P. 48

परस्यानिष्टत्वापादनाय प्रसञ्जनं प्रसङ्गः । यथा
सिद्धादीनामतीतानागतकालयोः स्वरूपैक्याभ्युपगमे अतीता
नागतकालभाविनामर्थाक्रियाकारित्वं प्रसज्यते । तथा हि, यद्
यदा यज्जननसमर्थं तत्तदा तज्जनयत्येव । यथाऽन्त्यकारणसामग्री
स्वकार्यम् । अतीतानागतकालभाविकार्यजननसमर्थश्चायं घटः
वर्तमानकालेऽपीति स्वभावहेतुः प्रसङ्गः । न करोतीति च
93 विपर्ययः । यद्यदा यन्नकरोति तत्तदा तत्रासमर्थम् । यथा
शाल्यङ्कुरमकुर्वन् कोद्रवः शाल्यङ्कुरे । न करोति चैषः वर्तमान
कालेऽतीतानागतकालभाविकार्यमिति व्यापकानुपलब्धिर्भिनत्ति
सम्बन्धादसमर्थक्षणमिति प्रसङ्गप्रसङ्गविपर्ययाभ्यां प्रमाणाभ्यां
सत्वक्षणिकत्वयोर्व्याप्तिस्सिध्यति । साध्यविपर्ययबाधकप्रमा
णेन वेति यदुक्तं तद्वाच्यम् । यत्क्रमिकार्यकारि अक्रमिकार्यकारि
च न भवति न तदर्थक्रियासमर्थम् । यथा व्योमपद्मम् । अक्ष
णिकस्य क्रमिकार्यकारित्वं अनर्थस्य कार्यकारित्वं च नास्तीति
व्यापकानुपलब्धिलक्षणविपर्ययबाधकप्रमाणेन अक्षणिकत्वेन व्या
पकक्रमयौगपद्यनिवर्तनात् निवर्त्यमानार्थक्रियाकारित्वलक्षण
सत्त्वेनाविलम्बात् अर्थक्रियाकारित्वं क्षणिकत्वेनैव व्याप्तमिति
सत्त्वक्षणिकत्वयोर्व्याप्तिस्सिध्यति ॥