कोऽर्थ इष्यत इति प्रश्ने पर आह—मेयबोधादिक इत्यादि ।
यदि ज्ञानं प्रमाणं तदा तस्य मेयबोधे—प्रमेयपरिच्छेदे स्वाभाविकी शक्तिः,
अर्थपरिच्छेदकत्वाज्ज्ञानस्य । अथ चक्षुरादीनि तदा तेषां यथार्थज्ञानजनने, चोदनाया
अतीन्द्रियार्थाधिइगमे स्वत एव शक्तिरित्येतदादिशब्देन संगृहीतम् । अत्रैव तावत्पर
उपपत्तिमाह—नहीत्यादि ॥ २८१३ ॥
एतदेव दर्शयन्नाह—अनपेक्षत्वमेवैकमित्यादि ।
प्रामाण्यस्तेति । प्रामाण्यव्यवस्थानस्य । तदेव हीति । प्रामाण्यम् । व्यापक
निवृत्तौ व्याप्यस्यानवस्थानात् ॥ २८१४ ॥
स्यादेत्—विनाश्यतां नाम को दोष इत्याह—को हीत्यादि ।
मूलम्—प्रामाण्यम्, तच्च सापेक्षत्वेनापह्रियते, तस्य तद्व्यापकविरुद्धत्वात् ।
तथाहि—निरपेक्षत्वेन प्रामाण्यं व्याप्तम्, तच्च कथं स्वव्यापकविरुद्धे सापेक्षत्वे
सत्यवस्थां लभेत । येनेत्यादिना प्रामाण्यस्यानपेक्षत्वेन व्याप्तिं दर्शयति—येनेति ।
यस्मादित्यर्थः ॥ २८१५ ॥
कथं विनश्यतीत्याह—सापेक्षं हीति ।
न व्यवस्थाप्यत इति । अनवस्था स्यात् । भवत्वनवस्थादोष इत्याह—अनव
स्थित इत्यादि । अनवस्थितोऽपरिनिश्चितो हेतुर्यस्य वादिनः स तथोक्तः । एतदुक्तं
भवति—ज्ञातो हि ज्ञापको व्याप्यमर्थं ज्ञापयति, न सत्तामात्रेण, ततश्च वादी
स्वयमेव तावदप्रतिपन्नः कथं परप्रतिपादनाय साधनमुपादास्यते ॥ २८१६ ॥