तस्मादित्यादिनोपसंहारव्याजेनानुमानबाधितत्वं च प्रतिज्ञार्थस्य दर्शयति—


तस्मात्सहेतवोऽन्येऽपि भावा नियतजन्मतः ।

साध्यार्थविषयं यद्वज्ज्ञानं साधनभावि ते ॥ १२७ ॥

इति स्वाभाविकजगद्वादपरीक्षा ।

अन्येऽपीति । साध्यार्थविषयज्ञानव्यतिरेकिणो राजीवकेसरादयः । नियतजन्मतइति । नियतपदार्थसन्निधाने सतीति शेषः । प्रयोगः—ये नियतपदार्थसन्निधाने
सति नियतजन्मानस्ते सहेतुकाः । यथा—भवत्साधनसन्निधानभाविसाध्यार्थविषयं
ज्ञानम्, तथा च राजीवादयो भावा इति स्वभावहेतुः ॥ १२७ ॥