अथापि स्यान्नैवास्माकं किंचिदनुमानमिष्टं, किंतु परेण तत्प्रमाणमिष्टं,तदभ्युप
गमान्मम विफला व्याहृतिर्न भवतीति, अत्राह—अप्रमाणेनेत्यादि ।


अप्रमाणेन चैतेन परः किं प्रतिपद्यते ।

अप्रमाणकृतश्चासौ प्रत्ययः कीदृशो भवेत् ॥ १४८४ ॥

कुतश्चायं निश्चयो जातः परेण तत्प्रमाणमभ्युपगतमिति, नहि पराभ्युपगमः
प्रत्यक्षः, न चान्यत्तव प्रमाणमस्ति, येन निश्चयः स्यात् । भवतु नाम निश्चयः,
तथाऽपि तेनाप्रमाणेन पराभ्युपगतेन किमिति परः प्रतिपद्यते, न वै व्यसनमेतत् ।
अथापि स्याद्यथा रिपुहस्तादाच्छिद्य खङ्गं तेनैव स एव रिपुर्निपात्यते, एवं परेण
यत्प्रमाणत्वेनाभ्युपगतं तदेव गृहीत्वा परो निराक्रियत इत्याशङ्क्याह—अप्रमाणकृत इति । एतदुक्तं भवति—यदि मोहात्परेणाप्रमाणमेव प्रमाणमिति कृत्वा संगृहीतं
कथं तेनाप्रमाणेन परस्य सम्यग्ज्ञानोत्पादनं शक्यते कर्तु, सम्यग्ज्ञानफलत्वात्प्रमा
णस्य । नहि मोहात्खड्ग इति कृत्वा गृहीतेन येनकेनचिच्छेदकेन परश्छेत्तुं शक्यत
इति न समानो दृष्टान्तः ॥ १४८४ ॥