406

अन्यथेत्यादिना यथोक्तमेवार्थं निगमयति ।


अन्यथानुपपन्नत्वं यस्य तस्यैव हेतुता ।

दृष्टान्तौ द्वावपि स्तां वा मा वा तौ हि न कारणम् ॥ १३६८ ॥

नान्यथानुपपन्नत्वं यत्र तत्र त्रयेण किम् ।

अन्यथाऽनुपपन्नत्वं यत्र तत्र त्रयेण किम् ॥ १३६९ ॥

दृष्टान्ताविति । साधर्म्यवैधर्म्यलक्षणौ । न कारणमिति । साध्यप्रतिपत्तेः ।
अन्यथाऽनुपपन्नत्वं यत्रेत्यस्यानन्तरं नान्यथानुपपन्नेत्यस्यार्द्धस्य पाठः कर्त्तव्यः ॥
॥ १३६८ ॥ १३६९ ॥


त्रिरूपेऽविनाभावसम्बन्धाभावं दर्शयन्नाह—स श्याम इत्यादि ।


स श्यामस्तस्य पुत्रत्वाद्दृष्टा श्यामा यथेतरे ।

इति त्रिलक्षणो हेतुर्न निश्चित्यै प्रवर्त्तते ॥ १३७० ॥

तत्रैकेत्यादिनैकलक्षणस्यैव हेतोः सामर्थ्यं दर्शयत्युदाहरणप्रपञ्चेन—


तत्रैकलक्षणो हेतुर्दृष्टान्तद्वयवर्जितः ।

कथिञ्चिदुपलभ्यत्वाद्भावाभावौ सदात्मकौ ॥ १३७१ ॥

भावाभावौ कथंचित्सदात्मकौ कथंचिदुपलभ्यत्वात् । अत्र न साधर्म्यवैधर्म्य
दृष्टान्तौ बहिर्भूतौ प्रयोगात्मकावर्थात्मकौ वा विद्येते । भावाभावात्मकस्य सर्वपदा
र्थराशेः पक्षीकृतत्वात् । तद्व्यतिरिक्तस्य चान्यस्याभावात् । पक्षधर्मस्यान्यथानुपप
न्नत्वादव्यतिरेकाच्चैकलक्षण एवायम् । कथञ्चिदिति । ज्ञेयत्वादिना केनचित्पर्यायेणे
त्यर्थः । सदात्मकाविति । अत्रापि कथञ्चिदिति सम्बन्धनीयम् । तेनायमर्थो भवति
—कथञ्चिदुपलभ्यत्वात्कथञ्चित्सदात्मकाविति ॥ १३७१ ॥


इदानीं द्विलक्षणस्य हेतोरुदाहरणान्याह—


चन्द्रत्वेनापदिष्टत्वान्नाचन्द्रः शशलाञ्छनः ।

इति द्विलक्षणो हेतुरयं चापर उच्यते ॥ १३७२ ॥

पतत्कीटकृतेयं मे वेदनेत्यवसीयते ।

पतत्कीटकसंस्पर्शप्रतिलब्धोदयत्वतः ॥ १३७३ ॥

चक्षू रूपग्रहे कार्ये सदाऽतिशयशक्तिमत् ।

तस्मिन्व्यापार्यमाणत्वाद्यदि वा तस्य दर्शनात् ॥ १३७४ ॥