55

शिशिर ऋतुमें हित ।

अम्लक्षीरकषायतिक्तलवणप्रस्पष्टमुष्णाधिकं ।
भोज्यं स्याच्छिशिरे हितं सलिलमप्युक्तं तटाकस्थितं ।
ज्ञात्वाहारविधानमुक्तमखिलं षण्णामृतूनां क्रमा--।
द्देयंस्यान्मनुजस्य सात्म्यहितकृद्वेलाबुभुक्षावशात् ॥ १५ ॥

भावार्थः--The Hindi commentary was not digitized.

आहारकाल ।

विण्मूत्रे च विनिर्गते विचलिते वायौ शरीरे लघौ ।
शुद्धेऽपींद्रियवाङमनःसुशिथिले कुक्षौ श्रमव्याकुले ।
कांक्षामप्यशनं प्रति प्रतिदिनं ज्ञात्वा सदा देहिना--।
माहारं विदधीत शास्त्रविधिना वक्ष्यामि युक्तिक्रमं ॥ १६ ॥

भावार्थः--The Hindi commentary was not digitized.

भोजनक्रम

स्निग्धं यन्मधुरं च पूर्वमशनं भुंजीत भुक्तिक्रमे ।
मध्ये यल्लवणाम्लभक्षणयुतं पश्चात्तु शेषात्रसान् ।
ज्ञात्वा सात्म्यबलं सुखासनतले स्वच्छे स्थिरस्तत्परः
क्षिप्रं कोष्णमथ द्रवोत्तरतरं सर्वर्तुसाधारणम् ॥ १७ ॥