54

वसंत ऋतुमें हित ।

रूक्षक्षारकषायतिक्तकटुकप्रायं वसंते हितं ।
भोज्यं पानमपीह तत्समगुणं प्रोक्तं तथा चोषकम् ॥
कौपं ग्राम्यमथाग्नितप्तममलं श्रेष्ठं तथा शीतलं ।
नस्यं सद्वमनं च पूज्यतममित्येवं जिनेंद्रोदितं ॥ १२ ॥

भावार्थः--The Hindi commentary was not digitized.

ग्रीष्मर्तु व वर्षर्तुमें हित ।

ग्रीष्मे क्षीरघृतप्रभूतमशनं श्रेष्ठं तथा शीतलं ।
पानं मान्यगुडेक्षुभक्षणमपि प्राप्तं हि कौपं जलं ॥
वर्षासूत्कटतिक्तमल्पकटुकं प्रायं कषायान्वितं ।
दुग्धेक्षुप्रकरादिकं हितकरं पेयं जलं यच्छ्रितम् ॥ १३ ॥

भावार्थः--The Hindi commentary was not digitized.

सक्षीरं घृतशर्कराढ्यमशनं तिक्तं कषायान्वितं ।
सर्वं स्यात्सलिलं हितं शरदि तच्छ्रेयोऽर्थिनां प्राणिनां ।
हेमंते कटुतिक्तशीतमहितं क्षारं कषायादिकं ।
सर्पिरतैलसमेतमम्लमधुरं पथ्यं जलं चोच्यते ॥ १४ ॥

भावार्थः--The Hindi commentary was not digitized.