व्यास उवाच |

के पुनस्तं न गच्छन्ति नरकं शुभकर्मिणः |
पापेष्वभिरता देव एतदिच्छामि वेदितुम् || १ ||
तथा स्त्रीणां च का युक्ता गतिः परमिका शुभा |
केन कर्मविपाकेन एतदिच्छामि वेदितुम् || २ ||

सनत्कुमार उवाच |

न गच्छन्ति नरा ये तु नरकं तं सुदुःखिताः |
पापकर्मण्यभिरतास्तानिमाञ्छृणु मानद || ३ ||
नाग्निचिन्नरकं याति न सत्पुत्री न गोव्रती |
नाश्वमेधेन यो यष्टा गोसहस्रप्रदो न च || ४ ||
न च स्वाध्यायनित्यो यो रुद्रजापी च यो नरः|
ब्राह्मणं तारयेद्यश्च आपदो मरणान्तिकात् || ५ ||
तमेव व्याधितं दीनमकर्मण्यं तथैव च |
शुश्रूषेद्यावदर्थेन युक्तो धर्मेण मानवः || ६ ||
तथा गां चैव संभग्नां पतितां शक्तिवर्जिताम् |
संरक्षति सुयुक्तात्मा स च तं नैव गच्छति || ७ ||
महेशं यश्च भावेन परेण च समाधिना |
भक्तः समर्चयेन्नित्यं स च तं नैव गच्छति || ८ ||
ब्राह्मणास्तं न गच्छन्ति वेदवेदाङ्गपारगाः |
षट्कर्मनिरता व्यास आत्मधर्मव्यवस्थिताः || ९ ||
तपःशौचसमायुक्ता दयावन्तो दृढव्रताः |
प्रतिग्रहनिवृत्ताश्च ईशभक्ताश्च ये द्विजाः || १० ||
क्षत्रिया ये च रक्षार्थं प्रजानां नित्यमुद्यताः |
त्यजन्ति समरे प्राणान्न ते नरकगामिनः || ११ ||
वैश्या वार्तासमायुक्ता न्यायधर्मव्यवस्थिताः |
येषां वृत्तिरविच्छिन्ना देवब्राह्मणपूजने |
नरकं ते न पश्यन्ति स्वर्गगास्ते प्रकीर्तिताः || १२ ||
भक्ता वर्णत्रयं ये च शूद्रा दर्पविवर्जिताः |
ब्राह्मणांश्च विशेषेण ये नित्यं समुपासते |
न ते पश्यन्ति नरकान्सुगतिं च मृता ययुः || १३ ||
चतुर्ष्वपि च वर्णेषु मनुजा भावतः शिवम् |
शर्वार्पितक्रियावस्था भक्ता नित्यमनुव्रताः |
न ते प्रयान्ति नरकान्प्राप्नुवन्ति परां गतिम् || १४ ||
प्रासादं ये च वै कृत्वा देवदेवमुपासते |
अन्यानपि पितॄंस्ते तु नरकादुद्धरन्त्युत || १५ ||
खानिताः पुष्करिण्यश्च तडागानि ह्रदानि च |
रोपितानि च षण्डानि ते ऽपि तानि न यान्ति हि || १६ ||
परित्राणां द्विजातीनामन्येषां चैव दुःखिनाम् |
नित्यं प्रकुर्वते ये च ते ऽपि तान्न व्रजन्ति हि || १७ ||
अक्रोधनाश्च ये नित्यं देवब्राह्मणपूजकाः |
नित्यं दानरताश्चैव न ते गच्छन्त्यधोगतिम् || १८ ||
सत्याभिधानसंयुक्ता दुष्कृतारम्भवर्जिताः|
स्वधर्मकरणे सक्ताः पश्यन्ति नरकान्न ते || १९ ||
लिङ्गार्चनरतस्तस्मात्सर्वस्मात्परिमुच्यते |
ध्यानी तु सर्वदा यो वै गणाञ्जपति वा शुचिः |
योगी तु सर्वपापानि कुर्वन्नपि न लिप्यते || २० ||
स्त्रीणां तु परमो देवः पतिर्भवति सर्वदा |
तस्मान्नान्यत्प्रपश्यन्ति ये केचिद्धर्मचिन्तकाः || २१ ||
कर्मणा मनसा वाचा यद्ददाति जुहोति वा |
परित्यज्य पतिं नारी न तस्य फलमश्नुते || २२ ||
पतिशुश्रूषणे रक्ता त्रिविधेनापि कर्मणा |
पतौ मृते ऽपि मनसा नान्यमिच्छति या नरम् || २३ ||
करोति पुण्यं यच्चापि पत्युः सर्वं प्रयच्छति |
सा नारी नरकान्सर्वान्मनसापि न गच्छति || २४ ||
संसारं नैव सा घोरं सर्वं संप्रतिपद्यते |
अन्यासां तु न संदेहो नरकं प्रति सुव्रत || २५ ||

