कथमसौ प्रसाध्यत इत्याह—कृतकाकृतकत्वेनेत्यादि ।
इह हि नैयायिकादयः क्षणिकमेकमपि वस्तु नास्तीति मन्यमानाः कृतकाकृत
कत्वेन भावानां द्वैराश्यमवस्थापयन्ति । तत्र—केचित्कृतका यथा घटादयः, केचिद
कृतका यथा परमाण्वाकाशादयः । अपरैस्तु वात्सीपुत्रीयादिभिः क्षणिकाक्षणिकत्वे
नापि भावानां द्वैराश्यमिष्यते । तथाहि—बुद्धिशब्दार्चिःप्रभृतयस्तन्मतेन क्षणिकाः,
क्षितिव्योमादयस्त्वक्षणिका इति ॥ ३५२ ॥
तदेवं दर्शनविभागेऽवस्थिते ये कृतकत्वेनाभीष्टास्तांस्तावत्पक्षीकृत्य प्रमाणमभिधी
यत इति दर्शयन्नाह—तत्रेत्यादि ।
विनाशं प्रति सर्वेषां हेत्वन्तरानपेक्षतया स्थितत्वादित्यनेन हि त्रिलक्षणो हेतुः
सूचितस्तमेव स्पष्टयन्नाह—यद्भावं प्रतीत्यादि ।
प्रयोगः—ये यद्भावं प्रत्यनपेक्षास्ते तद्भावनियताः । यथा समनन्तरफला सामग्री
स्वकार्योत्पादने नियता । विनाशं प्रत्यनपेक्षाश्च सर्वे जन्मिनः कृतका भावा इति
स्वभावहेतुः । हेत्वन्तरमिति । जनकाद्व्यतिरिक्तम् । नियतमित्यत्र कारणमाह—
स्वहेतुभ्य इति । तथा—तेन नियतेन रूपेणोत्पन्नत्वादित्यर्थः । ये तु पुनर्यत्र न
नियतास्ते तत्रानपेक्षा अपि न भवन्त्येव, यथा घटादयोऽपक्वाः पाकादिष्वितीदमत्र
वैधर्म्येणोदाहरणम् ॥ ३५३ ॥ ३५४ ॥ ३५५ ॥
ननु चानैकान्तिको हेतुस्तथाहि—यदि नाम विनाशं प्रति हेत्वन्तरानपेक्षा भा
वास्तथाऽपि स्थित्वा देशान्तरे कालान्तरे च भावस्य विनाशसंभवादुदयानन्तरापव
र्गित्वमभीष्टमेषां साधयितुं न सिध्यतीत्याह—अनपेक्षोऽपीत्यादि ।