075 ब्रह्मणः सा (न) तत्किंचित्करोतीति, न युक्तमविद्यावशात्तथा प्रतिभासनम् । ततश्चा
विद्यया सह तस्य संबन्धाभावात्संसाराभावप्रसङ्गः । न चापि सा तत्वान्यत्वाभ्यां
निर्वक्तुं शक्यत इति युक्तं वक्तुम्, वस्तुधर्मस्य गत्यन्तराभावात् । अन्यथा वस्तुत्व
मेव न स्यात् । न चावस्तुवशात्तथा तस्य ख्यातिर्युक्ताऽतिप्रसङ्गात् । तथाभूतस्य
चार्थक्रियाकारिणः स्वभावस्यावस्थितिनामकरणे न ना(नो ?)स्ति विवादः । अस्माकं तु
वितथाभिनिवेशवासनैवाविद्या सा च वासना शक्तिरुच्यते । शक्तिश्च कारणात्मक
ज्ञानात्मभूतैवेति । तेन पूर्वपूर्वतः कारणभूतादविद्यात्मनो ज्ञानादुत्तरोत्तरकार्यज्ञानस्य
वितथाकाराभिनिवेशिन उत्पत्तेरविद्यावशात्तथाख्यातिर्युक्ता । तस्याश्चाविद्याया योगा
भ्यासादसमर्थतरतमक्षणोत्पादक्रमेण व्यपगमात्परिशुद्धज्ञानसन्तानोदयादपवर्गप्राप्ति
रित्यतो बन्धमोक्षव्यवस्था युक्तिमती । नत्वेवं भवतां संभवति, नित्यैकरूपत्वाद्ब्रह्मणो
ऽवस्थाद्वयासंभवात् । एकत्वाच्च तस्य ब्रह्मण एकस्य मुक्तौ सर्वेषां मुक्तिप्रसङ्गः, एक
स्यामुक्तौ सर्वेषाममुक्तिप्रसङ्गश्चानिवार्यः । न चाप्ययोगित्वावस्थायामात्मज्योतीरूपत्वे
ऽस्य किंचित्प्रमाणमस्ति । प्रसाधकं ज्ञानं हि प्रकाशात्मतया स्वसंवेदनप्रसिद्धम् । न
त्वेवं शब्दात्मा सर्वत्र प्रत्ययात्मनि संवेद्यत इति निर्दिष्टमेतत् । अथायोग्यवस्थाया
मात्मज्योतिष्ट्वमस्य नाङ्गीक्रियते, एवमपि प्रागविद्यमानं तदात्मज्योतिष्ट्वमत्यक्तपूर्वरू
पस्य ब्रह्मणः, पश्चाद्योग्यवस्थायां कुतः संभूतमिति वाच्यम् । तस्मान्मिथ्याप्रवादोऽयं
शब्दब्रह्मवादो भवतामित्यलं बहुना ॥ १५१ ॥


प्रधानेत्यादिना पूर्वोक्तं दूषणमार्गमिहाप्यतिदिशति ।


प्रधानपरिणामेन समं च ब्रह्मदर्शनम् ।

तद्दूषणानुसारेण बोद्धव्यमिह दूषणम् ॥ १५२ ॥

इति शब्दब्रह्मपरीक्षा ।

तत्रैवं दूषणं वाच्यम्—न शब्दजन्यं तत्कार्यं सत्तातो हेतुवित्तिवत् । अतो
नाभिमतो हेतुरसाध्यत्वात्परात्मवत् ॥ इत्यादि ॥ १५२ ॥


इति शब्दब्रह्मपरीक्षा ।

पुरुषपरीक्षा ।

अन्य इत्यादिना वेदवादिमतमुपक्षिपति ।


अन्ये त्वीशसधर्माणं पुरुषं लोककारणम् ।

कल्पयन्ति दुराख्यातसिद्धान्तानुगबुद्धयः ॥ १५३ ॥