प्रतिबन्धमस्य दर्शयन्नाह—तस्याभाव इत्यादि ।


तस्याभावे स चेत्किं हि मतेरस्या निबन्धनम् ।

न विशेषमतिर्दृष्टा निमित्तान्तरवर्जिता ॥ ८२४ ॥

इहबुद्ध्यविशेषाच्च योगवन्न विभिद्यते ।

सर्वस्मिन्भाववत्त्वेष एक एव प्रतीयते ॥ ८२५ ॥

कारणानुपलब्धेश्च नित्यो भाववदेव सः ।

न ह्यस्य कारणं किञ्चित्प्रमाणेनोपलभ्यते ॥ ८२६ ॥

निबन्धनमन्तरेण भवतो नित्यं सत्तादिप्रसङ्गो बाधकं प्रमाणम् । एवं तावद्वैशे
षिकाणां मतेन—इहबुद्धिलिङ्गानुमेयः समवायः, नैयायिकमतेन तु—इहबुद्धिप्र
त्यक्षगम्य एव । तथाहि ते—अक्षव्यापारे सतीह तन्तुषु पट इत्यादिप्रत्ययोत्पत्तेः
प्रत्यक्षत्वमाचक्षते । स चायं समवायो यथा संयोगः सम्बन्धेषु भिन्नस्तथा नायं
266 भिद्यते, किं तर्हि ? भाववत् सत्तावत्, तल्लिङ्गाविशेषाद्विशेषलिङ्गाभावात्सर्वत्रैक एव
समवायः । योगवदिति । वैधर्म्यदृष्टान्तः । अकारणत्वाच्च भाववदेव नित्यः सिद्धः,
अकारणत्वं च प्रमाणतः कारणानुपलब्धेः सिद्धम् ॥ ८२४ ॥ ८२५ ॥ ८२६ ॥