सनत्कुमार उवाच |

अथ निर्जित्य समरे देवान्देवद्विषस्तदा |
आजग्मुः सहिता विन्ध्यं शिखरालीनतोयदम् || १ ||
प्रस्थाप्य विधिवत्सर्वांस्तौ तदा दैत्यदानवान् |
रेमाते सहितौ विन्ध्ये किंनरोद्गीतकन्दरे || २ ||
आरक्षिकस्तयोस्तत्र मूको नाम महासुरः |
अपश्यच्छिखरे देवीं ज्वलन्तीमिव तेजसा || ३ ||
पुण्यलक्षणसंपूर्णां दिव्याभरणभूषिताम् |
आगतां तत्र तां सिद्धिं पुण्यानां कर्मणामिव || ४ ||
अथ मूकस्तदा देवीं विस्मयोत्फुल्ललोचनः |
दृष्ट्वा जगाम मनसा सुम्भं दानवसत्तमम् || ५ ||
यथेयं चारुसर्वाङ्गी प्रधाना सर्वयोषिताम् |
तथा पुंसां प्रधानो ऽसौ सुम्भो दैत्येन्द्रचन्द्रमाः || ६ ||
विस्तीर्णवक्षसस्तस्य विशालजघनस्थला |
अनुरूपा भवेत्पत्नी दीर्घाक्षस्यासितेक्षणा || ७ ||
इति संचिन्त्य मनसा तामुवाच सुमध्यमाम् |
का त्वं त्रस्तसमुद्भ्रान्तमृगशावविलोचने || ८ ||
कः पिता ते ऽनवद्याङ्गि का वा माता तवानघे |
किमर्थं वा वसस्यत्र गिरौ दानवसेविते || ९ ||
एवमुक्ताथ मूकेन महायोगा सुरेश्वरी |
विज्ञाय मनसा कालं प्राप्तं सुम्भनिसुम्भयोः || १० ||
स्मितपूर्वमिदं प्राह वाक्यं वाक्यविशारदा |
मानुषीं मां विजानीहि गिरावस्मिन्कृतालयाम् || ११ ||
आत्रेयः स्वर्गतो विद्वान्पिता चक्रचरो मम |
विहाय मां पुरा बालां माताप्यनुगता पतिम् || १२ ||
आज्ञाप्तास्मि तदा मात्रा प्रदायास्त्राणि दानव |
वस विन्ध्ये गिरौ रम्ये योग्यां च कुरु सर्वदा || १३ ||
साहं वचनमार्यायाः पालयन्ती नगोत्तमे |
वसामि सिंहशार्दूलमातङ्गमृगसेविते || १४ ||
इति देव्या वचः श्रुत्वा मूकः संहृष्टमानसः |
जगाम दानवश्रेष्ठं सुम्भं द्रष्टुं कृतत्वरः || १५ ||
अथ सुम्भं समासाद्य हर्षेणोत्फुल्ललोचनः |
आचचक्ष इवाकारैरपूर्वं रत्नदर्शनम् || १६ ||
तं दृष्ट्वा विस्मयोत्फुल्लरक्तायतविलोचनम् |
मूकमाह तदा सुम्भः कस्मात्तुष्टो ऽसि दानव || १७ ||
एवमुक्तः स सुम्भेन मूको वचनमब्रवीत् |
अपूर्वमद्य दृष्टं मे स्त्रीरत्नं शिखरे गिरेः || १८ ||
न तादृशा मनुष्येषु न देवेष्वस्ति सुन्दरी |
न रक्षःसु न यक्षेषु न गन्धर्वपुरेषु वा || १९ ||
न नागेषु न सिद्धेषु न दैत्यपतिवेश्मसु |
दृष्टपूर्वा मया राजन्यादृशा सा वराङ्गना || २० ||
का त्वं कस्य किमर्थं वा वससीह गिराविति |
पृष्टाब्रवीन्मया वाक्यमात्रेयदुहिता ह्यहम् || २१ ||
वसामि चात्र विन्ध्यस्य शिखरे मातुराज्ञया |
इति भर्तुः समाख्याय विरेमे मूकदानवः || २२ ||
