ते वाच्या इत्यादिना प्रतिज्ञार्थ........दूषयति ।


इति संचक्षते येऽपि ते वाच्याः किमिदं निजम् ।

शब्दरूपं परित्यज्य नीलादित्वं प्रपद्यते ॥ १२८ ॥

न वा तथेति यद्याद्यः पक्षः संश्रीयते तदा ।

अक्षरत्ववियोगः स्यात्पौरस्त्यात्मविनाशतः ॥ १३० ॥

अथाप्यनन्तरः पक्षस्तत्र नीलादिवेदने ।

अश्रुतेरपि विस्पष्टं भवेच्छब्दात्मवेदनम् ॥ १३१ ॥

अत्र कादाचिच्छब्दपरिणामरूपत्वाद्वा जगतः शब्दमयत्वं साध्यत्वेनेष्टम्, कदा
चिच्छाब्दादुत्पत्तेर्वा । यथाऽन्नमयाः प्राणा इति हेतौ मयङ्विधानात् । अत्र न तावदाद्यः
पक्षः, परिणामस्यैवानुपपत्तेः । तथा हि—शब्दात्मकं ब्रह्म नीलादिरूपतां प्रतिपद्य
मानं कदाचिन्निजं स्वाभाविकं शब्दरूपं परित्यज्य प्रतिपद्येतापरित्यज्य वा । तत्र
यदि परित्यज्येत्याद्यः पक्ष आश्रीयते, तदाऽनादिनिधनमित्यनेन वचनेन यदक्षरत्वम
विनाशित्वमभ्युपगतं तस्य हानिः स्यात्, पैरस्त्यस्वभावविनाशात् । अथापरित्यज्ये
त्यनन्तरः पक्षः, तदा नीलादिसंवेदनकालेऽप्यश्रुतेर्बधिरस्य शब्दः संवेदनं प्राप्नोति ।
नीलादिसंवेदनवत्तदव्यतिरेकात् । प्रयोगः—यद्यदव्यतिरिक्तं तत्तस्मिन्संवेद्यमाने सं
बेद्यते, यथा नीलादिसंवेदनावस्थायां तस्यैव नीलादेरात्मा, नीलादव्यतिरिक्तश्च शब्द
069 इति स्वभावहेतुः । अन्यथा भिन्नयोगक्षेमत्वात्तत्स्वभावत्वमेव प्रसिध्येदित्येतदत्र बा
धकं प्रमाणम् ॥ १२९ ॥ १३० ॥ १३१ ॥