सर्वथाऽपीत्यादिनाऽस्यैव प्रयोगद्वयस्यार्थं विस्तरेण समर्थयते ।


सर्वथाऽपि ह्यतुल्यत्वे ह्यभिप्रेतेऽस्य वस्तुनः ।

वस्त्वन्तरेण नियतं वस्तुत्वमवहीयते ॥ १७११ ॥

वस्तुनो हि निवृत्तस्य क्वान्या सम्भविनी गतिः ।

लक्ष्यते नास्तितां मुक्त्वा तारापथसरोजवत् ॥ १७१२ ॥

तस्मात्खपुष्पातुल्यत्वमिच्छता तस्य वस्तुनः ।

वस्तुत्वं नाम सामान्यमेष्टव्यं तत्समानता ॥ १७१३ ॥

अन्यथा हि न सा बुद्धिरित्यादिना सामान्यात्मकत्वसाधनायोपपत्त्यन्तरमाह ।