274
संयोगादिवदेवं हि नन्वस्य बहुता भवेत् ।

एवमाद्यस्य सद्भावे बहु स्यादसमञ्जसम् ॥ ८६६ ॥

इति समवायपदार्थपरीक्षा ।

अथान्य एवेति द्वितीयः पक्षस्तदा संयोगादिवत्समवायबहुत्वं प्राप्नोति, ततश्च न
समवायो भेदवानित्यस्याभ्युपेतस्य हानिः । एवमादीत्यादिशब्देन कारणवैफल्यं, अने
कसूत्रविरोधः, प्रत्यक्षादिविरोधः, सर्वपदार्थानामक्रमोत्पत्तिरित्यादिदोषान्तरपरिग्रहः ।
तथाहि—स्वकारणसमवाय सत्तासमवायो वा जन्मोच्यते, समवायश्च नित्य इति
न क्वचिदपि कार्यजन्मनि कारणानां सामर्थ्यमिति कारणवैफल्यम् । तथा अन्य
तरकर्मज उभयकर्मजः संयोगजश्च संयोगः, इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञान
मित्यादि
जन्मप्रतिपादकसूत्रविरोधः । तथा प्रत्यक्षादिप्रतीतिकारणानि चक्षुरादीनि विरुध्यन्ते ।
तथा समवायलक्षणस्य जन्मनो नित्यतया न क्रमोस्तीति क्रमोत्पत्तिर्दृष्टभावानां विरु
ध्यते । ततश्च युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गमिति स्वसिद्धान्तव्याहतिः । नित्यत्वाच्च
जन्मनोऽनुपकार्योपकारकभूतं जगदिति व्यर्थं शास्त्रप्रणयनमित्यादिबहुतरमसमञ्जस
मालूनविशीर्णं स्यात् ॥ ८६५ ॥ ८६६ ॥


इति समवायपदार्थपरीक्षा ।

शब्दार्थपरीक्षा ।

आरोपिताकारशब्दप्रत्ययगोचरत्वसमर्थनार्थं प्रस्तावमारचयन्नाह—यदीत्यादि ।


यदि नोपाधयः केचिद्विद्यन्ते (परमार्थतः) ।

(दण्डी शुक्लश्चलत्यस्ति गौ)रिहेत्यादिधी(ध्वनी) ॥ ८६७ ॥

(स्यातां) किंविषयावेतौ नानिमित्तौ च तौ मतौ ।

सर्वस्मिन्नविभागेन तयोर्वृत्तिरसम्भवी ॥ ८६८ ॥

वस्त्वेव हि परमार्थतः शब्दप्रत्ययग्राह्यम्, अतः शब्दैः साक्षाद्विधिनिषेधाभ्यां
वस्तुस्वभावप्रतिपादनाद्विधिरेव शब्दार्थ इति विधिशब्दार्थवादिनां दर्शनम् । अपोह
वादिनां तु न परमार्थतः शब्दानां किंचिद्वाच्यं वस्तुस्वरूपमस्ति । सर्व एव हि श
ब्दप्रत्ययो भ्रान्तो भिन्नेष्वर्थेष्वभेदाकाराध्यवसायेन प्रवृत्तेः, यत्र तु पारम्पर्येण वस्तु
प्रतिबन्धः, तत्रार्थासंवादो भ्रान्तत्वेऽपीति दर्शनम् । तत्र यत्तदारोपितं विकल्पधियाऽर्थे
ष्वभिन्नं रूपं तदन्यव्यावृत्तपदार्थानुभवबलायातत्वात्स्वयं चान्यव्यावृत्ततया प्रख्या
नाद्भ्रान्तैश्चान्यव्यावृत्तार्थेन सहैक्येनाध्यवसितत्वादन्यापोढपदार्थाधिगतिफलत्वाच्चा