व्यास उवाच |

भगवन्यत्त्वयाख्यातं पूर्वं नरकवर्णने |
दुष्कृतं कर्म कृत्वा तु नरा नरकगामिनः |
भवन्ति सुकृताः स्वर्गे सर्वसौख्यसमायुताः || १ ||
ब्राह्मणा दुष्कृतं कृत्वा गत्वा दुर्गतिमापदम् |
कथं भूयः समायान्ति स्वर्गसौख्यफलं महत् || २ ||
योनीर्वा कथमागम्य बह्वीः संकरजातिषु |
भूयः सुकृतिनो भूत्वा प्राप्नुवन्ति शुभां गतिम् || ३ ||

सनत्कुमार उवाच |

शृणु व्यास पुरावृत्तं दशार्णेषु तु यच्छुभम् |
सप्तानां द्विजशिष्याणामशुभं शुभमेव च || ४ ||
आसीत्सुपर्वा विख्यातः कौशिको ब्राह्मणः शुचिः |
धार्मिकश्च वदन्यश्च विद्वान्विप्रैः सुपूजितः || ५ ||
तस्य शिष्या बभूवुर्हि सप्त दुर्मेधसस्तु ते |
गुरुशुश्रूषणे रक्ता नामतस्तान्निबोध मे || ६ ||
आत्रेयः कण्डरो नाम उपमन्युश्च दामनः |
शाण्डिल्यश्चैव हालो ऽभूद्गार्ग्यश्च विदलस्तथा || ७ ||
शैशिरो गौतमश्चैव दण्डकीलश्च काश्यपः |
विदर्भश्चैव हारीत इतीमे सप्त विश्रुताः || ८ ||
उपाध्यायो ऽथ तान्विप्रान्प्रोवाचेदं महातपाः |
अचिराद्गामितो गत्वा याज्यदत्तां सुरूपिणीम् |
गत्वानयत होमार्थे शीघ्रं माहिष्मतीं पुरीम् || ९ ||
त एवमुक्तास्तेनैव माहिष्मत्यास्त्वतन्द्रिताः |
गामादाय निवर्तन्तो मृत्तिकावतिमन्ततः || १० ||
अनावृष्ट्या ततस्ते तु दुर्भिक्षे परिवर्तति |
क्षुधापरिगताः सर्वे किंभक्षाः सम्बभूविरे || ११ ||
सप्तमे ऽहनि जाते च निराहाराः सुदुःखिताः |
अमन्त्रयन्त गामेतां भक्षयाम किमास्यते || १२ ||
तेषां यः कण्डरो नाम आत्रेयकुलसम्भवः |
स तानुवाच मा धेनुं भक्षयाम गुरोरिमाम् || १३ ||
गुरोरर्थे हि नः श्लाघ्यो मृत्युरप्यविचक्षणाः |
मा गुरोः क्रोधनिर्दग्धा यास्याम निधनं वयम् || १४ ||
ते यदा तद्वचो नैव जगृहुः क्षुत्प्रपीडिताः |
स तदोवाच भूयस्तानिदं वचनमर्थवत् || १५ ||
यदि वो ऽवधृतं विप्रा भक्षणे ऽस्यास्तपोधनाः |
मा वृथा भक्षयामैनां पित्र्यर्थे प्रोक्षयामहे || १६ ||
मा नो दोषद्वयेनेह लोपो भवतु शोभनाः |
एवं ह्यल्पेन दोषेण वयं योक्ष्याम सर्वथा || १७ ||
त एवमुक्ताः सम्यक्तु वचस्तस्यावधार्य च |
प्रोक्षयामासुरव्यग्राः पित्र्यर्थे तां पयस्विनीम् || १८ ||
ततः संस्कृत्य विधिवन्निवेद्य च महामुने |
