूचकः चेत् शब्दः । उत्तरमाह
192 आचार्यः--तथा तेन प्रकारेण अक्षणिकस्य कारणस्य सत्तैव अर्थक्रिया प्रत्यक्षा इति न ततः2631 साध्यो
व्यावर्त्तते इति मन्यते ।


अनन्ने 2632कस्य कालत्रयानुयायित्वम् अक्षणिकसत्त्वम्, न च तत्2633 प्रत्यक्षतः प्रत्येतुं
शक्यं तत्र तदसामर्थ्यात्, १५८ ख तस्य पूर्वापरकोटिविच्छिन्नत्वं क्षणिकसत्त्वम्, तच्च2634 ततः2635
प्रत्येतुं शक्यं ततोऽस्या2636भावात् कथमुक्तमिति चेत् ? अत्राह--अविशेषात् अस्य विशेषस्याभावा
दिति । यथैव हि एकस्य कालत्रयानुयायिसत्त्वं द्रष्टुमशक्यं तथा बाह्यस्येतरस्य वा परमाणोः
क्षणमात्रसत्त्वम्2637 । कल्पनया तु तदुभयं शक्यमिति मन्यते ।


ननु न परमाणोः पूर्वापरयत्ता 2638 क्षणिकत्वमुच्यते, अपि तु दृश्यस्य स्थूलस्य2639,
ततोऽयं विशेष इति चेत्; अत्राह--प्रतीतीत्यादि । अत्रायमभिप्रायः--अस्मिन् पक्षे यथा युगपदे
कस्य स्थूलस्य एकानेकात्मकत्वं तथा क्रमेणापि इति, क्षणक्षयपक्षे प्रतीतिवा2640लक्षणो
विशेषः
अक्षणिकपक्षाद् भेदः इतरथा 2641 क्षणिकपक्षे प्रतीत्यनुग्रहणलक्षणोऽन्य एक्षा
ततान्यथा 2642 चिन्तितम् अन्यथा परस्य कार्यं प्रवृत्तम् ।


इतर आह--कार्योत्पत्तिः इत्यादि । अत्र दूषणम्--अन्यथापि 2643 अक्षणिकेऽपि
समानम् । तदुत्पत्तिः सा स्यात् इति परमतमाशङ्कते--कारणात् इत्यादि । चेत् शब्दः परा
भिप्रायद्योतकः । नन्वेतद् आशङ्कितं परिहृतं च कारणस्य क्षणिकस्य इत्यादिना; सत्यम्;
तथापि दूषणान्तरप्रतिपादनार्थं तत्पुनः आशङ्क्यते, तदेवाह--किं तेन 2644 इत्यादि । किं सत्त्वं
नानार्थ 2645क्रियालक्षणेन व्यापकेन व्याप्तम् ? न केनचिदिति । एव 2646 मन्यते—
यदा सत्तैव अर्थक्रिया; तथाऽभेदान्न तयोः कल्पितोऽपि व्याप्यव्यापकभावः । नहि त2647देव ते2648
तथा सति यद् दूषणं तदाह--तत इत्यादि । तत १५९ क उक्तन्यायात् स्वभावस्य सत्तास्वरूपस्य
अनुपलब्धिरेव उक्ता न व्यापकाऽनुपलब्धिः विपक्षे सत्ताबाधकं प्रमाणम् इति एवकारार्थः ।
अनेन अनुपलब्धिविशेषापरिज्ञानम् अ र्च ट स्य दर्शयति । सैवास्तु कोदोषः इति चेत्; अत्राह—
सा पुनः इत्यादि । सा परेण उच्यमाना पुनः इति वितर्के क्षणिकोपलब्धिः क्षणिकसत्ता विषये2649
विषयिशब्दोपचारादेवमुच्यते । अथवा उपलभ्यते इति उपलब्धिः इति व्युत्पत्तेः । असिद्धैव
अज्ञातैव । कुत एतत् ? इत्यत्राह--विप्रतिपत्तेः विरुद्धा अक्षणिकस्य प्रतिपत्तिः विप्रतिपत्तिः तस्याः ।
अनेन 2650तदभावसाधने विरुद्धोपलब्धिं दर्शयति । प्रतिपत्त्यभावाद्वा विप्रतिपत्तेः । अनेन स्वभावा
नुपलब्धिः । अस्यानभ्युपगमे दूषणमाह--अन्यथा अन्येन विप्रतिपत्त्यभावप्रकारेण साधनस्य
क्षणिकत्वानुमानस्य वैयर्थ्यात् सा असिद्धैव इति । समारोपव्यवच्छेदोऽपि प्रथमं चिन्तितः ।
इदमत्र तात्पर्यम्--अनुपलब्धिलक्षणप्राप्तायाः सत्तायाः न तावत् स्वभावानुपलब्धिः विपक्षेऽभाव
साधनं स्वयमनभ्युपगमात् । नाप्युपलब्धिलक्षणप्राप्तायाः; नित्यवत् क्षणिकेऽपि 2651तददर्शने गत्यन्त
193 राभावेन तदुपलब्धिलक्षणप्राप्तताऽसिद्धेरिति । तन्न प्रत्यक्षतः क्षणिकेऽर्थक्रियासिद्धिः । अत एव
नानुमानतोऽपि; त2652त्पूर्वकत्वादस्येति मन्यते ।


ननु यदुक्तम्--अन्यत्रापि समानम् इति; न समानम्; अक्षणिकात् क्रमाऽक्रमाभ्यां
कार्योत्पत्तेः विरोधात्; तत्परिहरन्नाह--पूर्वमित्यादि


पूर्वं नश्वराच्छक्तात्कार्यं किन्नाविनश्वरात् ।

कार्योत्पत्तिर्विरुध्येत न वै कारणसत्तया2653 ॥ १० ॥

यस्मिन् सत्येव यद्भावः तत्कार्यमितरत् कारणमिति क्षणिकत्वे न संभवत्येव सहो
त्पत्तिप्रसङ्गात् कुतः सन्तानवृत्तिः ? ततः प्राक् तत्करणसामर्थ्ये अनुत्पन्नं तदभाव एव
भावि तत्कार्यमिति मृत्वापि अङ्गीकर्त्तव्यम् । परपक्षे पुनः एतावानेव विशेषः कारणस्य...।
न च कारणाभावेन तदुत्पत्तिर्विरुध्येत । तदेतत् कारणं कार्योत्पत्तौ तत्कालं वा तिष्ठतु मा
वा भूत् प्राक् तत्करणसमर्थं पश्चान्न करोत्येव । न वै पश्चात् करोति अभावात्, तत्
स्वयं पश्चात् भवति, इत्यत्रापि प्रतिनियतकालमपेक्ष्यम्, यतो यथास्वं क्रमेण कार्यं
भवति ।


पूर्वं स्वसत्ताकाल इति यावत् १५९ ख शक्तात् समर्थात् । कुतः ? नश्वरात्
क्षणिकात् कार्यं जायते इत्यध्याहारः । कदा ? पश्चात् कालान्तरे । अत्र दूषणमाह--किन्न
इत्यादि । किं अविनश्वराद् अक्षणिकात् प्राक् शक्तात् कार्यं पश्चान्न जायते ? तथो
त्पादनस्वभावस्य अविशेषात् । नन्वेवं कार्यकालेऽपि कारणसंभव इति कुतः कार्यभाव2654 इति
चेत्; अत्राह--कार्योत्पत्तिर्विरुध्येत नवै नैव कारणसत्तया किन्तु तदभावेन ।


यदुक्तं परेण--2655न्वयव्यतिरेकनिबन्धनः कार्यकारणभावः । तत्र अन्वयः कारण
भावे भावः, व्यतिरेकः तदभावे अभावः
इति तन्निराकृत्य कारिकार्थं दर्शयितुकाम आह—
यस्मिन् इत्यादि । यस्मिन् सत्येव नाऽसति यद्भावः तस्य 2656 कार्यम् इतरत् पूर्वं कारणम्
इत्येवं क्षणिकत्वे
भावानाम् अङ्गीक्रियमाणे न संभवत्येव । कुत एतत् ? इत्यत्राह--सहोत्पत्ति
इत्यादि । कार्यकारणयोः युगपदुत्पत्तिप्रसङ्गात् कुतः सन्तानवृत्तिः2657 एतदुक्तं भवति--यदि सत्
कारणं कार्यं जनयति तर्हि स्वोत्पत्तिसमये जनयति, तदैव तस्य सत्त्वात् । त2658था तत्कार्ये 2659विश्व
194 कार्यं स्वोत्पत्तिसमय इत्येककालीनता सकलसन्तानस्य इति । ततः तस्माद् अनन्तरदोषात्
प्राक् स्वोत्पत्तिसमये तत्करणसामर्थ्ये तस्य विवक्षितस्य कार्यस्य करणं निष्पादनम् तत्र सामर्थ्यं
तस्मिन् सति अनुत्पन्नं कार्यं तदभाव एव कारणाभावे एव भावि तत्कारणाभाव एव भवत्
तस्य विनष्टस्य कार्यम् इत्येवं मृत्त्वा सटित्वापि अङ्गीकर्त्तव्यम् । १६० क अयमत्राभिप्रायः—
यथा प्राक् समर्थात् नश्वरात् पश्चात् जायमानं कार्यं तस्य इति व्यपदिश्यते तथा अनश्वरा
दपि इति न तत्रेदं दूषणं2660 ध र्म की र्त्ति ना कीर्त्तितं तत्कीर्त्तिमावहति । नन्वेवं तयोः अविशेष
एव दर्शितः इति चेत्; अत्राह--परपक्ष इत्यादि । परपक्षे अक्षणिकवादिपक्षे पुनः एतावानेव
अधिको विशेषः क्षणिकपक्षाद् भेदकः । कोऽसौ ? इत्याह--कारणस्य इत्यादि । नन्वेवं कार्यो
त्पत्तिर्न स्यात् कारणसत्तया तद्विरोधादिति चेत्; अत्राह--न च इत्यादि । किं तर्हि कारणाभावेन
तदुत्पत्तिर्विरुध्येत,
अन्यथा2661 निर्हेतुकत्वमिति मन्यते । प्रकृतोपसंहारमाह--यत एवं तत् तस्मात्
एतदुपलभ्यमानं पित्रादि कारणं कार्योत्पत्तौ क्रियमाणायां तन्निमित्तं वा तिष्ठतु तत्कालं वा
अवस्थितिं करोतु मा वाऽभूत् पूर्वमेव वा नीरूपतां व्रजन् प्राक् तत्करणसमर्थं पश्चान्न करोति
एवं 2662 किन्तु प्रागेव करोति ।


ननु सौगतस्य क्षणादूर्ध्वं तिष्ठन्ति भावाः तत्किमर्थमिदमुच्यते--तिष्ठन्तु2663
इति ? दृष्टार्थं 2664 । यथा अवतिष्ठमानं प्राच्यमर्थं2665 तदैव सकलं करोतु इत्युच्यते
तथा तद्विपरीतमपि उच्यतामविशेषात् ।


पर आह--नवै नैव पश्चात् करोति स्वयमभावात् पश्चात् इति । किं तर्हि ? त्कार्यं
पश्चाद् भवति स्वयम्त्येतद् अत्राप्यपेक्ष्यम्, इत्येतत्कारणात् प्रतिनियतकालं क्रिया
विशेषणमेतत् । यथास्वं क्रमेण स्वयम् इत्यनुवर्तते, कार्यं भवति इति । १६० ख ततो
निराकृतमेतत्--नाऽक्रमा2666त् क्रमिणो भावाः प्र॰ वा॰ १ । ४५ इत्यादि ।


ननु यथा नश्वरात् तत्कार्यं पश्चाज्जायमानमपि सकलमेकदैव जायते तथा नित्यादपि
जायते इति न युक्तम्--प्रतिनियतकालम् इत्यादि इति चेत्; अत्राह--यद् यद् 2667
इत्यादि ।


यद्2668 यदा कार्यमुत्पित्सु तत्तदोत्पादनात्मकम् ।

कारणं कार्यभेदेन न भिन्नं क्षणिकं यथा ॥ ११ ॥

यथा क्षणिकं प्रदीपादि कारणं स्वभावनानात्वमन्तरेण स्वभावदेशादिभिन्नमनेकं
क्रमभावि तैलदशाननदाहादि कार्यं करोति तथाऽक्षणिकं कालभेदभिन्नम् कार्य...। यद
नन्तरं यन्नोत्पन्नं न तत्तत्कार्यम् अक्षेपकारित्वात् कारणस्येत्ययुक्तं देशव्यवधानेऽपि तथा
प्रसङ्गात् । कालस्यैव...


195

यत् सजातीयं विजातीयं च यदा कार्यम् उत्पित्सु तस्य तदा यदुत्पादनं सत्ता
सम्बन्धिनः करणं तदात्मकम् । किं तत् ? इत्याह--कारणम् इति । नन्वेवं कार्यभेदात् तस्य2669
भेदः स्यात् । तदुक्तम्--क्रमाद्भवन्ती धीश्चेयं क्रमं तस्यापि संशति प्र॰ वा॰ १ । ४५
इति चेत्; अत्राह--कार्यभेदेन भिन्नं कारणम् इति पदघटना । दृष्टान्तमाह--क्षणिकं
यथा
इति ।


दृष्टान्तं व्याचष्टे--क्षणिकं प्रदीपादि कारणं स्वभावनानात्वमन्तरेण स्वभावदेशा
दिभिन्नम्,
अत्र आदिशब्देन चिरन्तर2670 बौद्धापेक्षया सामर्थ्यपरिग्रहः इदानीन्तनापेक्षया
कालपरिग्रहः, तस्य हि वल्ली दाहाद् एक2671स्मात् क्रमभावि 2672 तस्य र्पाकोर्थादे
कार्यं जायते अनेकं तैलद2673शाननदाहादिकं कार्यं यथा करोति । दृष्टान्तं व्याख्याय दार्ष्टान्तिके
योजयति--तथा कालभेदभिन्नम् अनेकं कार्यं करोति इति अक्षणिकं स्वभावनानात्वमन्तरेण
इत्येतदत्रापि अनुवर्त्तनीयम् । कुत एतत् ? इत्यत्राह--कार्य इत्यादि । इतर आह--यदनन्तरम्
इत्यादि । यत् तस्य अनन्तरं यद् वस्तु नोत्पन्नम् अपि तु पश्चात् कालान्तरे न तत् तस्य
कार्यम्,
कुत एतत् ? अक्षेपकारित्वात् कारणस्य । अस्योत्तरमाह--इत्येवं परस्य अयुक्तम् । कुतः ?
इत्याह--देशव्यवधानेऽपि१६१ क केवलं काल व्यवधाने तत् तथा प्रसङ्गात्; तथाहि—
यस्य अनन्तरदेशे यन्नोत्पन्नं न तत् तस्य कार्यम् अपेक्ष्यकारित्वात् कारणस्य इति न योगिज्ञानं
त्रैलोक्यकार्यमिति सर्वज्ञाभावः, इतरथा सर्वार्थदेशेन तेन2674 भवितव्यमिति प्राप्तम् ।


अथ देशव्यवधानेऽपि जातं तस्य इत्युच्यते न कालव्यवधाने; तदाह--कालस्यैव
इत्यादिना । तत्रोत्तरमाह--अप्राप्त इत्यादि ।


अप्राप्तकार्यकालत्वात् यथा व्यवहितमकारणम् ।

तदुत्तरं वा तत्कार्यं न च जातेस्तदत्यये ॥ १२ ॥

व्यवहितस्य कार्योत्पत्तौ व्यावृत्त्यविशेषात् उपयोगो न विशेष्येत, निवृत्तेः निःस्व
भावत्वात् । भावस्यैव कथञ्चिद् विशेषोषपत्तेः चित्रनिर्भासक्षणिकज्ञानवत् ततोऽनेन
पूर्वस्याभावे भवता अनिष्टेऽपि भवितव्यम् अभावस्य सर्वत्राविशेषात् । अन्यथा स्वत
एव नियतकालं कार्यलक्षणमतिवर्तेत2675 । अभावस्य च भेदायोगात् । नहि आनन्तर्यमभावं
विशेषयति अर्थस्वभावान्वयापत्तेः ।


अत्रायमभिप्रायः--ध र्मो त्त रा दी नां पूर्वमनन्तरं कारणम्, उत्तरं कार्यम्, विपरीतम्
अकार्यकारणम्, तत्र यदनन्तरं तैः कारणमभ्युपगन्तव्यम्, तत् कारणं न भवति इत्यकारणम् ।
कुतः ? अप्राप्तः कार्यकालो येन तस्य भावाद् अप्राप्तकार्यकालत्वात् । दृष्टान्तमाह--यथा
व्यवहितमिति ।
यथा रण्डागर्भं प्रति परिणेता कालेन व्यवहितोऽकारणम् तथा प्रकृतमपि
196 इति । द्वितीयं प्रयोगमाह--तच्च उत्तरम् अनन्तरं वा कार्यं तस्य कार्यं न भवति । कुत एतत् ?
इत्यत्राह--जातेरुत्पत्ते तदत्यये कारणाभिमतात्यये । अत्रापि यथा व्यवहितम्
इति निदर्शनं योज्यम् । यथा भाविकालव्यवहितं विधवागर्भकार्यं विनष्टस्य परिणेतुर्न भवति
तथा प्रकृतमपि इति ।


कारिकायाः सुगमत्वाद् व्याख्यानमकृत्वा यदुक्तं परेण--अप्राप्तकालत्वाविशेषेऽपि
पूर्वः अनन्तरमेव कारणं न व्यवहितं विचित्रत्वाद् भावशक्तेः । नहि प्राप्तकालमपि सर्वं
कारणमिति सन्दिग्धविपक्षव्यावृत्तिको हेतुः । एतेन द्वितीयोऽपि हेतुः चिन्तितः ।

इति; एतत् परिहरन्नाह--व्यवहितस्य इत्यादि । व्यवहितस्य चिरविनष्टस्य अनन्तरनष्टस्य च
कार्योत्पत्तौ १६१ ख क्रियमाणायां व्यावृत्तेः निवृ2676त्तेः अविशेषात् उपयोगः व्यापारो
विशिष्येत ।
तथा च अनन्तरवद् व्यवहितमपि कारणं स्यात् विचित्रत्वाद् भावशक्तेः अत्रापि
न दण्डधारितम् इति प्र ज्ञा क र गु प्त स्यै व म2677तं न ध र्मो त्त रा दी ना म् इति मन्यते ।
कुतो न विशिष्यते ? इत्याह--निवृत्तेः निःस्वभावत्वात् । ननु यदि निवृत्तेः निःस्वभावत्वान्न
विशेषः, कस्य तर्हि विशेषः ? इत्याह--भावस्यैव नाऽभावस्य कथञ्चित् केनापि समर्थेतरादि
प्रकारेण विशेषस्य भेदस्य उपपत्तेः उपयोगो न विशिष्यत इति ।


अत्राह कश्चित्--व्यवहितमपि किञ्चित् कारणं जाग्रज्ज्ञानादिः प्रबोधादेः, तस्य च स्वकाले
भावत्वाद् विशेषोपत्तिः इति साध्यविकलो दृष्टान्त इति तत्राह--चित्र इत्यादि । चित्रो निर्भासो
यस्य तत्तथोक्तं तच्च तत्क्षणिकज्ञानं च तस्य इव तद्वत् इति । चित्रैकक्षणिकज्ञानसमानस्य
भावस्य परिणामिन इत्यर्थः । एतदुक्तं भवति--यत् तद् व्यवहितस्यापि कारणत्वे जाग्रद्विज्ञानं
दृष्टान्तीकृतम्, तच्च निरंशैकपरमाणुपर्यवसितस्वभावम्; तर्हि न त2678त् वादिनः2679 प्रतिवा2680दिनो
वा प्रमाणतः सिद्धमिति कथं निदर्शनं पुरुषवत् ? अथ चित्रप्रतिभासापि एकैव बुद्धिः
प्र॰ वार्तिकाल॰ ३ । २२० इत्यादि वचनात् चित्रमेकम्; न तत् सौगतस्य दर्शनमनुसरति
किन्तु जैनस्य अक्रमेण इव क्रमेणापि आत्मनो दृश्येतरस्वभावेनापि चित्रत्वप्रसाधनात् । तन्न
किञ्चिदेतत् ।


उपसंहारमाह--यत एवं ततः अनेन । केन ? उत्तरेण कार्येण १६२ क कथम्भूतेन ?
पूर्वस्य कारणस्य अभावे एव न भावे भवता जायमानेन । किंकत्तथ्यम् 2681 ?
इत्याह--अनिष्टेऽपि न केवलम् इष्टे अनन्तरकाले भवितव्यमिति । इति पूर्वाभावस्य तत्कार
णस्य सर्वत्र काले अविशेषात् । न चाऽविकले कारणे कार्यानुत्पादो युक्त इति मन्यते । ननु सर्वदा
तदविशेषेऽपि कार्यं प्रतिनियतकालं जायते इति चेत्; अत्राह--अन्यथा इत्यादि । अनिष्टकालो
त्पत्त्यभावप्रकारेण अन्यथा स्वत एव आत्मनैव नियतकालं यत् स्वातन्त्र्यं निर्हेतुकत्वं सूचयत्
दुस्तरं कार्यलक्षणम् परायत्तत्वम् अतिवर्त्तेत भावाऽभावयोः अ2682नायत्तत्वात् ।


2683 197

स्यान्मतम्, पूर्वस्याभावो यद्यपि इष्टकालवद् अनिष्टेऽपि काले समस्ति तथापि अभि
मताभावकाल एव भवति कार्यमिति; तत्राह--अभावस्य च इत्यादि । अन्यस्माद् अभावाद्
भिद्यमानोऽभावः कथञ्चिद्भावःस्य ततो भेदाऽयोगात् इत्यभिप्रायः । कुत एतत् ? इत्य
त्राह--तर्हि2684आनन्तर्यम् इत्यादि । हियस्माद् आनन्तर्यं कार्योत्पत्तेः प्राग् अनन्तरम्
अभावस्य भाव आनन्तर्यमभावं विशेषयति अन्यस्मादभावाद् व्यवच्छिनत्ति, तुच्छाभावस्य
विशेषयितुमशक्तेः । एतदपि कुतः ? इत्याह--अर्थ इत्यादि । अर्थस्य जीवादेः स्वभावस्य
अन्वयापत्तेः ।
एतदुक्तं भवति--यदा पूर्वस्य कथञ्चिदुत्तराकारेण गमनम् अभावः, तदाऽसौ
केनचिद् बन्ध्यासुताद्यभावच्छिद्येतवं व्यवच्छेद्येतनान्यदा इति । यदि वा, कार्योत्पत्तेः प्राग्
अनन्तरकारणस्य भाव आनन्तर्यं तदभावं विशेषयति । नहि पूर्वमनन्तर१६२ ख स्याभावो
न सर्वस्य इति । कुतः ? इत्याह--अर्थ इत्यादि । पूर्ववद् योज्यम् ।


यदुक्तं सा2685न्त भद्रे ण--निरुध्यमानं कारणं निरुद्धम् इति; तदसारम्; यतो
निरुध्यमानं यदि स्वोत्पत्तिसमये; हेतुफलयोः समकालता, अन्यदा तु तदेव नास्ति इति किं
निरुध्यमानं नाम ? अन्यथा अर्थ इत्यादि दोषः । ततः स्थितम्--यथा प्राक् समर्थे नित्ये कारणे
अजातं कार्यं पश्चात् स्वयमेव नियतकालं जायमानं तस्य2686 कार्यं तथा क्षणिकेऽपि स्वसत्ता
काले समत्वेऽनुपजातं पुनस्तथा जायमानं न तस्य2687 इति ।


ननु च यद् यदा कार्यम् उत्पित्सु तत्तदोत्पादनात्मकं कारणं नित्यं यदि
क्रमवत्सहकारिकारणमपेक्ष्यते तदेव अनित्यत्वम्, तत्कृतमुपकारमात्मसात्कुर्वतो गत्यन्तराभावात् ।
अन्यथा किं त2688दपेक्षया अतिप्रसङ्गात् । तदुक्तम्--अपेक्ष्येत परः कार्यम् प्र॰ वा॰ ३ । १८०
2689त्यादि । इति चेत्; अत्राह--हेतोः इत्यादि ।


हेतोरात्मा न भिद्येत स्थिरस्य सहकारिभिः ।

उत्पत्तौ च क्षणिकस्य फलानां विविधात्मनाम् ॥ १३ ॥

सामग्रीवशात् कार्यभेदेऽपि यथाऽक्षेपकारिणां क्षणिकानां स्वभावभेदो न भवति
अनाधेयाप्रहेयातिशयत्वात् तथैव कालान्तरस्थायिनां क्रमोत्पित्सुकार्याविशेषेऽपि स्वभाव
भेदो मा भूत् । कार्यकाल...


