अथापि स्यात्—नैवाऽस्यैकरूपता, किं तर्हि ? गन्त्रगन्तृरूपतयोभयरूपत्वादतो
यथोक्तदोषप्रसङ्गः, हेतोश्चासिद्धतेत्याशङ्क्याह—यदि त्वित्यादि ।


यदि तु स्यादगन्ताऽयमेकदा चान्यथा पुनः ।

परस्परविभिन्नात्मसंगतेर्भिन्नता भवेत् ॥ ७०३ ॥

एकदा चेति । चकारो विभिन्नक्रमः, पुनरित्यस्यानन्तरं द्रष्टव्यः । पुनश्च—अ
न्यथेत्यर्थः । एवं हि गन्तृत्वागन्तृत्वादिविरुद्धधर्माध्यासादेकत्वहानिप्रसङ्गः ॥ ७०३ ॥