हुताग्नयस्ततो भूत्वा प्रत्येकमुपयुज्य च |
वत्समेकं गले बद्ध्वा आनिन्युर्गुरवे तदा || १९ ||
अथ दृष्ट्वा स तं वत्सं धेनुं पप्रच्छ तान्द्विजः |
त ऊचुः पथि शार्दूलो ऽवधीत्तामिति निर्घृणाः || २० ||
अथ तेषां वचः श्रुत्वा शङ्कया च दुरात्मनाम् |
दिव्येन चक्षुषापश्यद्भक्षितां तैर्महातपाः || २१ ||
ततः स रोषाद्रक्ताक्षो निर्दहन्निव तांस्तदा |
उवाच वत्सं दृष्ट्वा च कृपया दुःखपीडितः || २२ ||
युष्माभिर्भक्षिता सा हि तथ्यं न कथितं च मे |
कर्मणा तेन तस्माद्वो गतिः कष्टा भविष्यति || २३ ||
प्रसादितः स तैः शिष्यैर्ब्राह्मणः सुमहाद्युतिः |
कृपया स च तानाह भूयः सर्वानिदं वचः || २४ ||
यदुक्तं तन्मया तथ्यं न तन्मिथ्या भविष्यति |
येषां तु कृतवन्तः स्थ ते वो धास्यन्ति तच्छुभम् || २५ ||
मत्समीपे च न स्थेयमिदानीं वः कथंचन |
दृष्ट्वा वत्समिमं बालं मा वो धक्ष्यामि गच्छत || २६ ||
अथ ते सहिताः सर्वे विसंज्ञा नष्टचेतसः |
कालेन समयुज्यन्त चिन्तयन्तो गुरोर्वचः || २७ ||
दशार्णा नाम सा व्यास सरित्पुण्या सदाजला |
तस्यास्तीरे वनं दिव्यं विश्रुतं तत्सुभास्वरम् || २८ ||
तत्र व्याधो ऽभवच्छूरः क्षुपको नाम वीर्यवान् |
तस्य पुत्राभवंस्ते वै चितकायां महाबलाः || २९ ||
चितका सम्प्रसूता तु पुत्रांस्तान्सप्त संमतान् |
व्याधाः सर्वे ऽभवंस्ते वै चैतका इति विश्रुताः || ३० ||
चरन्ति सधनुष्कास्ते घ्नन्तो वै मृगपक्षिणः |
सिंहान्व्याघ्रान्गजांश्चैव वराहादींश्च सर्वशः || ३१ ||
तेषां नामानि यानि स्म व्याधत्वे तानि मे शृणु |
काण्डरो ऽर्जुनको नाम दामनः सिंहको ऽभवत् |
हालो ऽभूद्व्याघ्रकश्चैव विदलः शरभस्तथा || ३२ ||
शैशिरो हिमवांश्चैव हस्तिको दण्डकीलकः |
विदर्भो वज्रकश्चैव नामान्येतानि तेषु हि || ३३ ||
एकतस्ते ऽटवीं घोरां चरन्ति पिशिताशनाः |
हिंस्राः सत्त्वान्तकाः सर्वे योनिं दुष्टामुपागताः || ३४ ||
कदाचिद्विचरन्तस्ते मृगान्घ्नन्तस्तथैव च |
उपाध्यायाश्रमं प्राप्ताः कर्मणा सुकृतेन ह || ३५ ||
तत्र तेषां भयोद्विग्नाः सर्व एवाभवन्मृगाः |
मृगान्भीतान्समालक्ष्य स विप्रः सुमहातपाः |
न्यवेक्षत दिशः सर्वा व्याधांश्चापश्यदागतान् || ३६ ||
स्वशिष्यांस्तान्परिज्ञाय ध्यानाद्व्याधत्वमागतान् |
