53
सम्यक्संचयमत्र कोपमखिलं पंचादशोत्सर्पणम् ।
चान्योन्याश्रयणं निजप्रकटितं व्यक्तिप्रभेदं तथा ।
यो वा वेत्ति समस्तदोषचरितं दुःखप्रदं प्राणिनाम् ।
सोऽयं स्याद्भिषगुत्तमः प्रतिदिनं षण्णां प्रकुर्यात्क्रियाम् ॥ १० ॥

भावार्थः--The Hindi commentary was not digitized.

एवं कालविधानमुक्तमधुना ज्ञात्वात्र वैद्यो महान् ।
पानाहारविहारभेषजविधिं संयोजयेद्बुद्धिमान् ॥
तत्रादौ खलु संचये प्रशमयेद्दोषप्रकोपे सदा ।
सम्यक्शोधनमादरादिति मतं स्वस्थस्य संरक्षणम् ॥ ११ ॥

भावार्थः--The Hindi commentary was not digitized.