042 अभ्युपेतबाधा च, अण्वाकाशादीनां तथाऽनभ्युपगमात् । तेषां च नित्यत्वात्प्रत्यक्षा
दिबाधा । अतस्तदर्थं विमत्यधिकरणभावापन्नग्रहणम् । विविधा मतिर्विमतिर्विप्रतिप
त्तिरिति यावत्, अस्या अधिकरणभावापन्नं विवादास्पदीभूतमित्यर्थः । एवंविधे सति
शरीरेन्द्रियभुवनादय एव पक्षीकृता इति नाण्वादिषु प्रसङ्गः । कारणमात्रपूर्वत्वेऽपि
साध्ये सिद्धसाध्यता माभूदिति बुद्धिमत्कारणग्रहणम् । सांख्यं प्रति बुद्धिसत्त्वानुपप
त्तेर्न सिद्धसाध्यता, अव्यतिरिक्ता हि बुद्धिः प्रधानात्सांख्यैरिष्यते । न च तेनैव त
देव तद्वद्भवति । स्वारम्भकाणामवयवानां संनिवेशः प्रचयात्मकः संयोगः । तेन वि
शिष्टं व्यवच्छिन्नं तद्भावस्तस्मात् । अवयवसन्निवेशविशिष्टत्वं गोत्वादिभिर्व्यभिचारी
त्यतः स्वारम्भकग्रहणम् । गोत्वादीनि तु द्रव्यारम्भकावयवसन्निवेशेन विशेष्यन्ते, नतु
स्वारम्भकावयवसन्निवेशेनेति । तेन योऽसौ बुद्धिमान स ईश्वर इति । तदेतत्प्रमाणं
यदित्यादिश्लोकद्वयेन निर्दिष्टम् । स्वारम्भकावयवसंनिवेश एव विशेषो—विशेषणं
सोऽस्यास्तीति तत्तथोक्तम् । तेन विशिष्टमित्यर्थः । एतेन हेतोर्व्याप्तिर्दर्शिता । पक्षध
र्मत्वादि दर्शयन्नाह—द्वीन्द्रियेत्यादि । विवादपदमिति । विवादाधिकरणापन्नमि
त्यर्थः ॥ ४७ ॥ ४८ ॥


द्वितीयं च तदुक्तं प्रमाणं बोधयन्नाह—तन्वादीनातत्त्वादीनामित्यादि ।


तत्त्वादीनामुपादानं चेतनावदधिष्ठितम् ।

रूपादिमत्त्वात्तन्त्वादि यथा दृष्टं स्वकार्यकृत् ॥ ४९ ॥

तन्वादीनातत्त्वादीनां—शरीरादीनाम्, उपादानं परमाण्वादि चेतनेन कारणेनाधिष्ठितं स
त्स्वकार्यकृदिति संबन्ध । रूपादिमत्त्वादिति हेतुः । तन्त्वादीति दृष्टान्तः । यथो
क्तम्—तनुभुवनकरणोपादानानि चेतनावादधिष्ठितानि स्वकार्यमानभन्त इति प्रति
जानीमहे । रूपादिमत्वात्तन्त्वादिवदि
ति ॥ ४९ ॥


उद्योतकारस्तु प्रमाणयति— भुवनहेतवः प्रधानपरमाण्वदृष्टाः स्वकार्योत्पत्तावति
शयबुद्धिमन्तमधिष्ठातारमपेक्षन्ते स्थित्वा प्रवृत्तेस्तन्तुतुर्यादिव
दिति । एतदेव दर्शयति
धर्माधर्माणव इत्यादि ।


धर्माधर्माणवस्सर्वे चेतनावदधिष्ठिताः ।

स्वकार्यारम्भकाः स्थित्वा प्रवृत्तेस्तुरितन्तुवत् ॥ ५० ॥

सुबोधम् ॥ ५० ॥