सनत्कुमार उवाच |

सुकेशं त्वनुगृह्यैवं काष्ठकूटाश्रमं गतः |
अनुजग्राह तं विप्रं काष्ठकूटं तपोधनम् || २६ ||

व्यास उवाच |

किं तपस्तस्य भगवन्ब्राह्मणस्य महात्मनः |
कियता चैव कालेन वरं लेभे महेश्वरात् || २७ ||
कस्य पुत्रः कस्य नप्ता किंनामा स च सत्तमः |
एतदिच्छामि कथितं भगवन्विस्तराच्छुभम् || २८ ||

सनत्कुमार उवाच|

गौतमस्यान्वये विप्रो नाम्ना कृष्ण इति प्रभुः |
तस्य पुत्रो ऽभवत्ख्यातो भूमन्युरिति नामतः |
तस्य पत्न्यभवत्सुभ्रूरात्रेयी नामतो यशा || २९ ||
स कदाचित्कृतोद्वाहो भूमन्युर्नाम गौतमः |
नाविन्दत सुतं तस्या जरया चाभिसंवृतः || ३० ||
स भार्यामाह दुःखार्त इदं वचनकोविदः |
पुत्रेणेच्छन्ति लोकांश्च अनृणाश्च भवन्त्युत |
जरापरिणतश्चाहं न च मे दृश्यते सुतः || ३१ ||
सा त्वं कंचित्सगोत्रं मे अनुज्ञाता मया शुभे |
अभिपद्यस्व पुत्रार्थं याचे त्वां प्राञ्जलिर्नतः || ३२ ||

यशोवाच |

न मया श्रुतमेतत्ते तथा नोक्तं त्वयानघ |
मादृशी कथमेतद्धि मनसाप्यभिचिन्तयेत् || ३३ ||
अत्रीणां तु कुले जाता गौतमं कुलमागता |
मद्विधा कथमेतद्धि कुर्यात्सद्भिर्विगर्हितम् || ३४ ||
तपसा धनमन्विच्छेज्जीवितानि सुखानि च |
पुत्रान्कुलं च लोकांश्च तपः कुरु महामुने || ३५ ||
तपसा हि सुतो लब्धः शक्तिना स पराशरः |
और्वश्च तपसा स्वेन च्यवनेन महामुनिः || ३६ ||
वसिष्ठेन कपिञ्जल्यामिन्द्रप्रमतिरेव च|
शिलादो ऽजनयच्चैव तपसा नन्दिनं सुतम् || ३७ ||
तथा भवानपि तपः करोतु सुसमाधिना |
लप्स्यसे त्वं सुतं श्रेष्ठं महायोगबलान्वितम् || ३८ ||
मां हि दृष्ट्वा पुरा प्राह अत्रिर्ब्रह्मसुतः स्वयम् |
सत्पुत्रिणी भवित्रीयं न मिथ्या तद्भविष्यति || ३९ ||
तपो ऽस्ति मयि यत्किंचित्त्वत्प्रसादात्समार्जितम् |
तेन स्वेन च संयुक्तो रुद्रमाराधय प्रभो || ४० ||

