अथान्य एव संयोगविभागबहुतादिवत् ।

सम्बन्ध्यन्तरसद्भावे समवायोऽवतिष्ठते ॥ ८६५ ॥

274
संयोगादिवदेवं हि नन्वस्य बहुता भवेत् ।

एवमाद्यस्य सद्भावे बहु स्यादसमञ्जसम् ॥ ८६६ ॥

इति समवायपदार्थपरीक्षा ।

अथान्य एवेति द्वितीयः पक्षस्तदा संयोगादिवत्समवायबहुत्वं प्राप्नोति, ततश्च न
समवायो भेदवानित्यस्याभ्युपेतस्य हानिः । एवमादीत्यादिशब्देन कारणवैफल्यं, अने
कसूत्रविरोधः, प्रत्यक्षादिविरोधः, सर्वपदार्थानामक्रमोत्पत्तिरित्यादिदोषान्तरपरिग्रहः ।
तथाहि—स्वकारणसमवाय सत्तासमवायो वा जन्मोच्यते, समवायश्च नित्य इति
न क्वचिदपि कार्यजन्मनि कारणानां सामर्थ्यमिति कारणवैफल्यम् । तथा अन्य
तरकर्मज उभयकर्मजः संयोगजश्च संयोगः, इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञान
मित्यादि
जन्मप्रतिपादकसूत्रविरोधः । तथा प्रत्यक्षादिप्रतीतिकारणानि चक्षुरादीनि विरुध्यन्ते ।
तथा समवायलक्षणस्य जन्मनो नित्यतया न क्रमोस्तीति क्रमोत्पत्तिर्दृष्टभावानां विरु
ध्यते । ततश्च युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गमिति स्वसिद्धान्तव्याहतिः । नित्यत्वाच्च
जन्मनोऽनुपकार्योपकारकभूतं जगदिति व्यर्थं शास्त्रप्रणयनमित्यादिबहुतरमसमञ्जस
मालूनविशीर्णं स्यात् ॥ ८६५ ॥ ८६६ ॥