प्रोवाच करुणाविष्टस्तेषामेव शुभेप्सया || ३७ ||
शुश्रूषितः पुरा विप्रैर्युष्माभिरहमादरात् |
कर्मणा तेन चेदानीम् - - - - - - - - || ३८ ||
- - - - - - - - गोवध्याकृतशापिताः |
व्याधत्वमिह सम्प्राप्ताः कुत्सितं हिंस्रवृत्तिमत् || ३९ ||
सा च गौः पितृकार्येण भक्षिता वो न हिंसया |
तस्माद्यूयमितो भ्रष्टा जातिस्मरणसंयुताः || ४० ||
मृगाः कालञ्जरे भूत्वा चक्रवाकाः पुनर्ह्रदे |
भूयश्च मानुषा भूत्वा जातौ जातौ सचेतनाः || ४१ ||
योगयुक्ता महात्मानो मत्प्रसादादतन्द्रिताः |
सर्वकिल्बिषनिर्मुक्ता ब्रह्मलोकमवाप्स्यथ || ४२ ||
एतच्छ्रुत्वा ततस्तेषां पूर्वा स्मृतिरजायत |
उपाध्यायो ऽयमस्माकमिति बुद्धौ तदाभवत् || ४३ ||
ततः कर्म जुगुप्सन्तः पूर्वजातिकृतं च यत् |
प्रदक्षिणमुपावृत्य दशार्णामभितो ययुः || ४४ ||
दशार्णातीरमासाद्य संमन्त्र्य च परस्परम् |
जातिं पूर्वां स्मरन्तस्ते मृत्युमेव प्रवव्रिरे || ४५ ||
निश्चितानां ततस्तेषां काण्डरो यो ऽभवद्द्विजः |
व्याधो ऽर्जुनकनामा स इदं वचनमब्रवीत् || ४६ ||
भवन्तो यन्मया पूर्वमुक्तास्तन्न कृतं हि वः |
इदानीं समनुप्राप्तं मावमन्यत मे वचः || ४७ ||
श्रेयो वो ऽहं प्रवक्ष्यामि शृणुध्वं कुरुतैव च |
जातिमेतां विमोक्ष्याम येन हास्याम न स्मृतिम् || ४८ ||
पुत्रानिच्छन्ति पितरः पुष्ट्यर्थं तारणाय च |
वयं च जनितास्तेन व्याधेन सुमहात्मना || ४९ ||
संवर्धिताश्च क्लेशेन मात्रा पित्रा तथैव च |
अनापृष्ट्वा कथं तौ तु मृत्युमिच्छामहे वयम् || ५० ||
ते यूयं यदि मन्यध्वमापृष्ट्वा तौ विसर्जिताः |
योक्ष्यामः श्रेयसात्मानमेतद्वो हितमुत्तमम् || ५१ ||
न चेद्विसर्जयेतां तौ ताभ्यां शुश्रूषणे रताः |
ततस्तावद्धि तिष्ठामो यावत्कालेन तौ मृतौ || ५२ ||
ततो वयं कृतात्मान अनृणाः सर्वथापि च |
गमिष्यामो गतिं पुण्यामेतन्नः श्रेय उत्तमम् || ५३ ||
एवमस्त्विति ते सर्वे गृहीत्वा तस्य तद्वचः |
चिन्तयन्तः पुराजन्म गृहानेवाभिजग्मिरे || ५४ ||
तानागतान्पिता दृष्ट्वा माता च चितका तदा |
तुष्ट्या परमया युक्ता इदं तानूचतुर्वचः || ५५ ||
पुत्रकाः सुचिरादद्य यूयमभ्यागता गृहान् |
अद्यावां सुदृढं मूढौ किं चिरं कृतमित्युत || ५६ ||