सनत्कुमार उवाच|

एवमुक्तः स तेजस्वी ह्रिया परमया युतः |
तथैव समनुज्ञातो रुद्रं शरणमेयिवान् || ४१ ||
त्वरितं स समागम्य नर्मदां हर्षसंयुतः |
तस्यास्तीरे तमुद्दिश्य तस्थौ वाय्वशनः समाः || ४२ ||
स तु नैवाभवद्विप्रः कृतार्थस्तेन कर्मणा |
ततः स दुःखितो भूयः प्राणायामेन तस्थिवान् || ४३ ||
वर्षमेकं ततो देवस्तमुवाच तदा विभुः |
किमेवं क्लिश्यसे विप्र न तवास्ति सुतः क्वचित् |
व्यर्थस्ते ऽयं श्रमस्तावन्नास्ति पुत्रस्तवानघ || ४४ ||
स एवमुक्तो निर्विण्णो निराशः पुत्रजन्मनि |
चिन्तयामास मरणं न गन्तुं स्वं गृहं प्रति || ४५ ||
स काष्ठकूटं संभृत्य गृहीत्वाग्निं च दुःखितः |
विलप्य बहु दुःखार्त आत्मानं दग्धुमैच्छत || ४६ ||
तस्य रुद्रः समालक्ष्य व्यवसायं सुदुष्करम् |
पुत्र पुत्रेति गम्भीरमदृश्य इदमब्रवीत् || ४७ ||
पुत्रस्ते भविता गच्छ मा च त्वं साहसं कृथाः |
काष्ठकूटेति नाम्ना च भविष्यति स ते सुतः || ४८ ||
अथ हृष्टमना विप्रो गत्वा पत्न्यां महातपाः |
उत्पादयामास सुतं काष्ठकूटं महामुनिम् || ४९ ||
संस्कृतस्य तु कालेन तस्य बुद्धिरभूत्ततः |
अशक्तो ऽयं वृद्धभावान्मामध्यापयितुं पिता |
तस्माद्यास्यामि चामन्त्र्य पितरं वेदकारणात् || ५० ||
स गत्वा मातरं विप्रः पितरं च महायशाः |
प्रणम्य शिरसा पादौ इदं वचनमब्रवीत् || ५१ ||
सुतो युवाभ्यां जातो ऽहं धर्महेतोर्न कामतः |
आवां तारयिता चायं तथैव च पितामहान् |
संततिश्चाप्यविच्छिन्ना भविष्यति न संशयः || ५२ ||
इष्टांश्च लोकान्प्राप्स्याव सुपुत्रेणेति सर्वथा |
पितॄणां चानृणौ स्याव इत्यभीष्टो ऽस्मि वां सुतः || ५३ ||
सो ऽहं धर्मेष्वकुशलः श्रुतिस्मृतिबहिष्कृतः |
कर्ताज्ञानेन तत्कर्म पितरो येन दुःखिताः |
भवांश्च निरये मग्नश्चिरं वत्स्यति दुष्टवत् || ५४ ||
भवान्नाध्यापने शक्तः स्थविरत्वाद्दिने दिने |
पुत्रस्नेहाच्च कार्यं च न सम्यग्धारयिष्यति || ५५ ||
इयं च जननी नित्यमेकपुत्रो ऽयमित्युत |
त्वया सम्यक्प्रशास्यन्तं नैव मामनुमंस्यते || ५६ ||
सो ऽहमन्यं तपोनित्यं निरनुक्रोशमेव च |
आचार्यं मतिसंपन्नं संश्रयामीति मे मतिः || ५७ ||
न चापि तद्व्यवस्यामि युवयोर्नास्ति कश्चन |
कुर्याद्यः पादयोर्नित्यं शुश्रूषामिति चिन्तयन् || ५८ ||
न च नाख्येयमेतद्वां मया चिन्ता कृता शुभम् |
अशुभं वापि यत्किंचिद्युवां मम गतिः परा || ५९ ||
एवमुक्तौ तु पितरौ पुत्रेण सुमहात्मना |
साश्रुपूर्णेक्षणौ स्थित्वा मुहूर्तमिदमूचतुः |
आघ्रायालिङ्ग्य संमार्ज्य स्नेहात्प्रियसुतं तदा || ६० ||

भूमन्युरुवाच |

शुश्रूषा द्विविधा पुत्र पितॄणां धर्मसंहिता |
या कर्तव्या प्रयत्नेन सुतेन सुमहात्मना || ६१ ||
ऐहिकी चाङ्गशुश्रूषा परत्रे या च धर्मदा |
यया तरन्ति पितरः कामांश्चाप्नुवते ऽक्षयान् |
तत्रैहिकं न नो हीष्टं यथा ह्यामुष्मिकं कृतम् || ६२ ||
तस्मादामुष्मिकं कर्म यद्भवेत्तत्समाचर |
गच्छाधीष्व श्रुतिं चैव स्मृतिं चैव सुकर्मणाम् || ६३ ||

