स्यादेतत्—कथं यत्नमन्तरेण सिद्ध्यतीत्याह—वेदस्यापीत्यादि ।


वेदस्यापि प्रमाणत्वं यस्मात्पुरुषतः स्थितम् ।

तस्य चातीन्द्रियज्ञत्वे ततस्तस्मिन्प्रमाणता ॥ ३१२५ ॥

अन्यथाज्ञानसंदेहविपर्यासानुषङ्गिणि ।

पुंसि कर्त्तरि नैवास्य प्रामाण्यं स्यात्तदन्यवत् ॥ ३१२६ ॥

स्वर्गयागादिसम्बन्धो ज्ञात्वा तद्येन भाषितः ।

विस्पष्टातीन्द्रियज्ञानः सोऽभ्युपेयः परैरपि ॥ ३१२७ ॥

तस्य चेति । पुरुषस्य । तत इति । पुरुषात्कर्तुः । तस्मिन्निति । वेदे । प्रमा
णतेत्येतदपेक्षाऽधिकरणसप्तमी । प्रमाणतेति । अविपरीतातीन्द्रियार्थप्रतिपादकत्वम् ।
एतच्च परमतापेक्षयाऽभिहितम् । एतदुक्तं भवति—यदि भवद्भिरवश्यं वेदस्य प्रामा
ण्यमभ्युपेयते तदाऽस्य पुरुषादेवपुरुषादिव कर्तुः प्रामाण्यं युक्तम्, न स्वत इति, एतच्च पूर्वं
प्रतिपादितम् । स च वेदस्य कर्त्ता यद्यतीन्द्रियदृग्भवति तदाऽस्य ततः कर्तुरपि
प्रमाणता युक्ता, अन्यथा हि विपरीतसंशयज्ञानादियुक्ते कर्त्तरि सत्युन्मत्तादिवाक्य
वद्वेदोऽप्रमाणतामेवाश्नुवीत । तस्माद्योऽसौ वेदकर्त्ता पूर्वं श्रुतिपरीक्षायां प्रसा
धितः, परैरपि मीमांसकैरतीन्द्रियार्थदर्शी सामर्थ्यादङ्गीकर्त्तव्य इति तत्प्रतिक्षेपो न
कार्यः । तथाहि सर्वेषामेव पुंसां रागादिदोषतिमिरोपहतबुद्धिलोचनतया नातीन्द्रि
यार्थदर्शित्वमस्तीत्यवगम्य तत्प्रतीतेष्वागमेष्वप्रतिष्ठितप्रामाण्यप्रत्याशो धर्माधर्माव
गमार्थी नरस्तीरादर्शीव शकुनिर्वेदमेव किल प्रमाणयिष्यतीति मन्यमानैर्यद्वा गुण
द्रविणदारिदद्र्योपहता (त?)विमोक्षतया जैमिनीयैरतीन्द्रियार्थदृक्प्रतिक्षिप्यते—सर्व
एव हि पुरुषा रागादिभिरविद्यया च तदुपशमोपायवैकल्याद्विप्लुतास्तस्मान्नास्त्यती
न्द्रियार्थदर्शी कश्चिदिति चोदनालक्षण एवार्थो धर्मो नेन्द्रियादिलक्षणः, चोदना
हि भूतं भवन्तं भविष्यन्तं सूक्ष्मं व्यवहितं विप्रकृष्टमित्येवंजातीयकमर्थं शक्नोत्य
वगमयितुं नान्यत्किंचनेन्द्रियमति । प्रमाणयन्ति चात्र । यः प्रमाणपञ्चकविरह
स्वभावाभावप्रमाणविषयीकृतविग्रहः स विदुषामभावव्यवहारगोचरतामेवावतरति,
817 यथा गगननलिनम्, अभावप्रमाणविषयीकृतविग्रहश्च सर्वदर्शी पुरुष इति स्वभाव
हेतुः । व्यवहारयोग्यतायाः साध्यत्वात् । अभावस्त्वभावप्रमाणत एव सिद्धः
॥ ३१२५ ॥ ३१२६ ॥ ३१२७ ॥