सनत्कुमार उवाच |

आजग्मुः कौशिकीं द्रष्टुमथ विन्ध्यं दिवौकसः |
आदित्या वसवो रुद्रा मरुत्वान्मरुतो ऽश्विनौ || १ ||
धर्माङ्गिरोशनोदक्षवसिष्ठभृगुकश्यपाः |
पुलस्त्यपुलहागस्त्यसनकात्रिसनन्दनाः || २ ||
अप्सरोयक्षगन्धर्वाः सिद्धा नागमहोरगाः |
उपवेदाश्च यज्ञाश्च वेदा विद्याः सरस्वती || ३ ||
समुद्राः सरितः शैलास्तीर्थानि विविधानि च |
मातरो लोकपालाश्च नक्षत्राणि ध्रुवो ग्रहाः || ४ ||
अथोचुर्देवता देवीं द्युतिमत्यो महाद्युतिम् |
प्रहृष्टा हृष्टमनसामासीनामसुरद्विषः || ५ ||
दानवेन्द्रौ महासत्त्वौ त्वया त्रैलोक्यकण्टकौ |
निघ्नत्या देवि लोकानां दुःखशल्यमपाकृतम् || ६ ||
ऋषयः पावनं देवि हविर्जुह्वन्ति साम्प्रतम् |
छन्दांस्यधीयते चोच्चैराचरन्ति व्रतानि च || ७ ||
यज्ञो ऽयमधुना विप्रैरीज्यते बहुदक्षिणः |
उटजेषु च विश्वस्ता मुनयः शेरते सुखम् || ८ ||
आसते निर्भया देवि सन्तः सन्मार्गमाश्रिताः |
आविर्भूतः पुनर्लोके विच्छिन्नः सत्क्रियापथः || ९ ||
लोकपालाः शिरांस्युच्चैस्त्वत्प्रसादाच्च बिभ्रति |
पृक्तः पुष्परजोभिश्च सुखो वाति समीरणः || १० ||
जलानि देवि सरितः स्वच्छानि शिशिराणि च |
त्वत्प्रसादान्महायोगे वहन्ति विगतक्लमाः || ११ ||
इदानीं च पुनर्जाता गिरयो गिरिजात्मजे |
विज्वराः शिशिरस्वादुनिर्झरोदकवाहिनः || १२ ||
फणान्स्वस्तिकचक्राङ्कानुच्चैर्दधति भोगिनः |
उदन्वन्तश्च विश्वासादिदानीं सुखमासते || १३ ||
भ्रमन्त्यप्सरसो देवि त्वत्प्रसादाच्च साम्प्रतम् |
सचेतो विमले व्योम्नि विलासालसलोचनाः || १४ ||
सिद्धाङ्गनाश्च सेवन्ते विश्वस्ता देवि साम्प्रतम् |
शिखरेषु महीध्राणामुत्फुल्लांश्चन्दनद्रुमान् || १५ ||
स्वभावान्मधुपानाच्च रक्तलोलविलोचनाः |
विचरन्त्यधुना यक्षा गन्धमादनसानुषु || १६ ||
सुखं बिभर्ति वसुधामिदानीं विगतक्लमः |
शेषः फणैः स्वरत्नांशुवितानपरिवेषिभिः || १७ ||
माता त्वमसि लोकानां भीतानामभयप्रदा |
वृणु देवि वरानिष्टानभिषिच्यस्व चाच्युते || १८ ||
एवमुक्ता सुरैर्देवी प्राह किंचित्स्मयन्निव |
इच्छामि पितरं द्रष्टुमसमग्रेन्दुमौलिनम् || १९ ||
सुप्रसन्नं प्रसन्नां च जननीं शैलनन्दनाम् |
पितृभ्यां चाभ्यनुज्ञातामभिषेक्ष्यथ मां ततः || २० ||
एवमुक्ताः सुरा दध्युरव्यग्रमनसा तदा |
सपत्नीकं महादेवममितद्युतिपौरुषम् || २१ ||
अथ ते ददृशुर्देवा देवदेवमुमापतिम् |
तेजसामिव सर्वेषां संघातं पुरतः स्थितम् || २२ ||
जटानां प्रान्तबभ्रूणां शिरसा भारमुन्नतम् |
बिभ्राणं ज्वलितं वह्निं दीप्तानामर्चिषामिव || २३ ||
कर्पूरभङ्गगौरेण स्नातं पुण्येन भस्मना |
प्रान्तहेमलताजालं रौप्यं गिरिमिवोच्छ्रितम् || २४ ||
