तत्र सामान्यविशेषात्मकत्वसाधनाय यथाक्रममह्रीकः प्रयोगद्वयमाह—भाव इति ।


भावो भावान्तरातुल्यः खपुष्पान्न विशिष्यते ।

अतुल्यत्वविहीनश्चेत्तेभ्यो भिन्नो न सिद्ध्यति ॥ १७१० ॥

किंचिद्विवक्षितं वस्तु घटादि, स यदि घटादिर्भावः पटादिना भावान्तरेणातुल्यः
स्यात्—ततो यदि व्यावृत्तः स्यात्, तदा खपुष्पान्न तस्य विशेषः स्यात्, सर्वथा
वस्त्वन्तराद्व्यावृत्तत्वात्, नच वस्त्वन्तराद्व्यावृत्तस्यान्या गतिः सम्भवति खपुष्पतां
मुक्त्वा । तस्मात्तस्य वस्तुनः खपुष्पातुल्यत्वमभ्युपगच्छता भावान्तरतुल्यत्वं वस्तुत्वं
नाम सामान्यमभ्युपगन्तव्यमिति सिद्धं सामान्यात्मकत्वम् । विशेषात्मकत्वं तर्हि
कथमिति चेदत्रोच्यते—अतुल्यत्वविहीनश्चेत्तेभ्यो भिन्नो न सिद्ध्यति—स एव
घटादिर्भावो यदि पटादिना भावेन यदतुल्यत्वं तेन विहीनः स्यात्, तेन घटादिना
यद्यतुल्यो न भवेदिति यावत् । तदाऽयं घटोऽयं च पट इति पदादिभ्यो घटादि
र्भिन्नो न सिद्ध्येत्, स्वस्वरूपवत् । भिद्यते च । तस्माद्विशेषात्मकत्वमपि सिद्धम्
॥ १७१० ॥