हेतोः कारणस्य उपादानत्वेन अभिमतस्य । किम्भूतस्य ? स्थिरस्य नित्यस्य आत्मा
स्वरूपं न भिद्येत । कैः ? इत्याह--सहकारिभिः निमित्ताऽसमवायिकारणैः । कस्मिन्
सति ? इत्यत्राह--उत्पत्तौ सत्याम् इति । केषाम् ? इत्याह--फलानां विविधात्मनां देशादि
भिन्नस्वभावानाम् । सहकारिभिः इत्येतद् अत्रापि सम्बन्धनीयम् । अतोऽयमर्थो जायते—
सहकारिभिः कृत्वा फलानां विविधात्मनामुत्पत्तौ न उपादानोपकारोत्पत्तौ हेतोः आत्मा न भिद्यत
इति । यदि पुनरयं निर्बन्धः १६३ क सहकारिण उपादानस्य उपकारं कुर्वन्त एव प्रकृतफलानि
198 जनयन्ति इति । तत्रेदं चिन्त्यते--उपकारमुपादानस्य अपरमुपकारमुपकल्पयन्तः प्रकृतमुपकारं
जनयन्ति, अनुपकल्पयन्तो वा ? प्रथमपक्षे--अपरोपकारकरणेऽपि तदुपादानोपकारकरणमित्यनव
स्थायाम्, अपरापरोपकारकरण एव उपयुक्तशक्तीनां सहकारिणां प्रकृतकार्यजन्मनि व्यापारं 2690 न स्यात् । द्वितीयपक्षे--उपकारोपादानस्य उपकारमकुर्वन्त एव उपकारं कुर्वन्ति सहकारिणो न
कार्योपादानस्य त2691मकुर्वतः 2692 कार्यमिति किं कृतो विभागः ? अस्यैव समर्थनार्थं सौगत
प्रसिद्धं दृष्टान्तमाह--क्षणिकस्य च इति । शब्द इवार्थो निपातानामनेकार्थत्वात् । तदय
मर्थ उक्तो भवति--यथा क्षणिकस्य उपादानकारणस्य सहकारिभिः आ2693त्मा न भिद्येत तैरेव2694 फलानां
विविधात्मनामुत्पत्तौ तथा प्रकृतस्यापि इति । न हि त2695स्यापि निरंशस्य स्वहेतोः उत्पन्नस्य अर्थैः
किञ्चित् क्रियते 2696भेदप्राप्तेः इति ।


कारिकां विवृण्वन्नाह--सामग्रीवशात् इति । सामग्रीवशात् कार्यभेदेऽपि फलनानात्वेऽपि
क्षणिकानां स्वभावस्य स्वरूपस्य भेदो यथा न भवति । कथम्भूतानां तेषाम् ? इत्याह—
अक्षेपकारिणाम् इति अविलम्ब्यकारिणाम् इत्यर्थः । कुत एतत् ? इत्याह--अनाधेय इत्यादि ।
निरंशत्वेन तेषु अतिशयस्य केन अपि आधान प्रहाणाभावादिति मन्यते । तथैव तेनैव प्रका
रेण कालान्तरस्थायिनां नित्यानां क्रमोत्पित्सु १६३ ख कार्य2697विशेषेऽपि स्वभावभेदो
मा भूत् सामग्रीवशाद्
इत्येतदत्रापि सम्बन्धनीयम् । तद्वशादितीदे 2698भिन्नं कार्य
मेव जायते न तेषा2699म् अतिशयाधानप्रहाणम् इति मन्यते । कुतस्तर्हि क्रमेण कार्यमिति चेत् ?
अत्राह--कार्यकाल इत्यादि । विचारितमेतत्--यद् यदा कार्यमुत्पित्सु इत्यादिना2700 । तथा
सति क्रमभाविसहकारिवैफल्यम्, उपादानादेव क्रमकार्यनिष्पत्तेः । तत्सहकारिणः2701 तन्निष्पत्तौ
उपादानं किमर्थं गृह्यते तत्राऽसमर्थत्वात् ? अन्य2702था प्रागपि ततः कार्यं सहकारिणः समर्थाः जन
यन्ति नोपादानम्2703 इति किं कृतो विभागः ?


तेषामेव2704 वा तदन्वयव्यतिरेकानुविधानात् न नित्यव्यापिनः सन्निधानेऽपि2705 अतिप्रसङ्गात्
इति चेत्; अत्राह--नित्यैश्च इत्यादि ।


नित्यैश्च जातेष्वर्थेषु अन्योऽन्यसहकारिभिः ।

तेष्वेकत्र समर्थेऽन्ये न निवर्तेरन्नकालिकैः ॥ १४ ॥

यथाकार्यकालं स्वभावतः कर्तरि स्वकारणात्तथोत्पन्नेषु तत्करणसमर्थेषु पुन
रागन्तुकेषु परस्परउपकारिषु तत्करणसमर्थेऽन्यतमस्मिन् सति न वै अपरे निवर्तेरन्
प्रत्येकं तत्करणस्वभावत्वात् क्षणिकवत् । तदेवं क्षणिकेतरैकान्तौ नान्योन्यमतिशयाते ।
कार्यकारणयोः सहावस्थाने दधिक्षीरादिषु सहोपलम्भेन अभेदादिप्रसङ्गः इति चेत्;
संविदो विभ्रमेतरस्वभावयोः सहभावेऽपि सहोपलम्भादेरभावात् । विज्ञप्तेः...तदन्यत्रापि
कल्पयन् केन वार्यते ? परिणाम...। चित्र...


199

चशब्दो भिन्नप्रक्रमः इवार्थः अकालिकैः इत्यस्यानन्तरं द्रष्टव्यः । ततोऽयमर्थः--जातेषु
निष्पाद्येषु । केषु ? अर्थेषु कार्येषु सत्सु । कैः ? इत्याह--नित्यैः इति । किंभूतैः ? इत्याह—
अन्योऽन्यसहकारिभिः एककार्ये परस्परसहायैः इत्यर्थः । यदि वा, क्वचित् कार्ये एकस्य
उपादानत्वे अन्येषां तत्सामग्रीपतितानां सहकारित्वम्, तेषाम् उपादानत्वे तस्य सहकारित्वमित्य
न्योऽन्यसहकारिणः तैः इति । किम् ? इत्याह--अन्ये इत्यादि । तेषु अर्थेषु एकत्र एक
स्मिन् उपादाने सहकारिणि वा कारणे समर्थे व्याप्रियमाणे वा अन्ये सहकारिणः उपादान
पदार्था हेतवो न निवर्त्तेरन् किन्तु सर्वेऽपि तान् कुर्वन्ति तत्करणैकस्वभावत्वात् । अत्र निदर्श
नमाह--अकालिकैः इति । १६४ क यथा अकालिकैः क्षणिकैः अन्योऽन्यसहकारिभिः
जन्येष्वर्थे षु एकत्र अन्ये न निवर्त्तेरन् हेतवः तथा प्रकृतेऽपि2706 इति ।


यथा इत्यादिना कारिकां विवृणोति । कार्यकालाऽनतिक्रमेण यथाकार्यकालम् कत्तरि
कस्मिंश्चित् जनके सति । कुतः ? इत्याह--स्वभावतः स्वस्वाभाव्यात् । केषु सत्सु ? इत्यत्राह—
तद् इत्यादि । अत्रापि स्वभावतः इत्येतद् अपेक्ष्यम् । तत्करणसमर्थेषु यथास्वकालम्
उत्पित्सुकार्यजननशक्तेषु । किम्भूतेषु ? इत्याह--स्वकारण इत्यादि । पुनरपि किम्भूतेषु ?
इत्याह--पुनः इत्यादि । पूर्वं समर्थे तस्मिन् सत्यपि पुनः पश्चात् आगन्तुकेषु । पुनरपि
तानेव विशिनष्टि--परस्पर इत्यादिना । तस्मिन् सति किं जातम् ? इत्याह--तत् इत्यादि ।
तत्
इत्यनेन विवक्षितं कार्यं परामृश्यते । तत्करणसमर्थे अन्यतमस्मिन् उपादानकारणे
सहकारिणि वा सति नवै नैव परे निवर्त्तेरन् । कुवद् 2707 इत्यत्राह--प्रत्येकम्
इत्यादि । एकस्य एकस्य तत्करणस्वभावत्वादिति भावः । अत्र दृष्टान्तमाह--क्षणिकवद् इति ।
क्षणिक इव तद्वत् इति । यथा क्षणिके तत्करणसमर्थे अन्यतमस्मिन् अपरे निवर्त्तेरन् तथा
नित्येऽपि इति ।


यत्पुनरत्रोक्तं प2708रेण--क्षणिकस्य स्वहेतोः स स्वभावः यः सहकारिकारणापेक्षः
कार्यजनकः, स न नित्यस्य, तदभावात्, आकस्मिकत्वे अनियमप्रसङ्गः
इति; तदसारम्;
कार्याणां नित्यानां तदनिवारणात् । एवमर्थः नोकृं 2709 तथैव कालान्तरस्थायिनाम्
इत्यादि, अन्यथा कूटस्थानाम् इत्यादि ब्रूयात् । १६४ ख कूटस्थपक्षेऽपि अयं न दोषः
नित्यत्वात् तत्स्वभावस्य, अनित्यो हि स्वभावः स्वयमुत्पद्यमानोऽनियतः स्यात् इति युक्तम् । अत
एवोक्तम्--यथाकार्यकालम् इत्यादि ।


प्रकृतं निगमयन्नाह--तदेवम् इत्यादि । तत् तस्माद् एवम् उक्तप्रकारेण क्षणिकेतरैकान्तौ
क्षणिकाऽक्षणिकैकान्तौ नान्योऽन्यं परस्परम् अतिशयाते भेदं लभेते ? क्षणिकवद् अक्षणिकेऽपि
अर्थक्रियासंभवेन व्यापकानुप2710लब्धिः2711, सत्त्वेन व्याप्तिसिद्धिः । अथवा, अक्षणिकवत्
200 क्षणिकेऽपि तद2712सम्बन्धे न तस्य2713 तद्व्या2714प्तिसिद्धिः इति मन्यते । यत्र उपलब्धिलक्षणप्राप्तं यत्
नोपलभ्यते तत्र तन्नास्ति यथा प्रदेशविशेषे घटः, नोपलभ्यते च तथाविधं कारणं कार्ये इति
स्वभावानुपलब्धिः । तत्र तदुपलम्भे वा सर्वस्य सर्वत्रोपलम्भ इति प्राप्तम् । न चैवम्, ततः
प्रदेशविशेषे घटवत् कारणे कार्यस्य तत्र च कारणस्य अनुपलब्धिः दृश्यस्य अभाव इति क्षणि
कतासिद्धेः न युक्तम्--तदेवम् इत्यादि, इत्यभिप्रायवतो मतमाशङ्कते कार्य इत्यादि । कार्य
कारणयोः सहावस्थाने
अभ्युपगम्यमाने । एतदुक्तं भवति--यथा सतः कारणस्य कार्ये अवस्थानं
तथा कार्यस्य कारणे इति । ततः किं स्यात् ? इत्याह--दधिक्षीरादिषु सहोपलम्भेन
कार्यकारणयोः
इति सम्बन्धः, अभेदादिप्रसङ्गः । अस्यायमर्थः--यदि कार्यं दध्यादि पूर्वं
कारणेन क्षीरादिना, कारणं क्षीरादि कार्येण दध्यादिना पुनः सहोपलभ्यते तदा अस्य इदं
१६५ क कारणम्, इदमस्य कार्यम्
इति यो भेदः तस्य अभावो अभेदः, यदि वा, यदा
जैन-सांख्ययोः कारणे कार्यं तत्र2715 कारणं तादात्म्येन वर्त्तते तदा कार्यकारणयोः सहावस्थाने
एकत्वेन अवस्थाने सति कदाचित् क्षीरादिषु । केन किम् ? इत्याह--सहोपलम्भेन एकत्वोपल
म्भेन अभेदः कार्यमेव कारणमेव वा स्यात्, आदिशब्देन वर्त्तमानत्वादिव्यपदेशादिपरिग्रहः,
तस्य प्रसङ्गः । इत्येवं चेत्; अस्य उत्तरमाह--संविद् इत्यादि । संविदः तैमिरादिज्ञानस्य यो
विभ्रमस्वभावो
द्विचन्द्राद्यपेक्षया तिमिराशुभ्रमण न्यायबि॰ १ । ६ इत्यादि वचनात्
यश्च इतरस्वभावः स्वरूपापेक्षयाऽविभ्रमस्वभावः सर्वचित्तचैत्तानाम् न्यायबि॰
१ । १०
इत्याद्यभिधानात् । अथवा, संविदो निखिलकल्पनाज्ञानस्य यो विभ्रमः स्वभावो
अभिलापसंसर्ग
न्यायबि॰ १ । ५ इत्यादिवचनात् यश्च इतरस्वभावः स च कथितः2716,
तयोः सहभावेऽपि न केवलम् असहभावे । किम् ? इत्याह--सहोपलम्भादेः इत्यादि । सहोप
लम्भः सहदर्शनम् आदिर्यस्य अभेदादेः तस्य अभावात् । न वै द्विचन्द्रादिज्ञानस्य प्रतिभाससमये
एव तत्स्वभावोपलम्भोऽस्ति विप्रतिपत्त्यभावेन ततः कस्यचित् कदाचिदपि क्वचित् प्रवृत्तात्त्य
भावप्रसङ्गात् । न चैवम्, ततोऽपि प्रवृत्तिदर्शनाद् अ2717सत्त्वख्यात्यादिवादभेदाभावप्रसङ्गाच्च ।
एतत् सौत्रान्तिकं प्रति पूर्वोक्तस्य व्यभिचारप्रदर्शनार्थं व्याख्यानम् । तयोः सहभावेऽपि कथ
ञ्चिदेकत्वम्, भावेऽपि सर्वथैकत्वोपलम्भादेरभावादचोद्यमेतत् इति व्याख्येयम् १६५ ख


साम्प्रतं योगाचरं प्रति व्याख्यानं क्रियते--संविदो यो विभ्रमस्वभावो ग्राह्यग्राहकसंवेद
नत्रयस्वभावः यश्च इतरस्वभावोऽद्वयसंवित्स्वभावः । तथा चोक्तम्--


*अविभागोऽपि बुद्ध्यात्मा विपर्यासितदर्शनैः ।

ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते ॥

मन्त्राद्युपप्लुताक्षाणां यथा मृच्छकलादयः ।

अन्यथैवावभासन्ते तद्रूपरहिता अपि ॥

प्र॰ वा॰ २ । ३५४, ५५ इत्यादि ।


201

तयोः सहभावेऽपि युगपद्भावेऽपि कथञ्चिदेकत्वभावेऽपि वा । किम् ? इत्याह--सहोप
इत्यादि । पूर्ववद् व्याख्यानम् । तथाहि--तस्या2718 विभ्रमः 2719स्वभावोपलम्भे न इतरस्वभावोप
लम्भः । न हि शुक्ले शङ्खे पीततोपलम्भे शुक्लस्वभावोपलम्भः । ततो न युक्तम्--अविभा
गोऽपि बुद्ध्यात्मा
प्र॰ वा॰ २ । ३५४ इति,


*नान्योऽनुभाव्यो बुद्ध्यास्ति तस्या नानुभवोऽपरः ।

ग्राह्यग्राहकवैधुर्य्यात् स्वयं सैव2720 प्रकाशते ॥ प्र॰ वा॰ २ । ३२७ इति च ।

वदात्मनः 2721 पुरुषवत् स्वप्नेऽप्यदर्शनात् ततो भ्रान्तिमात्रे व्यवतिष्ठेत ।
इतरस्वभावादर्शनेऽपि गतेयं विभ्रमवार्ता इति निरभिधेयमेतत्--अवेद्यवेदकाकारा प्र॰ वा॰
२ । ३३०
2722त्यादि । अविभागोऽपि प्र॰ वा॰ २ । ३५४ इत्यादि च । न खलु चन्द्रम
स्यविभागेऽवभासने चन्द्रद्वयप्रतिभासकल्पननु2723 लोकबाधनात् । प्र ज्ञा क रः 2724 पूर्व
मविभागबुद्ध्यात्मनो दर्शनं पुनः तत्पृष्ठभाविना विकल्पेन2725 स ग्राह्यग्राहकसम्वित्तिभेद
वानिव लक्ष्यते
इति वचनं १६६ क नहि निर्विकल्पकेन किञ्चित् लक्ष्यते नाम, इति
सः2726 ध र्म की र्त्तेः अभिप्रायमज्ञात्त्वैव मन्यते, तथा तदभिप्रायाऽभावात्, अन्यथा मन्त्राद्युप
प्लुताक्षाणाम्
प्र॰ वा॰ २ । ३५५ इत्यादि निदर्शनमप्रेक्षाकारितां तस्य सूचयेत् । नहि नाम
सविभ्रमे अक्षविभ्रमो निदर्शनम्, ईश्वरादिविभ्रमस्य तज्जातीयस्य भावात् । न 2727चास्य द्विचन्द्रादि
भ्रान्तिरपि इन्द्रियजा इति सिध्यति । शक्यं हि वक्तुम्--प्रथमम् एकेन्दुदर्शनम्, पुनस्तस्य
विकल्पेन द्वित्वाध्यवसाय इति । तथा च 2728तस्या इन्द्रियजत्वं साधयतो2729 ध र्म की र्त्तेः अकीर्तिः
आयाता । शेषमत्र प्रथमपरिच्छेदेऽभिहितं प्रकृतेऽपि द्रष्टव्यम् । ततो यत्किञ्चिदेतत् ।


एतेन नैयायिकादिरपि जैनं प्रति कार्यकारणयोः इत्यादि वदन् निवारितो द्रष्टव्यः ।
तथाहि--संविदः संशयविपर्ययज्ञानस्य यः स्थाणुर्वा पुरुषो वाऽयम् इति, पुरुषे स्थाणौ वा स्थाणु
रिति पुरुषः इति वा विभ्रमस्वभावः, यश्च अयम् इति धर्मिमात्रे 2730इतरस्वभावोऽविभ्रमस्वभावः
तयोः । शेषं पूर्ववत् । भवतु अविरुद्धमेकं ज्ञानमिति चेत्; अत्राह--विज्ञप्तेः इत्यादि । तद्
अनन्तरोक्तम् अन्यत्रापि अर्थेऽपि समानं कल्पयन् केन वार्यते । कुत एतत् ? इत्यत्राह—
परिणाम इत्यादि । 2731सनिदर्शनमत्रैव हेतुमाह--चित्र इत्यादिना ।


यत्पुनः परेण2732 भावविनाशयोरपि2733नाभावसाधने उक्तम्--


202
*विनाशनियतो भावः तं 2734प्रत्यन्यानपेक्षणात् ।

तद्धेतूनामसामर्थ्यात् इति;

तदेतदन्यत्रापि समानमिति तत्साधनमिति दर्शयन्नाह--उत्पादस्थितिभङ्गानाम्
इत्यादि ।


उत्पादस्थितिभङ्गानां स्वभावादनुबन्धिता ।

तद्धेतूनामसामर्थ्यादतस्तत्त्वं त्रयात्मकम् ॥ १५ ॥

यथैव हि भावस्य विनाशहेतुः स्वभावभूतस्य विनाशं न करोति कृतस्य करणा
भावात् । नापि परभूतं करोति, तस्य करणेऽपि प्रागिव तदवस्थस्य तथोपलम्भादिप्रस
ङ्गात् । सम्बन्धासिद्धेः अस्येति व्यपदेशोऽपि मा भूत् । न च व्यतिरिक्तो घटादेर्विनाशो
नाम । सन्नपि तादात्मानमखण्डयन् तदवस्थमेव स्थगयति यतो न दृश्येत । तदयं विना
शहेतुः तदतत्क्रियाविकलः कथमपेक्ष्यः यतः कादाचित्को विनाशः स्यात् ?


प्रागसत आत्मलाभः उत्पादः, सतः पुनरभावो १६६ ख भङ्गः पूर्वस्य द्वितीयादिक्षणे,
अवस्थानं स्थितिः इति एतेषां स्वभावात् स्वरूपेण हेतुभूतेन अनुबन्धिता अविनाभाविता ।
कुत एतत् ? इत्यत्राह--हे2735तूनाम् इत्यादि । तेषाम् उत्पादस्थितिभङ्गानां ये हेतवः तेषाम्
असामर्थ्यात्, उत्पादस्थितिभङ्गेषु इति विभक्तिपरिणामेन सम्बन्धः । अतः अस्मात् न्यायात्
तत्त्वं जीवादिस्वरूपं त्रयात्मकम् उत्पादस्थितिभङ्गात्मकम् ।


सदृष्टान्तं कारिकार्थं दर्शयन्नाह--2736थैव हि इत्यदि । यथैव येनैव प्रकारेण, हिः इति
वितर्के भावस्य घटादेर्विनाशहेतुः मुद्गरादिः स्वभावभूव 2737 स्यात्म 2738भूतं भावस्य
इत्येतदत्रापि सम्बन्धनीयम्, विनाशम् अभावं न करोति । कुत एतत् ? इत्यत्राह--कृतस्य
इत्यादि । कृतस्य स्वकारणात् निष्पन्नस्य भावस्य करणाभावाद् भावस्य स्वभावभूतविनाश
करणाभाव एव कृतः स्यात्, तस्य च स्वहेतोः उत्पत्तेर्न करणमिति मन्यते । अस्वभावभूतं
तर्हि करोति; इत्याह--नापि इत्यादि । परभूतम् अर्थान्तरभूतं नापि करोति तस्य परभूतस्य
विनाशस्य करणेऽपि न करणे 2739 प्रागिव तदवस्थस्य पूर्वावस्थाऽविचलितस्य भावस्य
तथा पूर्ववद् उपलम्भादिप्रसङ्गात् । आदिशब्देन अर्थक्रियादिप्रसङ्गात् इति गृह्यते । दूषणा
203 न्तरं दर्शयन्नाह--सम्बन्ध इत्यादि । सम्बन्धस्य पारतन्त्र्यस्य असिद्धेः कारणाद् अस्य घटादे
र्विनाश इत्येवं व्यपदेशोऽपि, अभिधानमपि न केवलम् अ2740नन्तर एव दोष इति अपिशब्दः,
मा भूत् ।


ननु किमुच्यते १६७ क सम्बन्धासिद्धिः2741 इति, यावता विशेषणीभावो भावाभा
वयोः सम्बन्धः सिद्ध इति चेत्; न; अत्र अनवस्थितेः प्रतिपादनात् । माभूत् तयोः2742 सम्बन्धो
व्यपदेशो वा तथापि न दोषः, सम्बन्धरहितस्य अभ्युपगमात् इत्येके; तदपि न सुन्दरम्; साक्षात्
परम्परया वा तस्य इन्द्रियेण असम्बन्धो न; अग्रहणप्रसङ्गात् । तथापि ग्रहणे रूपादेः तेन2743
सम्बन्धकल्पनमनर्थकम् ।


स्यान्मतम्--अभावेन तस्य स्थगनात् तथोपलम्भाद्यभावादयुक्तस्य क्तंतस्य करणेऽपि
इत्यादि । तत्रोत्तरमाह--नच इत्यादि । नच नैव व्यतिरिक्तो घटादेः अर्थान्तरभूतो विनाशो नाम ।
स्फुटार्थे नाम शब्दः, तद्ग्राहकप्रमाणाभावेन अभावात् । दूषणान्तरमाह--तदात्मानम् इत्यादि ।
अस्यायमर्थः--सन्नपि तदात्मानं तस्य दृश्यस्य घटादेः आत्मानं स्वभावम् अखण्डयन् अविनाश
यन् तदवस्थमेव तदात्मानं स्थगयति, न च यतः स्थगनात् न दृश्येत । सता हि स्वविषयज्ञान
जननयोग्येन अवश्यं तत्कर्त्तव्यमिति मन्यते । तदात्मखण्डने स एव दोषोऽनवस्था2744 च ।