तेजसा स्वेन तेजांसि तिरस्कुर्वन्दिवौकसाम् |
मध्यंदिने प्रदीपानामर्चींसीव दिवाकरः || २५ ||
सुधाम्बुस्यन्दिनीं तन्वीमेकतः परिवेषिणीम् |
दधानं मौलिना किञ्चित्कुटिलामैन्दवीं कलाम् || २६ ||
विजिह्मनखरां गुर्वीं धूसरां भस्मरेणुना |
सैंहीं वसानमालम्बामीषद्भङ्गवतीं त्वचम् || २७ ||
छुरितोपान्तकायेन फणरत्नमरीचिभिः |
महता भोगपतिना वक्षःस्थलविसर्पिणा || २८ ||
भवानीं चास्य पार्श्वस्थां दीप्यमानां स्वतेजसा |
वसानामंशुकं रक्तं कल्पपादपसम्भवम् || २९ ||
मन्दारमालामुत्फुल्लां मत्तालिकुलसेविताम् |
दधानामुत्तमाङ्गेन स्वरेणूत्करपिञ्जराम् || ३० ||
स्वःशिल्पिघटितैश्चित्रै रत्नांशुपरिवेषिभिः |
शातकुम्भमयैः श्लाघ्यैर्भूषितां भूषणोत्तमैः || ३१ ||
बिभ्रतीं रुचिरां शुद्धां शरच्चन्द्रांशुनिर्मलाम् |
शिरोधरण्या महतीमेकावलिमनुत्तमाम् || ३२ ||
अथोत्थाय सुराः सर्वे कौशिकी चानतानना |
तयोश्चरणपद्मेषु निपेतुस्तुष्टमानसाः || ३३ ||
अथोद्वीक्ष्य महादेवः कौशिकीमिदमब्रवीत् |
अजेया सर्वभूतानां महायोगा महाद्युतिः |
विचरिष्यसि लोकांस्त्वं सर्वत्राप्रतिघातिनी || ३४ ||
इमाश्च देवताः सर्वास्त्वत्प्रसादादनिन्दिते |
- - - - - - - - - - - - - - - - || ३५ ||
भक्त्या बल्युपहारैश्च पूजयिष्यन्ति मानवाः |
वरदा चापि भक्तानां भविष्यसि सदानघे || ३६ ||
अभिषिच्यस्व च क्षिप्रं सुरैरसुरसूदनि |
कृत्स्नं रक्ष च भूर्लोकं पूज्यमाना सदाव्यये || ३७ ||
शर्वाणी च परिष्वज्य मूर्ध्नि चाघ्राय कौशिकीम् |
प्राह प्रीता महाभागा मत्प्रसादाद्भविष्यसि || ३८ ||
अर्चयन्ति यथा मां च सुरा यक्षा महोरगाः |
गन्धर्वा मुनयः सिद्धास्तथा त्वामप्यनिन्दिते |
अर्चयिष्यन्ति सर्वत्र भक्ताः स्तोष्यन्ति चाव्यये || ३९ ||
एवं तस्यै वरान्दत्त्वा गिरिजावृषभध्वजौ |
नमस्कृतौ तदा देवैरन्तर्दधतुरव्ययौ || ४० ||
अथेन्द्रो विश्वकर्माणमादिदेश तदा प्रभुः |
सुधर्मेव सभा दिव्या क्रियतामिह साम्प्रतम् || ४१ ||
ऋतूंश्च सर्वांस्तत्रेत्थमादिदेश शतक्रतुः |
नानापुष्पोत्करैः क्षिप्रं भूमिः सम्यग्विभूष्यताम् || ४२ ||
क्षुपगुल्मलतावृक्षपुष्परेणुसुगन्धयः |
आक्षिपन्तो मनांस्यत्र सुखा वान्तु समीरणाः || ४३ ||
सिञ्चन्तु वारिभिः पुण्यैर्विन्ध्यप्रस्थं पयोमुचः |
तारं नदन्तु शिखिनः प्रहृष्टाः सर्वतोदिशः || ४४ ||
नृत्यन्तु परितश्चित्रा दर्शयन्तः पृथग्विधान् |
रसान्भावान्विलासांश्च सर्वे चाप्सरसां गणाः || ४५ ||
प्रतिसार्याशु वीणाश्च गन्धर्वा मधुरस्वराः |
लयतालसमं गेयं गायन्तु च समन्ततः || ४६ ||
आहन्यन्तां समन्ताच्च देवदुन्दुभयो भृशम् |
पाणिभिः कठिनैस्तूर्णं चित्ररूपा महास्वनाः || ४७ ||
