एवं तावत्प्रत्यक्षविरुद्धत्वं प्रतिज्ञार्थस्य हेतोश्चासिद्धतोद्भाविता । सांप्रतमभ्युपगम्य
हेतोः सिद्धिमनैकान्तिकत्वं प्रतिपादयन्नाह—मा वेत्यादि ।
यद्यनुपलम्भमात्रं हेतुत्वेनोपादीयते तदाऽनैकान्तिकता । यतो मानाभावेन प्रमा
णाभावमात्रेण हेतुना नैवार्थसत्ताया अभावनिश्चयः ॥ ११९ ॥
कस्मान्न भवतीत्याह—यस्मादित्यादि ।
व्यापको हि स्वभावो निवर्त्तमानः स्वं व्याप्यं निवर्त्तयति, कारणं वा कार्यम् ।
तत्र तादात्म्यतदुत्पत्तिभ्यां व्याप्यकार्ययोः प्रतिबद्धत्वात् । न च प्रमाणार्थसत्तयो
रभेदो भिन्नाभासत्वात् । नापि प्रमाणमर्थस्य कारणं व्यभिचारात् । प्रमाणमन्तरेणापि
भावात् । तथाहि—देशकालस्वभावविप्रकृष्टानामर्थानां प्रमाणेनाविषयीकृतानामपि
सत्त्वमविरुद्धमेव । न च येन विनाऽपि यद्भभवति तत्तस्य कारणं युक्तमतिप्रसङ्गात् ।
कारणत्वाभ्युपगमे वा स्वपक्षपरित्यागः । तदुद्भवाच्च न प्रमाणमर्थसत्ताकारणम् । तथा
हि—अर्थादेव विषयभूतात्प्रमाणमुद्भवति । न पुनः प्रमाणात्प्रमेयोऽर्थः ॥ १२० ॥
अथापि स्यादप्रतिबद्धमपि प्रमाणमर्थसत्ताया निवर्त्तकं भविष्यतीत्याह—
यश्चेत्यादि ।
नैवंविध इति । न कारणं नापि व्यापकम् । न ह्यप्रतिबद्धस्य निवृत्त्याऽन्यस्य
नियमेन निवृत्तिर्युक्ता, अतिप्रसङ्गात् । एवं ह्यश्वनिवृत्तौ गोरपि निवृत्तिः
स्यात् ॥ १२१ ॥
अपि चानुपलब्धेर्हेतुत्वेनोपादीयमाना सर्वपुरुषोपलम्भनिवृत्तिलक्षणा वोपादीयते ?
स्वोपलम्भनिवृत्तिलक्षणा वा ? न तावदाद्या, तस्या अर्वाग्दर्शनेन निश्चेतुमशक्यतया