मातोवाच |

यथा ते ऽयं पिता पुत्र ब्रवीति विदितात्मवान् |
तथा कुरु यथा देवो वरदस्ते भवेद्भवः || ६४ ||
उदरेण मया दुःखं धारितस्त्वं महामते |
तथा च बहुभिः क्लेशैर्लब्धः सर्वार्थसिद्धये || ६५ ||
पित्रा च तपसोग्रेण प्राणांस्त्यक्त्वातिदुस्त्यजान् |
महादेवाद्भवांल् लब्धस्तस्य युक्तं समाचर || ६६ ||
यथा तुष्टौ त्वया पुत्र जीवौ जीवेन संगतौ |
आवामुभावपि स्याव तथा सम्यक्त्वमाचर || ६७ ||

सनत्कुमार उवाच |

ततस्ताभ्यामनुज्ञात आघ्रातश्चैव मूर्धनि |
प्रदक्षिणमुपावृत्य जगाम सुकृतात्मवान् || ६८ ||
स जगाम तदा ताभ्यां विसृष्टश्च्यवनं प्रति |
ऋग्यजुर्भ्यामिवोत्सृष्टा स्वाहुतिर्वरुणं प्रति || ६९ ||
स तमासाद्य तुष्टेन तेनासौ सफलः कृतः |
भागधेयमिव प्राप्य देवैर्मन्त्रपुरःसरः || ७० ||
अथ पुत्रे गते तस्मिन्पिता दिष्टान्तमेयिवान् |
काष्ठकूटस्ततो ऽभ्येत्य कृतविद्यः सुधार्मिकः |
अपश्यन्मातरं दीनामतोयामिव पद्मिनीम् || ७१ ||
सोमहीनामिव निशामाज्ञाहीनामिव श्रियम् |
रुदन्तीं सास्रुपूर्णाक्षीं विलपन्तीं सुदुःखिताम् || ७२ ||
काष्ठकूटस्तु तां दृष्ट्वा दुःखेन समभिप्लुताम् |
जयन्त इव पौलोमीं शक्रे नष्टे ऽब्रवीदिदम् || ७३ ||

काष्ठकूट उवाच |

श्रुतं मयेदं प्रागेव कृता चैवोदकक्रिया |
मा शोके मन आधत्स्व एष धर्मः सनातनः || ७४ ||
देवानां च ऋषीणां च योगिनां च महात्मनाम् |
मर्त्यानां किं पुनर्मातर्मा रुदस्त्वं तपोधने || ७५ ||
अहं तेनात्मनात्मा वै सृष्टः स्वेनैव तेजसा |
पश्य मां कृतकृत्यं त्वं गायत्रीवात्मनः सुतम् || ७६ ||
वेदाः सर्वे मयाधीताः साङ्गोपाङ्गाः सविस्तराः |
तथोपवेदाः सर्वे च अध्यात्मं चैव कृत्स्नशः || ७७ ||
यत्किंचित्पुरुषैर्ज्ञेयं तत्सर्वं ज्ञातमेव च |
श्रोतव्यं च श्रुतं सर्वमुपास्ताश्चापि योगिनः || ७८ ||
अनेन हि प्रकर्षेण हृष्यमाणा मुदान्विता |
मां पालय महासत्त्वे गायत्रीव सदा क्रतुम् || ७९ ||

सनत्कुमार उवाच |

श्रुत्वा तस्य वचस्तद्वै माता तथ्यं महात्मनः|
भूयस्तरेण दुःखेन रुदन्ती तमुवाच ह || ८० ||