प्रकृतं निगमयन्नाह--तदयम् इत्यादि । यत एवं तत् तस्माद् अयं लोके प्रतीयमानो
विनाशहेतुः मुद्गरादिः । 2745दतत्क्रियाविकलो घटस्वभावास्वभावविनाशकरणविकलः कथं नैव
अपेक्ष्यो विनाशकार्ये इत्युपचारयतो 2746 अपेणात् कादाचित्को भावस्य विनाशः
स्यात् । यत
इति वा आक्षेपे, नैव स्यात्, नित्यः स्यात् इत्यर्थः ।


अत्रैव दूषणान्तरमाह--विनाशो यद्यभावस्याद् इत्यादिना ।


विनाशो यद्यभावः स्यात् क्रियाप्रतिषेधान्नचेत्

भावं न करोतीति केनापेक्ष्येत तत्क्वचित् ॥ १६ ॥

ततः स्वभावनश्वरोऽर्थः सिद्धः, तथैव भावस्य उत्पादहेतुरकिञ्चित्करः कृतस्य
उत्पादने प्रयोजनाभावात् । तत एवाभावस्यापि स्वतः सिद्धत्वात् । प्रागभावं भावी
कुर्वन्नुत्पादहेतुश्चेत्; प्राग्भावमभावीकुर्वन् विनाशहेतुः किन्नानुमन्यते ? यदि पुनर्भावस्य
प्रध्वंसाभावोऽपि स्वत एव अभावान्तरवत् स्वहेतोरेव अभावत्वात्, तथैव भावस्य
स्थितिरपि । यथा च स्वयमनुत्पित्सोः उत्पादहेतुः स्थास्नोः स्थितिहेतुरिति उत्पादस्थिति
हेतुरिति उत्पादस्थितिभङ्गान् प्रत्यनपेक्षत्वं भावस्य सिद्धं तत्स्वभावापेक्षणात्, कांश्चिद्
द्रव्यक्षेत्रकालस्वभावविशेषान् परिहृत्य अन्यत्र भवन् उत्पादो विनाशो वा तदपेक्षस्तद्धे
तुश्च युज्येत प्रतीतेरविरोधात् ।


विनाशः यद्यभावः प्रसज्यप्रतिषेधरूपा १६७ ख भावनिवृत्तिः यदि तर्हि अभावं
204 मुद्गरादिः करोति त्येवं भावं न करोति इति हेतोः क्रियाप्रतिषेधात्2747 घटादेः करण
निराकरणात् अकिञ्चित्करत्वं विनाशहेतोः, क्रियाप्रतिषेधरूपत्वात् प्रसज्यप्रतिषेधस्य इति तत्
तस्मात् केन अपेक्ष्येत न केनचित् क्वचित् कार्ये इत्यर्थः ।


उपसंहरन्नाह--तत इत्यादि । यत एवं ततः स्वभावतो नश्वरोऽर्थः सिद्धः । तथा च
प्रयोगः2748--यो यं प्रति अन्यानपेक्षः स तत्स्वभावनियतः यथा अन्त्या कारणसामग्री स्वकार्योत्पादनं
प्रति अनपेक्षा त2749त्स्वभावनियता, विनाशं प्रति अन्यानपेक्षश्च भावः इति । एवं दृष्टान्तं व्याख्याय
दार्ष्टान्तिकं विवृण्वन्नाह--तथैव इत्यादि । तथैव तेनैव प्रकारेण भावस्य घटादेः उत्पादहेतुः
अकिञ्चित्करः ।
कुत एतदिति चेत् ? अत्राह--कृतस्य उत्पादन इत्यादि । इदमत्र तात्पर्यम्—
यथा विनाशोऽभाव इति भाववतो भेदविचारमर्हति तथा उत्पादोऽपि तदविशेषादिति । तथाहि—
यदि सत एव स्वभावभूत उत्पादः क्रियते; तर्हि स एव क्रियते इति कृतस्य उत्पादने प्रयो
जनाभावात्
हेतुस्वभाववदिति । एतेन स्वभावभूतोऽपि चिन्तितः । न खलु सतो घटस्य अर्था
न्तरभूतोऽपि सः2750 क्रियमाणः कञ्चन अर्थं पुष्णाति ।


स्यान्मतम्--अस्य विकल्पद्वयस्य निरालम्बनत्वात् नातः प्रकृतसिद्धिरिति चेत्; अत्राह—
तत एव इत्यादि । तत एव अनन्तरविकल्पभेदादेव नान्यतोऽभावस्यापि न केवलमुत्पादस्य
स्वभावतः सिद्धत्वाद् उत्पादहेतुः अकिञ्चित्करः इति सम्बन्धः । अस्य १६८ क
विकल्पद्वयस्य निरालम्बनत्वे सौगतस्य इष्टाऽसिद्धिरिति मन्यते ।


परमतमाशङ्कते--प्रागभावम् इत्यादिना । अथ कोऽयं प्रागभावो नाम ? उत्पत्तेः पूर्वमभाव
इति चेत्; स मृत्पिण्डादन्यः, स एव वा स्यात् ? प्रथमपक्षे नैयायिकादेः तन्मतं न सौगतस्येति
तन्मतानभिज्ञानात् । न च तुच्छमभावं कश्चिद् भावीकरोति बन्ध्यासुतादेरपि त2751त्करणप्रसङ्गात्,
भावोपादानकल्पनावैफल्यप्रसङ्गाच्च2752 । तन्नाद्यः पक्षः । द्वितीयेऽपि पक्षे मृत्पिण्ड एव प्रागभावः,
तं भावीकुर्वन्
इत्युक्तम्, त2753स्य पूर्वमेव सतः तदयोगात् । अथ तं2754 घटाभावात्मकं भावीकुर्वन्
इत्ययमर्थो विवक्षितः, सोऽपि न युक्तः, त2755तो घटस्य भिन्नस्य भावात् व्यपदेशादिभेदात् । तन्न
द्वितीयोऽपि युक्तः । यदप्यत्रोत्तरम्--प्राग्भावम् इत्यादि । तत्रापि चिन्त्यते--किमिदं प्राग्भाव
मिति ? यदि विनाशात् पूर्वकालभावी घटः प्राग2756भावः तमिति; तर्हि बौद्धस्य न कश्चित्
तुच्छो विनाश इति कस्य ततः प्राग् अन्यदा वा भावः ? न खलु बन्ध्यासुतात् प्राक् किञ्चिद्
भवति । तत एव 2757तम् अभावीकुर्वन् इत्ययुक्तम्; अभावस्य ततो 2758व्यतिरेकाव्यतिरेकयोर्यथो
क्तदोषात् । अथ 2759तम् अभावीकुर्वन् कपालीकुर्वन् इत्युच्यते; तदसारम्; तस्यैव कपालभाव
योगात्, घटनाशे कपालभावायोगात्, ततो यत्किञ्चिदेतदिति ।


205

अत्र प्रतिविधीयते--यथैव हि सौगतस्य प्रागभावः प्रध्वंसाभावश्च तुच्छो नास्ति तथैव
करणात्, एकान्तेन भिन्नं कार्यमपि १६८ ख नास्ति किन्तु उपादानमेव उपादेयो भवति
इति प्रतिपादितम्2760 विज्ञप्तेः सिद्धिवि॰ ३ । १४ इत्यादिना । ततः प्रागभावं घटविविक्त
मृत्पिण्डाकारं द्रव्यं भावीकुर्वन् घटीकुर्वन् घटपर्यायोपेतं जनयन् उत्पादहेतुः उपादानम्, सहका
रिकारण2761कारणकलाप2762 इति चेत्; प्राग्भावं घटसत्त्वम् अभावीकुर्वन् स्वपर्यायकपालविविक्तं
कुर्वन् विनाशहेतुः किन्नानुमन्यते ? अयमेवाचार्यस्य अभिप्रायः । यदि पुनः इत्यादिनापूर्व
पक्षान्2763 यदि पुनः 2764 इत्यादिना तु अपरपक्षं दर्शयति । यदि इति पराभिप्रायसूचने,
पुनः इति वितर्के, भावस्य घटादेः प्रध्वंसाभावोऽपि न केवलं प्रागभावः स्वत एव स्वस्मादेव
नश्वरस्वभावात् नान्यतो मुद्गरादेः । अत्र निदर्शनमाह--अभावान्तरवत् इतरेतरात्यन्ताभाववत्,
सोऽपि स्वभावः, कुतः ? इत्याह--स्वहेतोरेव । प्रध्वंसः कपालात्मना भावः स्वत एव अभावत्वात्
इतरेतराभाववत्; अत्र दूषणमाह--तथैव इत्यादि । तथैव तेनैव प्रकारेण भावस्य 2765स्थितिः
परापरक्षणेषु अवस्थानमपि न केवलं प्रध्वंस एव स्वत एव स्यात् इति । शक्यं हि वक्तुं
भावस्य स्थितिः स्वत एव भावधर्मत्वात् प्रध्वंसवत् । न चात्र ध2766र्म्यसिद्धिः; पूर्वस्य उत्तरक्षणे
विवेकव2767द् अ2768विवेकत्वात् स्यापि प्रसिद्धेः, तथा चोक्तं न्या य वि नि श्च ये--


*भेदज्ञानात् प्रतीयेते प्रादुर्भावात्ययौ यदि ।

अभेदज्ञानतः सिद्धा निरंशे न 2769 केनचित् ॥ न्यायवि॰ श्लो॰ ११४

अत एव न स्वरूपासिद्धो हेतुः प्रत्यक्षादिबाधितो वा पक्षः । अनेन १६९ क पूर्वस्य
हेतोर्विरुद्धत्वमित्थं कथयति--तत्र यदुक्तं प्राग्भावम् इत्यादि; तदयुक्तम्; यतो नश्वरं चेत्
2770तमभावीकुर्वन् विनाशहेतुः किं 2771तेन ? स्वयमेव नाशात् । 2772विपरीतं चेत्; तदशक्यम् । नहि
अनश्वरं तं कश्चिद् अभावीकर्त्तुं समर्थ इति चेत्; अत्राह--यथा च इत्यादि । यथा इति
वचनाद् अनुक्तमपि तथा इति गम्यते । तथा स्वयम् आत्मनोऽपि अनुत्पित्सोश्च पुनः
उत्पादहेतुः अकिञ्चित्करः
इति सम्बन्धः । प्रथमस्य स्वयम् उत्पत्तेरन्यस्य शशविषाण
वत् कारणसन्निधानेऽपि अनुत्पत्तेरिति भावः । एवं स्थितावपि दर्शयति स्थास्नोः इत्यादिना ।
स्थितिहेतुः अकिञ्चित्कर इत्येवं सर्वं समानम् । अनेनैव तद्दर्शयति--उत्पादस्थितिभङ्गान्
प्रति अनपेक्षत्वं भावस्य सिद्धं तत्स्वभावापेक्षणात् इति
तद्वि2773नाशेऽपि । यदि पुनः
तं प्रति नापेक्षं तत्स्वभावस्य सर्वदा सन्निधानात्
इत्युच्यते तथा प्रतीतेः; तदितरत्र समानमिति ।
तथा च--


*विरुद्धाव्यभिचारी स्यात् सर्वो हेतुः परोदितः ।

समत्वात् परपक्षेऽपि यद्वा स्यात् कल्पितः स्वयम् ॥

206

ननु च उत्पादस्य अहेतुकत्वे नित्यं सत्त्वमसत्त्वं वा । तदुक्तम्--


*नित्यं सत्त्वमसत्त्वं वा हेतोरन्यानपेक्षणात् ।

अपेक्षातो हि भावानां कादाचित्कत्वसंभवात् ॥ प्र॰ वा॰ ३ । ३४

इति चेत्; अत्राह--कांश्चित् द्रव्य इत्यादि । कांश्चिद् विवक्षितान् द्रव्यक्षेत्रकाल
स्वभावविशेषान् विशेष
शब्दः प्रत्येकं द्रव्यादिभिः सम्बन्धनीयम्2774, परिहृत्य । का
2775 ? अन्यत्र अभिमतकालादौ भवन् जायमानः वाशब्दो भिन्न१६९ ख प्रक्रम इवार्थः
उत्पाद इत्यस्यानन्तरं द्रष्टव्यः । तत उत्पाद इव विनाशः तदपेक्षो अन्यद्रव्यापेक्षः तद्धेतुः
द्रव्यादिहेतुको युज्येत । कुत एतत् ? इत्यत्राह--प्रतीति2776रविरोधात् । अथवा, यथानिवेशमेव
वा शब्दो व्याख्येयः । विनाशवद् उत्पादोऽपि स्वत एव इति स्वभाववादिनं प्रति कांश्चिद्
इत्यादेः उपन्यासात् । अत्र इति समुच्चये । शेषं पूर्ववत् ।


एवं सत्यपि दृष्टान्ते व्याप्तिग्रहणाभावात् क्षणक्षयादौ सर्वहेतूनां गमकत्वं प्रतिपाद्य संप्रति
दृष्टान्ताभावात्तत्प्रतिपादयन्नाह--जीवच्छरीर इत्यादि ।


यदि वा, यदुक्तम् अ र्च टे न--सत्त्वादेः अन्वयाभावेऽपि व्यापकानुपलब्धेः
विपक्षव्यतिरेकाद् गमकत्वम्
इति2777; तत्र कृतं निषेध2778 उपसंहरन्नाह--जीवच्छरीर
इत्यादि ।


जीवच्छरीरे प्राणादिर्यथाऽहेतुर्निरन्वयात् ।

तथा सर्वः सत्त्वादिरहेतुः क्षणिके क्वचित् ॥ १७ ॥

पक्ष2779विपक्षाभ्यां सर्वस्य संग्रहात् यथा जीवच्छरीरे प्राणादिरनन्वयः तथा क्षणिक
त्वेऽपि सत्त्वकृतकत्वादिरिति । न हि क्षणिकत्वेतराभ्यां तृतीया राशिरस्ति यत्र हेतुर्वर्तते
शब्देऽपि तथाऽनिश्चयात् । अपरापरताल्वादिचक्षुरादितैलादिव्यापारसाफल्याच्छब्दा
दीनामपरापरस्वभावसिद्धेः क्षणिकत्वविनिश्चयः, तत एव अनित्यतामात्रं साध्यं क्वचित्
सिद्धम्, तत्रैव तद्व्यापारस्य साफल्यात् ।


जीवच्छरीरे सात्मकत्वे साध्ये प्राणादिः हेतुः यथा येन प्रकारेण अहेतुः । कुतः ?
इत्याह--निरन्वयात् साधर्म्यदृष्टान्ताभावात् । तथा सर्वः शु2780द्धाशुद्धस्वभावः सत्त्वादिः
निरन्वयादहेतुः क्षणिके क्वचित् कस्मिंश्चित् शब्दादौ साध्ये क्षणिकत्वे वा क्वचित् साध्ये ।
अथवा, जीवच्छरीरे सात्मकत्वे साध्ये प्राणादिः हेतुः निरन्वयाद् अन्वयाभावं प्राप्य योऽसौ
उक्तः स यथा येन व्यतिरेकाभावप्रकारेण सत्त्वादिरहेतुः । शेषं पूर्ववत् ।


207

कारिकां विवृण्वन्नाह--पक्ष इत्यादि । जीवच्छरीरं सर्वं पक्षः, घटादिः विपक्षः, ताभ्यां
सर्वस्य
चेतनेतरजातस्य संग्रहात् यथा जीवच्छरीर2781प्राणादिः अनन्वयः साधर्म्यदृष्टा
न्तरहितः तथा क्षणिकत्वे साध्ये, अपिशब्दो भिन्नप्रक्रमः सत्त्वकृतकत्वादिः इत्यस्य अन
न्तरं द्रष्टव्यः । यदि वा, यथास्थानमेव अपिशब्दोऽस्तु । तत्रायमर्थः--क्षणिकत्वे अपिशब्दाद्
अक्षणिकत्वेऽपि इति । नहि तत्रापि सपक्षोऽस्ति, अनन्वयः इत्यपेक्षा । कुतः ? इत्यत्राह--नहि
इत्यादि । हि यस्मात् न व्याप्तिसाधने सत्त्वादेः क्षणिकेतरत्वाभ्याम् अविनाभावसिद्धौ
तृतीया राशिरस्ति सपक्षाभिधाना प्रतिरत्र तद्रासौ 2782 हेतुः सत्त्वादिः वर्तेत ।
शब्दादिः तृतीया राशिरस्ति इति चेत्; अत्राह--शब्द इत्यादि । अपिशब्दात् न केवलं विवाद
गोचरे वस्तुनि इति तथा क्षणिकत्वप्रकारेण अनिश्चयात् सत्त्वादेः इति । न च तथाऽनिश्चित
सत्त्वं वस्तु निदर्शनम्, इतरथा साध्यमपि स्यादविशेषात् । यदा पुनः शब्द एव क्षणिक
साध्यः तदा शब्दस्य बुद्ध्यादिभिः सह उपादानं तेन2783 तेषां2784 समानताप्रतिपादनार्थम् ।


अत्रापरः प्राह--अपरापरताल्वादि-चक्षुरादि-तैलादिव्यापारसाफल्यात् शब्दादीनाम्
अपरापरस्वभावसिद्धिः2785 क्षणिकत्वविनिश्चयः;
तदसारमिति दर्शयन्नाह--तत एव इत्यादि ।
यत एव अपरः त2786द्व्यापारः अपरापरशब्दादिस्वभावमन्तरेण अनुपपन्नो वैफल्यात्, तत एव
अनित्यतामात्रं
परिणामिनित्यत्वं साध्यं क्वचित् सौगतस्य तत्रैव तद्व्यापारस्य उक्तविधिना
साफल्यात् । एतदुक्तं भवति--ततो न्यायात् शब्दादौ परिणामाऽनित्यत्वं सिद्धं तन्निदर्शनमुच्यते
नान्यत्र सिद्धसाधनात्, तथा च दृष्टान्ताभावात्तदसाध्यमुक्तम् । १७० ख एतच्चोक्तमिति
किमनेनेति चेत्; न; अन्यथा अभिप्रायात् । यदुक्तं प्र ज्ञा क रे ण--क्षणिकत्वे साध्ये न
दृष्टान्ताभावो नीलादेः सर्वस्य, तत्र यद्य2787वभासते तत्तथैव परमार्थसद् व्यवहारावतारि
यथा नीलं नीलतयाऽवभासनं तथैव तदवतारि, सर्वमवभासते च क्षणिकतया ।
इति;
तत्र पक्षस्य प्रत्यक्षबाधनं हेतोश्च असिद्धत्वमनेन कथ्यते । अथवा, क्षणिकत्वात् नीलादेरव्यतिरेके
2788द्वत् त2789स्यापि स्वभावविप्रकर्ष इति दृष्टान्तस्य साध्यसाधनोभयवैकल्यम् । तत्र तदनभ्युपगमे क्व
हेतोः उपसंहार इति प्रदर्श्यते ।


स्यान्मतम्--सौगतस्य दानादिचेतांस्येव पुण्यपापव्यपदेशभाञ्जि, तेषां च स्वसंवेदनाध्यक्ष
विषयत्वात् न स्वभावविप्रकर्ष इति साधनविकलता दृष्टान्तस्येति; तदशिक्षिताभिधानम्; यतः
ततः कालान्तरे फलाऽसिद्धेः, तदन्याभ्युपगमस्य अवश्यंभावात् । अथ मतम्--स्वभावविप्रकर्षेऽपि
पुण्यपापयोः सर्वैरपि वादिभिः साधनात्, साध्यविकलता दृष्टान्तस्येति; तदनुपपन्नम्; प्रक्रमाऽप
रिज्ञानात् । ततः तदसाध्य...साधनात् । साध्यं तु उक्तमेव ।


साम्प्रतं हेतोर्विरुद्धत्वात् न तत् साध्यम्; इत्याह--अनिष्टसिद्धेः ।


208
अनिष्टसिद्धेः पारार्थ्यं यथाऽनिष्टं प्रसाधयेत्2790

संहतत्वं तथा सत्त्वं शब्दक्षणिकतान्वयि ॥ १८ ॥

परार्थाश्चक्षुरादयः...नहि विपक्ष एव निर्णयात् कृतकत्वस्य । यद् यद्भावं प्रति
अन्यान्यपेक्षं तत्तद्भावनियतं यथा अन्त्या कारणसामग्री स्वकार्यजननं प्रति
इति परस्य
चोदितचोद्यमेतत् । तथा चेत्; भावः कालान्तरस्थानोत्पादं प्रत्यनपेक्षणात् तद्भावनियतः
सिध्येत् नान्यथा । सतोऽर्थस्य पुनः उत्तरकालं स्थितौ किमपेक्षणीयं स्यात् यतः कादा
चित्की स्थितिः स्यात्, तथा पुनरुत्पित्सोरुत्पत्तौ न किञ्चिदपेक्षणीयमिति समानम् । यदि
पुनः भावः स्थास्नुरुत्पित्सुर्वा न भवेत् न कदाचिदपि तिष्ठेदुत्पद्येत वा खपुष्पवत् । नहि
तन्नश्वरत्वमेव साधयतीति समञ्जसम् अन्यत्राप्यविशेषात् । तदिमेऽर्थाः स्वरसत एवोत्तरी
भवन्तो यथायोगं परस्परोपकारमतिशयाधानमात्मसात्कुर्वन्ति । कस्यचित् कुतश्चिद्विनाशे
परोऽन्य एव जायते । ननु निरन्वयनिवृत्तौ कस्य कारणाहिता कार्योत्पत्तिः ?