अथ सुम्भस्य हृदये मूकस्य वचसा सह |
कामो ऽवकाशमकरोद्विनाशाय सुरद्विषाम् || २३ ||
ततः प्रोवाच दैत्येन्द्रः कामाकुलितमानसः |
गच्छ मूक मदर्थे तां प्रलोभय सुमध्यमाम् || २४ ||
एवमुक्तः स सुम्भेन द्रुतमुत्थाय दानवः |
प्रययौ यत्र सा देवी प्रागनेनाभिलक्षिता || २५ ||
तं दृष्ट्वा दानवं देवी कृताञ्जलिमुपस्थितम् |
किमर्थमागतो ऽसीति मूकं पृष्टवती तदा || २६ ||
एवं पृष्टो ऽथ कौशिक्या प्राहेत्थं मूकदानवः |
आर्ये दूतो ऽस्मि सुम्भस्य त्वत्समीपमुपागतः || २७ ||
अथ देवी स्मितं कृत्वा प्रसन्नमभिवीक्ष्य तम् |
इत्थमाहागतं दूतं किमाहासौ ऽसुरेश्वरः || २८ ||
इति पृष्टस्तदा देव्या प्राह मूकः कृताञ्जलिः |
आर्ये दैत्येश्वरः सुम्भः पत्नीत्वेन वृणोति ते || २९ ||
तस्य दानवसिंहस्य जेतुः शक्रस्य संयुगे |
भवाग्र्या सर्वपत्नीनां पत्नी मृगविलोचने || ३० ||
एवमुक्ता तदा तेन विहस्याहामरेश्वरी |
स्वबाहूनवलोक्येत्थं युद्धशुल्कामवैहि माम् || ३१ ||
मां विनिर्जित्य दैत्यो ऽसौ पत्नीं वै कर्तुमर्हति |
मया वा निहतो यातु काकगोमायुभोज्यताम् || ३२ ||
एवमुक्तवतीं देवीमाह मूको हसन्निव |
पत्या दानवदैत्यानां किं ते युद्धेन भामिनि || ३३ ||
क्रुद्धस्य तस्य समरे न शशाक निरीक्षितुम् |
मुखमैरावतस्कन्धगतो ऽपि वलवृत्रहा || ३४ ||
श्रुत्वा तद्वचनं तस्य प्राह देवी स्मयन्निव |
तृणानि मम दैत्येन्द्राः सर्वे ऽपि रणमूर्धनि || ३५ ||
निवेदयस्व सुम्भस्य गच्छ त्वं दानवाधम |
दौत्येनासि यतः प्राप्तो मयातो न विहन्यसे || ३६ ||
अथ प्रणम्य तां मूको ययौ पार्श्वं सुरद्विषः |
अनुज्ञातश्च तेनासावाख्यातुमुपचक्रमे || ३७ ||
सा मया प्रार्थिता कन्या त्वदर्थे दानवोत्तम |
उवाच युद्धशुल्कास्मि जित्वा मां नेतुमर्हति || ३८ ||
भूयश्चोक्तवती राजन्गर्वमालम्ब्य साङ्गना |
तृणानि मम संग्रामे दैत्या इति सविस्मया || ३९ ||
तत्तदा वचनं तस्या मूकेनोक्तं निशाम्य सः |
क्रोधाद्दर्पाच्च कामाच्च ममृषे नासुरोत्तमः || ४० ||
अथोत्थाय सभां रम्यामगच्छद्दानवाधिपः |
स्फाटिकस्तम्भनिर्यूहां विचित्रमणितोरणाम् || ४१ ||
तस्यां सिंहासने हैमे स्वास्तीर्णे महति स्थिरे |
निषसाद महाबाहुः सुखायां वरुणो यथा || ४२ ||
अनु तस्य निसुम्भो ऽपि निषसाद वरासने |
रत्नाङ्गदांशुनिवहच्छुरितोरःस्थलस्तदा || ४३ ||
तयोरनु महासत्त्वा विविशुर्दैत्यदानवाः |
दरीं हिमवतो रम्यां करिश्यामा इवाम्बुदाः || ४४ ||
अथ तेषूपविष्टेषु दैत्यदानवराजसु |