यशोवाच |

पुत्र नैतद्धि दुःखं मे मृतः स इति संमतः |
सर्वेषां प्राणिनामेतद्विहितं मर्त्यधर्मिणाम् || ८१ ||
स चापि कृतकृत्यश्च महात्मा तपसान्वितः |
न तस्य शोच्यमस्माभिरिह किंचिद्धि विद्यते || ८२ ||
आत्मानं पुत्र शोचामि याहं तेन विना कृता |
तमेवानुमृता नास्मि तवागमनकांक्षिणी || ८३ ||
नार्था न भोगस्वजना न पुत्रा नैव बान्धवाः |
योषितां तत्र तिष्ठन्ति पतिर्यत्रावतिष्ठते || ८४ ||
पतिर्यदि ततः सर्वं नास्ति किंचित्पतिं विना |
सर्वं हि दुःखदं तासां यासां नास्ति पतिः सुत || ८५ ||
इदं च मे पुनर्दुःखं यत्त्वां तेन सहाद्य वै |
नाभिनन्दामि संहृष्टा सुखं श्रीरिव विष्णुना || ८६ ||
बहुशः स हि मामाह काष्ठकूट इहेष्यति |
कृतविद्यस्ततस्तस्य वरयिष्ये स्नुषां शुभाम् || ८७ ||
काश्यपस्योदलस्येयं सुता गुणवती भृशम् |
तामहं वरयिष्यामि काष्ठकूटस्य सुव्रताम् || ८८ ||
कदा द्रक्ष्यामि तं पुत्रं सपत्नीकं दृढव्रतम् |
अग्निं चैवाहरिष्यामि पत्नीरत्नं समीक्ष्य ह || ८९ ||
पत्न्या कदाहं पुत्रस्य पादग्रहणतोषितः |
शुभानि मनसा वाचा विधास्यामि बहून्यपि || ९० ||
एवं मनोरथवतस्तस्य पुत्रवतस्तथा |
प्रियपुत्रस्य नैवाभूदेतद्दहति मां सुत || ९१ ||
मया त्वमुक्तः पूर्वं च गच्छन्वै तस्य सन्निधौ |
जीवौ यथा त्वां पश्यावस्तन्न चैवाभवत्तथा || ९२ ||
वज्रसारमयं मे ऽद्य हृदयं यन्न दीर्यते |
या त्वां पश्यामि पुत्रेह विना तेनासती पुनः || ९३ ||

सनत्कुमार उवाच |

ततः सा कुररी यद्वद्विना पत्या महायशा |
विलप्य बहुदुःखार्ता पपात धरणीतले || ९४ ||
तां काष्ठकूटो दुःखार्तां पतितां गतजीविताम् |
विसंज्ञामग्निना दग्ध्वा विललाप सुदुःखितः || ९५ ||
हा तात मम दुर्बुद्धेरधर्मज्ञस्य चैव हि |
क्व गतो ऽसि न मे ऽद्य त्वं सभार्यः संप्रभाषसे || ९६ ||
ननु त्वयाहं निर्दिष्टो गच्छाधीष्वेति हृष्टवत् |
सो ऽहमद्यागतो ऽधीत्वा कस्मान्मां नाभिभाषसे || ९७ ||
ननु ते तपसा लब्धः परेण च समाधिना |
पुत्रो ऽहं देवदेवाद्वै रुद्रात्किं नाभिभाषसे || ९८ ||
किं मयापकृतं तात सहभार्यस्य ते ऽनघ |
यन्मां सहाम्बयागत्वा दृढं नैवाभिनन्दसि || ९९ ||
हा हतो ऽसि मयैकेन दुष्पुत्रेण दुरात्मना |
अराजकमिदं मन्ये पितृघ्नं मां न हन्ति यत् || १०० ||
एवं स विलपन्व्यास ऋषिभिर्बहुभिस्तथा |
संस्थापितः समाश्वस्त अकरोदुदकक्रियाम् || १०१ ||
इमां प्रतिज्ञां चक्रे स ऋषिमध्ये महातपाः |
दुष्करां सर्वभूतानामुपस्पृश्य कृताञ्जलिः || १०२ ||
अद्यप्रभृति नोच्छ्वासं करिष्यामि कथंचन |
वायवो मे शरीरस्था न चरिष्यन्ति कर्हिचित् || १०३ ||
निमेषोन्मेषरहित एकपादोर्ध्वबाहुमान् |
काष्ठलोष्टोपलीभूतो भविष्यामि न संशयः || १०४ ||
रुद्रं द्रष्टास्मि यावच्च यावच्च पितरं तथा |
सभार्यं संप्रपश्यामि तावद्व्रतमिदं मम || १०५ ||

सनत्कुमार उवाच |

ततः स ऋषिभिस्तैस्तु दृश्यमानो महातपाः |
महेश्वरं सदा ध्यायंस्तत्रैव समतिष्ठत || १०६ ||
तस्य देवस्थितस्यैवं पितृभक्त्या तयापि च |
तुष्टो दिने ऽष्टमे व्यास स्वयमेवाह शंकरः || १०७ ||

देव उवाच |

काष्ठकूट प्रयच्छामि दिव्यं चक्षुस्तवानघ |
पश्य मां त्वं सुविश्रब्धमदृश्यं योगिनामपि || १०८ ||
ब्रूहि पुत्र वरं चापि यस्ते हृदि समाहितः |
प्रदास्यामि न संदेहः सुनिश्चिन्त्याभिधत्स्व तत् || १०९ ||