अनिष्टस्य परिणामाऽनित्यत्वस्य सिद्धेः तत्रैव सर्वहेतूनां दर्शनान्न तत्साध्यमिति वैफ
ल्याच्च साधनस्य
इति शेषः, यदर्थं तत्प्रयुक्तं तस्य असाधनात् अनिष्टसिद्धिं समर्थयते पारा
र्थ्यम्
इत्यादिना । चक्षुरादीनां संबन्धि संहतत्वं कर्तृ प्रसाधयेत् यथा येन १७१ क
तत्रैव दर्शनप्रकारेण । किम् ? इत्याह--पारार्थ्यम् । किम्भूतम् ? अनिष्टम् तेषामेव2791
सांख्येन संहतं तत् साधयितुम् इष्टं संहतं प्रसाधयेत् । एवं परप्रसिद्धं निदर्शनं प्रतिपाद्य
दार्ष्टान्तिकं प्रतिपादयति तथा सत्त्वं शुद्धेतररूपम् अनिष्टं प्रसाधयेत् इति सम्बन्धः ।
किंभूतं सत्त्वम् ? इत्याह--शब्द इत्यादि ।


कारिकार्थं प्रकटयति--परार्थाश्चक्षुरादयः इत्यादिना । कुत एतत् ? इत्यत्राह--नहि
इत्यादि । विपक्ष एव परिणाम एव निर्णयात् कृतकत्वस्य इति । ननु यद्यपि कृतकत्वस्य 2792तत्रैव
निर्णयः तथापि न तेन तद्व्याप्तिः अनुमानेन 2793तद्विपरीतव्याप्तिप्रसाधनादिति परः । तदेव दर्शय
न्नाह--यद् यद्भावम् इत्यादि । ननु पूर्वम् उत्पादस्थितिभङ्गानाम् इत्यादिना सर्वमेत
दुक्तम्2794, इति किमर्थं पुनरपि उच्यते इति चेत् ? सत्यमुक्तम्, किन्तु पूर्वं विनाशे अयमिव
2795 स्वतन्त्रो हेतुः, अधुना अनेन कृतकत्वादेः नाशित्वेन अविनाभावः साध्यत इति
विभागः । यद्वा विपक्ष एव निर्णयात् इत्यस्य हेतोभक्तेनैव परग्रथनासिद्ध तामुद्भानैव 2797 तां परिहरति परस्य चोदितचोद्यमेतत् इति निपानार्थ
2798यद्वस्तु यस्य भावो यद्भावः तं प्रति अनपेक्षं तद्वस्तु तद्भावनियतं द्वितीयेन
तच्छब्देन यदुक्तं तस्य परामर्शः । अत्र दृष्टान्तमाह--यथा इत्यादिकम् । अन्त्या चासौ कारण
सामग्री च
इति तत्सामग्री स्वकार्यजननं प्रति अनपेक्षा सती तद्भावनियतैव स्वकार्यजनन
209 भावनियतैव । पक्षधर्मोपसंहारमाह--तथा इत्यादि । सुगमम् । चेच्छब्दः १७१ ख परा
भिप्रायद्योतकः । अत्रोत्तरमाह--भाव इत्यादि । भाव इत्येतदुपलक्षणं तेन कृतक इत्येतदपि
गृह्यते । कालान्तरस्थान 2799उत्पादश्च तौ प्रति अनपेक्षणात् तद्भावनियतः कालान्तर
स्थानोत्पादभावनियतः सिध्येत् । अस्याऽनभ्युपगमे दूषणमाह--नान्यथा अतो हेतोर्विनश्व
राभावः सिध्येत् व्यभिचारित्वात् हेतोरिति मन्यते । एतदनेन दर्शयति--यथा क्षणिकत्वे सत्त्वा
दिर्विरुद्धः 2800विपक्ष एव निश्चयात्, तथा अन्येन तस्य अविनाभावसाधकोऽप्यनपेक्षणादिति
हेतुः 2801तत्रैव विनिश्चयाविशेषादिति ।


स्यान्मतम्--कालान्तरस्थानोत्पादौ प्रति अनपेक्षणात् इत्यसिद्धम्; तद्भावनियतत्वे तौ
प्रति सापेक्षत्वाद् भावस्य इति । तत्रोत्तरमाह--सतोऽर्थस्य इत्यादि । सतो विद्यमानस्य अर्थ
क्रियाकारिणो भावस्य पुनः इति वितर्के उत्तरकालम् उत्पत्तेः स्थितौ किमपेक्षणीयं स्यात्
न किञ्चिदित्यर्थः । सतोऽर्थस्य स्वभावभूताया अन्यस्या2802 वा केनचित् करणे विनाशे च दोषात्,
एवमर्थं च सतोऽर्थस्य इत्युक्तम्, यतः अपेक्षणीयात् कादाचित्की स्थितिः स्यात् तथा तेनैव
प्रकारेण पुनः उत्पित्सोर्भावस्य उत्पत्तौ न किञ्चिदपेक्षणीयम् यतोऽपेक्षणीयात् कादाचित्त्वो
2803त्पत्तिः स्यादिति । यतः इत्याद्यनुवृत्तेः । इत्येवं समानं विनाशवदत्वाप्यतदत्तप्येतदस्ति
2804 इति मन्यते ।


नन्वस्य अपेक्षणीयस्याभावेऽपि स्थास्नु-उत्पित्सु-स्वभावापेक्षणात्, अस्य च सर्वदाऽसन्नि
धानादसिद्धो १७२ क हेतुः इति चेत्; अत्राह--यदि पुनः इत्यादि । भावो जीवादिः
स्थास्नुः उत्पित्सु वति 2805 भवेत् न कदाचिदपि तिष्ठेद् उत्पद्येत वा खपुष्पवत् इति ।
तिष्ठति उत्पद्यते च ततः 2806तत्स्वभाव इति । ननु तद्भावं प्रति अनपेक्षत्वं नश्वरत्वमेव साधयति
प्रत्यक्षादिबाधाऽभावात् न स्थित्युत्पत्तिस्वभावं 2807विपर्ययादिति चेत्; अत्राह--नहि इत्यादि । हिः
यस्मात् तद्भावं प्रति अनपेक्षत्वं नश्वरत्वमेव 2808नान्यत् साधयति इति न समज्जसम् उपपन्नम् ।
कुत एतत् ? इत्यत्राह--अन्यत्रापि । 2809आपाद्यसाध्येऽपि अविशेषाद् विशेषाभावात्; तत्रापि
प्रत्यक्षादिबाधाऽभावादिति मन्यते ।


उपसंहारव्याजेन परकीयस्य हेतोरसिद्धतां दर्शयन्नाह--तद् इत्यादि । यत एवं तत्
तस्मात् इमे प्रत्यक्षतः प्रतीयमाना अर्था जीवादयः स्वरसत एव स्व भावत एव उत्तरी
भवन्तः
2810पूर्वाकारपरित्यागाऽजहद्वृत्तोत्तराकारं गच्छन्तः आत्मसात्कुर्वन्ति इति युक्तम् ।
किम् ? इत्याह--अतिशयाधानं योग्यतास्थापनम् । कथम् ? इत्याह--यथायोगमिति
उत्पादविनाशसहकारिकारणसंबन्धो योगः तस्य अनतिक्रमेण । कथंभूतम् ? इत्याह--परस्परो
पकारम्
इति । परस्परेण सहकारिणा उपादानस्य अनेन2811 सहकारिण उपकारो यस्मिन् येन इति
210 वा विग्रहः । तदनेन उत्पादं प्रतीवपिनासं 2812 प्रत्यपि भावस्य कृतकस्य वा2813
सापेक्षत्वाद् भावस्य विनाभावसाविनासाविनाभाव 2814साधने 2815तद्भावं प्रत्य
नपेक्षत्वमसिद्धमित्युक्तम् १७२ ख भवति । ननु यदुक्तम्--तहिये 2816 अर्थाः स्वर
सत एव उत्तरीभवन्तः
इति; तदयुक्तम्; कस्यचित् पूर्वस्य2817 कुतश्चिद् विनाशे परः अन्य
एव
जायते इति चेत्; अत्राह--ननु इत्यादि । ननु नैव निरन्वयनिवृत्तौ अत्यन्तमभावे कस्य
कारणस्य कारणाकारणाहिता 2818 कार्योत्पत्तिः अनियमप्रसङ्गादिति मन्यते ।


कथं तर्हि कार्योत्पत्तिः ? इत्यत्राह--अनादिनिधनम् इत्यादि ।


अनादिनिधनं द्रव्यमुत्पित्सु स्थास्नु नश्वरम् ।

स्वतोऽन्यतो विवर्तेत क्रमाद्धेतुफलात्मना2819 ॥ १९ ॥

यदि सर्वं सत् उत्पादस्थित्यात्मकं सर्वदा न स्यात् सकृदपि तथा मा भूत् खर
विषाणवत्, तथा तत् पूर्वोत्तरपरिणामात्मना सततं विवर्तमानं प्रतिक्षणं त्रिलक्षणं हेतुफल
व्यवस्थामात्मनि विकल्पयन् परत्र कार्यकारणव्यपदेशभाग् भवतीति समज्जसम्, प्रत्यनी
कस्वभावाविनाभावात् ।


अविद्यमाना 2820 आदिनिधनम् अनादिनिधनं, 2821सादित्वे कार्यानुपादानकारणा
2822भावे2823 सदपि सहकारिकारणम् अकिञ्चित्करम् । न चैवं शक्यं वक्तुं कदाचिदनुपादाना
कार्योत्पत्तिः अन्यदा अ2824न्यथेति; तथाऽदर्शनात् । दर्शनानुसारेण च तत्त्वव्यवस्थानात् । कथञ्चैवं
वादिनां कार्यदर्शनाद् उपादानकारणानुमानम् ? सर्वत्राऽऽशङ्काऽनिवृत्तेरति 2825तद्व्यवहारोच्छेदः ।
2826सान्तत्वे पुनः अशेषसन्ताननिवृत्तिरिति । निरूपयिष्यते चैतत् जी व सि द्धौ2827 । किन्तदित्थ
म्भूतम् ? इत्याह--द्रव्यम् इति । न चैतत् चोद्यम्--2828रूपादिव्यतिरेकेण किं तत् इति ?
प्रतिभासैक्यनियम सिद्धिवि॰ १ । १० इत्यादिना प्रसाधनात् । पुनरपि कथम्भूतं
तदिति आहोस्वित् तदित्याह--उत्पित्सु स्थास्नु नश्वरम् इत्यादि । तत्किं कुर्यात् ?
इत्याह--विवर्त्तेत । केन प्रकारेण ? हेतुफलात्मना मृत्पिण्डघटादिस्वभावेन ।


2829ननु च प्रधानं महदादिफलात्मना विवर्त्तते न 2830तद्धेत्वात्मना मूलप्रकृतिरविकृतिः2831
सांख्यका॰ ३ इति वचनादिति चेत्; न; महदादिपरिणामजननस्वभावस्य अकादाचित्कत्वे
2832तदनुपरतिरिति कपिलोऽन्यो2833 वा मुत्को न म कथं 2834 यदि पुनः कपिलादिना
१७३ क संसर्गाभावात्तदुपरति2835 रिति मतिः; सापि न युक्ता; 2836अविकले कारणे कार्यस्य
211 अवश्यंभावात् । अथ 2837तत्संसर्ग एव स 2838स्वभावो न पूर्वम्; हन्त कथम् मूलप्रकृतिः2839 ?
सांख्यका॰ ३ इति युक्तम् हेतुफलात्मना इति ।


एतेन वैशेषिकादिमतमपि चिन्तितम् । यदैव द्रव्यस्य हेत्वात्मता तदैव फलात्मता । अयं
तु विशेषः--कदाचित् कस्यचिदभिव्यक्तिः अनभिव्यक्तिस्वाह च 2840 सर्वं
सर्वत्र विद्यते
इति कश्चित्2841; तं प्रत्याह--क्रमाद् इति । क्रमम् आश्रित्य इत्यर्थः, इतरथा
सव्येतरगोविषाणवत् न हेतुफलव्यपदेशः2842 । व्यङ्ग्यव्यञ्जकभावेऽपि अस्य चोद्यस्याऽनिवृत्तेः ।


विवर्तते तदात्मना2843 किन्तु स्वत एवेति पुरुषाद्यद्वैतवादिनः पुरुष एवेदम् ऋक्॰
१० । ९० । २
2844त्यादि वचनात् । यद् उत्पद्यते तत् परतः, नश्वरः, स्वात्मनि क्रियाविरोधात्2845,
उत्पत्तिसमये स्वमयभावाच्च2846 । तथा परत एव विन 2847 स्वतः, सर्वदा विनाशप्रसङ्गात्

इति केचित्2848; तान् प्रति आह--स्वतः अन्यतः इति । विवर्तेत इति सम्बन्धः । स्वतः
तथा विवर्त्तनस्वभाववैधुर्य्ये परतोऽपि न विवर्त्तेत खरशृङ्गवत्, गगनच्चैयमर्थं 2849उत्पित्सु इत्याद्युक्तम् । परतः तद्विवर्तनप्रतिषेधे प्रत्यक्षादिविरोधः ।


द्रव्यम् उत्पित्सु इत्यादि समर्थयते यदि इत्यादिना । यदि चेत् 2851 विद्यमानं
सर्वं सर्वदा उत्पादात्मकं न स्यात् सकृदपि तथोत्पादात्मकत्वप्रकारेण मा भूत्, भवति च,
ततो मन्यामहे सर्वदा उत्पादात्मकमिति । अनेन चरमक्षणकथा 2852क्षीणेति दर्शयति । ननु यदि
नाम च 2853 कदाचिद् दुषात्मकं 2854 वस्तु तस्य किमायातं येन सर्वदा तत् 2855तदात्मकं
स्यादिति चेत्; न तर्हि इदानीं कदाचित् स 2856 क्षणिकमुपलभ्य सर्वदा 2857तत्तथा १७३ ख
इत्यनुमानम् । शेषं चर्चितमत्र । तथा स्थित्यात्मकं सर्वदा यदि न स्यात्; सकृदपि तथा2858
माभूत् । भवति च तदात्मकं2859 तत्प्रतीतेः प्रतिपादनात् । ततः सर्वदा तदात्मकमिति निराकृतमे
तत् यदुक्तं प्र ज्ञा क रे ण--दध 2860 दत्तादेः उपलम्भदशायां भवत् 2861 कालान्तर
स्थायिता तथाप्रतीति2862र्नान्यदा2863 विपर्ययात्
इति; कथम् ? 2864अदृष्टस्य ज्ञानादेः 2865अभिमत
स्वाभावाऽसिद्धिप्रसङ्गात् । दृष्टानुरूपतत्त्वव्यवस्थापनम् अन्यत्र2866 समानम् । खरविषाणवत्
इति उभयत्र निदर्शनम् । एतद् अन्यत्राऽवृत्ति 2867दिशन्नाह--तथा इत्यादि । पृथगस्य
उपादानं दृष्टान्तार्थं परं प्रति अस्य2868 सिद्धत्वात्, नैयायिकादिकं प्रति एतत् साध्यार्थम् पूर्वं दृष्टा
212 न्तार्थमिति विभागः । यत एवं तत् तस्मात् पूर्वोत्तरपरिणामात्मना सततं विवर्त्तमानं क्षणं
क्षणंप्रति प्रतिक्षणं त्रीणि उत्पादस्थितिभङ्गाः लक्षणानि यस्य तत् त्रिलक्षणम् सत् सर्वम्
इति सम्बन्धः । तत् किं कुर्वत् किं करोति ? इत्यत्राह--हेतुफल इत्यादि । हेतुफलयोर्व्यवस्था
पूर्वः पूर्वो हेतुः परं परं फलम् इति लौकिकी स्थितिः ताम् इति । तदनेन यदुक्तं केनचित्2869 पूर्वं
कार्यम् उत्तरं कारणम्
इति; तन्निरस्तम्; शुचि नरशिरःकपालं प्राण्यङ्गत्वात्2870
न्यायप्र॰ पृ॰ २ इत्यादिवत् प्रसिद्धिबाधनादिति । यदि वा, हेतुफलमेव विशिष्टा नाना
प्रकारा या अवस्था दशा ताम् इति । स्वरूपमेव जन्यं जनकं च इति2871, तदनेन निरस्तम् ।
कथम् ? विकल्पयन् जन्यजनकताप्रतीतेः आत्मनि स्वस्वरूपेण कल्पनायाम् ततस्तद्व्य
वस्थायाः2872 काल्पनिकत्वं कल्पयन्2873 अविकल्प2874 इत्युक्तं भवति । नीलादिसुखादिविशेष १७४ क
स्यापि2875कल्पत्वेन प्रतिभासाद्वैतमपि तथा2876 स्यात् । प्रत्यक्षबाधनम् इतरत्र समानम् । नहि
पूर्वोत्तरपरिणामरहितं किञ्चित् क्वचित् प्रत्यक्षबुद्धौ प्रतिभाति
इत्युक्तम् ।


अथवा, अवस्थातुः एकान्तेन अवस्था भिन्नाः इति मतम्2877 अयुक्तमिति कथितं भवति ।
भवति परत्र सहकारित्वेन उपकारके सन्तानान्त2878रे सति कार्यव्यपदेशभाग्, 2879उपकार्ये कारण
व्यपदेशभाग् भवति इति समञ्जसम् । कुतः पुनः सत् सर्वं 2880तथाविधम् ? इत्यत्राह--प्रत्यनीक
इत्यादि । उत्पादस्य प्रत्यनीकस्वभावः स्थितिः तदविनाभावाद् वस्तुस्वभावस्य उत्पादस्य ।


कुत एतदपि इति चेत् ? अत्राह--द्रव्याद् इत्यादि ।


2881द्रव्यात् स्वस्मादभिन्नाश्च व्यावृत्ताश्च परस्परम् ।

लक्ष्यन्ते गुणपर्याया धीविकल्पाविकल्पवत् ॥ २० ॥

गुणिनः कथञ्चिदभिन्नाः रूपादयः सुखादयो वा सकृत्प्रतीताः क्रमेण...तथा...
तत्सिद्धम्...। यत्पुनरेतत्--परमाणूनां संयोगे दिग्विभागेन अङ्गीक्रियमाणे षडंशतापत्तेः ।
निरंशत्वे परस्परानुप्रवेशान्न प्रचयभेद इति; अत्रोत्तरम् ।


द्रव्यात् इत्यनेन गुणपर्यायैकान्तं निषेधति, अभिन्नाश्च इत्यनेन तेषां 2882तद्वतोर्भेदै
कान्तम्, व्यावृत्ताश्च इत्यनेन सांख्यमतम्2883, परस्परं वा 2884 भिन्ना व्यावृत्ताश्च
इत्यनेनापि2885, स्वस्माद् इत्यनेन सर्वस्योभयरूपत्वे प्र॰ वा॰ ३ । १८१ इत्यादिकम्2886
213 गुणाः सहभाविनो जीवस्य ज्ञानादयः, पुद्गलस्य रूपादयः, पर्यायाः क्रमभाविनः सुखदुःखादयः2887,
शिवकादयश्च2888 लक्ष्यन्ते प्रत्यक्षप्रमाणेन निश्चीयन्ते । अनेन प्रतीतिसिद्धत्वेन काल्पनिकत्वम्2889


युक्त्या यन्न घटामुपैति तदहं दृष्ट्वापि न श्रद्दधे इति2890 वदन्तं प्रति निदर्शनमाह—
धीविकल्पाऽविकल्पवद् इति । धियो विकल्पाविकल्पौ इव तद्वत् इति । यथा
धियः सकाशात् विकल्पौ आकारौ भिन्नौ अभिन्नैव 2891 लक्ष्येते तथा प्रकृताः2892 स्वद्र
व्याद् इति निष्ठुरविचारचतुरस्य2893 अनेन स्वमतत्यागं दर्शयति । नैयायिकादिकं प्रति निदर्शनं नोक्तं
प्रतीतिबलेन तेन2894 द्रव्यादिव्यवस्थोपगमात् । १७४ ख अथवा, धियः सम्बन्धिनौ विकल्पौ स्वैः
विभ्रमेतर-संशयेतर-दृश्येतर-ग्राह्येतर-नीलेतराकारैः भेदाभेदौ ताभ्यां तुल्यं वर्त्तत इति तद्वत् ।


कारिकां विवृण्वन्नाह--गुणिन इत्यादि । गुणिनः सकाशात् कथञ्चित् तत् सर्वात्मना
अभिन्ना रूपादयः सुखादयो वा सकृद् एकदा प्रतीताः परीक्षितप्रमाणप्रमिताः । किं कुर्व
न्ति ? इत्याह--क्रमेण इत्यादि । दृष्टानुरूपत्वात् सर्वदा तत्त्वसिद्धेः इति भावः । तदनभ्युपग
च्छतोऽपि हताद् 2895 आगच्छति इति दर्शयन्नाह--तथा इत्यादि । अत्रापि क्रमेण इत्यादि
संयोज्य व्याख्या कर्त्तव्या । प्रकृतं निगमयन्नाह--तत्सिद्धम् इत्यादि ।


ननु अस्ति स्थूलस्य एकस्य नानावयवगुणपर्यायात्मनो बुद्धौ प्रतिभासनम्, स नैकोऽवयवी
गुणी वा युक्तः विचारायोगात् । तदेव दर्शयन्नाह--यत्पुनरेतद् इत्यादि । यत् परेण यथोक्त
प्रमेयदूषणम् उक्तम् इति शेषः2896पुनः इति युक्त्यन्तरसूचने, एतन्निवेद्यमानं स्थूलस्य सूक्ष्म
2897नान्तरीयकत्वात् परमाणूनाम् इत्युक्तम् । 2898ते च संयोगापेक्षा एव तं2899 जनयन्ति नान्यथा अति
प्रसङ्गात् इति संयोगे इति 2900 च एकदेशेन सर्वात्मना वा स्याद् गत्यन्तराभावात् इति मनसि
निधाय प्रथमपक्षे दूषणमाह--दिग्विभागेन इत्यादि । दिशः प्राच्यादयः 2901तद्विभागेन संयोगे
अङ्गीक्रियमाणे षडंशतापत्तेः 2902तेषामेव2903परमाणुतैव न स्यात् सांशत्वात् घटादिवत् इति
मन्यते । द्वितीयपक्षे तदाह--निरंशत्वे परमाणूनाम् अङ्गीक्रियमाणे परस्परानुप्रवेशात् कारणात्
न प्रचयभेदः स्कन्ध१७५ क भेदः इति शब्दः पूर्वपक्षसमाप्तौ । तदुक्तम्—

*तत्र दिग्भागभेदेन षडंशाः परमाणवः ।

नो चेत् पिण्डोऽणुमात्रः स्यात् न च ते बुद्धिगोचराः ॥ न्यायवि॰ १ । ८६ इति ।

एतद् दूषयन्नाह--अत्र इत्यादि । अत्र पूर्वपक्षे उत्तरम् उच्यते इति शेषः ।


यथातथाशब्दावन्तरेणापि तदध्यारोपात् प्रतिवस्तूपमालङ्कारमाश्रित्य कारिका
व्याख्यायते--


214
क्षणश्चित्क्षणमध्यस्थो न जहाति निरंशताम् ।

तथाणुरपि मध्यस्थः ततः प्रचयवर्धनम् ॥ २१ ॥

विज्ञप्तिमात्रेऽपि ज्ञानस्य स्वहेतुफलमध्यवर्तिनः सांशत्वे अनन्तक्षणप्रसङ्गात् ताव
तैव परिसमाप्तत्वात्तदन्यकल्पनानर्थक्यम् । अनुप्रवेशे पुनः एकक्षणवर्ति निष्पर्यायं
जगत् स्यात् । यदि पुनः कथञ्चिन्निरंशत्वेऽपि तथा परमाणूनामनुप्रवेशाभावात् प्रचयभेदः
स्यात् । क्रम...। तथा सति--


यथा चित्क्षणमध्यस्थः चिद्रूपौ कारणकार्यभूतौ यौ क्षणौ तयोर्मध्यम् अन्तरं तत्र
तिष्ठति इति तत्स्थः । कोऽसौ ? इत्याह--क्षणो भागः पूर्वस्य कार्यभूतः उत्तरस्य कारणभूतः,
सोऽपि चिद्रूप एव अन्यस्य 2904तदभावात् । स किं करोति ? इत्याह--न जहाति न परित्यजति ।
किम् ? इत्याह--निरंशताम् निरंशस्य सर्वात्मना एकदेशेन इति विकल्पाऽयोगात् केवलं
तत्र तिष्ठति इति न्यायात्, तथा अणुरपि परमाणुरपि न केवलं चित्क्षण एव मध्यस्थो
न जहाति निरंशताम्
इति सम्बन्धः । ततः किं सिद्धम् ? इत्याह--ततः प्रचयवर्धनं
तस्मान्न्यायात् कालप्रचयवत् देशप्रचयस्यापि वर्धनम्, स्यात् इत्यध्याहारः ।


एतदुक्तं भवति--वित्क्षण 2905मध्यस्थः क्षणः पूर्वोत्तरक्षणाभ्यां सान्तरः, निरन्तरो
वा ? न तावदाद्यो विकल्पः; 2906चिरन्तनसौगतानां तथाऽभ्युपगमाभावात्, नैरन्तर्यविशिष्टा
नामेव क्षणानाम् उपादानोपादेयभावाभ्युपगमात्2907 । येषामपि प्र ज्ञा क र गु प्ता दी नां
तथाभ्युपगमः तेषाम् असंसृष्टा क्षणा एव स्वकार्यं कुर्वन्ति न 2908परमाणव इति किं कृतो
विभागः ? अतिप्रसङ्गोऽत्रापि दुर्वारः । तन्न परमाणूनां कार्यारम्भे संयोगमुपकल्प्य
१७५ ख 2909तन्निबन्धनं दोषचिन्तनं न्याय्यम् । 2910जागरणप्रबोधचेतसोः उपादानोपादेयभूतयोः
व्यवधाने 2911नित्यवत् कार्यकारणभावनिषेधात् न सुस्थितं तन्मतम् । व्यवधानं च तयोः2912
नाभावेन नापि कालेन; तदनभ्युपगमात् । अत एव न सजातीयविज्ञानैः; स्वापादिदशायां तद
नभ्युपगमात् । विजातीयैः 2913व्यवधाने; न विज्ञप्तिमात्रं स्यात् । भवतु वा तैर्व्यवधानम्, तथापि
तेषामन्योन्यं तच्चेतोभ्यां च पुनरपि सान्तरत्वे तदेव चोद्यं तदेव उत्तरमित्यनवस्थाः प्रत्येकं
गगनतलविसर्पिण्यो योज्याः । निरन्तरत्वे समायातो द्वितीयो विकल्पः । एवमर्थं च क्षणो
वित्क्षणमध्यस्थः
इति सामान्येनोक्तम् । सोऽपि न युक्तः संयोगवत् दोषात् । नैरन्तर्यम्
संयोग इति शब्दभेदमात्रमुत्पश्यामो नार्थभेदम् । अन्ये तु मन्यन्ते सर्वचेतसां परस्परं न सान्तंरत्वं
नापि विपर्ययः2914, तत्कथं क्षणो वित्क्षण इत्यादि दोष इति; तेन 2915 तत्प्रतीतिपृथुवत्र
215 निहतप्रज्ञामूर्त्तयः किन्नाम इदंतया नेदंतया व्यवस्थापयन्तीति यत्किञ्चिदेतत् । सकृद् विज्ञान
स्यैकस्य चित्रताप्रतीतिर्न नैरन्तर्यादिप्रतीतिः इति परगहनमेतत्2916


