कथमित्याह—तथाहीत्यादि ।


तथाहि कारणाऽऽश्लेषः सामान्यस्याभिव्यञ्जनम् ।

स्वावयवे ततः कर्म विभागस्तदनन्तरम् ॥ ६९४ ॥

संयोगस्य विनाशश्च ततो द्रव्यस्य संक्षयः ।

षट्क्षणस्थायितैवेष्टा दीपादावपि वस्तुनि ॥ ६९५ ॥

तथाहि—स्वकारणसंबन्धकालस्तावत्प्रथमं भवति । ततः पश्चात्स्वसामान्याभि
व्यक्तिकालस्ततोऽवयवकर्मकालस्तदनन्तरमवयवविभागकालस्ततः स्वारम्भकावयवसं
योगविनाशस्ततो द्रव्यविनाश इति षट्क्षणस्थायितैव दीपादेरपि वस्तुनोऽभीष्टा ।
अतः क्षणिकस्य कस्यचिद्गतिमतः पदार्थस्याभावात्सर्वेषामेव क्रियावतां जन्मोत्तरकाल
भाविन्येव क्रिया । नाप्यसिद्धता हेतोरन्यस्य क्षणिकत्वायोगात् ॥ ६९४ ॥ ६९५ ॥


233

अथापि स्याद्यदि नाम क्षणिकता भावानामस्माभिरिष्यते । तथाप्यमीषां जन्म
कालभाविन्येव क्रिया कस्मान्न भवतीत्याह—पश्चिमेत्यादि ।