सर्वथाऽतिशयासत्त्वाद्व्याहता त्वात्मनीदृशी ।

कर्तृभोक्तृत्वबन्धादिव्यवस्थाऽनित्यताऽन्यथा ॥ ५४६ ॥

इति कर्मफलसम्बन्धपरीक्षा ।

यदि हि रागादिभिः क्लेशैर्बन्धो भावनादिभिश्चातिशयः कश्चिदात्मनः क्रियेत,
तदा तस्य बन्धमोक्षादिव्यवस्था भवेत् । यावता नित्यतया न तस्यातिशयाधानम
स्तीति नेयमीदृशी नियतकार्यकारणमर्यादालक्षणा बन्धमोक्षादिव्यवस्था घटते, यथा
ऽऽकाशस्येति भावः । अन्यथेति । यद्यतिशयोत्पादो भवेदात्मनस्तदाऽतिशयस्यात्म
भूतत्वादात्मनोऽपि तदव्यतिरेकेणातिशयवदनित्यता स्यात् । परभूतस्त्वतिशयो न
युक्तः संबन्धासिद्धेरिति शतधा चर्चितमेतत् ॥ ५४६ ॥