अत्र च युक्तिं वर्णयन्ति—यदुपलब्धिलक्षणप्राप्तं सदनुपलभ्यमानसत्ताकम्,
तत्प्रेक्षावतामसद्व्यवहारविषयः । यथा शशविषाणमनुपलभ्यमानसत्ताकं च भावानां
कारणमिति स्वभावानुपलब्धिः । न चायमसिद्धो हेतुरित्यादर्शयन्नाह—राजीवेत्यादि ।


राजीवकेसरादीनां वैचिञ्यंकः करोति हि ।

मयूरचन्द्रकादिर्वा विचित्रः केन निर्मितः ॥ १११ ॥

राजीवम्—पद्मम्, तस्य केसरादय इति विग्रहः । आदिग्रहणान्नालदलकर्णिका
दीनां कण्टकतैक्ष्ण्यादीनां च ग्रहणम् । वैचिञ्यमिति । संस्थानवर्णकार्कश्यादिभेदम् ।
कः करोतीति । नैव कश्चित् । ईश्वरादेः कारणस्यानुपलभ्यमानत्वादिति भावः॥ १११ ॥