न केवलं तत्त्वान्यत्वाभ्यामवाच्यत्वादवस्तु पुद्गलोऽयमिति प्रतिपादितम्, इतो
ऽप्यनित्यत्वेनावाच्यत्वादेवावस्त्विति प्रतिपादयन्नाह—अर्थक्रियास्वित्यादि ।


अर्थक्रियासु शक्तिश्च विद्यमानत्वलक्षणम् ।

क्षणिकेष्वेव नियता तथाऽवाच्ये न वस्तुता ॥ ३४७ ॥

इदमेव हि विद्यमानत्वलक्षणं वस्तुस्वभावो यदुतार्थक्रियासु शक्तिः, सर्वसामर्थ्य
विरहलक्षणत्वादवस्तुत्वस्येति सामर्थ्यादर्थक्रियासामर्थ्यलक्षणमेव वस्तुत्वमवतिष्ठते । सा
चार्थक्रिया क्षणिकेष्वेव नियता । क्षणिकत्वेनैव व्याप्तेति यावत् । नित्यस्य क्रमयौग
पद्याभ्यामर्थक्रियाविरोधात् । अतस्तथा क्षणिकत्वेनावाच्ये पुद्गले वस्तुता नास्ति ।
तत्र तद्व्यापकस्य क्षणिकत्वस्य निवृत्तेः वृक्षत्वनिवृत्तौ शिंशपात्वादिनिवृत्तिवदिति ।
यथोक्तम्—अनित्यत्वेन योऽवाच्यः स हेतुर्नहि कस्यचिदिति । स्यादेतद्यदि पुद्गलो
नित्यः स्यात्तदा तस्य क्रमयौगपद्याभ्यामर्थक्रियाविरोधः स्यात्, यावता यथाऽसाव
नित्यत्वेनावाच्यः तथा नित्यत्वेनापीति, अतोऽर्थक्रियासामर्थ्यमस्याविरुद्धमेवेति ।
तदसम्यक्, न ह्युभयाकारविनिर्मुक्तं वस्तु स्वलक्षणं युक्तम्, नित्यानित्ययोरन्योन्य
वृत्तिपरिहारस्थितलक्षणत्वात् । वस्तुन्येकाकारत्यागपरिग्रहयोस्तदपराकारपरिग्रहत्याग
नान्तरीयकत्वात् । न ह्यस्माभिरवाच्यशब्दनिवेशनं पुद्गले प्रतिषिध्यते, स्वतंत्रेच्छा
129 मात्रानीतस्य केनचित्प्रतिषेद्धुमशक्यत्वात्, किंत्विदमिह वस्तुरूपं निरूप्यते । किमसौ
पुद्गलाख्यस्य वस्तुनः स्वभावः सर्वदाऽस्त्याहोस्विन्नास्तीति, यद्यस्ति तदा नित्य
एवासौ, न हि नित्यो नामान्य एव कश्चित्, अपि तु यः स्वभावः सदाऽव
स्थायी न विनश्यति स नित्य उच्यते । यथोक्तम्— नित्यं तमाहुर्विद्वांसो यः स्व
भावो न नश्यति
इति । अथ नास्तीति पक्षस्तदाऽप्यनित्य एवासावनवस्थायिस्वभाव
लक्षणत्वादनित्यस्य । अतः क्षणिकाक्षणिकव्यतिरेकेण गत्यन्तराभावादक्षणिकस्य च
क्रमयौगपद्याभ्यामर्थक्रियाविरोधात् क्षणिकत्वेनार्थक्रियासामर्थ्यलक्षणं सत्त्वं व्याप्त
मिति पुद्गले क्षणिकत्वनिवृत्तौ सत्त्वनिवृत्तिः सिद्धा ॥ ३४७ ॥