सनत्कुमार उवाच |

ततः स दृष्ट्वा देवेशमुद्यन्तमिव भास्करम् |
पपात पादयोर्हृष्ट इदं चोवाच सुस्वरम् || ११० ||

काष्ठकूट उवाच |

भगवन्मृत्युना माता पिता च मम योजितौ |
जीवेतां तावुभौ देव एतदिच्छाम्यहं वरम् || १११ ||

देव उवाच |

तौ मृतौ नरकं घोरं प्रपन्नौ मृत्युनार्दितौ |
न तौ शक्यौ पुनर्जीवौ कर्तुमन्यद्वृणीष्व मे || ११२ ||

काष्ठकूट उवाच |

नाहमन्यं वरं देव कथंचिदपि कामये |
पित्र्यर्थो ऽयं समारम्भस्तद्विधत्स्व नमस्तव || ११३ ||

देव उवाच |

शरीरं चेन्मृतस्यास्ति तच्छक्यं जीवितेन हि |
संयोजयितुमन्येन दग्धस्यैतन्न विद्यते |
तयोर्न चास्ति वै देहो न चान्यत्कारणं तथा || ११४ ||
यादृक्च स पिता तुभ्यं भवांस्तादृक्शरीरतः |
शरीरमेतत्त्वं यच्छ ततो जीवौ भविष्यतः || ११५ ||

काष्ठकूट उवाच |

तुभ्यं वै नास्त्यकर्तव्यं कर्तव्यं चेन्मतं भवेत् |
शरीरं च विना दृष्टमुत्थानं वै ध्रुवस्य तु || ११६ ||
न चापि मे शरीरेण विना ताभ्यां रतिः प्रभो |
तस्माद्गृहाण देवेश शरीरं यदि मन्यसे || ११७ ||
तस्यैवेदं महादेव अङ्गादङ्गं समुत्थितम् |
तस्माद्यच्छस्व देवेश न मे कार्यमनेन हि || ११८ ||

सनत्कुमार उवाच |

ततः स भगवान्देवः प्रहस्य ऋषिसत्तमम् |
प्रीतात्मा प्रत्युवाचेदं युयुक्षुस्तं शुभेन हि || ११९ ||

देव उवाच |

परीक्षेयं कृता पुत्र तव धर्मभृतां वर |
पितृभक्त्यानया सम्यक्तुष्टो ऽस्मि शृणु मे वचः || १२० ||
अक्षयश्चाव्ययश्चापि अजरो मृत्युवर्जितः |
ऐश्वर्येण च संयुक्तः प्रियो मे गणपो भवान् || १२१ ||
काष्ठकूट इति ख्यातः सर्वयोगबलान्वितः |
कामगेन विमानेन मत्कृतेन चरिष्यसि || १२२ ||
इमे च ऋषयः सर्वे आश्रमे ऽस्मिंस्तपस्विनः |
तवैवानुचरा भूत्वा भविष्यन्ति गणेश्वराः || १२३ ||
अक्षयाश्चाव्ययाश्चैव महायोगबलान्विताः |
ऐश्वर्येण च तुल्यास्ते भविष्यन्ति न संशयः || १२४ ||
अयं च ते पिता पुत्र भूमन्युः सह भार्यया |
तवैवानुचरो भूत्वा त्वत्समः समुपस्थितः || १२५ ||
श्वेतं च पर्वतं दिव्यं विमानैरुपशोभितम् |
कामगं संप्रयच्छामि निवासं स्वर्गसंनिभम् || १२६ ||

सनत्कुमार उवाच |

ततः स भगवान्देव अनुगृह्य तमूर्जितम् |
जगाम मन्दरं भूयः सो ऽपीष्टं देशमाव्रजत् || १२७ ||
यावद्देवी तपोयुक्ता पितुः शिखरमाश्रिता |
तावद्देव इदं सर्वं चकार कथितं हि यत् || १२८ ||
य इमं देवदेवस्य चेष्टितं शृणुयान्नरः |
श्रावयीत द्विजान्वापि न स दुर्गतिमाप्नुयात् || १२९ ||
नित्यमेतदधीयंश्च शुचिः प्रयतमानसः |
देहभेदं समासाद्य रुद्रलोकं स गच्छति || १३० ||
य इमं बहुपापनाशनं परमं रुद्रसमीपयोजनम् |
पठते ऽतिगुणप्रसाधनं स मृतो याति न दीनसंभवम् || १३१ ||
इति स्कन्दपुराणे द्विपञ्चाशो ऽध्यायः ||