2917परस्तु आह--प्रतीयमानमेव ज्ञानं पूर्वं2918 नापि परमिति कथमुच्यते क्षणो
वित्क्षणमध्यस्थः
इति; सोऽपि न युक्तकारी, विचारायोगात् । तथाहि--नीलादिव्यतिरेकेण
ब्रह्मवत्तदभावात्2919 । नीलादयश्च चित्रत्वात् नैकं युगपत् नीलादिचित्रत्वं प्रत्येति । न क्रमेण
सुखादिचित्रत्वमिति १७६ क प्राकृतबुद्धिः ।


क्षणो वा क्षणमध्यस्थः इति च पाठोऽस्ति । तत्रायमर्थः--अचेतनो नीलादिरूपः चेत
नश्च तद्बुद्धिस्वभावः चेतन एव इति क्षणो वा क्षण इव क्षणयोः अचेतनयोः चेतनयोः तयोरेव
वा कारणाकार्यभूतयोः मध्यस्थो न जहाति निरंशताम् अणुरपि इति । शेषं पूर्ववत् ।


कारिकां स्पष्टयन्नाह--विज्ञप्ति इत्यादि । विज्ञप्तिमात्रेऽपि अन्तर्ज्ञेयवादिमतेऽपि न केवलं
सौत्रान्तिकमत इति अपिशब्दार्थः । ज्ञानस्य अत्रापि अपिशब्दो लुप्तो द्रष्टव्यः, तेन अज्ञान
स्यापि । कथंभूतस्य ? स्वहेतुफलमध्यवर्त्तिनः स्वस्य स्वो वा यो हेतुः यच्च फलम् तयोर्मध्ये
वर्तितुं शीलमस्येति तद्वर्त्तिनः, षट्परमाणुमध्यवर्त्तिनः । परमाणोरपि च सांशत्वे अङ्गीक्रियमाणे
नतत्क्षण 2920 प्रसङ्गात् कारणात् तावतैव2921स्यानन्तक्षणप्रसङ्गमात्रेणैव परिसमाप्तत्वाद्
अनाद्यनन्तसन्तानप्रयोजनस्य इति मन्यते । तदन्यकल्पनानर्थक्यम् तेभ्यः अनन्तक्षणेभ्यः ये
अन्ये क्षणाः तेषां कल्पनानर्थक्यम् । तथाहि--तन्मध्यवर्तिनः क्षणस्य स्वांशमध्यवर्तित्वेऽपि
तदपरांशकल्पना, पुनरपि तस्मिन् सति तदन्यकल्पनेति परं सान्तरत्वे2922चिन्तने स एव
प्रसङ्गश्चिन्त्यः । सहभाविनां स्वसन्तानान्तरक्षणानाम् एतत् संभवति न वेति विचारचतुर
स्रधियो विचारयन्तु । यदि संभवति; किमर्थं परमाणव एव उपद्रूयन्ते ? निरंशत्वे दूषणं
दर्शयन्नाह--अनुप्रवेश इत्यादि । ज्ञानस्य इत्यनुवर्तते । त2923स्य त2924द्वर्तिनः पूर्वत्र उत्तरत्र वा त2925योर्वा
तत्रानुप्रवेशे अङ्गीक्रियमाणे १७६ ख पुनः इति पक्षान्तरसूचने । एकक्षणवर्ति एकक्षणमात्रं
जगत् स्यात् । किंभूतम् ? निष्पर्यायम् पर्यायरहितमिति । अनेन सौत्रान्तिकयोगाचारयोः
सकलमतनिषेधं दर्शयति । प्र ज्ञा क र स्य तथाभ्युपगमं कुर्वतोऽपि उक्तम्--युगपच्चित्र
प्रतिपत्तिवत् क्रमेणापि 2926तत्प्रतिपत्तेरनिषेधात् प्रत्यक्षविरोधः
इति ।


यदि पुनः इत्यादिना परमतमाशङ्कते--यदि पुनः कथञ्चित् केनापि प्रकारेण निरं
शत्वेऽपि
ष्यते इत्यध्याहारः । कुतः ? इत्याह--अनुप्रवेशाभावात् इति । तत्रोत्तरमाह—
तथा परमाणूनाम् इत्यादि । तथा तेन प्रकारेण परमाणूनां घटारम्भकाचेतनसूक्ष्मभागानां
प्रचयभेदो रचनाविशेषः स्यात् इति गतेन सम्बन्धः । अत्र निदर्शनम् क्रम इत्यादि ।


एवं सति यत् सिद्धं तद्दर्शयन्नाह--तथा सति इत्यादि ।


तथा सति--


अत्यक्तपारिमण्डल्यनानात्वादृश्यताणवः ।

तत्प्रत्यनीकमात्मानं संयोगैः विभ्रतेऽञ्जसा ॥ २२ ॥

216

परमाणवः पारिमण्डल्यं भित्त्वा स्थूलमेकं स्वभावं स्वयमुपगताः समुपलक्ष्यन्ते
तथापरिणामात् । न हि तथाऽपरिणतं तत् विप्रतिषेधात् ।


एवं सति पा2927रिमण्डल्यं च निरंशत्वं नानात्वं च अदृश्यता च अत्यक्ताः पारि
मण्डल्यनानात्वाऽदृश्यता
यैः ते तथोक्ताः, ते च ते अणवश्च । ते किं कुर्वन्ति ? इत्याह—
तद् इत्यादि । तत्प्रत्यनीकं पारिमण्डल्यनानात्वादृश्यताप्रत्यनीकं सांशमेकं दृश्यम् इति
यावत् । आत्मानं स्वभावं विभ्रते स्वीकुर्वन्ति । कैः ? इत्याह--संयोगैः नैरन्तर्यैः ।
अञ्जसा परमार्थतः । अत्यक्तपारिमण्डल्यपदेन घटवत् त2928त्परावयवानामपि सांशत्वे
अनवस्था स्यादिति कल्पनं निरस्यति, अत्यक्तनानात्वध्वनिना अवयविनो निरंशत्वम्,
अत्यक्तादृश्यतावचनेन १७७ ख दृष्टे प्रमाणान्तरावृत्तिम्, अणवः इत्यनेन प्रकृतिः
कारणम्2929, पुरुषः कारणम्2930 इत्येतत्, तत्प्रत्यनीकमित्यतः परमाणुभ्यः परमाणव एव
निरन्तरा दृश्या जायन्ते
इति, आत्मानम् इत्यनेन वैशेषिकादिमतम् अञ्जसा
इत्यनेन कल्पितत्वम् इति2931


ननु कुतः परमाणवः सिद्धा येनैवं स्यात् ? नतावत् प्रत्यक्षतः; तत्र तत्प्रतिभासविरहात्
स्वयमनभ्युपगमात् । तन्न युक्तम्--अत्र प्रत्यक्षानुपलम्भसाधनः कार्यकारणभावः हेतुबि॰
पृ॰ ५४
इति2932 । तत एव नानुमानतोऽपि; प्रत्यक्षाभावे त2933न्मूलस्य तस्य2934 अनवतारात् । नापि
इन्द्रियवत्2935 कार्यव्यतिरेकतः तत्सिद्धिः; सत्सु अन्येषु कारणेषु 2936तदभावे नियतेन 2937 अनुपजायमानस्य कस्यचित् कार्यस्याऽभावात्, स्थूलादेव मृत्पिण्डात् 2938तथाविधघटोत्पत्तिदर्शनात् ।


यत्पुनरेतत्2939--यत्स्थूलं तद् अल्पपरिमाणकारणारब्धं यथा पटः, स्थूलं च अष्टाणुकादि
कार्यम्, तत् स्वल्पपरिमाणकारणमिति परमाणुसिद्धिः
इति; तदसारम्; यतः सूक्ष्मम
पेक्ष्य स्थूलमिति भवति । न च अष्टाणुकात् परं2940 रूपं सिद्धमस्ति यदपेक्ष्य अष्टाणुकं स्थूलं स्यात् ।
2941अत एव तत्सिद्धिरिति चेत्; अस्यापि कुतः ? तत2942 इति चेत्; अन्योन्यसंश्रयः--सिद्धे हि ततः
परस्मिन् तद्रूपे ततः तत्स्थूलतासिद्धिः, अस्याश्च तत्सिद्धिरिति ।


यच्चान्यत्--यत् स्थूलं तद्भिद्यमानं घादि 2943 दृष्टम्, स्थूलं च अष्टाणुकम्, ततः तदपि
भिद्यते तावद् अभिद्यमानभेदप2944र्यन्तमिति तत्सिद्धिः
इति; तदपि विलक्षाभिधानम्; यतः अष्टा
217 णुकस्य भेदनतः परं न किञ्चिद् भवत्येव प्रमाणाभावात् । तन्न अणुसिद्धिः इति चेत्; अत्र
प्रतिविधीयते--१७७ ख


परिमाणस्य उत्कर्षातिशयात् विज्ञान2945महत्त्वपरिमाणकाष्ठासिद्धिवद् अपकर्षाविषयात् 2946 पुद्गलाल्पपरिमाणकाष्ठासिद्धिः । प्रयोगः2947--परिमाणस्य अपकर्षः क्वचित् परमकाष्ठावान्
अतिशयवत्त्वात् तत्प्रकर्षवत् । न च साध्यशून्यो दृष्टान्तः, इतरथा सर्वज्ञाद्यभावः 2948प्रमाणबाधितो
भवेत् ।


यत्पुनरुक्तं परेण--तदपकर्षकाष्ठायां भावः किमास्ते, आहोस्वित् सर्वथा नश्यति इति
न निश्चयोऽस्ति इति; तदसारम्; सर्वथा त2949द्विनाशाभावात् युक्तिबाधनात् । 2950तत्प्रकर्षेऽपि दोषाच्च ।


कारिकां व्याचष्टे--परमाणव इत्यादिना । परमाणवः समुपलक्ष्यन्ते इति सम्बन्धः,
विशदाबाधितरूपेण समीचीनेन लक्ष्यन्ते इत्यस्य प्रदर्शनार्थम्--समः2951 अभिधानम् । स्वयं
स्वग्राहकज्ञानसामीप्यम् उपगता न आकारसमर्पणेन
इत्यस्य कथनार्थम् उपस्य2952, निश्चीयन्ते
न अविकल्पदर्शनेन दृश्यन्ते
इत्यस्य च2953 लक्ष्यन्ते इत्यस्य2954 । किं कुर्वाणाः किम् ? इत्याह—
स्थूलमेकं प्रत्यक्षमात्मानम् इत्यनुवर्त्तते । क्वचित् स्वभावम् इति श्रूयते । पुनरपि किं
कुर्वन् ? इत्याह--पारिमण्डल्य इत्यादि । सुगमम् । कुत एतत् ? इत्यत्राह--तथा इत्यादि ।
तथा तेन अनन्तरप्रकारेण परिणामात् । एतदपि कुतः ? इत्यत्राह--नहि इत्यादि । हिः यस्मात्
न तथा तेन अनन्तरप्रकारेण अपरिणतं तत् तदनन्तरं वस्तु भवति । कुतः ? विप्रतिषे
धात्
इति ।


प्रकृतनिगमनव्याजेन उपमानादीनां स्वाभ्युपगतज्ञाने अन्तर्भावं कुर्वन्नाह--तदेतद्
इत्यादि ।


2955तदेतत् उपमानादि मतिज्ञानप्रभेदलक्षणम् अवग्रहादिमतिस्मृतिसंज्ञाचिन्ताभिनि
बोधात्मकं द्रव्यपर्यायविषयं सामान्यविशेषविषयं च प्रागभिलापसंसर्गात् प्रमाणमविसंवा
दात् तद्विपरीतमपि तत्प्रभेदलक्षणम् । मिथ्याऽज्ञानम् अप्रमाणम्, यथा एकान्तविषयद
र्शनानुमानादिकमन्यद्वा ।


यत एवं तत् तस्मात् एतद् १७८ क अनन्तरं निरूप्यमाणं उपमानादि ज्ञानम् इति
सम्बन्धः । तत् किम् ? इत्याह--मतिज्ञान इत्यादि । मतिज्ञानस्य प्रभेदः प्रपञ्चः स एव
लक्षणं स्वरूपं यस्य तत्तथोक्तं मतिज्ञानविशेष इति यावत् । कुत एतत् ? इत्यत्राह--अवग्रह
इत्यादि
अवग्रह आदिर्यस्याः सा चासौ मतिः समासः, सा च स्मृतिश्च संज्ञाचिन्ता
218 अभिनिबोधश्च ते आत्मानो यस्य तत्तथोक्तम् । एतच्च तत्प्रभेदविशेषणमपि साधनं द्रष्टव्यम्,
ततः त2956ज्ज्ञानं तदा2957त्मकत्वात् मतिप्रभेदलक्षणम् इति ।


ननु उपमादीनादीनां त2958त्रान्तर्भावो निरूपयितुमारब्धः तत्किमर्थम् अवग्रहादिमतिस्मृति
ग्रहणमिति चेत् ? सत्यम्; तथापि प्रसिद्धसंज्ञादिज्ञानोत्पत्तिक्रमस्य उपमानादौ प्रदर्शनार्थं तद्
ग्रहणमित्यदोषः । तथाहि--यथैव पूर्वपर्यायाऽवग्रहाद्याहितसंस्कारस्य2959 परपर्यायावग्रहात् पूर्वपर्याय
स्मृतौ प्रसिद्धसंज्ञाचिन्ताऽभिनिबोधाः2960 तथैव गवयसदृशगवाद्यवग्रहाद्याहितसंस्कारस्य पुनर्गवया
द्यवग्रहाद् गोस्मरणे सति तेन सदृशोऽयम् इति2961 ज्ञानं जायते इति संज्ञातो न भिद्यते । एतेन
वैलक्षण्यसंख्यादिज्ञानं चर्चितम् ।


ननु च अवग्रहादिमतिस्मृतिप्रभवस्य ज्ञानस्य संज्ञात्मकत्वे सर्वतो व्यावृत्तस्य घटस्य
अवग्रहात् संस्कारे पुनः त2962थाविधस्य भूतलादेरवग्रहाद् अवगृहीतघटस्मरणाद् इह स घटो
नास्ति
इति ज्ञानं संज्ञा भवेत्, न चैवम्, सादृश्यैकत्वप्रत्यवमर्शस्यैव त2963त्त्वोपगमात् प्रत्य
भिज्ञा द्विधा
न्यायवि॰ २ । ५० इत्या2964दि वचनात् । तस्माद् अभावाख्यं तत् प्रमाणान्तर
मिति मीमांसकः । तदुक्तम्--


*गृहीत्वा 2965वस्तुसद्भावं १७८ ख स्मृत्वा च 2966प्रतियोगिनम् ।

मानसं नास्तिताज्ञानं जायते अक्षानपेक्षया ॥

मी॰ श्लो॰ अभावप॰ श्लो॰ २७ इति चेत्;


तन्न सारम्; तस्यापि 2967तत्त्वोपगमात्, दृष्टप्रत्यवमर्शात्मकत्वात् । प्रत्यभिज्ञा
द्विधा
न्यायवि॰ २ । ५० इत्यादि तु वचनम् एकत्ववत् सादृश्ये प्रत्यभिज्ञात्वप्रतिपादनार्थं
न परिगणनार्थम्, इतरथा मतिस्मृति-- त॰ सू॰ १ । १३ इत्यादि सूत्रम् अध्यापम्
2968 भवेत् ।


स्यान्मतम्, घटभूतलयोः अन्योन्यविवेकस्य 2969तत्प्रत्यक्षाभ्यां गोगवययोः सादृश्यवत् प्रतीतौ
पुनः तत्प्रत्यवमर्शः प्रत्यभिज्ञानं भवेत्, न चैवं मानसनास्तिताज्ञानादेव 2970तत्प्रतीतेः । तथा चोक्तम्--


*न तावदिन्द्रियेणैषा नास्तीत्युत्पाद्यते मतिः ।

भावांशेनैव सम्बन्धो योग्यत्वादिन्द्रियस्य हि ॥

मी॰ श्लो॰ अभावप॰ श्लो॰ १८ इति चेत्;


तन्न युक्तम्; भावांशवद् इ2971तरस्यापि प्रत्यक्ष एव2972 । प्रतियोगिनः सर्वान्यसंसृष्टस्य स्मरणे
न क्वचित् प्रतिषेधः, अभ्युपगमबाधनात् । तदसंसृष्टस्य स्मरणं तथा पूर्वमनुभवे, अन्यथा अति
219 प्रसङ्गः । तत्रापि तदन्यप्रतियोगिस्मरणात् त2973थाप्रतिपत्तौ अनवस्था । घटविविक्तभूतलस्मरणादिति
चेत्; अन्योऽन्यसंश्रयः2974, ततो यत्किञ्चिदेतत् । तथा अवग्रहादिमतिस्मृतिसंज्ञाभ्यो जायमानं
ज्ञानं चिन्तात्मकत्वात् त2975त्प्रभेदलक्षणं न योगिप्रत्यक्षम्, तस्य तद्विरोधात् ।


एतेन मानसं प्रत्यक्षं तत्2976 इति निरस्तम् । चक्षुरादिप्रत्यक्षसामग्रीतो भिन्नसामग्री
प्रभवत्वाच्च2977 । तथापि तत्त्वे अतिप्रसङ्गः ।


तद्वत् चिन्ताप्रभवत्वाद् अर्थापत्तिरपि प्रसिद्धा १७९ क अनुमानवत् तत्प्रभेदलक्षणम्2978
अभिनिबोधात्मकत्वात् ।


स्यान्मतम्--एकत्वप्रत्यवमर्शः प्रत्यभिज्ञानम्, न सादृश्यादिप्रत्यवमर्शस्य तत्प्रभेदलक्षणे
अन्तर्भाव इति चेत्; अत्राह--द्रव्य इत्यादि । अस्यायमर्थः--यस्मात् तदेतद् विज्ञानं परेण उच्य
मानं द्रव्यपर्यायविषयं सामान्यविशेषविषयं च तस्मात् यथोक्तं 2979 । सामान्यं हि
सादृश्यमेव तद्विषयं च ज्ञानं 2980परेणापि प्रत्यभिज्ञानमिष्यते इति मन्यते । किं सर्वं तन्न लक्षणं
2981 न इत्याह--प्राग् अभिलापसंसर्गात् इति । गवयादिशब्दयोजनात् प्राक्
यज्जायते उपमाणादिज्ञानं तत्2982 न पुनः सोऽयं गवयशब्दवाच्यः इत्यादि ज्ञानम्2983 इति भावः ।
न केवलं तत् तल्लक्षणमेव किन्तुप्रमाणमपि इति दर्शयन्नाह--प्रमाणम् । च शब्दोऽत्र द्रष्टव्यः ।
कुतः ? अविसंवादात् । अन्यदपि ज्ञानं तत्प्रभेदलक्षणं दर्शयन्नाह--तद् इत्यादि । तस्माद्
उक्ताद् उपमानादेः विपरीतं गोरिव गवयः इत्याद्यागमाहितसंस्कारस्य2984 शाखादिमान् वृक्षः
क्षीराम्भःप्रविवेचनतुण्डो हंसः
इत्याद्यागमाहितसंस्कारस्य च नैयायिकाद्युपमानादिज्ञानं तदपि
द्रव्यादिविषयं सत् 2985तत्प्रभेदलक्षणं प्रमाणं वादादिति 2986 सम्बन्धः ।


साम्प्रतमप्रमाणं दर्शयन्नाह--मिथ्याऽज्ञानम् इति । मिथ्या 1 akṣaraग्रहादिमतिस्मृतिसंज्ञा
चिन्ताभिनिबोधात्मकं ज्ञानम्
इति अज्ञानम् अप्रमाणम् प्रमाणं न भवति मत्यज्ञानत्वात् इति
द्रष्टव्यम् । अत्र निदर्शनमाह--यथा इत्यादि । एकान्तस्य विषयस्य सम्बन्धि दर्शनाऽनु माना
दिकम्
आदि १७९ ख शब्देन आगमपरिग्रहं तद्यवेति 2987अन्यद्वा स्वप्नादि
ज्ञानं वा । अनेन लौकिकशास्त्रीयदृष्टान्तद्वयं दर्शयति ।


यदि वा, अन्यथा पूर्वपक्षयित्वा एतद् ज्ञातव्यम्, तद्यथा पूर्वप्रस्तावद्वये यदवग्रहादि
धारणापर्यन्तं ज्ञानं चिन्तितम्, यच्च प्रमाणम् अविसंवादिस्मृतिः इत्यादिना स्मरणम् अस्मिन्2988,
चतुर्थप्रस्तावे प्रत्यभिज्ञानं निरूपयिष्यमाणम्, तत्रैव2989 लेशतः क्रमप्राप्तप्रस्ताववशेन भूता
भव्याः
2990इत्यादिना पूर्वं चिन्तितं तर्क ज्ञानम्, षष्ठे चिन्तयिष्यमाणम् अनुमानं च, प2991ञ्चसु
ज्ञानेषु क्व अन्तर्भाव्यतामिति ? तत्राह--तदेतद् इत्यादि । तदेतत् निरूपितं निरूपयिष्यमाणं च ।
220 किम् ? ज्ञानम् । तत् किम् ? इत्याह--मतिज्ञानप्रभेदलक्षणं मतिज्ञानाऽन्तर्भूतमित्यर्थः ।
किम्भूतम् ? इत्याह--अवग्रहादि इत्यादि । पुनरपि कथंभूतम् ? इत्याह--द्रव्य इत्यादि । किं
सर्वम् ? न, इत्याह--प्राग् इत्यादि । त2992त्संसर्गाद् ऊर्ध्वं श्रुतम् इति मन्यते ।


ननु च पूर्वम् अत्र अन्यत्र च स्मरणादि सर्वं श्रुतम् इत्युक्तम्, तत्कथन्न विरोध इति
चेत् ? न विरोधः, मुख्यश्रुतसाधर्म्याद् उपचारेण त2993थाभिधानात् । तच्च प्रमाणम् । कुतः ? अवि
संवादात् ।
सर्वं तर्हि तदात्मकं ज्ञानं तल्लक्षणं प्रसक्तम्; इत्याह--तद्विपरीतम् इत्यादि । तत्
तस्मात् द्रव्यादिविषयात् तदात्मकाज्ज्ञानाद् विपरीतं विलक्षणं ज्ञानम् इत्यनुवर्तते मत्यज्ञानं
मतिज्ञानं नंभवति । कुतः ? अप्रमाणं यतः द्रव्यादिविषयं न भवति इत्यभिप्रायः । शेषं पूर्ववत् ।


क्वचित्पुस्तके--*प्रमाणमेक१८० क मध्यक्षमगौणमपरे विदुः इत्यादि सकलं
चू र्णि प्र क र ण मस्ति, तत् कैश्चिन्न2994 व्याख्यातं, वद्गलं 2995 पौनरुक्त्यस्य अप्रस्तुताभिधानस्य
च तत्र भावात् ।


ननु यदुक्तम्--मतिज्ञानप्रभेदलक्षणं ज्ञानं प्रमाणम् अविसंवादकत्वात् इति; तदयुक्तम्;
क्वचिद् अविसंवादाभावात् । तथाहि-- दृष्टस्य पुनः प्राप्तिः अस्ति, भवतु वा सा स्वप्ने
ऽप्यस्ति । यदि पुनरसौ न तत्प्राप्तिः, कथम् अन्या ? विशेषाऽभावात् । अथ अर्थदर्शनम्
अविसंवादो न तत्प्राप्तिः2996; इदमपि तादृगेव, विप्लवेऽपि2997 अस्य भावात् । अथ अर्थतद्व्य
वस्था विपक्षवत्; तत्प्रतीतिश्च प्रत्यक्षतः अनुमानतो वा गत्यन्तराभावात् ? परपर्यनुयोगोऽपि
नातो युक्तः असम्बद्धप्रलापित्वप्रसङ्गात् । भवतु तत एव सा इति चेत्; द्रव्यते 2998--


