404 न्वाद्यायां प्रवृत्तौ सत्यामभ्यासः सिध्यति, यावता सैव कथं भवतीति वक्तव्यम् ।
उच्यते । संशयात् । संशयहेतोः प्रत्यक्षस्य कथं तत्र प्रामाण्यमिति चेत् । निश्चय
हेतोरपि कथं प्रामाण्यम् । अवसायोत्पादनादर्थिनस्तत्र प्रवर्त्तनादिति चेत् । तदेत
त्संशयहेतोरपि तुल्यम् । यद्यपि तत्र प्रतीयमानार्थितार्थाकारविपरीतो व्यवसायः,
तथापि न तेनाकारेण तस्य प्रत्यक्षस्य प्रवर्त्तकत्वम्, तथाऽवसितस्यानर्थितत्वात् ।
नापि निवर्त्तकत्वं, प्रतीयमानप्रार्थितार्थाध्यवसायहेतुत्वेनार्थिनः प्रवर्त्तनात् । अन्यथा
हि संशयहेतोः प्रत्यक्षादर्थी न प्रवर्त्तेत नापि निवर्त्तेतेति प्राप्तं, न चैवं भवति, अपि
त्वर्थिनामसम्भावितानर्थोदयानामर्थितया प्रवृत्तेरेव बलीयस्त्वम् । अनेन चांशेन नि
श्चयहेतोः प्रत्यक्षादस्य न कश्चिद्विशेषः । यत्र त्वेकान्तेन प्रतीयमानार्थविपरीताका
रावसायहेतुत्वमेव, अवसायानुत्पादकत्वं वा, तत्र तस्य सर्वथार्थिनोऽप्रवर्त्तनादप्रा
माण्यमेवेति युक्तं वक्तुं, नान्यत्रेत्यलम् ॥ १३५९ ॥ १३६० ॥ १३६१ ॥


इति प्रत्यक्षलक्षणपरीक्षा ।

अनुमानपरीक्षा ।

अनुमानस्येदानीं लक्षणमाह—स्वपरेत्यादि ।


स्वपरार्थविभागेन त्वनुमानं द्विधेष्यते ।

स्वार्थं त्रिरूपतो लिङ्गादनुमेयार्थदर्शनम् ॥ १३६२ ॥

त्रिरूपलिङ्गवचनं परार्थं पुनरुच्यते ।

एकैकद्विद्विरूपोऽर्थो लिङ्गाभासस्ततो मतः ॥ १३६३ ॥

अनुमानं स्वार्थपरार्थभेदेन द्विविधम् । तत्र स्वार्थं यत्रिरूपाल्लिङ्गात्पक्षधर्मत्वं स
पक्षे सत्त्वं विपक्षाच्च सर्वतो व्यावृत्तिरित्येवंलक्षणादनुमेयार्थविषयं ज्ञानं तदात्मकं
बोद्धव्यम् । परार्थं तु यथोक्तत्रिरूपलिङ्गप्रकाशकवचनात्मकं द्रष्टव्यम् । अथानुमा
नाभासस्य किं लक्षणं नोक्तमित्याह—एकैकेत्यादि । नित्यः शब्दः कृतकत्वान्मूर्त्त
त्वादप्रमेयत्वादित्येकैकरूपो यथाक्रमं पक्षधर्मत्वसपक्षसत्त्वविपक्षव्यावृत्तिमात्रस्य वि
द्यमानत्वात् । तत्र द्विद्विरूपो यथा—ध्वनिरनित्यश्चाक्षुषत्वाच्छ्रावणत्वादमूर्तत्वादिति
यथाक्रमं पक्षसत्त्वसपक्षसत्त्वविपक्षव्यावृत्तिमात्राभावात् । तदुक्तम्— कृतकत्वा
द्ध्वनिर्नित्यो मूर्त्तत्वादप्रमेयतः । अमूर्त्तश्रावणत्वाभ्यामनित्यश्चाक्षुषत्वतः ॥
इति ॥
॥ १३६२ ॥ १३६३ ॥