233

अथापि स्याद्यदि नाम क्षणिकता भावानामस्माभिरिष्यते । तथाप्यमीषां जन्म
कालभाविन्येव क्रिया कस्मान्न भवतीत्याह—पश्चिमेत्यादि ।


पश्चिमाग्रिमदेशाभ्यां विश्लेषाऽऽश्लेषसंभवे ।

गन्ताऽपरो वा सर्वश्च कर्माधारः प्रकल्पितः ॥ ६९६ ॥

यो जन्मः क्षणमध्यास्ते नैव जातु चलात्मकः ।

तस्याण्वन्तरमात्रेऽपि देशसंक्रान्त्यसम्भवः ॥ ६९७ ॥

यस्य हि पाश्चात्त्यदेशविश्लेषः संभवति, पुरोवर्त्तिना देशेनाऽऽश्लेषः स गन्ता भ
वत्यपरो वा प्रसारणाद्याधारः, नत्वन्यो यथाऽऽकाशादि । नचैकक्षणमात्रभाविन
इयान्परिलम्बोऽस्ति, येन पूर्वदेशपरिहारपूर्वकमपरदेशमाक्रामेत् । सत्ताकाल एवा
स्तमयवशीकृतत्वादपर्याप्तो देशान्तरमाक्रमितुम् । तस्माज्जन्मकालभाविन्यपि क्रिया न
युक्ता । नापि पूर्वोत्तरयोः कोट्योस्तदानीं तस्यानुपाख्यत्वात् । अतो यः क्षणमपि नास्ते
तस्याऽऽस्तां तावद्विदूरतरदेशान्तरावक्रमण(णा ?) सम्भवः । अपितु परमाणुमात्रप्रदेश
संक्रमणमपि नास्तीति कुतः क्षणिकस्य क्रिया ॥ ६९६ ॥ ६९७ ॥


नाप्यक्षणिकस्येति दर्शयति—स्थैर्ये त्वित्यादि ।


स्थैर्ये तु वस्तुनः सर्वे दुर्घटा गमनादयः ।

सुतरामेव सर्वासु दशास्वस्याविशेषतः ॥ ६९८ ॥

एकरूपं हि सदा वस्त्वक्षणिकमुच्यते, तस्य सुतरामेव क्रियासमावेशो न संभवति,
आकाशवत्सर्वदा निर्विशिष्टत्वात् । प्रयोगः—यत्सर्वदा निर्विशिष्टं न तस्य क्रिया
संभवति, यथाऽऽकाशस्य, निर्विशिष्टं चाक्षणिकभिमतं सर्वदा वस्त्विति व्यापकविरु
द्धोपलब्धिः ॥ ६९८ ॥


स्यादेतद्यदि नामाविशिष्टमक्षणिकं वस्तु, तथापि प्रकृत्यैव तस्य गन्त्रादिरूपत्वा
त्क्रियावत्त्वं भविष्यतीत्यतोऽनैकान्तिकता हेतोरित्याशङ्क्याह—यदीत्यादि ।


यदि गन्त्रादिरूपं तत्प्रकृत्या गमनादयः ।

सदा स्युः क्षणमप्येवं नावतिष्ठेत निश्चलम् ॥ ६९९ ॥

यस्माद्गत्याद्यसत्त्वेऽपि प्राप्नुवन्त्यस्य चे ध्रुवम् ।

अत्यक्तपूर्वरूत्वाद्गत्याद्युदयकालवत् ॥ ७०० ॥

यदि ह्यमी देवदत्तादयः क्षणिकत्वेनाभिमताः प्रकृत्या गमनोत्क्षेपणादियोगिनस्तदा