एवं तावदनुमानबाधां प्रतिज्ञायाः प्रतिपाद्य प्रत्यक्षबाधामपि प्रतिपादयन्नाह—
दृश्यत्वेत्यादि ।


दृश्यत्वाभिमतं कर्म न वस्तुव्यतिरेकि च ।

दृश्यते सोपि नैवास्य सत्ता युक्त्यनुपातिनी ॥ ७०५ ॥

235

यदुपलब्धिलक्षणप्राप्तं सन्नोपलभ्यते तत्प्रेक्षावतामसद्व्यवहारमवतरति, यथा क
स्मिंश्चित्प्रदेशे पटोऽनुपलभ्यमानः नोपलभ्यते च रूपादिवस्तुव्यतिरेकेण कर्मेति स्वभा
वानुपलब्धिः । नहि रूपादेस्तथा देशान्तरावष्टम्भेनोत्पद्यमानस्य व्यतिरेकेण क्वचिदि
न्द्रियज्ञाने प्रतिभासमानामालक्ष्यते कर्म । या चेयमुत्क्षेपणमवक्षेपणमिति जल्पानुष
ङ्गिणी धीरुपजायते, सा साभिजल्पत्वान्न प्रत्यक्षं, नचाप्येषा कर्मपदार्थानुभवभाविनी
युक्ता, रूपादेरेव तथातथोत्पद्यमानस्य दर्शनात्, यथासङ्केतं तेष्वेवाध्यवसायेन
वृत्तेः । एतच्चानन्तरमेव प्रतिपादितं नित्यानित्ययोर्गत्याद्यभावादिति । अतोऽसि
द्धमेतद्यदुक्तं प्रत्यक्षत एव कर्म सिद्धमिति ॥ ७०५ ॥