एवमित्यादिना—भूयः स्वतन्त्रश्रुतिनिःसङ्गत्वमेव प्रकारान्तरेण समर्थयते ।


एवं च पौरुषेयत्वे वेदानामुपपादिते ।

स्वतःप्रामाण्यमप्येषां प्रतिक्षिप्तमयत्नतः ॥ २८११ ॥

745

तथाहि श्रुतेः प्रामाण्यं यथा स्यादिति मन्यमानाः सामान्येन सर्वप्रमाणानां
स्वतःप्रामाण्यमप्रामाण्यं तु परत इत्याहुर्जैमिनीयाः । परतः किल प्रामाण्येऽनवस्था
दिदोषप्रसङ्गात्प्रमाणेतरव्यवस्थोच्छेदः स्यात् । तथाहि चत्वारः पक्षाः सम्भव
न्ति—कदाचिदुभेऽपि प्रामाण्याप्रामाण्ये स्वत एवेति प्रथमः, कदाचिदपरतएवेति
द्वितीयः, प्रामाण्यं परतोऽप्रामाण्यं तु स्वत एवेति तृतीयः, एतद्विपर्ययश्चतुर्थः ।
तत्र न तावदाद्यः पक्षः, तथाहि—एकव्यक्त्याधारं वा तदुभयं स्याद्व्यक्तिभेदेन वा ।
न तावदेकस्यां व्यक्तौ परस्परपरिहारस्थितलक्षणयोः प्रामाण्येतरधर्मयोः सम्भवः,
विरोधात् । नापि व्यक्तिभेदेन, नियमकारणाभावान्निश्चयहेत्वसम्भवाच्चाऽस
ङ्कीर्णप्रमाणाप्रमाणव्यवस्थानाभावप्रसङ्गत् । तथाहि द्वयोरपि स्वातन्त्र्यादिदं प्रमाण
मेवेति नियमो न स्यात् । बाधसामान्येन च द्वयोरपि तिरोहितभेदत्वादन्यस्य चाव
धारणकारणस्यानभ्युपगमाद्विभागेनापरिज्ञानादिदं प्रमाणमप्रमाणमिति व्यवस्था न
स्यात् । नापि द्वितीयः पक्षः, प्रागुभयस्वभावरहितस्य ज्ञानस्य निःस्वभावत्वप्रसङ्गात् ।
नहि परस्परपरिहारस्थितलक्षणयोः प्रामाण्येतरयोरभावे रूपान्तरमस्य शक्यमवधार
यितुमित्यसंशयमस्यानुपाख्यत्वमापद्यते । आह च— स्वतस्तावद्द्वयं नास्ति विरोधा
त्परतो नच । निःस्वभावत्वमेवं हि ज्ञानरूपे प्रसज्यते ॥ विज्ञानव्यक्तिभेदेन भवेच्चेदवि
रुद्धता । तथाऽप्यन्यानपेक्षत्वे किं क्वेति नक्व नेति निरूप्यते ॥
इति । नापि तृतीयः पक्षो
ऽनवस्थादोषात् । तथाहि—न तावत्परतोऽप्रमाणभूतात्प्रामाण्यमाशंसनीयम्, तस्य
स्वयमेवाप्रमाणत्वात् । नापि प्रमाणभूतात्, तस्यापि तुल्यपर्यनुयोगेन परतःप्रामा
ण्याशंसायामनवस्थाप्रसङ्गात् । ततश्चैकप्रमाणव्यक्तिव्यवस्थापनाय प्रमाणपरम्परा
मनुसरतः सकलमेव पुरुषायुषमुपयुज्यते । तस्माद्गत्यन्तरासम्भवात्स्वतः सर्वप्रमा
णानां प्रामाण्यम्, परतोऽप्रामाण्यमिति गृह्यताम् । तत्र प्रयोगः—ये यद्भावनि
यतास्ते तं प्रति न परमपेक्षन्ते, यथाऽऽकाशममूर्त्तत्वाय, प्रमाणभावनियताश्च वि
वादास्पदीभूता विज्ञानादय इति व्यापकविरुद्धोपलब्धिः । न चास्याऽनैकान्तिकत्वम्,
स्वतोऽसम्भविनो धर्मस्य परेणाधातुमशक्यत्वादाकाशस्येव मूर्त्तत्वं यदाह— नहि
स्वतोऽसती शक्तिः कर्तुमन्येन पार्यत
इति ॥ २८११ ॥