सुशर्मोवाच |

अतः परं प्रवक्ष्यामि कुम्भीपाकं महाभयम् |
श्रोतॄणामपि तत्कालं भयदं ह्यकृतात्मनाम् || १ ||
आयस्यस्तत्र बह्व्यश्च अञ्जनाचलसंनिभाः |
कुम्भ्यस्तैलेन संपूर्णा वह्नितप्ताः सुदुःसहाः || २ ||
दुष्कृतींस्तासु तप्तासु बद्ध्वा बद्ध्वा भयावहाः |
चरन्ति राक्षसा घोराः क्रन्दमानान्सुभैरवम् || ३ ||
वर्षकोटीश्चतस्रश्च पच्यन्ते तत्र जन्तवः |
ये तानिमान्निबोध त्वमुच्यमानान्मया विभो || ४ ||
इष्टकापाककारी च कुम्भपाचक एव च |
तौ विनाशयते यश्च अग्निदो यो गृहेषु च || ५ ||
वने खले ऽथ गोष्ठे वा अन्नपाकविनाशकः |
भोजने विघ्नकारी च यज्ञहा यज्ञदाहकः || ६ ||
कूटकर्मकरो यश्च कूटसाक्षी तथैव च |
मिथ्याग्निचयनी चैव मिथ्याग्न्याहरणी तथा || ७ ||
मिथ्यापाकप्रदाता च वेदानां यश्च दूषकः |
हर्तोपकरणानां च शिल्पिनां यो नराधमः || ८ ||
एवं ते यातितास्तत्र विश्रामं पुनरुच्छ्रये |
संप्राप्य नरके भूयो निपतन्ति क्षयान्तिकम् || ९ ||
य इमं बहुदुष्कृतान्तपाकं शृणुयान्मनुजो हि कर्मवासम् |
न स गच्छति तं दुरात्मतापं नरकं कुम्भिसमाख्यमुज्झिताघः || १० ||
स्कन्दपुराणे चत्वारिंशो ऽध्यायः ||