चितकोवाच |

क्षुधाविष्टः पिता वो ऽद्य पुत्रस्नेहेन पुत्रकाः |
नात्ति मांसमिमं पक्वं सुरां च न पिबत्ययम् || ५७ ||
ते ऽपि जातिं जुगुप्सन्तः सर्वे वै पापयोनयः |
इदमूचुः क्षुपं चैव चितकां च शुभं वचः || ५८ ||
भवन्तो ऽश्नन्त्वविघ्नेन पुष्टये शान्तये ऽपि च |
नाश्नीम वयमद्याहः श्वो भोक्ष्यामो न संशयः || ५९ ||
ततस्तौ वृद्धभावेन नबुभुक्षासहौ तदा |
आहारयेतामाहारं सुतुष्टौ च बभूवतुः || ६० ||
तौ तु तुष्टौ समालक्ष्य सर्वे ऽथ शिरसा नताः |
ऊचुः प्रमनसो वाक्यमेकमत्येन ते तदा || ६१ ||
पितरौ परिनिर्विण्णा वयमेतेन जन्मना |
इच्छामस्तं परित्यक्तुं तन्नः संमन्तुमर्हथः || ६२ ||
तेषां तद्वचनं श्रुत्वा पिता तानिदमब्रवीत् |
परिष्वज्य सुतान्सर्वान्बाष्पपर्याकुलेक्षणः || ६३ ||
अहमासं पुरा पुत्रा ब्राह्मणः संशितव्रतः |
दिवोदासस्य राजर्षेः सखा परमसंमतः || ६४ ||
स कदाचिद्वने रम्ये धनुषा कुरुते भृशम् |
योग्यां तमहमाहेदं न त्वं वेत्सि धनुर्नृप |
अजानन्किमिदं क्लेशं व्यर्थमेव करोषि च || ६५ ||
प्रोवाच राजा विप्राणां मन्त्रज्ञानं विधीयते |
आमन्त्रणे भोजने च वाचा च कुशलाः सदा || ६६ ||
स मया हसता प्रोक्त आनयस्व धनुर्मम |
यावत्क्षिपामि लक्षाय शरं यत्र ब्रवीषि माम् || ६७ ||
स तथोक्तस्तदा मह्यं सशरं धनुरर्पयत् |
तेनोक्तं लक्षमुद्दिश्य शरः क्षिप्तो मया ततः || ६८ ||
तत्राभवत्स्थितो विप्रो मृगचारी दृढव्रतः |
स तेन विद्धस्तेजस्वी ममार सहसैव च || ६९ ||
सो ऽहं तं मृतमालक्ष्य राज्ञा तेन विसर्जितः |
ब्रह्मवध्याभयाद्घोरात्पितरं परिपृष्टवान् || ७० ||
प्रोवाच न भयं ते ऽस्ति ब्रह्मवध्या कुतस्तव |
जात्यन्तरशतं गत्वा - - - - - - - - |
- - - - - - - - दृष्टमेतत्स्वयम्भुवा || ७१ ||
ततो ऽहं परया भक्त्या पितृशुश्रूषणे रतः |
अनया भार्यया सार्धं स्थितो वै बहुलाः समाः || ७२ ||
स कदाचित्पिता चापि मम कालेन संयुतः |
अवतस्थे च तत्रैव अनयैव सहानघाः || ७३ ||
अथ कालेन महता गवाहं विनिपातितः |
अग्निस्थं चावरूढैषा रुदन्ती मां शुभेक्षणा || ७४ ||
सो ऽहं गवा हतश्चेति मृगचारिवधेन च |
व्याधजन्मनि विप्रत्वाद्भ्रष्टः पापेन जज्ञिवान् || ७५ ||
जातो ऽस्मि जन्मनां पुत्राः सहस्रं भृशदारुणम् |
पितृभक्त्या च हि तया सम्यगाराधनेन च |
नानशन्मे स्मृतिः पुत्रा ज्ञानं मे सम्प्रवर्तते || ७६ ||
जानामि ब्राह्मणान्भ्रष्टान्सर्वान्वै गोकृतेन वः |
गुरोश्चैवानुशापेन भ्रष्टसंज्ञांस्तथैव च || ७७ ||
लब्धसंज्ञांस्तथा चैव सर्वानद्य महाबलाः |
माता चेयं हि वो वेत्ति साध्वी नित्यं पतिव्रता || ७८ ||
यदहं वो ब्रवीम्यद्य तत्कुरुध्वं मम प्रियम् |
अवाप्स्यथ ततः श्रेयः सर्वे यूयमतन्द्रिताः |
अनामया विशोकाश्च न च संज्ञां प्रहास्यथ || ७९ ||
पुत्रा जन्मेदमन्त्यं मे मनुष्यत्वे न संशयः |
इतो मृतेन गन्तव्यं मया ब्रह्मसदः शुभम् || ८० ||
ते यूयं मां प्रतीक्षध्वं किंचित्कालमतन्द्रिताः |
स्वर्गते मयि यच्छ्रेयस्तत्करिष्यथ मा शुचः || ८१ ||
अवश्यं च सुतैर्माता पिता चैव सुखैधितैः |
शुश्रूषितव्यौ नान्यो ऽस्ति धर्मो ऽस्माद्बलवत्तरः || ८२ ||