ज्ञानी येनातिशेते भवभृतमितरं तत्प्रमाणं समन्तात्,

हेयोपादेयसिद्धौ न पुनरनुभवोऽभूतकल्पोऽविकल्पः ।

स्यात्प्रत्यक्षस्मृत्यभिज्ञा स्वपरविषयतर्कानुमात्मा मतिः,

चिन्ताऽचिन्त्यात्मिकेयं कलयति विषयादन्यमन्यत्र सिद्धौ ॥ २४ ॥

ज्ञानी प्रत्यक्षादिज्ञानवान्, येन प्रत्यक्षादिज्ञानेन अतिशेते विजयते, अन्येन तद
तिशायनाऽयोगात् ज्ञानेन इति लभ्यते । कमतिशेते ? इत्याह--भवभृतम् अविद्याविलासिनी
दर्शिताऽनेकजन्मादिविभ्रमप्रपञ्चम् । कथंभूतम् ? इत्याह--इतरम् अज्ञानिनं विभ्रमान्ये 2999कान्ततत्त्वे विपर्यासानध्यवसायोपपन्नं नैयायिकादिकम् । तत् किम् ? इत्याह--तद्
इत्यादि । स येन तम् अति शेते तत् तत् इत्यनेन परामृश्यते, तत्प्रमाणम्, अन्यथा
कुतस्ततः स्वेष्टसिद्धिः बहिरर्थवदिति मन्यते । किमर्थम् ? इत्यत्राह--समन्तात् इत्यादि ।
समन्तात् सर्वतो हेयं यत्तत्त्वं सत्येतरप्रविभागलक्षणं यच्च उपादेयं विभ्रमाद्य3000कान्त
रूपं तयोः सिद्धौ तत्सिद्धिनिमित्तम् । एतदुक्तं भवति--यदि न किञ्चित् प्रमाणम् कुतः अभि
मत१८० ख सिद्धिः ? त3001दस्ति चेत्; साकल्येन प्रमाभङ्गविधानविरोधः इति ।


221

अपरस्तु आह3002--न किञ्चिद् विज्ञानं प्रमाणम् नाप्यप्रमाणं सकलविकल्पातीतत्वात् तत्त्वस्य3003,
तस्य च स्वसंवेदनाध्यक्षप्रमाणतः सिद्धेः, नापि प्रमाभङ्गविधानविरोधः बहिः तद्विधानात्3004 इति ।
तत्राह--न पुनः इत्यादि । न पुनः नैव अनुभवः प्रमाणम् इति सम्बन्धः । क्व ? इत्याह—
हेयोपादेयसिद्धौ हेयं सकलविकल्पतत्त्वं उपादेयं तद्रहितं3005 संवेदनमात्रम्, तत्सिद्धौ इति ।
किंभूतोऽनुभवः ? इत्याह--अविकल्प इति । न विद्यते सत्येतरादिविकल्पो भेदो यस्य स
तथोक्तः । कुतः ? इत्यत्राह--अभूतकल्प इति । अभूतम् अजातं कुतश्चित् कारणात् ब्रह्मादि
तत्त्वं नित्यं तत्समानः । एतच्च विशेषणमपि हेतुत्वेन द्रष्टव्यम्--अभूतकल्पत्वाद् इति । कथम
भूतकल्प इति चेत् ? उच्यते--यथैकस्य अनेकात्मताभयात् नीलादिसुखादिभ्यो व्यतिरिच्यमान
शरीरं सर्वविकल्पातीतं केनचिद् व्रह्यतत्त्वमिष्यते3006 तथा तत3007 एव संवेदनतत्त्वं तथाविधं निरंशं
क्षणिकं सौगतेन अभ्युपगन्तव्यम्, तद्वदेव । तच्च न स्वपरव्यवस्थाहेतुः इति न प्रमाणमिति ।


ननु न म3008या परेण3009 वाऽदृष्टमेव3010 तदभ्युपगम्यते येनायं दोषः स्यात्, अपि तु यथाप्रति
भासमिति चेत्; अत्राह--प्रत्यक्ष इत्यादि । प्रत्यक्षं अवग्रहादिधारणापर्यन्तम्, अस्यैव प्रकृत
त्वात् स्मृतिश्च अभिज्ञा च, स्वंपरश्च स्वपरौ तौ विषयौ यस्य स तथोक्तः, स चासौ
तर्कश्च स च अनुमा च ता आत्मानो यस्याः सा तथोक्ता मतिः स्याद् भवेत् प्रमा
णम्
इति १८१ क सम्बन्धः । अनेन एतत् कथयति--यदि यथाप्रतिभासं संवेदनं प्रमाण
मिष्यते; तर्हि यथोक्ता मतिः प्रमाणयितव्या तस्या3011 एकत्र दर्शनादिप्राप्तिपर्यन्तव्यवहारोपयोगि
त्वेन प्रतिभासनात् । अथ अतिसूक्ष्मपरीक्षया व्यवतिष्ठमानं तद् ब्रह्म न किञ्चिद् व्यस्यात्
3012 परस्य गत्यन्तराभावात् इति ।


ननु स्वपरशब्देन किमर्थं तर्क एव विशेष्यते नान्यत् प्रत्यक्षादिकम्, तदपि त3013थाविधमेव
जैनस्येति चेत्; सत्यम्; यस्तथा नेच्छति तं प्रति तस्य तथाविधप्रसाधनाय तर्को दृष्टान्तीकर्तुं
तथा विशेष्यते । यथा तर्कः स्वपरविषयः त3014तः साकल्यव्याप्तिं साध्यसाधनयोः परेण इच्छता
अभ्युपगम्यते तथा प्रत्यक्षादिकमभ्युपगन्तव्यमिति निराकृतमेतत्--नान्योऽनुभाव्यो बुद्ध्या
ऽस्ति
प्र॰ वा॰ ३ । ३२७ इत्यादि3015 । कथं तर्कस्तद्विषयः3016 ? इत्यत्राह--चिन्ता इत्यादि ।
चिन्ता इति तर्कस्य संज्ञा पू3017र्वाचार्यप्रसिद्ध्या । चिन्ता तर्कोऽचिन्त्यात्मिका अचिन्त्यः कथ
मेवं विवे3018यम् इत्यविचार्यः आत्मा स्वभावो यस्याः सा तथोक्ता इयं प्रत्यनुमातृ प्रत्यक्ष
प्रमाणपरिच्छेद्या । कुतः अचिन्त्यात्मिका ? इत्यत्राह--कलयति इत्यादि । कलयति अध्य
वस्यति यतः । किम् ? अन्यम् अर्थान्तरम् । कुतोऽन्यम् ? इत्याह--विषयात् प्रत्यक्षादि
222 गोचरात् अन्यं परोक्षमित्यर्थः । क्व ? इत्यत्राह--अन्यत्र स्वदेशाद् अन्यदेशे, उपलक्षणमेतत्
तेन अन्यदा च इति गृह्यते । किमर्थं कलयति ? इत्याह--सिद्धौ निर्णीतौ अन्यस्य अन्यत्र
सिद्धिनिमित्तमित्यर्थः । अस्याऽनभ्युपगमे साकल्येन हेतोः साध्येन व्याप्तेरसिद्धेः--यदव
भासते तत् ज्ञानं यथा सुखादि
११८ ख इत्याद्यनुमानं प्रतिहतप्रसरं भवेत् । न च
स्वांशमात्रावलम्बिना जडस्य प्रतिभासायोगात् इत्यादिना विचारेण त3019त्सिद्धिः, अन्यथा
नीलज्ञानात् पीतादिसिद्धिः स्यादित्यलं प्रसङ्गेन ।


अथवा, सविकल्पकप्रत्यक्षपक्षे स्मृतेर्गृहीतग्राहकत्वेऽपि न प्रयोजनविशेषात्3020त्या
दिना प्रामाण्यं व्यवस्थाप्य संप्रति परपक्षोक्तं तस्य3021 गृहीतग्राहित्वं निराकुर्वन्नाह--ज्ञानी इत्यादि ।
ज्ञानी सचेतनो येन स्वभावेन अतिशेते । किम् ? इत्याह--इतरम् अचेतनं घटादिकम्, येन
स्वभावेन ततो भिद्यत इत्यर्थः । ननु स्वग्रहणविमुख्येन अर्थग्रहणात्मना धर्मेण तम्3022 अतिशेते स
इति, सोऽपि धर्मः प्रमाणं स्यादिति चेत्; अत्राह--भवभृतम् इति । शब्दोऽत्र द्रष्टव्यः,
भवभृतं च महेश्वरपोषकं नैयायिकादिकं तत् प्रमाणं स्वपरव्यवसायज्ञानं प्रमाणमित्यर्थः । किम
र्थम् ? इत्याह--समन्ताद् इत्यादि । व्याख्यातमेतत् । अविकल्पानुभवेन मतं 3023 विज
यते अतः स प्रमाणम्, इत्यत्राह--न पुनः इत्यादि । अभूतकल्पः अभूतोऽजातः खरवि
षाणादिः ईषदसिद्धः, अभूतकल्पः अविकल्पोऽनुभवः न प्रमाणम् नार्थपरिच्छेदकः । प्रयोगः—
अविकल्पोऽनुभवः न कस्यचिद् ग्राहकः, असत्त्वात्, गगनकुसुमवत् इति । अतः कथं त3025द्गृहीतं
किञ्चिद्3026 विज्ञानं गृहीति, 3027 नान्यथा सोऽपि अन्यगृहीतं गृह्णाति इति स्यात् तदन्य
वत् । अविकल्पानुभवस्यापि नानुभवः; तदनुभवस्य अप्रमाणत्वे १८२ क न किञ्चित् प्रमाणं
भवेत् । अन्यस्य कस्यचिदनुपलम्भेन असत्त्वाद् इत्यपरः । तं प्रत्याह--प्रत्यक्ष इत्यादि ।
विवृतम्, अस्याः प्रतिभासादिति मन्यते । निर्विकल्पानुभूतविषयत्वात् स्मृतिः अप्रमाणमिति ।


अत्रैव दूषणान्तरं दर्शयन्नाह--चिन्ता इत्यादि । चिन्ता परकीया इयं गृहीतग्राहि
ज्ञानं सर्वं प्रमाणम् इत्येवं रूपाचिन्त्यात्मिकाचिन्त्यस्वभावा मानत्राणरहितातायाः
भर्तृत्राणहीनायाः कुलयोषित इव तद्रूपत्वात् । कुत एतत् ? इत्यत्राह--कलयति इत्यादि ।
अन्यत्र अन्यस्याः सिद्धौ गृहीतौ, अन्यत्र इति वचनात् 3028सूरेर्मनसि काचिद् विवक्षिता
सिद्धिर्वर्त्तते इति गम्यते । अन्यत्र इत्यस्य संबन्धिशब्दात् 3029 ततो विवक्षितसिद्धिविष
याद् अन्यं विषयान्तरम् एकान्तेन कलयति अध्यवस्यति यतः, न चैवमस्ति इति मन्यते ।
देशादिभेदेन एकत्रार्थे अनेकसिद्धिसंभवात्, न च सा प्रमाणं ततोऽप्रवृत्तिप्रसङ्गात् । क्षणिकत्वा
दर्थस्य नैवं चेत्; न; अत्र प्रमाणाभावात् । पूर्वोत्तरयोः मध्ये तस्य3030 च तत्र3031 अनुपलब्धिः प्रमाण
मिति चेत्; न; अस्याः क्षणिकनिरंशपरमाणुतत्त्वैकान्ते सर्वथाऽसिद्धेः युगपत् स्वावयवात्मक
घटादितत्त्वसमयेऽपि3032 नितरां तत्र प्रत्यक्षाद्यात्मिकायाः मतेः प्रमाणत्वात् ।


223

यर्दि वा, अन्यथा पूर्वपक्षयित्वा इदं वृत्तं व्याख्यातव्यम् । न3033नु प्रत्यक्षमेव एकं प्रमाणम्
तत्किमर्थं तदनन्तरं स्मरणादि प्रमाणत्रयमत्र चिन्त्यते इति चेत्; अत्राह--ज्ञानी इत्यादि । ज्ञानी
परीक्षावान् स्वयं १८२ ख चार्वाको येन अनुमानज्ञानेन अतिशेते । कम् ? इत्याह—
भवभृतम् भवः संसारः तं बिभर्त्ति षुष्णाति समर्थयत इति भवभृत् जैनादिः तम्, इतरवत्
निषेधकम् स्वशिष्यादिकम् अतिशेते ततो विशेषं लभते । तदनुमानज्ञानं प्रमाणं किमर्थम् ?
इत्याह--समन्ताद् इत्यादि । समन्तात् साकल्येन हेयस्य परलोकदेवताविशेषधर्माऽधर्म
प्रमाणान्तरादेः उपादेयस्य भूतचतुष्टय3034परचैतन्य-मुख्यप्रत्यक्षप्रमाणादेः सिद्धौ निर्णीतिनिमित्तम् ।


ननु प्रत्यक्षानुभवादेव तत्सिद्धिः इति स3035 एव प्रमाणमिति चेत्; अत्राह--न पुनः इत्यादि ।
न पुनः नैव अनुभवः प्रत्यक्षज्ञानं प्रमाणं हेयोपादेयसिद्धौ इत्यनुवर्त्तते । किंभूतः ?
विकल्पः निर्णयात्मा परापेक्षया इदमुक्तम् । पुनरपि किंभूतः ? इत्याह--भूतकल्प इति ।
भूतानि पृथिव्यादीनि तत्कल्पः तत्सदृशः । एतदुक्तं भवति--यथा पृथिव्यादीनि भूतानि स्वयम्
अचेतनानि न हेयोपादेयसिद्धौ प्रमाणम्, अन्यथा ज्ञानकल्पनमनर्थकं स्यात्, तथा अनुभवोऽपि
3036दुपादानतया स्वयमचेतनो न तत्र प्रमाणम् । न खलु अचेतनोपादानं चेतनं युक्तम्, इतरथा
अचेतनात् मृत्पिण्डात् चेतनो घटः स्यात् । तथा च प्रयोगः--यदचेतनोपादानं न तत् चेतनं
यथा घटादि, अचेतनतोपा3037दानं च परस्य3038 ज्ञानमिति । ननु तदुपादानत्वेऽपि तस्य3039 चिद्रू
पतया प्रतीतेः प्रत्यक्षबाधितः पक्षः इति चेत्; मृत एव विज्ञानात् तस्य तथात्वप्रतीति गस्त्य
त्तावदेतत् 3040 चतुर्थपरिच्छेदे १८३ क निरूपयिष्यामाणत्वात् । यदि वा
भूतानि कल्प्यन्ते व्यवस्थाप्यन्ते विषयीक्रियन्ते येन स भूतकल्प इति व्याख्येयम् । न च
तस्य3041 तत्सिद्धौ सामर्थ्यं परलोकादेः अतद्विषयत्वात् । नापि यद् यद्विषयं न भवति तत्तस्य निषे
धकं व्यवस्थापकं वा अतिप्रसङ्गात् ।


ननु भवतु अनुमानं प्रमाणम्, तथापि प्रकृते क उपयोग इति चेत् ? अत्राह--प्रत्यक्ष
इत्यादि । व्याख्यातमेतत् । अत्रायमभिप्रायः--अनुमानं प्रमाणमिच्छता पूर्वं लिङ्गलिङ्गिनोः
सम्बन्धदर्शनम्, पुनः क्वचित् प्रायो लिङ्गदर्शनम्, सम्बन्धस्मृतिः, प्रत्यभिज्ञानम्, तर्कः,
पुनः अनुमानमित्यभ्युपगन्तव्यम् । अनुमानवच्च स्वविषयस्मृत्यादिकमपि प्रमाणमिति चेति ।


ननु च प्रत्यक्षेण लिङ्गलिङ्गिनोः साकल्येन सम्बन्धप्रतिपत्तौ प्रतिपत्तुः सर्वज्ञत्वम्, तेनैव
अनुमानेन प्रतिपत्तौ अन्योऽन्यसंश्रयः3042, त3043दन्तरेण अनवस्था, तत्कथं सम्बन्धप्रतिपत्तिः यतोऽनुमा
नमिति चेत्; अत्राह--चिन्ता इत्यादि । चिन्ता इत्यन्वर्थसंज्ञाकरणात् तर्कस्य मानसविकल्प
त्वोपवर्णनम्, प्रत्यक्षत्वनिषेधे तेन3044 साकल्यव्याप्तिं प्रतिपद्यमानस्य जैनस्य सर्वज्ञत्वं नाऽनिष्टाय
अभ्युपगमात् इति दर्शयति अनेन । तदुक्तम्--


224
*अशेषविदिहि क्ष्य3045ते सदसदात्मसामान्यवित् ।

जिन प्र3046कृतमानुषोऽपि किमुत अखिलज्ञानवान् ॥

पात्रकेसरिस्तोत्र श्लो॰ १९ इति ।


अचिन्त्यात्मिका इत्यनेन च विषयोत्पत्तिसारूप्ययोः लिङ्गाश्रितत्वस्य च अभा
वेऽपि योग्यतया स्वविषयपरिच्छेदान्न तत्पक्षभावी दोषः । इयम् इत्यनेनापि तस्याः प्रत्यात्म
स्वसंवेदनाध्यक्षवेद्यतया निषेधने3047 प्रत्यक्षबाधनम् । १८३ ख सा किं करोति ? इत्याह--कल
यति
साकल्येन अवधारयति । किम् ? अन्यं साधनं साध्यात् तस्य अन्यत्वात् । किम् ?
अर्थसिद्धौ सिद्धिनिमित्तम् । क्व ? अन्यत्र । साधनात् अन्यत् साध्यं तत्र अनुमाननि
मित्तमिति यावत् । कुतः ? इत्याह--विषयात् इति । यथा मातरि वर्त्तितव्यम्, पितरि
शुश्रूषितव्यम्
इत्युक्ते स्वस्यां स्वस्मिन् इति गम्यते तथा विषयात् इत्युक्तेऽपि
स्वविषयाद् अन्यथानुपपन्नत्वलक्षणात् इति गम्यते इति ।


इति र वि भ द्र पादकञ्जभ्रमर अ न न्त वी र्य विरचितायां
सि द्धि वि नि श्च य टी का यां प्रमाणान्तरसिद्धिः तृतीयः प्रस्तावः ॥ छ ॥


  1. कारिकार्थः ।

  2. सौगतमते ।

  3. क्तिं
  4. वं
  5. स्मृतौ
  6. तं
  7. योऽपि
  8. नीलादिसुखादिकमन्तरेणापरस्य ज्ञानाकारस्यानुपलक्ष
    णात्
    --प्र॰ वार्तिकाल॰ ३ । ३१३ ।

  9. चित्राभासापि बुद्धिरेकैव बाह्यचित्रविलक्षणत्वात् । शक्यविवेचनं
    चित्रमनेकमशक्यविवेचनाश्च बुद्धेर्नीलादवः ।
    --प्र॰ वार्तिकाल॰ ।

  10. नीलादिग्राह्यदृश्याकारैः
  11. शबला
  12. पर्ययैः
  13. अनुभवेन ।

  14. अनुभूतत्वस्य परिच्छेदायोगादिति भावः ।

  15. स्मरणेन ।

  16. तुलना—
    ननु अनुभूते जायमानमित्येतत् केन प्रतीयताम् ? न तावदनुभवेन तत्काले स्मृतेरेवासत्त्वात् । न चासती
    विषयीकर्तुं शक्या । न चाविषयीकृता तत्रोपजायते इत्यधिगतिः । न चानुभवकाले अर्थस्य अनुभूतताऽस्ति,
    तदा तस्यानुभूयमानत्वात् । तथा चानुभूयमाने स्मृतिरिति स्यात् । अथानुभूते स्मृतिरित्येतत् स्मृतिरेव
    प्रतिपद्यते; न; अनया अतीतानुभवार्थयोरविषयीकरणे तथा प्रतीत्ययोगात् ।
    --प्रमेयक॰ पृ॰ ३३६ ।

  17. एव तद्
  18. तस्मात् स एवायमिति प्रत्ययद्वयमेतत्--प्र॰ वार्तिकाल॰ पृ॰ २२ । यदतीतं न तद् ग्राह्यं यदा ग्राह्यं न
    तत्तथा । स्मर्यमाणेन रूपेण तदतीतं न वस्तुसत् ॥ निश्चयस्य दृढत्वाच्च प्रामाण्यमुपपत्तिमत् । प्रत्यभिज्ञान
    मप्येवमक्षयोगस्त्वपार्थकः ॥
    --प्र॰ वार्तिकाल॰ पृ॰ ५९३ । प्र॰ वा॰ स्ववृ॰ टी पृ॰ ७८ ।

  19. प्रत्यभिज्ञानाभावे ।

  20. त्
  21. त्
  22. चित्राभ
  23. बौद्धेन । अविसंवादसद्भावात् प्रमाणं ज्ञानमिष्यते । वर्तमानेऽविसंवादो न तु
    पूर्वविनाशिनि ॥ न स्याद्यदि तदेकत्वं किं ततोऽर्थक्रिया न सा...
    --प्र॰ वार्तिकाल॰ पृ॰ ५९३ ।

  24. चित्रात्मकम् ।

  25. तुलना--प्रमाणमर्थसम्बन्धात् प्रत्यक्षान्वयिनी स्मृतिः ।--प्रमाणसं॰ श्लो॰ १० ।

  26. अज्ञातार्थप्रकाशो वा--प्र॰ वा॰ १ । ७ ।

  27. अज्ञातार्थप्रकाशाभावात् ।

  28. गृहीत
    ग्रहणान्नेष्टं सांवृतं...
    --प्र॰ वा॰ १ । ५ ।

  29. अर्थसारूप्याभावात् ।

  30. प्रत्ययस्य ।

  31. बौद्धः ।

  32. प्रमाणं भवति ।

  33. अनिश्चितार्थनिश्चायकाभावात् ।

  34. समारोपायोगात् कथं तद्व्यवच्छेद इति भावः ।

  35. स्तम्भादौ
  36. वाहि
  37. स्मृतिवत् ।

  38. तेन
  39. नं
  40. साध्यत्वेन ।

  41. अगृहीतव्याप्तिकस्य ।

  42. न चैवम्
  43. पुरुषस्य ।

  44. व्याप्तौ ।

  45. साध्यं शक्यम
    भिप्रेतमप्रसिद्धम्
    --न्यायवि॰ २ । ३ ।

  46. साध्यस्य ।

  47. स्मृतेः ।

  48. प्रदेशः ।

  49. यावान् कश्चिद्
    भावः स सर्वः क्षणिकः
    इति प्रयोगे ।

  50. यत् तज्
  51. प्ते न
  52. व्यवहारेणैव ।

  53. प्रामाण्यं स्वीकर्तव्यमिति ।

  54. प्रमाणस्वीकारेण ।

  55. द्वे एव प्रमाणे इति वचनम् ।

  56. अस्तु प्रमाणस्यापि विलोपः अद्वैतोपगमात् इति प्रज्ञाकरगुप्तः, तत्राह--।

  57. अनुमानस्य ।

  58. स्मृत्य
    न्तरात् ।

  59. अप्रमाणत्वं स्यात् गृहीतग्राहित्वादिति भावः ।

  60. लिङ्गि
  61. अनुमानस्य ।

  62. के
  63. प्रमाणेतर व्यवस्था ।

  64. व्यप्तिज्ञानविषयीकृते ।

  65. तुलना--सामान्येनान्वये सिद्धे पक्षधर्मत्वयोगतः । विशेषनिष्ठता
    तस्य सम्बन्धग्रहणात्मना ॥
    --प्र॰ वार्तिकाल॰ ३ । ४० ।

  66. समानम् । 2482
  67. अनुमानस्थले ।

  68. एकत्र
  69. अनुमानस्थले ।

  70. स्मृतौ ।

  71. विशेषस्यानिराकरणात् ।

  72. प्र॰ वार्तिकाल॰ पृ॰ २१ । श्लोकोऽयं मीमांसकोक्तत्वेन उपलभ्यते--सन्मति॰
    टी॰ पृ॰ ३१८ । प्रमेयक॰ पृ॰ ६१ । हेतुबि॰ टी॰ पृ॰ २८० ।

  73. प्रामाण्यस्य ।

  74. अर्चटम् ।

  75. ज्ञानजो ज्ञानहेतुश्च संस्कारः--प्र॰ वार्तिकाल॰ ३ । ५२७ ।

  76. गो
  77. संज्ञासंज्ञिसम्बन्धप्रतिपत्तिः ।

  78. वाक्यविज्ञानात् ।

  79. प्रमाणेन ।

  80. उपगम्यते
  81. तर्काख्यम् ।

  82. नैयायिकः ।

  83. अथवा
  84. स्त्र्ये
  85. स्त्र्या
  86. इयं सा स्त्रीशब्दवाच्या इत्यादि ज्ञामम् ।

  87. आत्ममनो
  88. प्रत्यभिज्ञानं हि नाम आद्यप्रत्यक्षनिरोधे
    द्वितीयदर्शने प्रागाहितसंस्काराभिव्यक्तौ स्मृतिपूर्वं तृतीयं दर्शनम् ।
    --न्यायवा॰ पृ॰ ४०० । एवं पूर्व
    ज्ञानविशेषितस्य स्तम्भादेर्विशेषणमतीतक्षणविषय इति मानसी प्रत्यभिज्ञा ।
    --न्यायम॰ प्रमे॰ पृ॰ ३३ ।