प्रोवाच वचनं सुम्भो घनस्तनितनिस्वनः || ४५ ||
आरक्षिको गिरौ विन्ध्ये मदीयो मूकदानवः |
विन्ध्यस्य शिखरे कन्यां दृष्टवांश्चारुरूपिणीम् || ४६ ||
युद्धशुल्काहमित्याह मदर्थे ऽनेन सा वृता |
तृणानि मम दैत्येन्द्रा भूयश्चोक्तवती किल || ४७ ||
जित्वा तां प्रसभं कन्यां समरे गर्वशालिनीम् |
विचेष्टमानामवशामद्यैवानेतुमुत्सहे || ४८ ||
अथ तस्य वचः श्रुत्वा शम्भुर्नाम महासुरः |
प्रहस्योच्चैर्महाबाहुरित्थमाहासुरेश्वरम् || ४९ ||
वामप्रकृतयः सर्वाः स्वभावेन वराङ्गनाः |
परिसान्त्व्यासकृद्राजंस्त्वं तामादातुमर्हसि || ५० ||
श्रुत्वाथ वचनं शम्भोर्मयो दानवसत्तमः |
प्रोवाचाभिनवोत्फुल्लनीलनीरजलोचनः || ५१ ||
आकारः कः पुनस्तस्याः का वा चेष्टासुराधिप |
पार्श्वस्थानि च कान्यस्याः सदोपकरणानि वा || ५२ ||
इत्युक्तवति दैत्येन्द्रे मये मत्तेभविक्रमे |
अथ दैत्यपतिर्मूकं पार्श्वस्थं समचोदयत् || ५३ ||
यं प्रश्नं पृष्टवांस्तत्र मयो मतिमतां वरः |
मूकस्तु तं तदा सर्वमाख्यातुमुपचक्रमे || ५४ ||
असौ सुसंस्थिता त्र्यक्षा करालदशनानना |
अष्टबाहुर्घनश्यामा सुनसा वल्गुनिस्वना || ५५ ||
पार्श्वस्थानि सदा तस्याः सर्वप्रहरणानि च |
तनुत्राणि च मुख्यानि चित्राण्याभरणानि च || ५६ ||
अत्यादित्यं वपुस्तस्याः कान्तिश्चातिनिशाकरा |
इत्याख्याय तदा मूको विरेमे दैत्यसंसदि || ५७ ||
अथ दीर्घं विनिःश्वस्य तदा मयमहासुरः |
प्रोवाच सदसि स्वन्तं वचो वचनकोविदः || ५८ ||
नूनमुत्पादिता देवैः कृत्या युधि पराजितैः |
विन्ध्यं महीध्रमायाता विनाशाय सुरद्विषाम् || ५९ ||
तदलं ते तया राजन्सन्ति कन्याः सुमध्यमाः |
दीर्घाक्ष्यश्चारुसर्वाङ्ग्यो दैत्यदानववेश्मसु || ६० ||
सम्यगाहृत्य ता राजन्ननुरूपाः कलस्वनाः |
यथेष्टं क्रीड सततं प्रासादोदरसंस्थितः || ६१ ||
एवमुक्ते तदा वाक्ये मयेनासुरसंसदि |
प्राह वाक्यं तदा सुम्भो विहस्येत्थं महासुरः || ६२ ||
यदि सा देवतैः सृष्टा कृत्या दानवशासने |
अहत्वा दानवानाशु तदा सा न विरंस्यते || ६३ ||
यावदेव न कृत्यास्मानभियुङ्क्ते कृतोद्यमा |
तावदेव प्रसह्याशु तां वशे कर्तुमर्हथ || ६४ ||
ततो ऽनुमेनिरे सर्वे दैत्यदानवसत्तमाः |
वचनं दैत्यराजस्य कालेनाभिप्रचोदिताः || ६५ ||
अथ सदसि समस्तान्दैत्यसिंहांस्तदानीं
त्रिदशपतिविजेता वाक्यमेतद्विवृत्य |
उदपतदवलम्बस्वच्छशुभ्रोरुहारो
नवजलभरनम्रः प्रावृषीवाम्बुवाहः || ६६ ||
इति स्कन्दपुराणे त्रिषष्टो ऽध्यायः ||