131 पश्यामीति । तेनाप्यदर्शने वामग्रहणमनर्थकम्, न पश्यामीत्येव वाच्यं स्यात् ।
तथेहापि न रूपमात्मा यावन्नहि विज्ञानमात्मेत्युक्ते तद्विलक्षणोऽस्त्यात्मेति सूचितं
भवति । स चावाच्योऽन्यो वा भवतु सर्वथाऽस्त्यात्मेति । अत्राह—विशेषप्रतिषे
धश्चे
त्यादि । एतदुक्तं भवति । विंशतिशिखरसमुद्गतोऽयं सत्कायदृष्टिशैलः कुमतीनां
प्रवर्त्तते । यदुत रूपमात्मा, यावद्विज्ञानमात्मा, रूपवानात्मा, यावद्विज्ञानवानात्मा,
आत्मनि रूपं यावद्विज्ञानमात्मनीति । तत्राद्यदृष्टिपञ्चकप्रतिषेधाय तद्दृष्टिकान्प्रति
विशेषरूपेण प्रतिषेधः शोभते । सारूपमात्मेत्यादिका दृष्टिर्येषां ते तद्दृष्टिकाः ।
यदेव हि मूढमतेराशङ्कास्थानं तदेवानूद्य निवर्त्त्यते । न त्वत्र कस्यचिद्विधिरमि
प्रेतः । अन्यथा ह्यश्रोतृसंस्कारकं वाक्यं ब्रुवाणोऽप्रेक्षावानेव प्रतिपादकः स्या
दिति ॥ ३४९ ॥


इति वात्सीपुत्रीयात्मपरीक्षा ।

स्थिरभावपरीक्षा ।

चलमित्येतद्विशेषणसमर्थनार्थमाह—अथवेत्यादि ।


अथवाऽस्थान एवायमायासः क्रियते यतः ।

क्षणभङ्गप्रसिद्ध्यैव प्रकृत्यादि निराकृतम् ॥ ३५० ॥

उक्तस्य वक्ष्यमाणस्य जात्यादेश्चाविशेषतः ।

निषेधाय ततः स्पष्टं क्षणभङ्गः प्रसाध्यते ॥ ३५१ ॥

निरवशेषपदार्थव्यापिनः क्षणभङ्गस्य प्रसाधनादेव प्रकृतीश्वरादेः परपरिकल्पितस्य
सकलपदार्थराशेरेकप्रहारेणैव निरस्यमानस्यापि सतो यदिदमस्माकमतिग्रन्थविस्तर
संदर्भेण प्रतिपदमुच्चार्य दूषणोपक्रमणं तत्केवलमायासफलमेव, स्वल्पोपायेनैव तस्य
दूषितत्वादिति भावः । तथा हि—सर्वमेव प्रकृत्यादि परैरुदयानन्तरापवर्गि निरन्वय
निरोधधर्मकं वा कैश्चिन्नेष्यते । ततश्चैतत्समस्तवस्तुव्यापकक्षणभङ्गप्रसाधनेनैव निरस्तं
भवतीति मन्यमानैरस्माभिरुक्तस्य प्रकृत्यादेः पुद्गलपर्यन्तस्य वक्ष्यमाणस्य च जाति
गुणद्रव्यादेः शब्दार्थयोः प्रमाणप्रमेययोर्मेचकादिमणिप्रख्यचित्रस्य वस्तुनस्त्रिकालानु
यायिनो भावस्य चार्वाकाद्युपगतस्य च भूतचतुष्टयस्य जैमिनीयेष्टस्य च वैदिकशब्द
राशेर्निरासाय विशेषेण क्षणभङ्गः प्रसाध्यते । स्पष्टमिति । तत्साधकस्य हेतोस्त्रिरू
पस्य प्रदर्शनात् । अतोऽस्यामेव स्थिरभावपरीक्षायां सकलशास्त्रार्थपरिसमाप्तिर्भवती
त्युक्तं भवति ॥ ३५० ॥ ३५१॥