सनत्कुमार उवाच |

ततस्ते विस्मिता भूत्वा नष्टशोका विमत्सराः |
तत्कालं पर्युपासन्त यावत्तौ जहतुस्त्वसून् || ८३ ||
तयोरतीतयोः सम्यक्कृत्वा ते ऊर्ध्वदेहिकम् |
दशार्णायां महानद्यां विधिनानाशकेन ह || ८४ ||
असाधयन्त आत्मानं व्याधाः सप्तापि ते तदा |
कालञ्जरे गिरौ भूयो मृगाः सप्तैव जज्ञिरे || ८५ ||
स्मरन्तस्तत्र ते जातिं मरुत्प्रपतनेन ह |
साधयित्वा तदात्मानं चक्रवाकाश्च जज्ञिरे || ८६ ||
मृगत्वे यानि नामानि तेषां तानि निबोध मे |
दीर्घजीवी अनाधृष्टो वायुवेगो ऽतिकम्पनः |
श्रीपार्श्वः शङ्खपाच्चैव सोमलक्ष्यश्च सप्तमः || ८७ ||
जातिं स्मरन्तस्ते पूर्वामन्योन्यमभिमान्य च |
सहिताः सहसा प्राणान्मरुत्प्रपतनाज्जहुः || ८८ ||
ते सप्तसंख्या व्याधेषु मृगेषु च तथा पुनः |
जन्म प्राप्य पुनर्जाताः सरिद्वीपे खगास्ततः || ८९ ||
सरीद्वीप इति ख्यातं कम्पिल्ये वै सरः शुभम् |
तत्रापि चक्रवाकास्ते सप्ताजायन्त सोदराः || ९० ||
मरुद्देवः शिखण्डी च रथनेमिस्वरस्तथा |
शिखी जीवो ऽथ वृक्षश्च ध्वज इत्येव ते स्मृताः || ९१ ||
तेषां तत्रोपपन्नानां कदाचिदणुहः स्वयम् |
कम्पिल्यको महातेजा राजा तं देशमागमत् || ९२ ||
स तत्सरः समासाद्य स्त्रीभिः सह मुदान्वितः |
रेमे मन्दाकिनीं प्राप्य अप्सरोभिरिवामरः || ९३ ||
तं क्रीडमानं संदृश्य मरुद्देवस्य तत्र वै |
चक्रवाकस्य तस्यासीत्स्पृहा तान्विषयान्प्रति || ९४ ||
यद्यस्याहं सुतः स्यां वै प्राप्नुयां राज्यमेव च |
ततो ऽहं विषयानेतान्प्राप्नुयां नात्र संशयः || ९५ ||
तस्य तच्चिन्तितं ज्ञात्वा द्वितीयश्चक्रसाह्वयः |
शिखण्डीति समाख्यातः स तमाह तदा हसन् || ९६ ||
भवता राजपुत्रत्वं राज्यं चैव विचिन्तितम् |
तत्राहं ते पुरोधाः स्यां ममाप्येष मनोरथः || ९७ ||
ताभ्यां तच्चिन्तितं ज्ञात्वा रथनेमिस्वरस्ततः |
अचिन्तयत तत्राहं सचिवः स्यां तव प्रभो || ९८ ||

सनत्कुमार उवाच |

तेषां तथा चिन्तयतां त्रयाणामितरे ततः |
चक्राह्वयास्तदा क्रुद्धा इदं तानब्रुवन्वचः || ९९ ||
अचिन्तनीयं युष्माभिश्चिन्तितं विषयार्थिभिः |
तस्माद्यूयमितो मुक्ता अवाप्स्यथ मनोरथम् || १०० ||
ताञ्छप्त्वा दीनमनसः समालक्ष्य पुनश्च ते |
येन तद्राजपुत्रत्वं चिन्तितं राज्यमेव च || १०१ ||
कृपया तमिदं वाक्यमब्रुवन्नष्टचेतसम् |
बहुसान्त्वगुणोपेतं स्वयं दुःखितवद्यथा || १०२ ||
वयं तव प्रभावेन तीर्णाः कृच्छ्रमिदं प्रभो |
भवान्मतिप्रदो ऽस्माकं सेतुभूतो मतो हि नः || १०३ ||
भवान्यदि हि न ब्रूयात्पितॄणां गौर्निवेद्यताम् |
शुश्रूषेमश्च न पितॄन्न स्म संज्ञा ततो भवेत् || १०४ ||
तव प्रभावादेतन्नो योगैश्वर्यप्रवर्तनम् |
ततो वयं पुनः श्रेयस्तव ब्रूमः शृणुष्व नः || १०५ ||
तावत्त्वं सक्तहृदयो भविष्यसि नराधिपः |
यावदस्मद्वचस्तथ्यं न श्रोष्यसि सहायवान् |
योगज्ञानमवाप्यैनं प्राप्स्यसे च शुभां गतिम् || १०६ ||

सनत्कुमार उवाच |

ततस्ते सहिताः सर्वे युक्तात्मानो महाखगाः |
खगत्वं सम्परित्यज्य योनिमन्यां प्रपेदिरे || १०७ ||
सर्वे ततस्ते मुनिकोपदग्धा व्याधा मृगाश्चक्रसमाह्वयाश्च |
जाताः पुनर्मानुषविग्रहेषु योगेश्वरास्ते त्रय एव राज्ये || १०८ ||
इति स्कन्दपुराणे षट्पञ्चाशो ऽध्यायः ||