एवमित्यादिनोपसंहरति ।


एवमेकान्ततो भिन्नजातिरेषा निराकृता ।

जैमिनीयाभ्युपेता तु स्याद्वादे प्रतिषेत्स्यते ॥ ८१२ ॥

इति सामान्यपरीक्षा ।

यैर्वैशेषिकादिभिर्व्यक्तितो जातिरेकान्तभिन्नेष्टा तेषामिदं दूषणमुक्तम् । ये पुनर
भिन्नामुभयरूपां च जातिमिच्छन्ति जैनजैमिनीयसाङ्ख्यादयः, तदुपवर्णिता जातिः
प्रस्तावात्स्याद्वादे निषेत्स्यते । इह तु वैशेषिकनैयायिकोपकल्पिताया जातेः प्रस्तुतत्वान्न
दूष्यते प्रस्तावाभावादिति भावः ॥ ८१२ ॥