  89. जायमानम् ।

  90. प्रत्यभिज्ञानाख्यम् ।

  91. संख्यादिज्ञानम् ।

  92. अनुमानस्यापि ।

  93. तस्यास्तु
    ज्ञानत्वादेव हेतोः मानसज्ञानवत् ।

  94. प्रमाणान्तरम्--प्रत्यभिज्ञानाख्यम् ।

  95. तत् ?
  96. योऽर्थः
  97. अविनाभूतः सन् ।

  98. चिन्ता ।

  99. पक्षः
  100. इत्यूहनं
    चिन्तन
  101. व्याख्याकाराः ।

  102. टीकातः सूत्रस्य भेदो न स्यादिति
    भावः ।

  103. प्रमाणम् ।

  104. नास्तिरूपेण ग्रहणसंभवात् ।

  105. प्रत्यक्षादेः ।

  106. भावांशे ।

  107. प्रत्यक्षादि ।

  108. प्रत्यक्षादि ।

  109. मेयो यद्वदभावो हि मानमप्येवमिप्यताम् । भावात्मके यथा मेये
    नाभावस्य प्रमाणता ॥ तथैवाभावमेयेऽपि न भावस्य प्रमाणना ।
    --मी॰ श्लो॰ अभाव॰ श्लो॰ ४५-४६ ।

  110. प्रत्यक्षेण घटाद्यभावस्य प्रतीयमानत्वात् ।

  111. मैत्रा॰ ६ । ३६ ।

  112. अग्निहोत्रादियागप्रतिपादनवत् ।

  113. बौद्धादिकल्पितस्य खादेत् श्वमांसम् इत्याद्यनिष्टार्थस्य निवृत्तिरपि ततः प्रतीयते इति भावः ।

  114. इत्येव वर्त्तते इति द्विर्लिखितम् ।

  115. प्रत्यभिज्ञानाख्यस्य सप्तमस्यापि प्रमाणस्य प्रसङ्गात् ।

  116. अप्र
    मीयमाणत्वमेव हि नास्तित्वं नापरं न चाप्रमीथमाणतैव प्रमेयं यस्मात्तदर्थासंसृष्टानुभवयुक्ततैव आत्मनः
    तस्यार्थस्याप्रमीयमाणता । सा चावस्था आत्मनः स्वसंविदितैव, अतः प्रमेयं नावशिष्यते ।
    --बृहती प॰ पृ॰
    ११९-२० । तस्माद् भावग्राहकप्रमाणाननुवृत्तिरेव अभावावगमं प्रसूते पृ॰ ११९ अभावस्य तु स्वरूपा
    वगतिर्नास्ति इति न प्रमाणाभावादन्यः प्रमेयाभावः । प्रमाणाभावोऽपि च स्वरूपान्तरानवगमादेव न
    भावान्तरप्रमितेर्भिद्यते, भावान्तरप्रमितिश्च स्वयं प्रकाशरूपा न प्रमेयतामनुभवतीति प्रमेयमभावाख्यस्य
    प्रमाणस्य नोपपद्यते । प्रमेयासद्भावाच्च न प्रमाणान्तरमवकल्पन इति स्थितम् । पृ॰ १२४ नास्तित्वञ्च
    प्रमाणानामनुत्पत्त्यैव गम्यते । नास्तित्वप्रतिपत्तिर्हि तां विना नास्ति कुत्रचित् ॥ योग्यप्रमाणानुत्पत्तेः
    कारणत्वपरिग्रहात् । अतिप्रसङ्गदोषोऽपि नावकाशमुपाश्नुते ॥
    --प्रक॰ प॰ पृ॰ १२९ । नयवि॰ पृ॰ १६२ ।
    तन्त्ररह॰ पृ॰ १७ । प्रभाकरवि॰ पृ॰ ५७ ।

  117. अनुमानार्थापत्त्योः ।

  118. प्र भा क र स्य
  119. कथैव
  120. दनुमानात्
  121. अर्थापत्तौ साधर्म्यदृष्टान्ते व्याप्तिग्रहणं नावश्यकम् । अविनाभाविता
    चात्र तदैव परिगृह्यते । न प्रागवगतेत्येवं सत्यप्येषा न कारणम् ॥
    --मी॰ श्लो॰ अर्था॰ श्लो॰ ३० ।

  122. अर्थापत्तेः ।

  123. अपि भेदोऽस्तु । इति तद्रहिताऽर्थापत्तिः प्रमाणं स्यात् ।--न्यायकुमु॰ पृ॰ ५१९ ।

  124. कुमारिलप्रभाकरयोः ।

  125. अनुमानार्थापत्त्योः ।

  126. असत्त्वात् ।

  127. दृष्टान्ताभावः ।

  128. साध्या
    विनाभावितया ज्ञातुं न शक्येत ।

  129. तुलना--उपमानं प्रसिद्धार्थसाधर्म्यात् साध्यसाधनम् । तद्वैधर्म्यात्
    प्रमाणं किं स्यात् संज्ञिप्रतिपादनम् ॥ १९ ॥
    --लघी॰ । न्यायावता॰ वा॰ श्लो॰ १४ ।

  130. प्रसिद्धसाध
    र्म्यात् साध्यसाधनमुपमानम्
    --न्यायसू॰ १ । १ । ६ ।

  131. वनवासिनम् ।

  132. दा
  133. अटव्याम् ।

  134. काक्वा
  135. प्रमाणान्तरमस्तु ।

  136. गोसदृशस्य यागादौ आलम्भनं
    क्रियते इति सदृशस्मृतेः वैदिकं प्रयोजनं विद्यते इति भावः ।

  137. लौकिकजनस्य गोविलक्षणमहिषादिज्ञा
    नरूपं प्रयोजनमस्त्येवेति भावः ।

  138. चिन्ता; तस्याः
  139. तस्य ग्रहणं प्रत्यक्षानुपलम्भसहायान्मानसात् प्रत्यक्षात् । धूमम
    ग्निसहचरितमिन्द्रियेणोपलभ्य अनग्नेश्च जलादेर्व्यावर्तमानमनुपलम्भेन ज्ञात्वा मनसा निश्चिनोति धूमोऽग्निं
    न व्यभिचरतिति ।
    --न्यायकलि॰ पू॰ ३ ।

  140. सिद्धसाधनमेव ।

  141. प्रमातृप्रमेयाम्यामन्यस्य प्रमाणता
    भवति ।

  142. आह-
  143. ज्ञानम् ।

  144. न हि किञ्चिदवान्तरविशेषमात्रेण प्रमाणान्तरत्वं भवति ।

  145. तत्पूर्वकं
    त्रिविधमनुमानं पूर्ववच्छेषवत्सामान्यतो दृष्टं चेति
    सू॰ १ । १ । ५त्रिविधमिति अन्वयी व्यतिरेकी
    अन्वयव्यतिरेकी चेति ।
    --न्यायवा॰ पृ॰ ४६ ।

  146. र्वं
  147. किन्त्वत्रापि
  148. नैयायिकादिः ।

  149. नैयायिकः ।

  150. अविनाभावग्रहणं
    बिना यत् ज्ञानं सादृश्याद् भवति तद् भवतु उपमानमित्यभिप्रायः ।

  151. उपमानादावेव ।

  152. प्रत्यक्षमपि ।

  153. प्रत्यक्षेऽपि ।

  154. अर्थाविनाभावप्रतिपत्तिः ।

  155. प्रत्यक्षमनुमानञ्च ।

  156. अत एवाह--अर्थस्यासंभवे...--प्र॰ वार्तिकाल॰ ३ । ११७ ।
    तत्त्वसं॰ प॰ पृ॰ ७७५ । आप्तप॰ पृ॰ १७३ । न्यायवि॰ वि॰ प्र॰ पृ॰ २० । सन्मति॰ टी॰ पृ॰ ५५५ ।
    न्यायावता॰ वा॰ वृ॰ पृ॰ ८६ । धर्मकीर्तिरप्येतदाह प्रमाणमी॰ पृ॰ ८ ।

  157. चिन्तो
  158. वत्
  159. चिन्तायाः तर्कस्य अन्त
    र्भावात् ।

  160. व्याप्तिज्ञान ।

  161. द्विविधं सम्यग्ज्ञानम् । प्रत्यक्षमनुमानं च--न्यायबि॰ १ । २, ३ । प्र॰
    वा॰ २ । १ । प्रत्यक्षानुमानभेदेन द्विविधमेव प्रमाणं प्रतिपत्तव्यम्--प्र॰ वार्तिकाल॰ २ । १ ।

  162. विचा
    रस्य ।

  163. विचारात् ।

  164. निर्विकल्पकस्य हि प्रत्यक्षत्वमभ्युपगभ्यते, विचारस्य च विकल्परूपत्वादिति
    भावः ।

  165. स्वसंवेदनप्रत्यक्षम् ।

  166. असत्त्वेन वा ।

  167. बौद्धेन ।

  168. धर्मकीर्तिरप्येतदाह--प्रमाणेतरसामान्यस्थितेरन्यधियो
    गतेः । प्रमाणान्तरसद्भावः प्रतिषेधाच्च कस्यचित् ॥
    --प्र॰ मी॰ पृ॰ ८ । प्रमेयरत्नमा॰ २ । १ । तथा चोक्तं
    तथागतैः--प्रमाणान्तरसामान्यस्थिते...
    --सर्वद॰ सं॰ पृ॰ १९ ।

  169. तस्मात् संवेदनमेव केवलमद्वैत
    मपरस्याभावादिति स्थितम् ।
    पृ॰ २९०नाद्वैतादपरं तत्त्वमस्ति--प्र॰ वार्तिकाल॰ पृ॰ ३० ।

  170. उपलम्भः सत्तेति व्यवस्था--प्र॰ वार्तिकाल॰ ।

  171. सर्ववस्त्वभावे
  172. ती
  173. व्याप्तिज्ञाने ।

  174. उद्धृतमिदम्--अनेकान्तजय॰
    पृ॰ २०७ । धर्मसं॰ पृ॰ १७६ । बोधिचर्या॰ प॰ पृ॰ ३९८ । तत्त्वार्थश्लो॰ पृ॰ २१९ । आप्तप॰
    पृ॰ १६८ । प्रमेयक॰ पृ॰ ३५५, ५०२ । न्यायकुमु॰ पृ॰ ६४० । स्या॰ र॰ पृ॰ ७६९ । न्यायवि॰ वि॰
    प्र॰ पृ॰ २९० । स्या॰ मं॰ पृ॰ २०६ । अहेतुश्च विषयः कथम्--प्र॰ वा॰ ३ । ४०६ । नाहेतुर्विषयः
    प्र॰ वार्तिकाल॰ ३ । ४०६ । न ह्यकारणं प्रतीतिविषयः--हेतुबि॰ टी॰ पृ॰ ८० । नाननुकृतान्वयव्यतिरेकं
    कारणं नाकारणं विषयः
    --न्यायकुमु॰ पृ॰ ६४० । सन्मति॰ टी॰ पृ॰ ५१० । प्र॰ मी॰ पृ॰ ३४ ।
    षड्द॰ बृ॰ वृ॰ पृ॰ ३७ ।

  175. समसमयभाविनोः कार्यकारणभावाभावात् ।

  176. तज्ज्ञानं
  177. व्याप्तिज्ञानम् ।

  178. प्रत्यक्षम् ।

  179. त्थम्
  180. मूह
  181. व्याप्तिज्ञानम् ।

  182. लैङ्गिक
  183. क्षा
  184. प्रतिभासाद्वैतस्वरूपस्य ।

  185. जैनादिकम् ।

  186. विकल्परूपस्य ।

  187. मा अनुमा
    प्रमाणम् इत्यर्थः ।

  188. अनुमानेन ।

  189. अनुमानम् । यदा पुनरनुमानेन समारोपव्यवच्छेदः कृतो
    न भवतीति तदर्थमन्यत् प्रवर्तते ।
    --प्र॰ वा॰ स्व॰ पृ॰ १२५ । समारोपविवेकेऽस्य प्रवृत्तिरिति
    गम्यते ।
    --प्र॰ वा॰ ३ । ४८ ।

  190. समारोपव्यवच्छेदस्य ।

  191. तुलना--अन्ये तु व्याप्तिग्रहणकाले
    प्रतिपत्तुर्योगिन इवाशेषविषयं परिज्ञानमस्तीति ब्रुवते ।
    --प्रश॰ व्यो॰ पृ॰ ५७० । योगिप्रत्यक्षतो
    व्याप्तिसिद्धिरित्यपि दुर्घटम्
    --त॰ श्लो॰ पृ॰ १७९ । न्यायकुमु॰ पृ॰ ४३२ । प्रमेयक॰ पृ॰ ३५१ ।

  192. प्रत्यक्षप्रमेयम् ।

  193. रोपोऽनभ्या
    सदशा च, यतः
  194. व्याप्तिः ।

  195. मनःसंयुक्तेन आत्मना सम्बद्धाः सर्वेऽर्थाः ।

  196. णम
  197. द्य
  198. नैव
    प्रत्यक्षतः कार्यविरहाद्वा सर्वशक्तिविरहोऽक्षणिकत्वे उच्यते किन्तु तद्व्यापकविरहात् । तथाहि--क्रमयौगप
    द्याभ्यां कार्यक्रिया व्याप्ता प्रकारान्तराभावात् । ततः कार्यक्रियाशक्तिव्यापकयोस्तयोरक्षणिकत्वे विरोधान्नि
    वृत्तेस्तद्व्याप्तायाः कार्यक्रियाशक्तेरपि निवृत्तिरिति सर्वशक्तिविरहलक्षणमसत्त्वमक्षणिकत्वे व्यापकानुपलब्धि
    राकर्षति विरुद्धयोरेकत्रायोगात् । ततो निवृत्तं सत्त्वं क्षणिकेष्वेवावतिष्ठमानं तदात्मतामनुभवतीति यत्
    सत् तत् क्षणिकमेव इत्यन्वयव्यतिरेकरूपाया व्याप्तेः सिद्धिःनिश्चयो भवति ।
    --हेतुबि॰ टी॰ पृ॰ १४६ ।

  199. यथा किल वहनारूढैर्वणिग्भिः शकुनिर्मुच्यते अपि नाम तीरं द्रक्ष्यतीति । स यदा सर्वतः पर्यटं स्तीरं
    नासादयति तदा वहनमेवागच्छति तद्वदेतदपि द्रष्टव्यम् । यतश्चावश्याभ्युपगमनीयोऽयं पक्षः तस्मान्न
    किञ्चिदमया अविद्यमानप्रतिष्ठानया दिशः प्रतिपत्त्या प्रयोजनम् ।
    --हेतुबि॰ टी॰ पृ॰ १९३ ।

  200. कूटस्थात्
  201. स्वा
    भिमत
  202. अर्थक्रियाया अभावः ।

  203. रेव
  204. प्रदीपादिः ।

  205. व्यतिरेकवचनम् ।

  206. अन्वयव्यतिरेक
    वचनयोर्वा साधर्म्यवति वैधर्म्यवति च साधनप्रयोग एकस्यैवाभिधानेन सिद्धेर्भावात् द्वितीयस्यासामर्थ्य
    मिति तस्याप्यसाधनाङ्गस्याभिधानं निग्रहस्थानं व्यर्थाभिधानादेव ।
    --वादन्या॰ पृ॰ ६५ ।

  207. इत्युक्तं
  208. अतीन्द्रि
    यत्वात् ।

  209. क्षणक्षयसम्बन्धिनी ।

  210. अर्थक्रिया ।

  211. द्धेः
  212. का इति पञ्चमीविभक्तेः संज्ञा ।

  213. पञ्चमी
    तत्पुरुषसमासः ।

  214. क्षणिकाः सर्वसंस्काराः अस्थिराणां कुतः क्रिया ? भूतिर्यैषां क्रिया सैव कारकं
    सैव चोच्यते ॥
    --बोधिचर्या॰ पृ॰ ३७६ । मध्यमकवृ॰ पृ॰ ११६ टि॰ १ । ब्र॰ भा॰ पृ॰ ५३१ ।
    रत्नाकराव॰ पृ॰ २९ । स्या॰ म॰ श्लो॰ १६ ।

  215. र्यै
  216. अक्षणिकात् ।

  217. नन्वे
  218. कालत्रयानुयायित्वम् ।

  219. क्षणिकत्वम् ।

  220. प्रत्यक्षात् ।

  221. नित्यस्य ।

  222. अपि द्रष्टुमशक्यमिति सम्बन्धः ।

  223. योरसत्ता
  224. अभावः ।

  225. वत्त्व
  226. रत्रापि
  227. णोऽप्यस्त्येव, ततोऽन्यथा
  228. त्रापि
  229. केन
  230. केन नाम अर्थ
  231. वं
  232. सत्त्वमेव ।

  233. व्याप्यं व्यापकं च ।

  234. उपलब्धिर्हि ज्ञानात्मिका विषयिणी तस्याः विषयभूतायां सत्तायामुपचारः क्रियते ।

  235. अक्षणिकाभाव ।

  236. अर्थक्रियाऽदर्शने ।

  237. प्रत्यक्षपूर्वत्वादनुमानस्य ।

  238. उद्धृतोऽयम्--न्यायवि॰ वि॰ प्र॰ पृ॰ ४७५ ।

  239. कारण
    कार्ययोः सहभावविरोधात् ।

  240. तद्भावे भावः तदभावेऽभावश्च प्रत्यक्षानुपलम्भसाधनश्च कार्यकारण
    भावः
    --हेतुबि॰ पृ॰ ५४ । यतोऽन्वयव्यतिरेकनिबन्धनः कार्यकारणभावव्यवहारः--हेतुबि॰ टी॰ पृ॰
    १७० । भावे भाविनि तद्भावः भाव एव च भाविता । प्रसिद्धे हेतुफलते प्रत्यक्षानुपलम्भतः ।--सम्बन्धप॰
    श्लो॰ १६, प्र॰ वार्तिकाल॰ भू॰ । प्रमेयक॰ पृ॰ ५१० । कार्यकारणभावप्रसाधनं भावाभावप्रसाधन
    प्रमाणाभ्यां यथा इदमस्मिन् सति भवति सत्स्वपि तदन्येषु समर्थेषु तद्धेतुषु तदभावे न भवतीति ।

    --वादन्या॰ पृ॰ १४ । अस्मिन् सति इदं भवत्यस्योत्पादादिदमुत्पद्यते इत्येतदेव हेतुलक्षणं भगवतोक्तम्
    --प्र॰ वार्तिकाल॰ पृ॰ ६७, ६८, २७ । अन्वयो नाम सर्वत्र सत्येव साध्ये हेतोर्भावो व्याप्त्या । चासति
    साध्ये हेतोरभावो व्यतिरेकः
    --हेतुबि॰ टी॰ पृ॰ २२४ ।

  241. तत्
  242. कार्यकारणयोः ।

  243. कारणकाले कार्यसद्भावे ।

  244. समस्तमुत्तरोत्तरक्षणवृत्तिकार्यम् ।

  245. न चैवाक्षणिकस्य क्वचित् कदाचित् शक्तिरस्ति क्रमयौगपद्याभ्यां कार्यक्रियाशक्तिविरहात्...
    --हेतुबि॰ पृ॰ ६३ ।

  246. यदि कारणाभावेन कार्योत्पत्तेर्विरोधो नास्ति तदा ।

  247. त्येव
  248. तिष्ठतु
  249. दृष्टान्तार्थम्
  250. करोति ।

  251. क्रमरहितात्
    नित्यात् ।

  252. यदा
  253. उद्धृतोऽयम्--न्यायवि॰ वि॰ प्र॰ पृ॰ ४७५ ।

  254. कारणस्य ।

  255. न्तन
  256. वर्त्तिदाहाद्येक
  257. एतदन्तर्गतः पाठो व्यर्थः ।

  258. दशा-वर्तिका तस्याः आननदाहः मुखदाहः
    इत्यर्थः ।

  259. योगिज्ञानेन ।

  260. तुलना--सत्यभवतः स्वयमेव नियमेन पश्चाद्भवतः तत्कार्यत्वं विरुद्धम्,
    कालान्तरेऽपि किन्न स्यात्तदभावाविशेषात् समनन्तरवत् ।
    --अष्टश॰ अष्टस॰ पृ॰ ९० ।

  261. अभावस्य ।

  262. प्रज्ञाकरो हि व्यवहितकारणवादी ।

  263. जाग्रद्वि
    ज्ञानम् ।

  264. विज्ञानाद्वैतवादिनः प्रज्ञाकरस्य ।

  265. जैनादेः ।

  266. किं कर्त्तव्यम्
  267. स्वतन्त्रत्वात् ।

  268. प्रज्ञाकरः । गाढसुप्तस्य विज्ञानं
    प्रबोधे पूर्ववेदनात् । जायते व्यवधानेन कालेनेति विनिश्चतम् ॥
    --प्र॰ वार्तिकाल॰ पृ॰ ६७ ।

  269. नहि
  270. शा
  271. नित्यस्य ।

  272. क्षणिकस्य ।

  273. सहकारिकारणापेक्षया ।

  274. यदि विद्येत किञ्चन ।
    यदकिञ्चित्करं वस्तु किं केनचिदपेक्ष्यते ॥
    इति शेषः ।

  275. रो
  276. उपकारम् ।

  277. न्तः
  278. स्वरूपम् ।

  279. सहकारिभिरेव ।

  280. क्षणिकस्यापि ।

  281. स्वभावभेद
    प्राप्तेः ।

  282. र्या
  283. द्धि देशादि
  284. नित्यानाम् ।

  285. पृ॰ १९४ ।

  286. सहकारिणः सकाशात् कार्यनिष्पत्तौ ।

  287. यद्युपादानं
    प्राक् समर्थम् ।

  288. समर्थमपि ।

  289. सहकारिणामेव ।

  290. तस्य कारणत्वम् ।

  291. नित्येऽपि ।

  292. कुत एतत् ?
  293. बौद्धेन ।

  294. मर्थमत्रोक्तं
  295. सत्त्वमर्थक्रियया व्याप्तम्, सा च क्रमयौगपद्याभ्याम्, ते च
    नित्यान्निवर्तमाने स्वव्याप्यामर्थक्रियामादाय निवर्तेते, सा च स्वव्याप्यं सत्त्वम् इति
    व्यापकानुपल
    ब्धिबलात् सत्त्वस्य क्षणिकत्वेन व्याप्तिः साध्यते । यदा अक्षणिकेऽपि अर्थक्रिया सिद्धा तदा न सत्त्व
    क्षणिकत्वयोः व्याप्तिः सिद्धेति भावः । द्रष्टव्यम्--पृ॰ १९० टि॰ ४ ।

  296. ब्धेः
  297. अर्थक्रियाया अभावे ।

  298. सत्त्वस्य ।

  299. क्षणिकत्वेन व्याप्तिसिद्धिः ।

  300. कार्ये ।

  301. सर्वचित्तचैत्तानाम् इत्यादिना कल्पनाज्ञानस्यापि स्वरूपसंवेदनं अविभ्रमात्मकमेव ।

  302. यदि ततः
    प्रवृत्तिर्न स्यात्तदा ।

  303. संविदः ।

  304. संवित् ।

  305. संविदात्मनः
  306. यथा भ्रान्तैर्निरीक्ष्यते । विभक्तलक्षणग्राह्यग्राहकाकारविप्लवा ॥
    इति शेषः ।

  307. नं
  308. र स्य
  309. विकल्पेन अनुभवादुपजायमानेन व्यवस्थाप्यते व्यवहारतः । अनुदर्शनं दर्शनानुरूपो
    विकल्पः ।
    --प्र॰ वार्तिकाल॰ ३ । ३५७ ।

  310. प्रज्ञाकरः ।

  311. धर्मकीर्तेः ।

  312. द्विचन्द्रादिभ्रान्तः ।

  313. नीलद्विचन्द्रादिधियां हेतुरक्षाण्यपीत्ययम् ॥...किं वैन्द्रियं यदक्षाणां भावाभावानुरोधि चेत् । तत्तुल्यं
    विक्रियावच्चेत् सैवेयं किं निषिध्यते ॥
    --प्र॰ वा॰ २ । २९०--९६ इत्यादिना भ्रान्तेरिन्द्रियजत्वं 1 akṣaraधयतः ।

