074
ज्ञानमात्रेऽपि नैवास्य शक्र(क्य ?)रूपं ततः परम् ।

भवतीति प्रसक्ताऽस्य वन्ध्यासूनुसमानता ॥ १५० ॥

एतच्च पूर्वमीश्वरपरीक्षायां प्रसाधितम् । ततः परमिति । त्यागादाननिबन्धना
न्नीलादेः परमन्यदित्यर्थः । यदि वा—तत इति निगमनम् । परमिति त्यागादाननि
बन्धनान्नीलादेः परमन्यदित्यर्थः । यदि वा—तत इति निगमनम् । परमिति तात्वि
कम् । वन्ध्यासूनुसमानतेति । न हि वन्ध्यासूनोरवस्तुत्वव्यवस्थायामर्थक्रियासाम
र्थ्यविरहव्यतिरेकेणान्यन्निबन्धनमस्ति ॥ १४९ ॥ १५० ॥


अथेदमुच्यते । तं तु परमं ब्रह्मात्मानमभ्युदयनिःश्रेयसफलधर्मानुगृहीतान्तःकरणा
योगिन एव पश्यन्तीति, तदपि नोपपद्यत इति दर्शयति—विशुद्धेत्यादि ।


विशुद्धज्ञानसन्ताना योगिनोऽपि ततो न तत् ।

विदन्ति ब्रह्मणो रूपं ज्ञाने व्यापृत्य सङ्गतेः ॥ १५१ ॥

यदि हि ज्ञाने योगजे तस्य व्यापारः स्यात्तदा योगिनस्तस्य रूपं पश्यन्तीति स्यात् ।
यावता यथोक्तेन प्रकारेण ज्ञाने तस्य व्यापाराभावादयुक्तमेतत् । स्यादेतन्न तद्विषय
ज्ञानोत्पत्त्या योगिनस्तं पश्यन्ति । तद्व्यतिरिक्तस्य योगिनो योगिज्ञानस्य चाभावात् ।
किन्तु योगित्वावस्थायां स्वमात्मानं ज्योतीरूपं तत्प्रकाशमानं योगिनस्तं पश्यन्तीति ।
उच्यते । यद्येवं प्रागयोगित्वावस्थायां किं तस्य रूपमिति वाच्यम् । यदि सदैव ज्योतीरूपं
तदा तर्हि न कदाचिदयोगित्वावस्थाऽस्ति, सदैवात्मज्योतीरूपत्वाद्ब्रह्मणः । ततश्चा
यत्नतः सर्वेषां मोक्षप्रसङ्गः । अथापि स्याद्यथा भवतां स्वप्नाद्यवस्थासु ज्ञानमद्वयमपि
विचित्राकारपरिग्रहेण प्रतिभासते तथा तदद्वयमप्यविद्यावशादविशुद्धसन्ततीनां तथा
प्रकाशत इति । तदसम्यक् । न हि तद्व्यतिरेकेणान्ये केचिदविशुद्धसन्ततयः सन्ति
येषां तत्तथा प्रतिभासते । स्वयमेव तथा प्रतिभासत इति चेत्, एवं तर्हि मोक्षाभावप्र
सङ्गः । सर्वदैव ब्रह्मणोऽद्वयरूपप्रतिभासात्मकत्वात् । अस्माकं तु विशुद्धज्ञानान्तरोदया
न्मुक्तिर्युज्यत एव । न चापि भवतां तद्व्यतिरेकिण्यविद्याऽस्ति । यद्वशात्तत्तथा प्रति
भासत इति स्यात् । अव्यतिरेके चाविद्यायास्तद्वशात्तदेव तथा प्रतिभासत इति सुव्या
हृतमेतत् । अथापि स्यादविद्यावशात्ख्यातीत्यनेनाविद्यात्मकत्वमेव तस्य ख्याप्यत इति ।
यद्येवं सुतरां मोक्षाभावप्रसङ्ग एव ख्यापितो भवति । न हि नित्यैकरूपे ब्रह्मण्यविद्या
त्मके स्थिते सति तदात्मिकाया अविद्याया व्यपगमः संभवति । येनाविद्याव्यपगमा
न्मुक्तिर्भवेत् । अथ व्यतिरिक्ताऽविद्याऽङ्गीक्रियते, एवमपि नित्यत्वादनाधेयातिशयस्य