166

सर्वेष्वेव च प्रयोगेषु हेतूनामनैकान्तिकत्वं विपक्षे बाधकप्रमाणाभावादिति दर्श
यति—सन्दिग्धेत्यादि ।


सन्दिग्धव्यतिरेकित्वं सर्वेष्वेतेषु हेतुषु ।

विपक्षे वर्त्तमानानां बाधकानुपदर्शनात् ॥ ४७५ ॥

इति स्थिरभावपरीक्षा ।

सुबोधम् ॥ ४७५ ॥


इति स्थिरभावपरीक्षा ।

कर्मफलसंबन्धपरीक्षा ॥

इदानीं कर्मतत्फलसंबन्धव्यवस्थादिसमाश्रयमित्येतत्समर्थनार्थं चोद्योपक्रमपूर्वक
माह—क्षणिकेत्यादि ।


क्षणिकानित्यतालीढं सर्वं चेद्वस्तु तत्कथम् ।

कर्मतत्फलसम्बन्धकार्यकारणतादयः ॥ ४७६ ॥

क्षणिकानित्यताग्रहणं कालान्तरस्थाय्यनित्यताव्यवच्छेदार्थम् । क्षणिकानां सताम
नित्यता क्षणिकानित्यता तया लीढम्—समाक्रान्तं यदि सर्वमेव वस्तुजातं प्रति
ज्ञायते भवद्भिस्तदा येऽमी कर्मफलसंबन्धादयो लोकशास्त्रयोः प्रतीतास्ते कथं
सिद्ध्येयुः । आदिग्रहणद्धेतुफलाधिगन्तृ प्रमाणम्, अनुभवे प्रत्यभिज्ञानम्, अन्य
स्मिन्नर्थे दृष्टेऽर्थान्तरेऽभिलाषः, बन्धमोक्षौ, स्मरणम्, संशयपूर्वको निर्णयः, स्वयं
निहितप्रत्यनुमार्गणम्, दृष्टार्थकुतूहलविरमणमित्येवंप्रकाराः कुमतिपरिकल्पिताश्चो
द्यरश्रयो गृह्यन्ते । न हि लोकशास्त्रप्रतीतार्थविरोधेन प्रतिज्ञायमानोऽर्थः सिद्धिमा
सादयतीत्यभ्युपेतप्रतीतबाधा दोषः प्रतिज्ञाया इति भावः । तथाहि येनैव कृतं कर्म
सुभादिकं तेनैव तत्फलमुपभुज्यत इति लोके प्रतीतम् । न हि देवदत्तेन कृते कर्मणि
शुभादिके यज्ञदत्तस्तत्फलमिष्टमनिष्टं चोपभुङ्क्त इति प्रसिद्धम् । नापि शास्त्रे, यथो
क्तम्— अनेनैव कृतं कर्म कोऽन्यः प्रत्यनुभविष्यति इति । तच्चैतत्क्षणिकपक्षे
विरुध्यते । कर्मफलपरिग्राहकस्यैकस्य कर्तुरभावेन कृतनाशाकृताभ्यागमदोषप्रस
ङ्गात् ॥ ४७६ ॥


कथमित्याह— इत्यादि ।


यः क्षणः कुशलादीनां कर्तृत्वेनावकल्प्यते ।

फलप्रसवकाले तु नैवासावनुवर्त्तते ॥ ४७७ ॥