कथमित्याह— इत्यादि ।


यः क्षणः कुशलादीनां कर्तृत्वेनावकल्प्यते ।

फलप्रसवकाले तु नैवासावनुवर्त्तते ॥ ४७७ ॥

167
यः फलस्य प्रसूतौ च भोक्ता संवर्ण्यते क्षणः ।

तेन नैव कृतं कर्म तस्य पूर्वमसंभवात् ॥ ४७८ ॥

कर्मतत्फलयोरेवमेककर्त्रपरिग्रहात् ।

कृतनाशाकृतप्राप्तिरासक्ताऽतिविरोधिनी ॥ ४७९ ॥

नैवासावनुवर्त्तत इति । तस्योत्पादानन्तरमेव निरुद्धत्वात् । एककर्त्रपरिग्रहा- दिति । एकेन कर्त्रा तयोः कर्मफलयोरपरिगृहीतत्वादित्यर्थः । कर्तुः फलेनानभिसंबन्धा
त्कृतनाशः, अकर्तुश्च फलेन योगादकृताभ्यागमः । अतिविरोधिनीति । लोकशा
स्त्रयोरेवमदर्शनादिति भावः ॥ ४७७ ॥ ४७८ ॥ ४७९ ॥