अत एव तस्य क्षणिकत्वं सिद्धमिति दर्शयन्नाह—अत्यन्तभिन्नावित्यादि ।


अत्यन्तभिन्नावात्मानौ ताविति व्यवसीयते ।

विरुद्धधर्मवृत्तित्वाच्चलनिश्चलवस्तुवत् ॥ ७०४ ॥

ताविति । चलाचलावस्थाभाविनौ । चलनिश्चलवस्तुवदिति । लतापर्वतादिव
दित्यर्थः ॥ ७०४ ॥