234 न कदाचिदपि निश्चलमवतिष्ठेरन्, सर्वदा गन्त्रादिरूपत्वात् । ततश्चास्य देवदत्तादेर्ग
त्यादिमतो गत्याद्यसत्त्वेऽपि—निश्चलावस्थायामपि, ते—गमनादयः, प्राप्नुवन्ति । ग
त्याद्युत्पत्तिकाल इवात्यक्तपूर्वरूपत्वात् ॥ ६९९ ॥ ७०० ॥


अथागन्त्रादिरूपं तत्प्रकृत्याऽगमनादयः ।

सदा स्युः क्षणमप्येकं नैव प्रस्पन्दवद्भवेत् ॥ ७०१ ॥

यस्माद्गत्यादिभावेऽपि निश्चलात्मकमेव तत् ।

अत्यक्तपूर्वरूपत्वान्निश्चलात्मककालवत् ॥ ७०२ ॥

अथैतद्दोषभयादगन्त्रादीरूपत्वमस्याङ्गीक्रियते । तथासत्यगमनादयः सर्वदा स्यु
रेकरूपत्वादाकाशवत् । आदिशब्दादुत्क्षेपणादिपरिग्रहः । ततश्च गत्यादिभावेऽपि
तस्य निश्चलत्वमेव प्राप्नोती, अपरित्यक्तागत्यादिरूपत्वाद्यथा निश्चलावस्थायाम् । प्र
स्पन्दः—कर्म सोऽस्यास्तीति प्रस्पन्दवत् । निश्चलात्मककालवदिति सप्तम्यन्ताद्वतिः
॥ ७०१ ॥ ७०२ ॥


अथापि स्यात्—नैवाऽस्यैकरूपता, किं तर्हि ? गन्त्रगन्तृरूपतयोभयरूपत्वादतो
यथोक्तदोषप्रसङ्गः, हेतोश्चासिद्धतेत्याशङ्क्याह—यदि त्वित्यादि ।


यदि तु स्यादगन्ताऽयमेकदा चान्यथा पुनः ।

परस्परविभिन्नात्मसंगतेर्भिन्नता भवेत् ॥ ७०३ ॥

एकदा चेति । चकारो विभिन्नक्रमः, पुनरित्यस्यानन्तरं द्रष्टव्यः । पुनश्च—अ
न्यथेत्यर्थः । एवं हि गन्तृत्वागन्तृत्वादिविरुद्धधर्माध्यासादेकत्वहानिप्रसङ्गः ॥ ७०३ ॥


अत एव तस्य क्षणिकत्वं सिद्धमिति दर्शयन्नाह—अत्यन्तभिन्नावित्यादि ।


अत्यन्तभिन्नावात्मानौ ताविति व्यवसीयते ।

विरुद्धधर्मवृत्तित्वाच्चलनिश्चलवस्तुवत् ॥ ७०४ ॥

ताविति । चलाचलावस्थाभाविनौ । चलनिश्चलवस्तुवदिति । लतापर्वतादिव
दित्यर्थः ॥ ७०४ ॥


एवं तावदनुमानबाधां प्रतिज्ञायाः प्रतिपाद्य प्रत्यक्षबाधामपि प्रतिपादयन्नाह—
दृश्यत्वेत्यादि ।


दृश्यत्वाभिमतं कर्म न वस्तुव्यतिरेकि च ।

दृश्यते सोपि नैवास्य सत्ता युक्त्यनुपातिनी ॥ ७०५ ॥