  314. अविभ्रमस्वभावः ।

  315. दृष्टान्तसहितम् ।

  316. अहेतुत्वाद्विनाशस्य स्वभावादनुब2 akṣarasता । न
    हि विनश्वरं तद्भावे हेतुमपेक्षते स्वहेतोरेव विनश्वराणां भावात् ।
    --प्र॰ वा॰ स्व॰ पृ॰ ३६० । विनाशं
    प्रति सर्वेषामनपेक्षतया स्थितेः ।...सर्वत्रैवानपेक्षाश्च विनाशे जन्मिनोऽखिलाः । सर्वथा नाशहेतूना तत्राकि
    च्चित्करत्वतः ॥
    --तत्त्वसं॰ श्लो॰ ३५३, ३५७ ।

  317. रवि
  318. विनाशं प्रति अन्यकारणानामपेक्षा नास्तीत्यर्थः ।

  319. तद्धे
  320. विनाशहेत्वयोगात् । स्वभावत एव
    भावा नश्वराः, नैषां स्वहेतुभ्यो निष्पन्नानामन्यतो विनाशोत्पत्तिः तस्यासामर्थ्यात् । न हि विनाशहेतु
    र्भावस्य स्वभावमेव करोति तस्य स्वहेतुभ्यो निर्वृत्तेः । नापि भावान्तरमेव; भावस्य तदवस्थत्वात्तथो
    पलब्ध्यादिप्रसङ्गः । नापि भावान्तरेणावरणम्; तदवस्थे तस्मिन्नावरणायोगात् । नापि विनाशहेतुना
    अभावः क्रियते अभावस्य विधिनान्यतयोपगमे व्यतिरेकाव्यतिरेकविकल्पनातिक्रमात् । भावप्रतिषेधकरणे
    न तस्य किंचित् भवति न भवत्येव केवलमिति । एवं च कर्ता न भवतीत्यकर्त्तुरहेतुत्वमिति न विनाशहेतुः
    कश्चित् । वैयर्थ्याच्च । यदि स्वभावतो नश्वरः न किञ्चिन्नाशकारणैः, तत्स्वभावतयैव स्वयं नाशात् ।
    यो हि यत्स्वभावः स स्वहेतोरेवोत्पद्यमानस्तादृशो भवति न पुनस्तद्भावे हेत्वन्तरमपेक्षते ।
    --हेतुबि॰
    पृ॰ ५६ । प्र॰ वा॰ स्व॰ १ । २७२ ।

  321. तं
  322. स्वात्म
  323. नाकरणे
  324. पूर्ववदुपलम्भादिप्रसङ्गलक्षणः ।

  325. द्धेः
  326. भावाभावयोः ।

  327. इन्द्रियेण सह ।

  328. आत्मखण्डनं
    भिन्नमभिन्नं वा क्रियते इत्यादि ।

  329. भिन्नाभिन्नविनाशकरणरहितः ।

  330. पस्कारः, यतः
  331. अथ क्रियानिषेधोऽयं भावं नैव करोति हि । तथाप्यहेतुता सिद्धा कर्तुर्हेतुत्वहानितः ॥
    --तत्त्वसं॰ श्लो॰ ३६६ ।

  332. यद्भावं प्रति यन्नैव हेत्वन्तरमपेक्षते । तत्तत्र नियतं ज्ञेयं स्वहेतुभ्यस्तथो
    दयात् ॥ निर्निबन्धा हि सामग्री स्वकार्योत्पादने यथा । विनाशं प्रतिसर्वेऽपि निरपेक्षाश्च जन्मिनः ॥
    --तत्त्वसं॰
    श्लो॰ ३५४--५५ ।

  333. स्वकार्योत्पादमस्वभावनियता ।

  334. उत्पादः ।

  335. सद्भावकरणप्रसङ्गात् ।

  336. अभावादेव सर्वकार्योत्पत्तेः ।

  337. मृत्पिण्डस्य ।

  338. मृत्पिण्डम् ।

  339. मृत्पिण्डात् ।

  340. ग्
  341. प्राग्भावम् ।

  342. भिन्नाभिन्नपक्षयोः ।

  343. भावम् ।

  344. पृ॰ १९८ ।

  345. णं
  346. अन्यः कारणसमूहः ।

  347. क्षं
  348. तथैव
  349. तथैव स्थितिं प्रत्यनपेक्षं स्थास्नु तद्धेतोरकि
    ञ्चित्करत्वात्, तद्व्यतिरिक्ताव्यतिरिक्ताकरणादित्यादि सर्वं समानम् ।
    --अष्टश॰ अष्टस॰ पृ॰ १८५-८६ ।

  350. स्थितिरूपस्य धर्मिणोऽसिद्धिः ।

  351. भेदवत् ।

  352. अभेदस्यापि ।

  353. स्थितिरंशेन
  354. भावम् ।

  355. विनाशहेतुना ।

  356. अनश्वरस्वभावम् ।

  357. तद्वद्वि
  358. नीयः
  359. क्व
  360. ते
  361. एतच्च बाधकं प्रमाणं व्यापकानुपलब्धिरूपमुत्तरत्रावसरप्राप्तं स्वयमेव वक्ष्यति । तदनया
    बाधकप्रमाणप्रवृत्त्या साध्यधर्मस्य वस्तुनः साधनधर्मस्वभावता सिध्यति ।
    --हेतुबि॰ टी॰ पृ॰ ४४ ।

  362. धम्
  363. अनयोरेव द्वयो रूपयोः सन्देहे अनैकान्तिकः । यथा सात्मकं जीवच्छरीरं प्राणादिमत्त्वादिति ।
    न हि सात्मकनिरात्मकाभ्यामन्यो राशिरस्ति यत्रायं प्राणादिर्वर्तेत । आत्मनो वृत्तिव्यवच्छेदाभ्यां सर्वसंग्र
    हात् ।...न तत्रान्वेति । एकात्मन्यपि असिद्धेः ।
    --न्यायबि॰ ३ । ९६-९९, १०३--४ ।

  364. शुद्धः सत्त्वं हेतुः ।
    अभिन्नविशेषणविशिष्टः उत्पत्तिमत्त्वात् इति, भिन्नविशेषणविशिष्टः कृतकत्वादिति । एतौ अशुद्धौ ।
    द्रष्टव्यम्--न्यायबि॰ ३ । ९-११ ।

  365. रे
  366. अस्ति यत्र तद्राशौ
  367. शब्देन ।

  368. बुद्ध्यादीनाम् ।

  369. द्धेः
  370. ताल्वादिव्यापारः ।

  371. क्षणिकत्ववत् ।

  372. नीलादेरपि ।

  373. यथा परार्थाश्चक्षुरादयः संघातत्वात् शयनासनाद्यङ्गवदिति । तदिष्टासंहतपारार्थ्यविपर्यय
    साधनाद् विरुद्धः ।
    --न्यायबि॰ ३ । ८७, ८८ ।

  374. चक्षुरादीनाम् ।

  375. विपक्ष एव ।

  376. पक्ष एव ।

  377. पृ॰ २०२ ।

  378. 2795
  379. तद्भावं प्रत्यन्यानपेक्षत्वादिति ।

  380. अयमेव
  381. तद्भावं प्रत्यन्यानपेक्षत्वादिति ।

  382. हेतोर्य
    त्तेनैव परं प्रत्यसिद्धता उद्भाविता
  383. निदर्शनार्थम्
  384. नं
  385. कथञ्चिन्नित्ये ।

  386. विपक्ष एव ।

  387. स्थितेः ।

  388. चित्को
  389. वदन्यत्राप्येतदस्ति
  390. र्वा न
  391. उत्पत्तिस्थितिस्वभावः ।

  392. बाधास
    द्भावात् ।

  393. उत्पत्तिस्थितिस्वभावम् ।

  394. आपाद्यं यत् साध्यम् उत्पत्तिस्थितिस्वभावरूपं तस्मिन् ।

  395. पूर्वाकारपरित्यागः उत्तराकारस्वीकारश्च परस्परम् अजहद्वृत्तः--ध्रौव्यत्वं स्वीकुर्वन्नेव संजायते इति भावः ।
    द्रष्टव्यम्--पृ॰ १ टि॰ ९ ।

  396. उपादानेन ।

  397. प्रति इव विनाशं
  398. हेतोः ।

  399. विनाशाविनाभाव
  400. विनाशं प्रत्यन्यानपेक्षणादिति हेतुः असिद्धः इति भावः ।

  401. तदिमे
  402. पर्यायस्य ।

  403. कस्य कारणाहिता
  404. उत्तरांशः उद्धृतः--न्यायवि॰ वि॰ प्र॰ पृ॰ ४१४ ।

  405. नम्
  406. सर्वथा नूतनस्योत्पादे ।

  407. उपादान
    कारणाभावे इत्यर्थः ।

  408. उपादानकारणात् ।

  409. कार्यकारणव्यवहाराभावः ।

  410. सर्वथा निरन्वय
    विनाशस्वीकारे ।

  411. चतुर्थप्रस्तावे ।

  412. गुणव्यतिरिक्तं द्रव्यं नास्ति इति शङ्काभिप्रायः ।

  413. सांख्यः प्राह ।

  414. न प्रधानम् अन्यहेतुतः समुद्भूतं तस्य नित्यत्वादिति ।

  415. अकार्यभूता नित्येति ।

  416. महदादिकार्याणां सर्वदोत्पत्तिः ।

  417. जीवात्मा ।

  418. वा कथं मुक्तः ?
  419. कपिलादिकं प्रति महदादिकार्योत्पादस्या
    भावः ।

  420. नित्ये प्रधानाख्ये कारणे ।

  421. कपिलादिसंसर्गे सत्येव ।

  422. कार्योत्पादनस्वभावः ।

  423. अविकृतिः--नित्येति कथमुच्यते ?

  424. क्तिश्च, आह च--
  425. सांख्यः । किं सांख्यमतमवलम्ब्य सर्वं सर्वत्र विद्यते ।--प्र॰ वार्तिकाल॰ पृ॰ १८० ।

  426. समसम
    यभाविनोः कार्यकारणभावाभावात् ।

  427. हेतुफलात्मना ।

  428. पुरुष एवेदं यद् भूतं यच्च भव्यम् ।
    उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥
    --श्वे॰ ३ । १५ ।

  429. न स्वत उत्पद्यते इति सम्बन्धः ।

  430. स्वभावतः एव विनश्यतीति सम्बन्धः । इति बौद्धाः ।

  431. विनाशो न
  432. नैयायिकादयः ।

  433. गगनवच्च2849
  434. नैयायिकमतापेक्षया
    इदमुक्तम् ।

  435. ,
    एवमर्थं
  436. नैयायिकमतापेक्षया
    इदमुक्तम् ।

  437. सत्
  438. नहि स कश्चित् क्षणो विद्यते यस्मात् अग्रिमक्षणोत्पत्तिर्न भवति इति चरमक्षणस्य
    अभाव एव ।

  439. उत्पादात्मकं
  440. उत्पादात्मकम् ।

  441. सन्तं
  442. सत् क्षणिकमेव इत्यनुमानं स्यात् ।

  443. स्थास्नु ।

  444. स्थित्यात्मकम् ।

  445. देव
  446. तु
  447. ते
  448. यदा देवदत्तो न दृश्यते तदा ।

  449. यदि उपलब्धस्यैव तत्स्वभावता
    व्यवस्थाप्यते तदा अदृष्टस्य--अनुपलब्धस्य ।

  450. अभिमतो यः प्रतिभासरूपः स्वभावः तस्य असिद्धिः
    स्यादिति भावः ।

  451. देवदत्तादौ ।

  452. त्राप्यति
  453. खरविषाणस्य उत्पादादिस्वभावशून्यस्य ।

  454. प्रज्ञाकरेण भाविकारणवादिना । यथा च कारणस्य पूर्वं भावं विना न भवति कार्यं तथा
    अवश्यंभावि कारणं कार्यस्य परभावं विना नेति समानं कार्यकारणभावनिबन्धनमिति द्वयोरपि परस्परं
    कार्यकारणभावः ।
    --प्र॰ वार्त्तिकाल॰ पृ॰ २८ ।

  455. लोकविरुद्धो यथा शुचि नरशिरःकपालं प्राण्यङ्गत्वात्
    शङ्खशुक्तिवत्
    --न्यायप्र॰ पृ॰ २ । परीक्षा॰ ६ । १९ ।

  456. यत् अद्वैतवादिनां मतम् ।

  457. हेतुफलव्यवस्थायाः ।

  458. कथयन् ।

  459. विवेकरहित एव ।

  460. वि
  461. कल्पनात्मकमेव ।

  462. नैयायिकादेः ।

  463. पदार्थान्तरे ।

  464. उपकर्तुं योग्ये पदार्थे तु ।

  465. उपकार्यम् उपकारकं च, अत एव कारणकार्यात्मकम् ।

  466. उक्तं
    च--...द्रव्यात् स्वस्मादभिन्नाश्च व्यावृत्ताश्च परस्परम् । उन्मज्जन्ति निमज्जन्ति जलकल्लोलवज्जले ॥

    --न्यायकुमु॰ पृ॰ ३७० । देवैर्निवेदितं चैतत् स्वयमन्यत्र तद्यथा । द्रव्यात् स्वस्माद...--न्यायवि॰
    वि॰ प्र॰ पृ॰ ४३२ ।

  467. द्रव्यात् ।

  468. अभेदप्रतिपादकम् ।

  469. चाऽ
  470. सांख्यमतं नषेधति ।

  471. धर्मकीर्तिकृताक्षेपं निषेधति ।

  472. जीवस्य ।

  473. मृदः पुद्गलस्य ।

  474. निषेधति इति सम्बन्धः ।

  475. उद्धृतमिदम्--अष्टश॰,
    अष्टस॰ पृ॰ २३४ ।

  476. अभिन्नाविव
  477. गुणपर्यायाः ।

  478. युक्त्यैकान्तवादिनः ।

  479. नैयायिकादिना ।

  480. हठात्
  481. षट्केन
    युगपद् योगात् परमाणोः षडंशता । षण्णां समानदेशत्वात् पिण्डः स्यादणुमात्रकः ॥
    --विज्ञ॰ विंशि॰ श्लो॰
    १२ । चतुःश॰ पृ॰ ४८ । तत्त्वसं॰ पृ॰ २०३ ।

  482. अन्तरा विना न भवतीति नान्तरीयकम् अविना
    भावीत्यर्थः ।

  483. परमाणवः ।

  484. अवयविनम् ।

  485. संयोगः ।

  486. दिग्विभागेन ।

  487. परमाणूनाम् । यतः सर्वे षट्दिग्वर्तिभिः परमाणुभिः संयुज्यन्ते ।

  488. चितः प्रति कारणकार्यभावाभावात् ।

  489. चित्क्षण
  490. प्राचीनबौद्धानाम् ।

  491. अर्थान्तराभिसम्बन्धा
    ज्जायन्ते येऽणवोऽपरे । उक्तास्ते सञ्चितास्ते हि निमित्तं ज्ञानजन्मनः ॥ अणूनां स विशेषश्च नान्तरेणापरा
    नणून् ।...
    --प्र॰ वा॰ २ । १९५-९६ ।

  492. असंसृष्टाः परमाणवः ।

  493. सर्वात्मना एकदेशेन वा संयोगः
    इति संयोगनिबन्धनम् ।

  494. स्वापात् प्राग्वर्ति जाग्रच्चेतः स्वापानन्तरमुत्थितस्य प्रबोधचेतः, तयोः मिथः
    कारणकार्यभावः स्वापावस्थायां ज्ञानाभाववादिनः प्रज्ञाकरमतेऽस्ति ।

  495. यथा न नित्ये कारणकार्यभावः
    तथात्रापि ।

  496. जाग्रत्प्रबोधचेतसोः ।

  497. विज्ञानाद् व्यतिरिक्तैः अर्थैः ।

  498. निरन्तरत्वं वा ।

  499. ते
  500. उपहासपदमेतत् ।

  501. ब्रह्मवादी ।

  502. न पूर्वं कारणम्, नापि परम् कार्यम् ।

  503. क्षणानामभावात् ।

  504. अनन्तक्षण
  505. परमाणोः ।

  506. त्व
  507. ज्ञानस्य ।

  508. क्षणमध्यवर्तिनः ।

  509. पूर्वोत्तरयोर्वामध्ये ।

  510. चित्रप्रतिपत्तेः ।

  511. अणुपरिमाणम् । नित्यं परमाणुमनःसु, तत्तु पारिमण्डल्यम् । पारिमण्डल्यमिति तस्य नाम ।
    तथाहि--परिमण्डलानि परमाणुमनांसि, तेषां भावः पारिमण्डल्यं तत्परिमाणमेव ।
    --प्रश॰ व्यो॰ पृ॰ ४७३ ।
    पारिमण्डल्यमिति सर्वापकृष्टं परिमाणम् ।--प्रश॰ कन्द॰--पृ॰ १३३ । पारिमण्डल्यं परमाणुपरिमाणम् ।
    सप्तप॰ टी॰ पृ॰ ४९ । मुक्ता॰ श्लो॰ १५ ।

  512. कपालकपालिकादीनामपि ।

  513. सांख्यस्य ।

  514. ब्रह्मवादिनः ।

  515. निरस्यति इति गतेन सम्बन्धः ।

  516. प्रत्यक्षानुपलम्भाभ्यामन्वयव्यतिरेकयोः
    गतिः...
    --प्र॰ वार्तिकाल॰ पृ॰ १८३ ।

  517. प्रत्यक्षपूर्वकस्य ।

  518. अनुमानस्य ।

  519. यदीन्द्रियं न
    स्यात् तर्हि रूपादिज्ञानं न स्यादितिवत् यदि परमाणवो न स्युः तर्हि घटादिकार्यं कुतः स्यादिति ।

  520. परमाण्वभावे ।

  521. नियमेन
  522. स्थूल ।

  523. तथा कार्यादल्पपरिमाणं समवायिकारणं तस्याप्यन्यदल्पपरिमा
    णमित्याद्यं कार्यं निरतिशयपरमाणुपरिमाणैरारब्धमिति ज्ञायते ।
    --प्रश॰ व्यो॰ पृ॰ २२४ ।

  524. सूक्ष्मं
    वस्तु ।

  525. अष्टाणुकात् स्थूलात् ।

  526. परस्मात् सूक्ष्मात् ।

  527. घटादि
  528. परमाणु ।

  529. यथा विज्ञानस्य उत्कर्षातिशयदर्शनात् पराकाष्ठासिद्धिर्भवति यथा वा परिमाणस्य अतिमहा
    परिमाणरूपता च प्रसाध्यते तथैव ।

  530. र्षाति
    शयात्
  531. तथा घटादिकारणकारणेषु अल्पतरादिभावः क्वचिद्विश्रान्तः
    तरतमशब्दवाच्यत्वात् महापरिमाणवत् । यत्र विश्रान्तस्ते परमाणव इति ।
    --प्रश॰ व्यो॰ पू॰ २२४ ।
    प्रश॰ कन्द॰ पृ॰ ३१ । न्यायकुमु॰ पृ॰ २१७ । स्या॰ रत्ना॰ पृ॰ ८७० ।

  532. सर्वज्ञ-महत्त्वपरिमाण
    योरभावो भवेत्, यश्च प्रमाणबाधितः ।

  533. पदार्थस्य नाशाभावात् ।

  534. परिमाणप्रकर्षेऽपि इयं दुष्कल्पना
    भवेत् ।

  535. उपसर्गस्य ।

  536. कथनम् ।

  537. प्रदर्शनार्थम् ।

  538. कथनम् ।

  539. चूर्णिप्रकरणमेतत् ।

  540. उपमानादिज्ञानम् ।

  541. अवग्रहाद्यात्मकत्वात् ।

  542. मतिज्ञाने ।

  543. पुरुषस्य ।

  544. उत्पद्यन्ते ।

  545. उपमानम् ।

  546. सर्वतो व्यावृत्तस्य ।

  547. प्रत्यभिज्ञानत्वोपगमात् ।

  548. सादृश्यविनि
    बन्धना, एकत्वविषया च ।

  549. शुद्धभूतलं वस्तु ।

  550. यस्य अभावः क्रियते सः प्रतियोगी तम् ।

  551. प्रत्यभिज्ञानत्वस्वीकारात् ।

  552. अन्याय्यं
  553. घट-भूतलग्राहिप्रत्यक्षाभ्याम् ।

  554. अभावप्रतीतेः ।

  555. अभावस्यापि ।

  556. प्रतीतेः ।

  557. असंसृष्टत्वप्रतिपत्तौ ।

  558. घटविविक्तभूतलस्मरणाद् घटस्य भूतलासंसृष्टताप्रतिपत्तिः, घटस्य
    भूतलासंसृष्टताप्रतिपत्तौ च घटविविक्तभूतलस्मरणमिति ।

  559. मतिप्र भेदात्मकम् ।

  560. अभावज्ञानम् ।

  561. न तत् प्रत्यक्षात्मकम् ।

  562. मतिज्ञानप्रभेदलक्षणम् ।

  563. तथोक्तम्
  564. मीमांसकादिनापि ।

  565. तत्तल्लणम् ?
  566. मतिज्ञानम् ।

  567. एतत्तु श्रुतमेव ।

  568. पुंसः ।

  569. मतिज्ञानप्रभेदलक्षणम् ।

  570. णमविसंवादादिति
  571. हः तदिवेति
  572. तृतीयप्रस्तावे ।

  573. तृतीय
    प्रस्तावे ।

  574. पृ॰ १८७ ।

  575. मतिश्रुतावधिमनःपर्ययकेवलज्ञानेषु ।

  576. शब्दसंसर्गात् ।

  577. श्रुतत्वाभिधानात् ।

  578. व्याख्यातृभिः ।

  579. ?
  580. अर्थप्राप्तिः ।

  581. मिथ्या
    ज्ञानेऽपि ।

  582. उच्यते
  583. मात्तम्
  584. द्ये
  585. प्रमाणमस्ति ।

  586. तस्मान्न परमार्थतः किञ्चिदस्तीत्यस्तु यथा तथा संवृत्या एतावतापि प्रमाणाप्रमाणव्यव
    स्थितिर्न काचित् क्षतिः । अभिप्रेत एव भवत्पक्षोऽस्माकमिति न वस्तुतत्त्वमतिक्रम्य वर्तितुं शक्यम् ।
    --प्र॰
    वार्तिकाल॰ पृ॰ १८६ ।

  587. संवेदनाद्वैतस्य ।

  588. प्रमाणादिनिषेधकरणात् ।

  589. सकलविकल्पातीतम् ।

  590. अद्वैतवादिना ।

  591. एकस्य अनेकात्मकताभयात् ।

  592. अद्वैतवादिना ।

  593. सौगतेन ।

  594. अदृष्टम्—
    अप्रामाणिकम् ।

  595. मतेः ।

  596. व्यवस्येत्
  597. स्वपरविषयकमेव ।

  598. तर्कात् ।

  599. तस्या नानुभवोऽपरः ।
    ग्राह्यग्राहकवैधुर्यात् स्वयं सैव प्रकाशते ॥
    इति शेषः ।

  600. स्वपरविषयः ।

  601. उमास्वाम्यादिना
    तत्त्वार्थसूत्रादौ निर्दिष्टा ।

  602. विधे
  603. संवेदनाद्वैतसिद्धिः ।

  604. पृ॰ १७५ ।

  605. स्मरणस्य ।

  606. अचेतनम् ।

  607. स तम्3023
  608. अचेतनम् ।

  609. अचेतनम् ।

  610. निर्विकल्पकगृहीतम् ।

  611. वस्तु ।

  612. गृह्णाति
  613. अकलङ्कदेवस्य ।

  614. त्वात्
  615. मध्यस्य क्षणस्य ।

  616. पूर्वोत्तरयोः ।

  617. जैनमतेऽपि ।

  618. चार्वाकः ।

  619. भूतचतुष्टयात्मकं यत् परचैतन्यम् ।

  620. अनुभव एव ।

  621. भूतोपादनतया ।

  622. नोपा
  623. चार्वाकस्य ।

  624. ज्ञानस्य ।

  625. रास्तां तावदेतत्
  626. प्रत्ययस्य ।

  627. सिद्धे सम्बन्धे अनुमानोत्थानम्, तस्मिंश्च
    सम्बन्धसिद्धिः ।

  628. अनुमानान्तरेण व्याप्तिप्रतिपत्तौ ।

  629. मानसविकल्पेन ।

  630. विदिहेक्ष्य
  631. हे जिन, यदा सामान्यमनुष्योऽपि सत्त्वसामान्येन सर्वं वस्तुजातं जानन् सर्वज्ञो भवति तदा
    अखिलज्ञानवान् यदि सर्वज्ञो भवेत् किमत्र चित्रम् ।

  632. यदि निषेधः क्रियते तदा ।