यदुक्तमादौ—अवश्यं धर्माधर्मार्थिभिः पुरुषैः प्रेक्षावद्भिश्चोदनैव प्रमाणत्वेनाश्र
यणीयेति, तत्राह—धर्मं प्रतीत्यादि ।
धर्मं प्रति न सिद्धाऽतश्चोदनानां प्रमाणता ।
स्वतोऽन्येभ्यश्च मन्देभ्यस्तदर्थानवधारणात् ॥ २८०९ ॥
धर्मग्रहणमुपलक्षणम्, अधर्मोऽपि ग्रहीतव्यः ॥ २८०९ ॥