मन्दानिलसमुद्धूता लीनालिकुलपङ्क्तयः |
पतन्त्वस्मिन्प्रदेशे च दिव्याः कुसुमवृष्टयः || ४८ ||
उच्छ्रयन्तां समन्ताच्च पताकाश्चित्रमूर्तयः |
ध्वजाश्च विविधाकारा हेमदण्डाः सुसंस्कृताः || ४९ ||
अथाशु निर्मिमे तत्र विश्वकर्मा महाद्युतिः |
नानारत्नोज्ज्वलस्तम्भां विचित्रमणिवेदिकाम् || ५० ||
वज्रस्फटिकनिर्यूहां जाम्बूनदमयीं शुभाम् |
इन्द्रनीलोरुसोपानां मुक्तादामावलम्बिनीम् || ५१ ||
सध्वजां सपताकां च घण्टास्वननिनादिताम् |
तपोनियमयज्ञानां साक्षात्सिद्धिमिवोद्गताम् || ५२ ||
भिन्नकालानि पुष्पानि ददृशुर्देवतास्तदा |
समं सुपुण्यगन्धानि विचित्राणि बहूनि च || ५३ ||
पुष्पकिञ्जल्कगर्भाश्च सुखस्पर्शाः सुगन्धयः |
नादयन्तो मुहुर्घण्टा ववुस्तत्र समीरणाः || ५४ ||
प्रगीताः सुरगन्धर्वा ननृतुश्चाप्सरोगणाः |
ऋषयस्तुष्टुवुर्गीर्भिः पुण्याभिः कौशिकीं तदा || ५५ ||
सर्वरत्नौषधैर्गन्धैः पूर्णाः पुण्यैश्च वारिभिः |
आनीतास्तत्र कलशा हेमरत्नमयाः शुभाः || ५६ ||
पद्मरागमयैः सिंहैश्चतुर्भिर्वज्रकेसरैः |
उच्छ्वसद्भिरिव श्रीमदुह्यमानं हिरण्मयम् || ५७ ||
सर्वरत्नप्रभाजालखचितोपान्तमण्डलम् |
कल्पयामास देव्याश्च विश्वकर्मा वरासनम् || ५८ ||
स्तुतिभिर्जयशब्दैश्च स्तूयमाना समन्ततः |
ऋषिभिर्देवताभिश्च देवदेवसुता ततः || ५९ ||
तस्मिन्सिंहासने दिव्ये निषसादाथ कौशिकी |
कृतस्वस्त्ययना विप्रैः सुहुते जातवेदसि || ६० ||
वसाना वाससी शुक्ले कल्पद्रुमसमुद्भवे |
मुक्तादामावबद्धाङ्गी शुक्लस्रगनुलेपना || ६१ ||
ततः सप्तर्षयो विष्णुर्धर्मो यज्ञः प्रजापतिः |
आदित्याः कश्यपो रुद्रा लोकपाला हुताशनाः || ६२ ||
शैलेन्द्राः पृथिवी गङ्गा चन्द्रमा मरुतो ऽश्विनौ |
समुद्रा वसवो लक्ष्मी सन्ध्या कीर्तिः सरस्वती || ६३ ||
नागेन्द्रा विहगेशाश्च विविधाश्च सरिद्वराः |
आदाय कलशान्सर्वानभ्यषिञ्चन्त कौशिकीम् || ६४ ||
पूर्णेन्दुबिम्बप्रतिमं रत्नदण्डं महाद्युतिम् |
जग्राह च ततश्छत्त्रं स्वयमेव शतक्रतुः || ६५ ||
चामरैर्हेमदण्डैश्च दीर्घैश्चन्द्रांशुनिर्मलैः |
वीजयामासुरायस्तैर्लोकपालास्तदाव्ययाम् || ६६ ||
उवाच च ततः श्रीमान्कौशिकीं पाकशासनः |
पाहि कृत्स्नां भुवं देवि भगिनी त्वं ममाव्यये || ६७ ||
भक्ताननुगृहाणेशे जहि चामरकण्टकान् |
विचरस्व समस्तांश्च लोकान्सिद्धगणार्चिता || ६८ ||
इति वचनमथोक्त्वा कौशिकीं देवराजः
त्रिदशगणसमेतः शुभ्रलोलोरुहारः |
उदपतदथ विन्ध्याद्विक्षिपन्व्योम्नि नीलान्
सलिलभरविनम्रानम्बुवाहान्समन्तात् || ६९ ||
य इमं शृणुयान्नित्यं पठेद्वा सत्समागमे |
इह लोके सुखं प्राप्य स याति परमां गतिम् || ७० ||
इति स्कन्दपुराणे सप्तषष्टो ऽध्यायः ||