स्वाभाविकवादपरीक्षा ।

आदिशब्दोपात्तस्वभाववादिवादमल्पवक्तव्यतया क्रममनाश्रित्यैव निराकुर्वन्नाह—
सर्वेत्यादि ।


सर्वहेतुनिराशंसं भावानां जन्म वर्ण्यते ।

स्वभाववादिभिस्ते हि नाहुः स्वमपि कारणम् ॥ ११० ॥

स्वतोभावस्वभाववादस्तु यद्यप्यादिशब्देनाहत्यनोपात्तः । तथाऽपि स्वभाववादिन(म?)तो
पादानात्सूचित एव । तत्र ये स्वत एव भावा जायन्त इति वर्णयन्ति । ते स्वक्रियाया
विरोधत इत्यादिना निरस्ताः । साम्प्रतं स्वभाववादिनो निरस्यन्ते । त एवमाहुर्न स्वतो
नापि परतो भावानां जन्म किं तर्हि ? सर्वहेतुनिराशंसम्—स्वपरकारणनिरपेक्षमि
त्यर्थः । ननु ये स्वत एव भावा भवन्तीति वर्णयन्ति, तेभ्य एषां को भेद इत्याह—
ते हीत्यादि । ते—स्वभाववादिनः, स्वमिति । स्वरूपम् । अपिशब्दात्पररूपमपि ।
पूर्वकास्तु स्वभावं कारणमिच्छन्ति, एते तमपि नेच्छन्तीति भेदः ॥ ११०॥