त्रैकाल्यपरीक्षा ।
असङ्क्रान्तिमित्यस्य समर्थनार्थमाह—हेमेत्यादि ।
हेम्नोऽनुगमसाम्येन स्थिरत्वं मन्यते तदा ।
अवस्थाभेदवान्भावः कैश्चिद्बौद्धैरपीष्यते ॥ १७८६ ॥
नाऽवस्थानं तु कस्यचिदित्यत्रेदं चोद्यम् । ननु कथमिदमुच्यते नावस्थानं तु
कस्यचिदिति, यावता कैश्चिद्धर्मत्रातप्रभृतिभिर्बौद्धैरपि कालत्रयावस्थितो भाव इष्टोऽ
वस्थाभेदात्, हेमानुगमसाधर्म्येण ॥ १७८६ ॥