अभिव्यक्त्यन्यथात्वं चेन्नित्ये सा नन्वपाकृता ।

अतो रक्षामपि प्राज्ञा निष्फलामस्य कुर्वते ॥ ३१२२ ॥

द्विजपोतः—ब्राह्मणशिशुः । एवं तावत्स्वतःप्रामाण्याद्विनाशोऽस्य न सम्भव
तीति प्रतिपादितम् । इदानीं नित्यत्वादपि न सम्भवतीत्येतद्दर्शयितुं पृच्छति—को
वे
त्यादि । अभिव्यक्त्यन्यथात्वं चेदिति । विनाश इति सम्बन्धः । सेति । अभि
व्यक्तिः । अस्येति वेदस्य ॥ ३११९ ॥ ३१२० ॥ ३१२१ ॥ ३१२२ ॥