विज्ञानत्वं प्रकाशत्वं तच्च ग्राह्ये निरास्पदम् ।

अनिर्भासाद्ययोगेन व्याप्तिस्तेनास्य निश्चिता ॥ २०८२ ॥

शक्तावनन्तरे ज्ञाने ग्राह्यांशे विषयस्थितिः ।

तात्विकी नेष्यतेऽस्माभिस्तेन मानं समर्थ्यते ॥ २०८३ ॥

विज्ञाप्तिमात्रतासिद्धिर्धीमद्भिर्विमलीकृता ।

अस्माभिस्तद्दिशा यातं परमार्थविनिश्चये ॥ २०८४ ॥

इति बहिरर्थपरीक्षा ।

पूर्वमेव हि—अनिर्भासं सनिर्भासमित्यादिना व्याप्तेः प्रसाधितत्वात् नानैका
न्तिको हेतुः । आचार्यदिग्नागपादैरालम्बनप्रत्ययव्यवस्थार्थमुक्तम्— यदन्तर्ज्ञेय
रूपं तु बहिर्वदवभासते । सोऽर्थो (वि) ज्ञानरूपत्वात्तत्प्रत्ययतयाऽपि च ॥
इति ।
अनेन हि ग्राह्यांशे विषयव्यवस्था प्रतिपादिता । पुनरप्युक्तम्— अथवा शक्त्यर्पणा
त्क्रमेणापि सोऽर्थावभासः स्वानुरूपकार्योत्पत्तये शक्तिं विज्ञानाधारांविज्ञानाचारां करोतीत्यवि
रोध
इति । अनेनानन्तरज्ञाने स्वानुरूपकार्योत्पत्तिनिमित्तशक्तिसमर्पणात्कारणत्वं
च तस्य प्रतिभासस्य समर्थितम् ॥ अत्र तेनैव भदन्तेन दूषणमुक्तम्—यद्यपीन्द्रि
यविज्ञप्तेर्ग्राह्यांशः करणं भवेत् । अतदाभतया तस्या नाक्षवद्विषयः स तु ॥
इत्या
दिना । अत्राह—शक्तावित्यादि । शक्तावनन्तरे ज्ञान इति व्यधिकरणसप्तम्यौ ।
नन्तरे ज्ञान
इति । समनन्तरप्रत्यये आलयाख्ये, या शक्तिस्तथाविधार्थप्रतिभास
प्रत्ययसमर्थिता । तात्विकी नेष्यत इति । यतः परमाण्वादेर्व्यतिरिक्तस्यालम्बनत्वं
न युज्यत इति विस्तरेण (प्रतिपादितम्) प्रतिपाद्या(दितं चा ?)चार्येण— माभूत्स
र्वथाऽऽलम्बनप्रतिषेधे प्रतितिबाधा, तथा—आलम्बनाधिपतिसमनन्तरहेतुप्रत्ययत्व
(स्व ?)लक्षणाश्चतस्रः प्रत्ययिता इति सूत्रे वचनादभ्युपेतबाधापीति, अविरोधप्रति
पादनाय यथाविध आलम्बनप्रत्ययोऽभिप्रेतः सूत्रे लोके च तथा प्रतिपादितं सं
वृत्त्या । न परमार्थतः । परमार्थतस्तु निरालम्बनाः सर्व एव प्रत्यया
इति ॥ २०८२ ॥
॥ २०८३ ॥ २०८४ ॥